भाषा

ENहिગુ
ग्रंथ पाठ

वैद्यजीवन · अध्याय 4

4.1

विद्वल्ललामलोलिम्बनृपतेर् वाग्विलासतः ।
तृप्तिर् न जायते स्वामिन् पुनः किञ्चिन् निरूपय ॥

4.2

क्षयोत्पत्तिविनाशाय सिंहास्यः सेव्यतां सदा ।
बहूनाम् अस्य विश्वासो जातः कमललोचने ॥

4.3

अयि सुन्दरि सुन्दरानने रुचिरापाङ्गतरङ्गलोचने ।
नवनीतमधूपलाशनाद् उडुराजस्य भवेत् क्षयक्षयः ॥

4.4

अयि कोमलकुन्तलावली विलसन्मालतिकामनोहरे ।
त्रिफलाजनितः कषायकः सहितो गुग्गुलुना व्रणं जयेत् ॥

4.5

मदनज्वरकारिनामधेये रसिके रत्नकले प्रभातकाले ।
शिशिराम्बु पिबन् मधुप्रयुक्तं गणनाथो ऽपि भवेत् किलास्थिशेषः ॥

4.6

त्रिकटुत्रिफलाकलिङ्गनिम्ब त्रिवृदुग्राखदिरोद्भवः कषायः ।
पशुमूत्रसमन्वितो निपीतः कृमिकोटीर् अपि हन्ति हन्त वेगात् ॥

4.7

जातीप्रवालत्रिफलायवास दार्वीत्रियामामृतगोस्तनीनाम् ।
कषायकः क्षौद्रयुतो निहन्ति मुखस्य पाकं मुखपङ्कजस्थः ॥

4.8

स्फुरत्सुन्दरोदारमन्दारदाम प्रकामाभिरामस्तनद्वन्द्वमध्ये ।
हरिद्रारजोमाक्षिकाभ्यां विमिश्रः शिवायाः कषायः प्रमेहापहारी ॥

4.9

छिन्नारसो ऽपि मधुना नानामेहनिवारणः ।
वदन्ति भिषजः सर्वे शरदिन्दुनिभानने ॥

4.10

रतिकेलिकलाकुशले विलसद् वलये मलयेन समानकुचे ।
अमृताव्रतती रुवुतैलयुता दलयेद् अनिलास्रम् उदारतरम् ॥

4.11

मधूत्थारुणागोपिकादेवधूपैः शृतं वातरक्तापहं पिण्डतैलम् ।
कषायः सहैरण्डतैलेन पीतस् तथैरण्डसिंहास्यवत्सादनीनाम् ॥

4.12

लशुनजीरकगन्धकसैन्धव त्रिकटुरामठचूर्णम् इदं समम् ।
सपदि निम्बुरसेन विषूचिकां हरति भो रतिभोगविचक्षणे ॥

4.13

रुग्लाजाब्दवटप्ररोहमधुकैर् मध्वन्वितैः कल्पिता प्य् उग्राम् आशु तृषं भृशं प्रशमयेद् आस्यान्तरस्था वटी ।
एलालाजलवङ्गनागचपलाश्रीकोलमज्जाम्बुद श्रीखण्डं मधुखण्डयुक् प्रशमयेद् वान्तिं त्रिदोषोद्भवाम् ॥

4.14

रमारम्याकारे चतुरवचने चारुचिकुरे विमूल्यालंकारे करतललसन्नीलनलिने ।
निदाघः संजातस् तव किम् उ सरोजन्मकदली दलैः कॢप्ते तल्पे स्वपिहि लघु साहित्यनिपुणे ॥

4.15

रसद्विजीरद्विनिशामरीच सिन्दूरदैत्येन्द्रमनःशिलानाम् ।
चूर्णीकृतानां घृतमिश्रितानां त्रिभिः प्रलेपैर् अपयाति पामा ॥

4.16

पथ्यातिलारुष्करकैः समांशैर् गुडेन युक्तैः सह मोदकः स्यात् ।
दुर्नामपाण्डुज्वरकुष्ठकास श्वासं जयेत् प्लीहरुजं च तद्वत् ॥

4.17

मदनसैन्धवगुग्गुलुगैरिका ज्यमधुवालकपङ्कविलेपनात् ।
स्फुटितम् अप्य् अखिलं चरणद्वयं विकचतामरसप्रतिमं भवेत् ॥

4.18

भल्लातकासीसहुताशदन्ति मूलैर् गुडस्नुग्रविदुग्धदिग्धैः ।
लेपोचितैर् गच्छति गण्डमाला समीरवेगाद् इव मेघमाला ॥

4.19

भूनिम्बनिम्बत्रिफलापटोल वासामृतापर्पटभृङ्गराजैः ।
क्वाथो हरेत् क्षौद्रयुतो ऽम्लपित्तं चित्तं यथा वारवधूकटाक्षः ॥

4.20

हिङ्गुक्षारद्वयसैन्धवसौवर्चलविडपिप्पलीग्रन्थिक चित्रकचव्यमरीचकर्चूरकुस्तुम्बरीबर्बरीतित्तिडीक षड्ग्रन्थाजमोदाम्लवेतसपुष्करमूलनागरकरञ्ज जीरकहरीतकीवृकीहपुषाभिः विरचितं चूर्णम् इदम् ।
अश्मरीहृदयगलरोगविबन्धाध्मानहिक्कावर्ध्म गुदजगुल्मसकलशूलप्लीहपाण्डुश्वसनकसनदहन सदनवदनविरसताविरतये समर्थतरम् ॥

4.21

गोमूत्रेण कृतः कलिङ्गकटुकापाठावृषाब्दामर क्वाथः क्षौद्रयुतो निहन्ति सकलान् कण्ठामयान् उत्कटान् ।
पाठातेजवतीरसाञ्जनयवक्षारोपकुल्यानिशा देवानां मधुना कृता मुखधृता तद्वद् वटी वर्तते ॥

4.22

प्राणेश्वर प्रियतमे वद किं वदामि तत् कान्त यत् किम् उ मृगाक्षि यद् अग्निकारि ।
सम्यक् शृणु प्रणयिनि प्रणयिञ् शृणोमि खादेत् स निम्बुरससैन्धवशृङ्गिबेरम् ॥

4.23

हिङ्गुव्योषाजमोदाद्विजरणलवणं प्राग् भजेत् साज्यभुक्तं कुर्याज् जाज्वल्यमानं ज्वलनम् अनिलजं गुल्मम् एतन् निहन्ति ।
वृक्षाम्लाम्लाग्निपथ्यात्रिकटुपटुविडं जन्तुजिज् जीरयुग्मं दीप्यौ सौवर्चलं चाचलम् अपि सकलं भस्मसाच्चर्करीति ॥

4.24

शुण्ठी बाणमिता कणार्णवमिता दीप्याद् यवान्याः क्रमाद् भागानां त्रितयं द्वयं च लवणाद् भागः शिवैतत्समा ।
कोष्ठाटोपरुगामगुल्ममलहृल् लोलिम्बराजोदितश् चूर्णो ऽद्रीन् अपि भस्मसात् प्रकुरुते किं भोजनं भो जनाः ॥

4.25

शिग्रुदीप्यवरुणाद्वियामिनी कुञ्जराशनकृतः कषायकः ।
बोलचूर्णसहितो ऽन्तर् उत्थितं विद्रधिं विदलयेद् असंशयम् ॥

4.26

कमलकुड्मलकल्पपयोधर द्वयसमाहितहारमनोहरे ।
हृदयरुक्षु हितं घृतम् अर्जुन स्वरसकल्कसुसाधितम् अङ्गने ॥

4.27

सो ऽयं सुगन्धिमुकुलो बकुलो विभाति वृक्षाग्रणीः प्रियतमे मदनैकबन्धुः ।
यस्य त्वचैव चिरचर्वितया नितान्तं दन्ता भवन्ति चपला अपि वज्रतुल्याः ॥

4.28

भिन्दन्ति के कुञ्जरकुम्भपालिं किम् अव्ययं वक्ति रते नवोढा ।
सम्बोधनं नुः किम् उ रक्तपित्तं निहन्ति वामोरु वद त्वम् एव ॥

4.29

विश्वाशिवाकणाचूर्णः ससितः समधुः स्मृतः ।
नस्यवद् विश्वगुडयोर् हिक्काधिक्कारकारकः ॥

4.30

दुरालभाकषायस्य घृतयुक्तस्य सेवनात् ।
भ्रमः शाम्यति गोविन्दस्मरणाद् इव पातकम् ॥

4.31

अयि रत्नकले कुरु मा कलहं कलहंसकलत्रसमानगते ।
शृणु मद्वचनं वद वैद्यमणे मदिरा मदिराक्षि शुचं शमयेत् ॥

4.32

पुनर्नवानागरदारुपथ्या भल्लातकच्छिन्नरुहाकषायः ।
दशाङ्घ्रियुक्तः परिपेय ऊरु स्तम्भे ऽथ वा मूत्रपुरप्रयोगः ॥

4.33

सक्षौद्रं कुशकाशगोक्षुरशिवाशम्याकपाषाणभिद् दुःस्पर्शं परिसेवितं परिहरेत् सद्यो ऽश्मरीं दुस्तराम् ।
एलापर्वतभिच्छिलाजतुकणाचूर्णं गुडेनान्वितं पीतं तण्डुलधावनोदकयुतं स्यान् मूत्रकृच्छ्रापहम् ॥

4.34

वासैलामधुकाश्मभेदचपलाकौन्तीक्षुरैरण्डजः क्वाथः साश्मजतुर् जयत्य् अतितरां कृच्छ्राश्मरीं शर्कराम् ।
कृच्छ्रे दाहरुजां विबन्धसहिते क्वाथो ऽश्मभिद्गोक्षुरा नन्तारग्वधचेतकीविरचितो मध्वन्वितः शस्यते ॥

4.35

न्यग्रोधाङ्कुरकुष्ठलोध्रविकसाश्यामामसूरारुणा श्रीखण्डैः पयसान्वितैर् विरचितं व्यङ्गघ्नम् उद्वर्तनम् ।
लिप्तं सप्तदिनं मसूररजसा सर्पिःपयःशालिना वक्त्रं शारदचन्द्रसुन्दरतरं व्यङ्गस्य भङ्गाद् भवेत् ॥

4.36

इङ्गुद्याः फलमज्जको जलयुतो लेपान् मुखे कान्तिदो रोध्रोग्राधनिका निहन्ति पिटकांस् तारुण्यजांल् लेपनात् ।
हार्यं रक्तम् अरुंषिकारुजि हितो मूत्रेण लेपो ऽथ वा पिण्याकस्य पुरातनस्य शकृतः पादायुधस्य ध्रुवम् ॥

4.37

तैलं शोफम् अपारम् अप्य् अपहरेद् वृश्चीररास्नामहा भैषज्यामरशुष्कमूलकयुतं बिम्बीरसे साधितम् ।
तद्वद् विश्वकिराततिक्तम् अथ वा पाठानिशाधावनी मुस्ताजीरकपञ्चकोलकरजः संमिश्रम् उष्णाम्बुना ॥

4.38

उग्रापाठापटोलौषधरुवुकजटाशिग्रुदद्रुघ्नकुष्ठैर् धान्याम्लेन प्रपिष्टैः प्रशमयति महामूर्धरोगान् अशेषान् ।
पत्रं पक्वं घृताक्तं रविभवम् अनले तापितं पीडयेत् तत् तोयं कर्णे निषिक्तं दलयति सकलं कर्णशूलं समूलम् ॥

4.39

घृततीक्ष्णयुतः सुरसास्वरसो लघुराजमृगाङ्क इति प्रथितः ।
अपहन्त्य् अनिलान् सबलान् बहुलान् निजभक्तरिपून् इव चक्रधरः ॥

4.40

चूर्णाः कषाया गुटिका घृतानि तैलानि भागेन च योजितानि ।
विलासिनां वातविनाशनाय विलासिनीनां परिरम्भणानि ॥

4.41

अमृतम् अमृतजं सितासमेतं गुणवति पित्तम् अपाकरोति सद्यः ।
तरुण इव नितम्बिनीनितम्बा म्बरम् अतनुज्वरजर्जरीकृताङ्गः ॥

4.42

कफाद् भवति भो भीरु छिन्नाक्वाथो मधूदरः ।
अस्यार्थो लभ्यते नैव तन्वङ्गि तव मध्यवत् ॥

मूल पाठ: Vaidyajīvana · Edition: Jürgen Hanneder Thomas Schäfer Āyurveda und Poesie. Lolimbarājas Lehrgedicht »Leben des Arztes« Marburg Indica et Tibetica Verlag · Data entry Jürgen Hanneder Thomas Schäfer · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc