भाषा

ENहिગુ
ग्रंथ पाठ

वैद्यजीवन · अध्याय 1

1.1

प्रकृतिसुभगगात्रं प्रीतिपात्रं रमाया दिशतु किम् अपि धाम श्यामलं मङ्गलं वः ।
अरुणकमललीलां यस्य पादौ दधाते प्रणतहरजटालीगाङ्गरिङ्गत्तरङ्गे ॥

1.2

रत्नं वामदृशां दृशां सुखकरं श्रीसप्तशृङ्गास्पदं स्पष्टाष्टादशबाहु तद् भगवतो भर्गस्य भाज्यं भजे ।
यद्भक्तेन मया घटस्तनि घटीमध्ये समुत्पाद्यते पद्यानां शतम् अङ्गनाधरसुधास्पर्धाविधानोद्धुरम् ॥

1.3

दिवाकरप्रसादेन रोग्यारोग्यसमीहया ।
समासेन वयं कुर्मः काव्यं सद् वैद्यजीवनम् ॥

1.4

तथापि क्रियते ग्रन्थः सन्ति यद्य् अपि दुर्जनाः ।
न हि दस्युभयाल् लोको दैन्यवान् इव वर्तते ॥

1.5

येषां न चेतो ललनासु लग्नं मग्नं न साहित्यसुधासमुद्रे ।
ज्ञास्यन्ति ते किं मम ह प्रयासान् अन्धा यथा वारवधूविलासान् ॥

1.6

गदगञ्जनाय चतुरैश् चरकाद्यैर् मुनिभिर् नृणां करुणया कथितं यत् ।
अखिलं लिखामि खलु तस्य रहस्यं स्वकपोलकल्पितम् इहास्ति न किञ्चित् ॥

1.7

गुरोर् अधीताखिलवैद्यविद्यः पीयूषपाणिः कुशलः क्रियासु ।
गतस्पृहो धैर्यधरः कृपालुः शुद्धो ऽधिकारी भिषग् ईदृशः स्यात् ॥

1.8

आदौ निदानविधिना विदध्याद् व्याधिनिश्चयम् ।
ततः साध्यं समीक्षेत पश्चाद् भिषग् उपाचरेत् ॥

1.9

औषधं मूढवैद्यानां त्यजन्तु ज्वरपीडिताः ।
परसंसर्गसंसक्तकलत्रम् इव साधवः ॥

1.10

पथ्ये सति गदार्तस्य किम् औषधनिषेवणम् ।
पथ्ये ऽसति गदार्तस्य किम् औषधनिषेवणम् ॥

1.11

महीन्द्रमहिलात्रपाप्रदपदारविन्दे तथा पयोनिधिपयस्तती जलधरैर् उपात्ता यथा ।
अपि प्रकृतिनीरसा नृपभिषग्भिर् अङ्गीकृता भविष्यति सरस्वती रसवती मुरासापतेः ॥

1.12

इह गमिष्यति वैद्यमतिः श्रमं प्रथमम् एव पुनस् तु महासुखम् ।
प्रियतमस्य मृगाक्षि समागमे नवकरग्रहणा गृहिणी यथा ॥

1.13

यतः सर्वेषु रोगेषु प्रायशो बलवान् ज्वरः ।
अतस् तस्य प्रतीकारं प्रथमं कुर्महे वयम् ॥

1.14

देवदारुधनाविश्वबृहतीद्वयपाचनम् ।
ज्वरे पूर्वं पिबेच् चारु पयोधरधराधरे ॥

1.15

छिन्नौषधाम्भोधरधन्वयासैः किराततिक्ताम्बुदरेणुयासैः ।
विश्वावृषाम्भोधरधन्वयासैः क्वाथो मरुत्पित्तकफज्वरेषु ॥

1.16

उशीरकलशीमहौषधकिरातकाम्भोधर स्थिराबृहतिकाद्वयामृतलतात्रिकण्टैः कृतम् ।
कषायकम् अमुं पिबेत् पवनजज्वरव्याकुलः पुमान् दशशतच्छदच्छदमदग्रसल्लोचने ॥

1.17

पीयूषलोकपाञ्चालीचरणानां कषायकम् ।
पीयमानः प्रिये हन्ति हनुमज्जनकज्वरम् ॥

1.18

छिन्नोद्भवापर्पटवारिवाह भूनिम्बशुण्ठीजनितः कषायः ।
समीरपित्तज्वरजर्जराणां करोति भद्रं खलु पञ्चभद्रः ॥

1.19

एक एव खलु पित्तकज्वरं हन्ति पर्पटकृतः कषायकः ।
चन्दनोदकमहौषधान्वितश् चेत् तदा किम् उ पुनर् विचारणा ॥

1.20

द्राक्षापर्पटराजवृक्षकटुकामुस्ताभयानां जलं मूर्च्छाशोषनिदाघतृट्प्रलपनभ्रान्त्यादिपित्तज्वरे ।
दुःस्पर्शप्रमदाकिरातकटुकासिंहास्यरेणूद्भवः क्वाथः शर्करयान्वितो हरति तृड्दाहास्रपित्तज्वरान् ॥

1.21

अहो किमर्थं बहवः कषायाः पराशराद्यैर् मुनिभिर् प्रदिष्टाः ।
छिन्नाशिवापर्पटतोयपानात् पित्तज्वरः किं न सरीसरीति ॥

1.22

जलजलजपयोदरेणुविश्वौ षधशिशिरैः सहितं षडङ्गम् एतत् ।
सपदि सुखकरं सदा सदाह ज्वरतृषि योज्यम् इदं नवज्वरे ऽपि ॥

1.23

लोहितचन्दनपद्मकधान्य छिन्नरुहापिचुमन्दकषायः ।
पित्तकफज्वरदाहपिपासा वान्तिविनाशहुताशहरः स्यात् ॥

1.24

सहस्रधौतेन घृतेन कर्तुर् अभ्यङ्गम् ओषः कृशतां बिभर्ति ।
अन्याङ्गनासंगमलालसस्य स्वीयेषु दारेषु यथाभिलाषः ॥

1.25

तृड्दाहमोहाः प्रशमं प्रयान्ति निम्बप्रवालोत्थितफेनलेपात् ।
यथा नराणां धनिनां धनानि समागमाद् वारविलासिनीनाम् ॥

1.26

अमलैः कमलैर् अथानिलैर् अलसैः पुष्परसैः समन्वितैः ।
जलकेलिकथाकुतूहलैर् अपि पित्तज्वरजा रुजो जयेत् ॥

1.27

श्रीखण्डमण्डितकलेवरवल्लरीणां मुक्ताफलाकुलविशालकुचस्थलीनाम् ।
वैदग्ध्यमुग्धवचसां सुविलासिनीनाम् आलिङ्गनं सकलदाहम् अपाकरोति ॥

1.28

शय्या पल्लवपद्मपत्त्ररचिता वासो वयस्यैः समं कान्तारे कुसुमस्फुरत्तरुवरे गानं विपञ्चीयुतम् ।
आलापाश् च शुकालिकोकिलकृताः कान्ताश् च कान्ताः कथाः वाताश् चामलवालकव्यजनजा दाहं निराकुर्वते ॥

1.29

अयि नितम्बिनि गायनलालसे मधुरवाणि निकाममदालसे ।
वपुषि दाहयुते विहितं हिमं हिमहिमांशुजलैर् अनुलेपनम् ॥

1.30

शुभ्राभ्रविभ्रमधरे शशाङ्ककरसुन्दरे ।
चन्दनैश् चर्चिते हर्म्ये स्वापस् तापम् अपोहति ॥

1.31

प्राणप्रेयसि मा पिबन्तु पुरुषाः पित्तज्वरव्याकुलाः नानावल्लिजलं विलम्बितफलं पाने विषादप्रदम् ।
तत् तैः किं क्रियतां चिकित्सकपते मुग्धे सुखं सेव्यतां सद्यस् तापहरः सुधाधिकतरः कान्ताधरः केवलम् ॥

1.32

कान्ताकटाक्षदग्धानां वद वैद्य किम् औषधम् ।
दृढम् आलिङ्गनं पथ्यं क्वथश् चाधरचुम्बनम् ॥

1.33

पित्तज्वरे किं रसफाण्टलेपैः किं वा कषायैर् अमृतेन वा किम् ।
पेयं प्रियाया मुखम् एकम् एव लोलिम्बराजेन सदानुभूतम् ॥

1.34

प्रातः पर्युषितं धान्यसलिलं सितया युतम् ।
अन्तर्दाहं हरेत् पीतं दुःखं दुर्गार्चनं यथा ॥

1.35

पञ्चमूल्यमृतामुस्ताविश्वभूनिम्बसाधितः ।
कषायः शमयत्य् आशु वायुमायुभवं ज्वरम् ॥

1.36

शृङ्गीकणाकट्फलपुष्कराणां क्षौद्रान्वितानां विहितो ऽवलेहः ।
श्वासेन कासेन युतं बलास ज्वरं जयेद् अत्र न कापि शङ्का ॥

1.37

भार्ङ्गीगुडूचीघनदारुसिंही शुण्ठीकणापुष्करजः कषायः ।
ज्वरं निहन्ति श्वसनं क्षिणोति क्षुधां करोति प्ररुचिं तनोति ॥

1.38

मम द्वयं विस्मयम् आतनोति तिक्ताकषायो मुखतिक्तताघ्नः ।
निपीडितोरोजसरोजकोशा योषा प्रमोदं प्रचुरं प्रयाति ॥

1.39

क्वाथः कट्फलकट्तृणाब्दधनिकाशृङ्ग्युग्रगन्धाभया भार्ङ्गीपर्पटविश्वदेवतरुजो बाह्लीकमध्वन्वितः ।
कासश्वासमुखामयज्वरबलश्लेष्मप्रकोपापहः तद्वत् कोमलकण्ठि कण्ठजनितां पीडां च जह्रीयते ॥

1.40

अरुचिं द्यति लुङ्गकेसरं सघृतं सैन्धवचूर्णचर्चितम् ।
रुचिम् अम्बुरुहस्य तन्वि ते नयनं खञ्जनगञ्जनं यथा ॥

1.41

ग्रन्थीन्द्रजामरपुराकृमिशत्रुभार्ङ्गी भृङ्गीत्रिकट्वनलकट्फलपौष्कराणाम् ।
रास्नाभयाबृहतिकाद्वयदीप्यभूत केशीकिरातकवचाचविकावृकीनाम् ॥

1.42

क्वाथो हन्यात् संनिपातान् समग्रान् बुद्धिभ्रंशं स्वेदशैत्यप्रलापान् ।
शूलाध्मानान् विद्रधिश्लेष्मवातान् वातव्याधीन् सूतिकानां च तद्वत् ॥

1.43

संनिपातस्य कालस्य कश्चिद् भेदो न विद्यते ।
चिकित्सको जयेद् यस् तु तस्मात् को ऽस्ति प्रतापवान् ॥

1.44

संनिपातोदधौ मग्नान् उद्धरेद् यः कृपाकरः ।
तस्मै किं किं न देयं स्याद् वद कोविदनन्दिनि ॥

1.45

त्रिदोषाजगरग्रस्तं मोचयेद् यः स वैद्यराट् ।
आत्मापि तस्मै दातव्यः किं पुनः कनकादिकम् ॥

1.46

यः शोफः श्रुतिमूलजः स कठिनः शान्ते त्रिदोषज्वरे रक्तं तत्र जलौकया परिहरेत् सर्पिः पिबेच् चातुरः ।
रास्नानागरलुङ्गमूलहुतभुग्दार्व्यग्निमन्थैः समैर् लेपः स्याद् अरविन्दवन्द्यनयने शोफव्यथाध्वंसनः ॥

1.47

अर्कानन्ताकिरातामरतरुरसनासिन्धुवारोग्रगन्धा तर्कारीशिग्रुपञ्चोषणघुणदयितामार्कवाणां कषायः ।
सद्यस् तीव्रान् त्रिदोषान् अपहरति धनुर्मारुतं दन्तबन्धं शैत्यं गात्रेषु गाढं श्वसनकसनकं सूतिकावातरोगान् ॥

1.48

तिक्तातिक्तकपर्पटामृतशटीरास्नाकणापौष्कर त्रायन्तीबृहतीसुरौषधिशिवादुःस्पर्शभार्ङ्गीकृतः ।
क्वाथो नाशयति त्रिदोषनिकरं स्वापं दिवा जागरं नक्तं तृण्मुखशोषदाहकसनश्वासान् अशेषान् अपि ॥

1.49

शूलात् पार्श्वशिरःस्थितात् कसनतः श्वासाच् च जीर्णज्वरान् मुक्तः स्यात् पुरुषः पयः परिपिबन् पञ्चाङ्घ्रिणा पाचितम् ।
एकासौ गुडपिप्पली विजयते जीर्णज्वराजीर्णरुक् क्षुन्मान्द्यारुचिपाण्डुजन्तुकसनश्वासान् किम् अन्यौषधैः ॥

1.50

जीर्णज्वरं कफयुतं कणया समेतश् छिन्नोद्भवोद्भवकषायक एव हन्ति ।
रामो दशास्यम् इव राम इव प्रलम्बं रामो यथा समरमूर्धनि कार्तवीर्यम् ॥

1.51

पञ्चमूलीकषायस्य सकृष्णस्य निषेवणात् ।
जीर्णज्वरो कफोद्भूतो विदधाति पलायनम् ॥

1.52

शटी शुण्ठी रेणुः सुरतरुर् अनन्ता बृहतिका घनस् तिक्ता तिक्तं खलु नवभिर् एभिर् विरचितः ।
कषायः पीतो ऽयं मधुकणविमिश्रः शमयति त्रिदोषं निःशेषं विषमम् अपि जीर्णज्वरम् अपि ॥

1.53

वासापटोलत्रिफलाद्राक्षाशम्याकनिम्बजः ।
समधुः ससितः क्वाथो हन्याद् एकाहिकज्वरम् ॥

1.54

तन्वङ्गि गङ्गोत्तरतीरभूमौ ममार हा को ऽप्य् असुतस् तपस्वी ।
जलाञ्जलिं तस्य कृते ददातु सैकाहिकः स्याद् यदि ते ऽनुजन्मा ॥

1.55

सशिशिरः सधनः समहौषधः सनलदः सकणः सपयोधरः ।
समधुशर्कर एष कषायको जयति बालमृगाक्षि तृतीयकम् ॥

1.56

चातुर्थिको गच्छति रामठस्य घृतेन जीर्णेन युतस्य नस्यात् ।
लीलावतीनां नवयौवनानां मुखावलोकाद् इव साधुभावः ॥

1.57

अखण्डितशरत्कालकलानिधिसमानने ।
चातुर्थिकहरं नस्यं मुनिद्रुमदलाम्बुना ॥

1.58

सुरदारुशिवाशिवास्थिरा वृषविश्वैः क्वथितः कषायकः ।
मधुना सितया च संयुतः परिपीतः शमयेच् चतुर्थिकम् ॥

1.59

तक्रं त्र्यूषणचूर्णयुक्तम् अथ वा मद्यं हसन्तीं सतीं तद्वत् कम्बलरल्लकान् अथ कुथां शीतातुरः शीलयेत् ।
आलिङ्गेयुर् अमुं हिमावधि दृढं तारुण्यदर्पालसाः काश्मीरागरुलिप्तपीवरकुचाः कामं कुरङ्गीदृशाः ॥

1.60

शक्राह्वदद्रुघ्नवृषामृतानां निर्गुण्डिकाभृङ्गमहौषधानाम् ।
क्षुद्रायवानीसहितः कषायः शीतज्वरारण्यहिरण्यरेताः ॥

1.61

वाङ्माधुर्यजितामृते ऽमृतलता लक्ष्मीशिवाभे शिवा विश्वं विश्ववरे घनो घनकुचे सिंही च सिंहोदरि ।
एभिः पञ्चभिर् ओषधैर् मधुकणायुक्तः कषायः कृतः पीतश् चेद् विषमज्वरः किम् उ तदा तन्वङ्गि न क्षीयते ॥

1.62

सनागरायाः सपयोधरायाः ससिंहिकायाः सगुडूचिकायाः ।
धात्र्याः कषायो मधुना विमिश्रः कणाविमिश्रो विषमज्वरघ्नः ॥

1.63

नान्यानि मान्यानि किम् औषधानि परं तु कान्ते न रसोनकल्कात् ।
तैलेन युक्ताद् अपरः प्रयोगो महासमीरे विषमज्वरे ऽपि ॥

1.64

भवति विषमहन्त्री चेतकी क्षौद्रयुक्ता भवति विषमहन्त्री पिप्पली वर्धमाना ।
विषमरुजम् अजाजी हन्ति युक्ता गुडेन प्रशमयति तथोग्रा सेव्यमाना गुडेन ॥

1.65

किम् उ भ्रमयसि प्रिये कुवलयं कराभ्याम् इदं मदीयवचनं सुधारससमं समाकर्णय ।
पुराणविषमज्वरे कुलकनिम्बसिंहीन्द्रजा मृताघनकषायको मधुयुतो वरीवर्तते ॥

1.66

स्वकान्तिजितरोचने चपललोचने मालती प्रसूननिकरस्फुरत्कबरि पञ्चवक्त्रोदरि ।
पटोलकटुरोहिणीमधुकचेतकीमुस्तक प्रकल्पितकषायको विषमम् आशु जेजीयते ॥

1.67

यो भजेत् समधुश्यामां हे हेमकलशस्तनि ।
विषमेषु व्यथास् तस्य न भवन्ति कदाचन ॥

1.68

क्षणम् अपि चलतां जहीहि मुग्धे शृणु वचनं मम तन्वि सावधाना ।
वसति शिरसि मेघनादमूले व्रजतितरां विषमो विशालदृष्टे ॥

1.69

विषमम् अपहरत्य् असौ कषायो मधुमधुरो ऽमधुरामृताशिवानाम् ।
अहम् इव तव मानिनि प्रकोपं चरणसरोरुहयोर् लुठन् हठेन ॥

1.70

अबले कमलातनुरत्नकले चलदृक्कमले धृतकामकले ।
अमृताब्दशिवं मधुमद् विषमे विषमे विषमेषुविलासरते ॥

1.71

अयि कुशाग्रसमानमते मते मतिमताम् अतिमन्मथमन्थरे ।
ज्वरहरं रुगरिष्टशिवावचा यवहविर्जतुसर्षपधूपनम् ॥

1.72

तिक्तोशीरबलाधान्यपर्पटाम्भोधरैः कृतः ।
क्वाथः पुनः समायातं ज्वरं शीघ्रं निवारयेत् ॥

1.73

गोपीद्व्यामलकीस्थिरामगधजातिक्तापयःपालिनी द्राक्षाश्रीफलधावनीहिमविषामुस्तेन्द्रजैः साधितम् ।
स्याद् आज्यं विषमज्वरक्षयशिरःपार्श्वव्यथारोचक छर्दिःशोषहलीमकप्रशमनं लीलालतामञ्जरि ॥

1.74

चलदलतरुसेवा होममन्त्रस् त्रिनेत्र द्विजजनगुरुपूजा विष्णुनाम्नां सहस्रम् ।
मणिधृतिर् अपि दानान्य् आशिषस् तापसानां सकलम् इदम् अरिष्टं स्पष्टम् अष्टज्वराणाम् ॥

1.75

अयि रत्नकले कलानिधे कुशले कोकिलकोमलस्वरे ।
ज्वरवान् ज्वरवर्जितो ऽथ वा लघु कुर्याद् अशनं दिनात्यये ॥

मूल पाठ: Vaidyajīvana · Edition: Jürgen Hanneder Thomas Schäfer Āyurveda und Poesie. Lolimbarājas Lehrgedicht »Leben des Arztes« Marburg Indica et Tibetica Verlag · Data entry Jürgen Hanneder Thomas Schäfer · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc