वैराग्यशतकम् · श्लोक 21-40
अनधिगते कामसुखे कालेन यथा प्रवर्तते तरुणः ।
एवं ब्रह्मसुखे ऽपि प्रवर्तते को ऽपि भाग्यवशात्
पुत्रगुणाः स्वातन्त्र्ये दारगुणाश्चाधिवेदनावसरे ।
भ्रातृगुणा दायविधौ द्रष्टव्या मोक्ष्यमाणेन
का मे गतिरिति पृच्छति चरमश्वासे ऽपि यः स्वार्थम् ।
तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति
पितृभिः कलहायन्ते पुत्रानध्यापयन्ति पितृभक्तिम् ।
परदारानुपयन्तः पठन्ति शास्त्राणि दारेषु
शान्तिरलभ्यादुपरतिरपात्रभावः प्रतिग्रहनिवृत्तिः ।
क्षान्तिर्दुर्बलतेति च निवृत्तिधर्माः कलावेते
नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः ।
ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः
कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभते ।
चक्षुर्दोषे जाग्रति चन्द्रद्वित्वं कुतो यातु
विषयाननुकूलयितुं विषयिणि हृदये विधीयतां यत्नः ।
दृशि देयमौषधं को दृश्ये दत्त्वा सुखी भवति
दाराः पुत्रेषु रताः पुत्राः पितृधनपरिग्रहव्यग्राः ।
रोदनशरणा जननी परलोकगतस्य को बन्धुः
पश्यन्ति म्रियमाणान्मरिष्यतो ऽनुमिमते स्मरन्ति मृतान् ।
कथयन्ते चैवमसच्चेष्टन्ते नित्यवत्तु परम्
कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति ।
तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायाम्
कुल्याः कृता विशालाः कुड्यान्युपलैर्निबद्धानि ।
क्रीता बलिनो महिपाः कृतकृत्याः स्म इति मन्यन्ते
आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि ।
विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव
दण्ड्यं यत्सुखहेतोः पुष्णन्ति जनाः कथं तदेव वपुः ।
नहि शर्कराभिलाषिभिरिक्षोः काण्डानि पूज्यन्ते
प्रायो मुह्यति चेतः प्राणभृतः प्राणनिर्गमावसरे ।
पुण्येन यदि न मुह्यति पुत्रानेव स्मरन्म्रियते
शमयितुमौदरमग्निं संसाराख्याम्बुधौ निमज्जन्ति ।
तुहिनव्यथानिवृत्त्यै नहि वेश्मनि पावको देयः
आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम् ।
अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते
अर्थानामधिकानां राज्ञा चौरेण वा नाशः ।
अन्ने खल्वतिमुक्ते वमनं वा स्याद्विरेको वा
प्रणमति परिसान्त्वयति[प्रणि]पतति सदा परिभ्रमति ।
आविष्ट इव पिशाच्या पुरुषस्तृष्णावशं यातः
जननादृष्टात्पितरौ पुत्रा जामातरो ऽप्ययादृष्टात् ।
कलहादृष्टाज्ज्ञातय इति निर्णीते किमेष्टव्यम्
मूल पाठ: Vairāgyaśatakam · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 91-99. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0