भाषा

ENहिગુ
ग्रंथ पाठ

वैद्यजीवन · अध्याय 2

2.1

अमृतातिविषासुरराजयव स्तनयित्नुकिरातकविश्वपयः ।
अतिसारहरं ज्वरनाशकरं शृणु निर्जितकुञ्जरकुम्भकुचे ॥

2.2

शीतोशीरकयुग्मवत्सकवृकीपद्माह्वधान्यामृता भूनिम्बाम्बुदबालबिल्वकविषाविश्वौषधैः साधितः ।
क्वाथो माक्षिकसाधितो विजयते हृल्लासतृष्णावमी दाहारोचकसङ्गभङ्गचतुरः सर्वातिसारज्वरान् ॥

2.3

पञ्चाङ्घ्रिवृक्यब्दबलेन्द्रबीज त्वक्सेव्यतिक्तामृतविश्वबिल्वैः ।
ज्वरातिसारान् सवमीन् सकासान् सश्वासशूलाञ् छमयेत् कषायः ॥

2.4

कफाधिके वा पवनाधिके वा द्वयाधिके वा गुरुपञ्चमूलम् ।
पित्ताधिके स्याल् लघुपञ्चमूलं पुनः पुनः पृच्छसि किं मृगाक्षि ॥

2.5

सदेवदारुः सविषः सपाठः सजन्तुशत्रुः सघनः सतीक्ष्णः ।
सवत्सकः क्वाथ उदाहृतो ऽयं शोफातिसाराम्बुधिकुम्भजन्मा ॥

2.6

अयि प्रिये प्रीतिभृतां मुरारौ किं बालकश्रीघनधान्यविश्वैः ।
यस्याप्य् अतीसाररुजो न तस्य किं बालकश्रीघनधान्यविश्वैः ॥

2.7

पित्तातिसारो धान्याम्बुबिल्वाब्दानां निरुध्यते ।
केनात्र ज्ञायते कर्ता पण्डितेन त्वया विना ॥

2.8

इन्द्रजमेघमदाकुसुमश्री लोध्रमहौषधमोचरसानाम् ।
चूर्णम् इदं गुडतक्रसमेतं हन्त्य् अचिराद् अतिसारम् उदारम् ॥

2.9

कल्याणि काञ्चनलताललिताङ्गयष्टे ताम्बूलशालिवदने ललने शृणु त्वम् ।
शुण्ठीमदाकुसुममोचरसाजमोदास् तक्रान्विताः प्रशमयन्त्य् अतिसारम् उग्रम् ॥

2.10

अतिसारप्रशमनी चित्रपत्रकशोभिता ।
वृद्धिदा तनुवह्नेश् च श्यामा श्यामेव राजते ॥

2.11

बाले बाललताप्रवाललतिकाकाराङ्घ्रिहस्ताधरे मल्लीमाल्यलसत्कुचक्षितिधरे रत्नज्वलन्मेखले ।
चञ्चत्कुण्डलमण्डले विजयते रक्तामशूलान्विता तीसारं कुटजाब्दबिल्वकविषादीप्यैः कषायः कृतः ॥

2.12

धातक्यामलकीपयोधरवृकीकट्वङ्गयष्टीमधु श्रीजम्ब्वाम्रफलास्थिनागरविषाह्रीबेरलोध्रेन्द्रजैः ।
तुल्यांशं विहितं सतण्डुलजलं गङ्गाधराख्यं महा चूर्णं तूर्णम् अपाकरोति सकलं जीर्णातिसारं परम् ॥

2.13

अयि कन्दुकनिन्दकस्तनि प्रमदारूपमदापहारिणि ।
रुधिरातिसृतौ कषायकः समधुर् दाडिमवत्सकत्वचः ॥

2.14

चन्दनं विमलतण्डुलाम्बुना संयुतं मधुयुतं सितायुतम् ।
तृड्विखण्डनम् असृग्विखण्डनं खण्डनं प्रचुरदाहमेहयोः ॥

2.15

कुक्षिशूलामशूलघ्नं विविधास्रातिसारजित् ।
सेवेत सगुडं बिल्वं बिल्वतुल्यपयोधरे ॥

2.16

तृट्श्वासकासज्वरशोफमूर्छा हिक्कान्नविद्वेषणवान्तिशूलैः ।
युक्तो ऽतिसारी स्मरतु प्रसह्य गोविन्द गोपाल गदाधरेति ॥

2.17

जातीफलं नागरसर्पफेनौ खर्जूफलं भिन्नम् इदं च नित्यं ।
योज्यं द्विनिष्कं च करीषजाताद् अरण्यजाद् भस्मसमं च सर्वम् ॥

2.18

निष्कार्धमात्रं भिषजा प्रयोज्यं द्विवारम् एतच् छुभतण्डुलोदैः ।
जीर्णातिसारे रुधिरामयुक्ते हितं सशूले बहुवेगयुक्ते ॥

2.19

यवानी नागरोशीरधनिकातिविषाघनैः ।
बालबिल्वद्विपर्णीभिर् दीपनं पाचनं भवेत् ॥

2.20

पुनर्नवावल्लिजबाणपुङ्ख विश्वाग्निपथ्याचिरबिल्वबिल्वैः ।
कृतः कषायः शमयेद् अशेषान् दुर्नामगुल्मग्रहणीविकारान् ॥

2.21

शुण्ठीछिन्नरुहाविषाजलधरैस् तुल्यैः कषायः कृतो मन्दाग्नौ ग्रहणीगदे ऽपि सततं सामानुबन्धे हितः ।
शुण्ठीकल्कशृतं घृतं प्रपिबतः पाण्ड्वामकासापहं स्याद् वायोर् अनुलोमनं ग्रहणिका वेगेन जङ्गम्यते ॥

2.22

पाठाविषाकुटजवृक्षफलत्वगब्द तिक्तामदारसजनागरबिल्वचूर्णम् ।
सक्षौद्रतण्डुलजलं ग्रहणीप्रवाह रक्तप्रवाहगुदरुग्गुदजेषु दद्यात् ॥

2.23

तुल्यांशं सकलं किरातकटुकामुस्तेन्द्रजत्र्यूषणं भागश् चन्द्रकलामितः कुटजतो भागद्वयं चित्रकात् ।
चूर्णं रत्नकलाभिधं गुडपयोयुक्तं च पाण्डुज्वरा तीसारारुचिकामिलाग्रहणिकागुल्मप्रमेहापहम् ॥

2.24

क्षारद्वन्द्वपटुत्रिकत्रिकटुकैश् चव्याजमोदानलैः कृष्णामूलकहिङ्गुजीरमिशिभिस् तुल्यैर् विधेयं रजः ।
पीतं कोष्णजलेन कोलपयसा तक्रेण वान्यौषधाद् धृत्क्षुद्गुल्मगुदाङ्कुरग्रहणिषु प्रायः प्रियं प्रेयसि ॥

2.25

द्विक्षारषट्कटुपटुव्रजहिङ्गुदीप्यैः स्यात् सारलुङ्गबदरैकरसेन युक्तः ।
श्लेष्मानिलग्रहणिकासु गुडः प्रशस्तः नक्षत्रमुख्यमुखि दीपनपाचने ऽलम् ॥

2.26

चूर्णं चव्यकचित्रश्रीविश्वभेषजनिर्मितम् ।
तक्रेण सहितं हन्ति ग्रहणीं दुःखकारिणीम् ॥

2.27

रुचकाग्निमरीचानां चूर्णं तक्रेण सेवितम् ।
ग्रहण्युदरगुल्मार्शःक्षुन्मान्द्यप्लीहनाशनम् ॥

2.28

आज्यं पयोधरजलेन्द्रजबालबिल्व ह्रीबेरमोचरसकल्कयुतं सुपक्वम् ।
आमानुबन्धसहितं रुधिरान्वितं च सद्यो निहन्ति गृहिणि ग्रहणीविकारम् ॥

मूल पाठ: Vaidyajīvana · Edition: Jürgen Hanneder Thomas Schäfer Āyurveda und Poesie. Lolimbarājas Lehrgedicht »Leben des Arztes« Marburg Indica et Tibetica Verlag · Data entry Jürgen Hanneder Thomas Schäfer · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc