भाषा

ENहिગુ
ग्रंथ पाठ

वैराग्यशतकम् · श्लोक 1-20

1

श्रीमदप्पयदीक्षितविरचितं वैराग्यशतकम् ।
आस्ते कश्चन भिक्षुः संगृह्णन्नव्ययानि दश ।
न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत्

2

धीसचिवं धैर्यबलं संकल्पविरोधि शान्तिधनम् ।
विश्वत्रयविषयमिदं वैराग्यं नाम साम्राज्यम्

3

राज्ञो बिभेति लोको राजानः पुनरितो ऽपि वैरिभ्यः ।
आ ब्रह्मणः कृतान्तादकुतोभयमस्पृहाराज्यम्

4

भिक्षाप्रदा जनन्यः पितरो गुरवः कुमारकाः शिष्याः ।
एकान्तरमणहेतुः शान्तिर्दयिता विरक्तस्य

5

ये न किमपि चेष्टन्ते कार्यप्रतिकर्ययोर्विरहात् ।
सन्तस्त एव मुक्ताः संदेहे गौतमः साक्षी

6

पततु नभः स्फुटतु मही चलन्तु गिरयो मिलन्तु वारिधयः ।
अधरोत्तरमस्तु जगत्का हानिर्वीतरागस्य

7

के चोराः के पिशुनाह के रिपवः के ऽपि दायादाः ।
जगदखिलं तस्य वशे यस्य वशे स्यादिदं चेतः

8

विषया उपतिष्ठन्तां विषयैर्वा समवयन्तु करणानि ।
आन्तरमेकं करणं शान्तं यदि का ततश्चिन्ता

9

किं विषयान्परिहर्तुं वस्तव्यं मेरुकंदरेष्वबुधैः ।
नह्यद्भिरनासेक्तुं धातुषु रोहन्ति पद्मानि

10

अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे ।
परिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः

11

स्वेनोपभुक्तमर्थं सूकरजातिस्मरो मनुष्य इव ।
दूरे जुगुप्समानो धीरो वैराग्यमद्रियते

12

शैशवमिव कौमारे तत्तरुणिम्नीव स इव वृद्धत्वे ।
न स्वदते धीराणां कामस्य विचेष्टितं शान्तौ

13

शतशः परीक्ष्य विषयान्सद्यो जहति क्वचित्क्वचिद्धव्याः ।
काका इव वान्ताशनमन्ये तानेव सेवन्ते

14

चरमौ मातापितरौ चरमा गृहिणी सुताश्चरमाः ।
कर्तव्ये ऽपि प्रेमणि कथमिह धीरा विरज्यन्ते

15

तृणवद्भ्रमन्ति चपलाः स्त्रीनामनि चण्डमारुते चलति ।
धरणिधरा इव सन्तस्तत्र न किंचित्प्रकम्पन्ते

16

कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम् ।
सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव

17

विक्षेपमात्रभाजो विकासकाष्टागतज्ञानाः ।
स्वस्यापि चेष्टितानि स्वयमीक्षन्ते परस्येव

18

अस्थाने ऽभिनिविष्टान्मूर्खानस्थान एव संतुष्टान् ।
अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान्

19

पुष्णति पुरुषे सलिलैर्मुष्णति पुष्पं फलं च तरव इव ।
वर्तन्ते सन्तः सममुपकर्तरि चापकर्तरि च

20

नित्यानित्यविवेकः सर्वेषां घटघटत्वयोरास्ते ।
स विवेको यः शान्तिकृदविवेको ऽन्यः समस्तो ऽपि

मूल पाठ: Vairāgyaśatakam · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 91-99. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc