वैद्यजीवन · अध्याय 3
अतः परं कोमलवाणि कास श्वासप्रतीकारम् उदीरयामः ।
निहन्ति कासं गुरुपञ्चमूली कृतः कषायश् चपलासहायः ॥
घनविश्वशिवागुडजा गुटिका त्रिदिनं वदनाम्बुजमध्यधृता ।
हरति श्वसनं कसनं ललने ललनेव हिमं हृदये निहिता ॥
अजस्य मूत्रस्य शतं पलानां शतं पलानां च कलिद्रुमस्य ।
पक्वं समध्व् आशु निहन्ति कासं श्वासं च तद्वत् सबलं बलासम् ॥
आर्द्राद् अर्धतुला गुडाद् अपि तथार्धांशं च कुस्तुम्बरी दीप्यायोजरणत्रिजातजलदाद् एतत् पचेद् युक्तितः ।
लेहो रत्नकले तवैव कथितः प्राणप्रियाया मया कासार्शोज्वरपीनसश्वयथुरुक्गुल्मक्षयध्वंसनः ॥
रास्नाबलापद्मकदेवदारु फलत्रिकत्र्यूषणवेल्लचूर्णम् ।
चिन्तामणि क्षौद्रघृतोपपन्नं श्वासांश् च कासांश् च निराकरोति ॥
वासाहरिद्राधनिकागुडूची भार्ङ्गीकणानागरधावनीनाम् ।
क्वाथेन मारीचरजोन्वितेन श्वासाः क्षयं यान्ति न कस्य पुंसः ॥
तुल्या लवङ्गमरिचाक्षफलत्वचः स्युः सर्वैः समो निगदितः खदिरस्य सारः ।
बब्बूलवृक्षजकषाययुतं च चूर्णं कासान् निहन्ति वटिका घटिकाष्टकान्ते ॥
वातं निर्दलयन् कफं कवलयन्न् उन्मूलयन् पीनसं दृष्टिं निर्मलयन् प्रभां प्रबलयन् हृद्रोगम् उत्सारयन् ।
निःशेषं जठरामयं प्रशमयन्न् उद्दीपयन् पावकं कासश्वासनिराससाधनम् असौ विश्वाकषायः स्मृतः ॥
रूपं कीदृक् कमलवदने नुः परे सौ गिरेः स्यात् संबुद्धिः का मधुरवचने काग्निबीजस्य षष्ठिः ।
कस्य क्वाथः श्वसनशमनो वल्लभेनेति पृष्टा विद्वद्वन्द्या द्रुतम् इदम् अदात् सोत्तरं नागरस्य ॥
कटुतैलेन संयुक्तो गुडो यावन् न सेवितः ।
तावन् नश्यति किं श्वासः पीयूषमधुराधरे ॥
सेवितं मधुखण्डाभ्यां चूर्णं मरीचजं यदि ।
किमर्थं क्रियते चिन्ता कासश्वासौ पराजितौ ॥
अयि रत्नकले नीलनलिनच्छदनेक्षणे ।
सिंहीकषायः सकणः कासग्रासकरः क्षणात् ॥
पिप्पलीपिप्पलीमूलविभीतकमहौषधैः ।
मधुना सेवितैः कासः प्रशाम्यति कुतूहलात् ॥
रावणस्य सुतो हन्यान् मुखवारिजधारितः ।
श्वसनं कसनं वापि तम् इवानिलनन्दनः ॥
अयि प्राणप्रिये जातीफललोहितलोचने ।
शुण्ठीभार्ङ्गीकृतः क्वाथः श्वासह्रासाय पाययेत् ॥
अस्ति प्राणपते मम प्रियतमा कन्दर्पलीला सखी कासक्लेशवशाद् अतीव कृशतां प्राप्तास्ति सा साम्प्रतं ।
तस्यास् त्वं कथयोपचारम् अधुना क्षौद्रान्वितं दीयतां विश्वग्रन्थिकणाकलिद्रुमभवं चूर्णं चकोरेक्षणे ॥
संयुतं गुडसर्पिभ्यां चूर्णं त्रिकटुसंभवम् ।
निहन्ति तरसा कासांस् त्रासान् इव सतां हरिः ॥
शृङ्गिबेररसो येन मधुना सह सेवितः ।
श्वासकासभयं तस्य न कदाचिद् भविष्यति ॥
पुलोमजावल्लभसूनुपत्नी तातात्मभूशेखरवाहनस्य ।
सौन्दर्यदूरीकृतरामरामे कषायकः काससमीरसर्पः ॥
फलत्रयच्छिन्नरुहाहुताश रास्नाकृमिध्वंसिकटुत्रयाणाम् ।
चूर्णं समांशं सितया समेतं कासं जयेन् नात्र विचारणीयम् ॥
दशमूलकषायमिश्रितं वा ललने विश्वकषायमिश्रितं वा ।
प्रपिबेत् कटिकुक्षिवस्तिशूले ध्रुवम् एरण्डजतैलम् एकम् एव ॥
रास्नामृतानागरदेवदारु पञ्चाङ्घ्रियुग्मेन्द्रयवैः कषायः ।
रुवूकतैलेन समन्वितो ऽयं भेत्ता भवेद् आमसमीरणस्य ॥
विलासिनी विलासेन विलासिहृदयं यथा ।
तथा गुडूची विश्वेन हरेद् आमसमीरणम् ॥
सम्यक्स्विन्नाश् छगलजरसे काननोत्थाः कुलत्थाश् चैले बद्धाः परिहृततुषाः प्रौढसीमन्तिनीभिः ।
सूक्ष्मं पिष्टाः पटुरसनिशाचूर्णपूर्णाः क्षपायां चक्षुःक्षिप्ताः रुधिरविकृतिं संहरन्ति त्र्यहेण ॥
लोलिम्बराजकविना वनितावतंसे शिग्रोर् अमुष्य कथितो ऽस्ति किम् उ प्रयोगः ।
एतस्य पल्लवरसात् समधोः किम् अन्यत् दृग्व्याधिमात्रहरणे महिलाग्रगण्ये ॥
कुवलयनयने ऽर्जुनं कफो ऽब्धेः सह सितयाशु निराचरीकरोति ।
प्रियकरम् इव कामिनी नवोढा लघुकुचशालिनि वक्षसि प्रयुक्तम् ॥
इति निगदितम् आर्यैः नेत्ररोगातुराणां निशि समधुघृताग्र्या सेवितव्या सुखाय ।
अयि नवशिशुलीलालोलदृष्टे त्वम् अग्र्या जनयसि बत कस्माद् वैपरीत्यं परं तु ॥
निराकरोति नक्तान्ध्यं सगोमयरसा कणा ।
यथा रतेन रमणी रमणस्य महाबलम् ॥
श्यामे ऽश्यामे प्रियश्यामे श्यामबोधितमानसे ।
शुक्लं शमयति क्षिप्रं माक्षिकं माक्षिकान्वितम् ॥
त्रिफलावृषभूनिम्बनिम्बतिक्तामृताकृतः ।
क्वाथो मधुसितायुक्तो कामलापाण्डुरोगजित् ॥
देवदालीफलरसो नस्यातो हन्ति कामलाम् ।
संदेहो नास्ति सम्फुल्लनीलोत्पलविलोचने ॥
गिरिमृद्धात्रिरात्रीणाम् अञ्जनं कामलापहम् ।
इदं न हि भवेन् मिथ्या शपथस् तु तवाङ्गने ॥
अये मनोज्ञकुण्डले स्फुरन्मुखेन्दुमण्डले ।
गवां पयः सनागरं निहन्ति तन्वि कामलाम् ॥
पिचुमन्दरसेन मिश्रितैः पिचुमन्दानिलशत्रुबीजकैः ।
घटितां वटिकां भगान्तरे भगशूलप्रशमाय धारयेत् ॥
तरुण्य् उत्तरणीमूलं छागीसर्पिःसमन्वितम् ।
शिवशस्त्राभिधां बाधां योनिस्थां हन्ति सत्वरम् ॥
गोपीवृकीदारुकिरातमूर्वा तिक्तामृताविश्वघनेन्द्रजानाम् ।
क्वाथो ऽयम् उक्तो मृगलोचनानां दुष्टस्य दुग्धस्य विशोधनाय ॥
कटङ्कटेरीरसजाब्दवासा भूनिम्बभल्लीतिलजः कषायः ।
क्षौद्रान्वितश् चञ्चललोचनानां नानाविधानि प्रदराणि हन्यात् ॥
कुवलयदलनेत्रे तण्डुलीयस्य मूलं रसजम् अपि समांशं भेषजद्वन्द्वम् एतत् ।
हिमकरमुखि युक्तं तण्डुलाम्भोमधुभ्यां प्रदरदरम् उदीर्णं सुन्दरीणां निहन्ति ॥
मूलं गवाक्ष्याः स्मरमन्दिरस्थं पुष्पावरोधस्य वधं करोति ।
अभर्तृकाणां व्यभिचारिणीनां योगो ऽयम् एव द्रुतगर्भपाते ॥
मध्वाज्ययष्टीमधुलुङ्गमूलं निपीय सूते सुमुखी सुखेन ।
सतण्डुलाम्भःसितधान्यकल्क पानाद् वमिर् गच्छति गर्भिणीनाम् ॥
धान्याब्दाम्बुद्वयारल्वमृतविषबलारेणुदुःस्पर्शशीतं गर्भिण्याः सूतिकाया अपि रुधिररुगामातिसारज्वरघ्नम् ।
मुस्ताशृङ्गीविषाणां प्रशमयति रजः सेवितं क्षौद्रयुक्तं बालानां वान्तिकासज्वरम् अतिविषजं क्षौद्रयुक्तं रजो वा ॥
कुमारातिसारे कषायः समङ्गा मदाशारिवारोध्रजः क्षौद्रयुक्तः ।
मदारोध्रबिल्वाब्दमञ्जिष्ठवाला कषायो ऽवलेहो ऽथ वा क्षौद्रयुक्तः ॥
कृष्णारुणामुस्तकशृङ्गिकाणां तुल्येन चूर्णेन समाक्षिकेन ।
ज्वरातिसारः प्रशमं प्रयाति सश्वासकासः सवमिः शिशूनाम् ॥
मूल पाठ: Vaidyajīvana · Edition: Jürgen Hanneder Thomas Schäfer Āyurveda und Poesie. Lolimbarājas Lehrgedicht »Leben des Arztes« Marburg Indica et Tibetica Verlag · Data entry Jürgen Hanneder Thomas Schäfer · GRETIL (Göttingen) · CC BY-NC-SA 4.0