भाषा

ENहिગુ
ग्रंथ पाठ

वैद्यजीवन · अध्याय 5

5.1

ताम्बूलं मधु कुसुमस्रजो विचित्राः कान्तारं सुतरुवनं विलासवत्यः ।
गीतानि श्रवणहराणि मिष्टम् अन्नं क्लीबानाम् अपि जनयन्ति पञ्चबाणम् ॥

5.2

सहितं घृतेन मधुना मधुकं परिषेचितं पिबति यो ऽनु पयः ।
नवसुभ्रुवां सुखकरः स पुमान् बहुवीर्यपूरपरिपूर्णतनुः ॥

5.3

अमृतामलकत्रिकण्टकानां हविषा शर्करया निषेवणेन ।
अजरा अमरा अपारवीर्या अलकेशा अदितेः सुता अभूवन् ॥

5.4

उच्चटामर्कटीगोक्षुरैश् चूर्णितैः शर्करादुग्धसंमिश्रितैः पाचितैः ।
सेवितैर् वार्द्धके मानवो मानिनी मानम् उच्छेदयेत् किं पुनर् यौवने ॥

5.5

भुक्त्वोच्चटां क्षीरयुतां विलासी भुङ्क्ते शतं सुन्दरि सुन्दरीणाम् ।
त्वं तावद् एकासि मया तु साद्य भुक्ता रतौ पश्य कुतूहलं मे ॥

5.6

चूर्णं घृतक्षौद्रयुतं रसैः स्वैर् विभाविताया बहुधा विदार्याः ।
निषेव्यमानो ऽनुदिनं विलासी दशाङ्गनाभिः सह रंरमीति ॥

5.7

सहितं घृतदुग्धाभ्यां विदारिप्रभवं रजः ।
उदुम्बरमितं भुक्त्वा वृद्धो ऽपि तरुणायते ॥

5.8

सौभाग्यपुष्टिबलशुक्रविवर्धनानि किं सन्ति नो भुवि बहूनि रसायनानि ।
कन्दर्पवर्धिनि परं तु सिताज्ययुक्ताद् दुग्धाद् ऋते मम न को ऽपि मतः प्रयोगः ॥

5.9

अधुना ब्रूमहे सद्यश् चमत्कारकरान् रसान् ।
यतो न नीरसा भाति कविताकुलकामिनी ॥

5.10

पथ्याकणार्कविषतिन्दुकदन्तिबीज तिक्तात्रिवृद्रसबलीन् सदृशान् विमर्द्य ।
धूर्ताम्बुना सकलवासरम् एष सूतः स्याद् विश्वतापहरणो ऽभिनवज्वरघ्नः ॥

5.11

शुल्बं गन्धकटङ्कणौ च गरलं तुत्थं रसं खर्परं तालं तुल्यम् इदं विमर्द्य घटिकामात्रं सुषेव्यारसैः ।
सूतः स्यात् त्रिपुरारिणा विरचितः शीतारिर् इत्थं स्मृतो गुञ्जाजाजिसितायुतः प्रशमयेद् एकाहिकादीन् ज्वरान् ॥

5.12

मरीचबलिहिङ्गुलैर् गरलपिप्पलीटङ्कणैः सुवर्णभवबीजकैः समलवैर् दिनार्धावधि ।
जयास्वरसमर्दितैः कनकसुन्दरः सुन्दरि स्मृतो ग्रहणिकाज्वरातिसृतिवह्निमान्द्यापहः ॥

5.13

लोहाभ्रार्करसं समं द्विगुणितं गन्धं पचेत् कोलिका काष्ठाग्नौ मृदुले निधाय सकलं लोहस्य पात्रे भिषक् ।
सर्वं गोमयमण्डले विनिहितं रम्भादले विन्यसेत् तस्योर्ध्वं कदलीदलं द्रुततरं वैद्येश्वरो निक्षिपेत् ॥

5.14

स्यात् पञ्चामृतपर्पटी ग्रहणिकायक्ष्मातिसारज्वर स्त्रीरुक्पाण्डुगराम्लपित्तगुदजक्षुन्मान्द्यविध्वंसिनी ।
ग्रहण्याम् अनुपानं च हिङ्गुसैन्धवजीरकम् जीरकं पाण्डुगरयोर् इतरेषु स्वयुक्तितः ॥

5.15

वचाविश्वाजीरोषणगरलबाह्लीकदहन त्वचां कार्या वट्यश् चणकतुलिता मार्कवरसैः ।
यथा भानोर् भासस् तिमिरनिकरं भामिनि तथा हरन्त्य् एताः शूलान्य् अनिलम् अनलग्लानिम् अपि च ॥

5.16

सामानभागे बलिशूलिबीजे तयोः समानं कनकस्य बीजं ।
धत्तूरतैलेन विमर्द्य सम्यग् विलासिनीवल्लभनामधेयः ॥

5.17

सूतो भवेद् वल्लयुगप्रमाणः सितायुतो मेहसमूहहारी ।
वीर्यस्य बन्धं कुरुते नराणां निहन्ति दर्पं च सुलोचनानाम् ॥

5.18

शूले हिङ्गु घृतान्वितं मधुयुता कृष्णा पुराणज्वरे वाते साज्यरसोनकः श्वसनके क्षौद्रान्वितं त्र्यूषणम् ।
शीते व्याललतादलं समरिचं मेहे वरा सोपला दोषाणां त्रितये ऽनुपानम् उचितं सक्षौद्रम् आर्द्रोदकम् ॥

5.19

घनपर्पटकं ज्वरे ग्रहण्यां मथितं हेम गरे वमीषु लाजाः ।
कुटजो ऽतिसृतौ वृषो ऽस्रपित्ते गुदकीलेष्व् अनलः कृमौ कृमिघ्नः ॥

5.20

नारायणं भजत रे जठरेण युक्ता नारायणं भजत रे पवनेन युक्ताः ।
नारायणं भजत रे भवभीतियुक्ता नारायणात् परतरं न हि किञ्चिद् अस्ति ॥

5.21

आयुर्वेदविदां विचारसमये धन्वन्तरिः केवलं सीमा गानविदां दिवाकरसुधाम्भोधित्रियामापतिः ।
उत्तंसः कविताकृतां मतिमतां भूभृत्सभाभूषणं कान्तोक्त्याकृत वैद्यजीवनम् इदं लोलिम्बराजः कविः ॥

मूल पाठ: Vaidyajīvana · Edition: Jürgen Hanneder Thomas Schäfer Āyurveda und Poesie. Lolimbarājas Lehrgedicht »Leben des Arztes« Marburg Indica et Tibetica Verlag · Data entry Jürgen Hanneder Thomas Schäfer · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc