वैराग्यशतकम् · श्लोक 41-60
स्वपितुः परलोकाय स्वयमनुदिवसं यदाचरति ।
क्रियतामिदमुपमानं किं नालं पुत्रवैराग्ये
अननुगते दारिद्र्ये किमनुगतं लक्षणं दृष्टम् ।
कामस्यापूर्तिर्यदि कृपणं जगदा चतुर्वदनात्
न खलु धनत्वं जातिर्यस्य यदिष्टं तदेव तस्य धनम् ।
तत्तदिव पामराणामाकिंचन्यं धनं विदुषाम्
स्वीक्रियते यदि तृष्णा स्वीकर्तव्यं जगत्समस्तमपि ।
स्वीक्रियते यदि शान्तिः स्वात्मापि स्वस्य भवति न वा
यद्दातारं वशयति यत्परिजनमस्य सान्त्वयति ।
यदपत्रपते नान्तर्भावालाभः स कस्य समः
प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः ।
चुलकेनाम्भः पातुं स्वनितव्यः किं तटाको ऽपि
यामार्धमसंस्काराद्यामद्वयमनशनाच्च सुव्यक्ते ।
शारीरे सौन्दर्ये ऽप्यभिनिविशन्ते कियन्मूढाः
वन्ध्येत्याहुस्तरुणीं जरतीति परित्यजन्ति बहुपुत्राम् ।
अभिनिन्दन्त्यल्पसुतां का गृहिणी कामिनो हृद्या
यान्ति शुचमकृतदारा द्वे भार्ये नेति कृतदाराः ।
ते परदारा नेति स्त्रीभिस्तृप्तान्न पश्यामः
मदनस्याज्ञाकरणे मन्ये जगदखिलमेकरूपमिदम् ।
तिर्यञ्च इति नरा इति देवा इत्यन्यतो भेदः
शुक्रविमोकस्थानं मलमूत्रत्यागदेशवत्किमपि ।
स्त्रिय इति विहितं विधिना कियदत्र जना निमज्जन्ति
वेदानधीत्य विधिवन्मीमांसित्वा तदर्थं च ।
दाराः कर्तव्या इति केनेदं प्रहसनं कथितम्
दुःखेनोपार्ज्यन्ते पाल्यन्ते प्रत्यहं च लाल्यन्ते ।
वामाः स्त्रियो विमूढैरुपभुञ्जानाः सुखं विगुणम्
अश्नीत पिबत स्वादत जाग्रत संविशत तिष्ठत वा ।
सकृदपि चिन्तयताह्नः सावधिको देहबन्ध इति
किं विजितया पृथिव्या किं काञ्चनभूभृता करस्थेन ।
किं दिव्याभिः स्त्रीभिर्मर्तव्ये ब्रह्मणा लिखिते
जीवति कतिचिन्निमिषान्कतिचित्तेषु श्रुतीरधीत इव ।
तावत्सैवाकुलयति तन्त्राणि नवानि चातनुते
स्वल्पो जीवनकालः स्वल्पा धीः परिचयः स्वल्पः ।
तदपि तरेम कथंचिच्छ्रुतयो यदि नोपजायन्ते
कुत आगतं न जाने क्व नु वा गन्तव्यमिदमपि न जाने ।
संचरसि क्वेदानीं संसारपथे महातमसि
तमसावृत्ताश्चरन्तः सविधे दूरे च नावयन्त्यर्थान् ।
अवयन्ति तु विस्पष्टं तडिताभिहते शिरसि मूढाः
निमिषन्त्यत्र तरुण्यस्तत्र तरुण्यो न निमिषन्ति ।
ईदृक्षो हि विशेषः स्वर्गः स्वर्ग इति किं तत्र
मूल पाठ: Vairāgyaśatakam · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 91-99. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0