उज्ज्वलनीलमणि · अध्याय 9
इति श्री-श्री-उज्ज्वल-नीलमणौ
सखी-भेद-प्रकरणम्
॥8॥
(9)
अथ हरि-वल्लभा-प्रकरणम्
आसां चतुर्विधो भेदः सर्वासां व्रज-सुभ्रुवाम् ।
स्यात् स्व-पक्षः सुहृत्-पक्षस् तटस्थः प्रतिपक्षकः
सुहृत्-पक्ष-तटस्थौ तु प्रासङ्गिकत्योदितौ ।
द्वौ स्व-पक्ष-विपक्षाख्यौ भेदाव् एव रस-प्रदौ
प्रोक्तस् तत्र स्वपक्षस्य विशेषः पूर्वम् एव हि ।
सुहृत्-पक्षादि-भेदानां दिग् एव किल दर्श्यते
तत्र सुहृत्-पक्षः-
सुहृत्-पक्षो भवेद् इष्ट-साधकोऽनिष्ट-बाधकः
तत्र इष्ट-साधकत्वम्, यथा-
अद्याकर्णय मद्-गिरं परिजनैर् एभिः समं श्यामले
राधायास् त्वयि सौहृदं सखि जगच् चित्तेषु चित्रीयते ।
उल्लासाद् भवद् आख्यया यद् अनिशं तस्याङ्गरागस् तया
सान्द्रश् चन्द्रक-शेखरस्य समये चन्द्रान्वितः प्रेष्यते
अनिष्ट-बाधकत्वं, यथा-
गीर्भिर् मूढ-जनस्य खण्डितम् अतिभाण्डीर-मूले मुधा
किं गन्तास्मि तवोदिते बलवती श्यामे प्रतीतिर् मम ।
निर्व्याजं बट-राज-रोधसि वधू-वेश-क्रियोद्भासिनी
कंसारिः सुबलेन गोष्ठ-नगरी-वैहासिकः क्रीडति
अथ तटस्थः-
यो विपक्ष-सुहृत्-पक्षः स तटस्थ इहोच्यते
यथा-
खेदं न व्यसने तनोषि वहसे नोल्लासम् अस्याः शुभे
दोषाणां प्रकटीकृतौ न हि धियं धत्से गुणानाम् अपि ।
अव्याक्षिप्त-मनो-गतिः सुवदने द्वेषेण रागेण च
त्वं श्यामे मुनि-वृत्तिर् अत्र सततं चन्द्रावलौ दृश्यसे
अथ विपक्षः-
मिथो-द्वेषी विपक्षः स्याद् इष्टहानिष्ठ-कारकः
तत्र इष्टहन्तृत्वं, यथा-
राधे त्वत्-पदवी-निवेशित-दृशं कुञ्जे हरिं जानती
पद्मा तत्र निनाय हन्त कुटिला चन्द्रावलीं छद्मना ।
इत्य् आकर्ण्य मुकुन्द सा सुबलतः स्तब्धा तथाद्य स्थिता
दृष्ट्वा नील-पटीं तनौ जटिलया प्रातर् यथा तर्जिता
अथ अनिष्ठ-कारित्वं, यथा-
कुतः पद्मे पुत्रि क्षिति-धर-तटाद् अम्ब जटिले
वधूर् दृष्ट्वा क्व नु रवि-निकेतस्य पुरतः ।
चिरं नायात्य् एषा कथम् इव निरुद्धात्र हरिणा
तवाध्वानं पश्यत्य् अहह भवती धावतु रुषा
छद्मेर्ष्या-चापलासूया-मत्सरामर्ष-गर्वितम् ।
व्यक्तिं यात्य् उक्ति-चेष्टाभिः प्रतिपक्ष-सखीष्व् इदम्
तत्र छद्म, यथा-
श्रुत्वा कीचकम् अद्रि-मूर्ध्नि पशवः श्यामं च दृष्ट्वाम्बुदं
धावन्त्व् अधियः कथं त्वम् अपि धिग् धीराधिकं धावसि ।
इत्य् उच्चैर् अनृतोत्तरेण तरलां प्रयाय्य पद्माम् असौ
प्राप्ता पश्य गृहं करोति ललिता राधा-प्रयाणे त्वराम्
अथ ईर्ष्या, यथा-
उद्घटय्य कुटिलं कच-पक्षं
देवि दर्शयसि किं वन-मालाम् ।
नील-यष्टिवद् अमुं मद्-अलिन्दे
लोकयालि वन-मालिनम् एव
यथा वा-
निर्बन्ध-प्रवणेन कंस-रिपुणा प्राग् अर्प्यमाणोऽपि यः
प्राज्यं दोषम् अवेक्ष्य नायक-मणौ न स्वीकृतोऽभून् मया ।
हारः सम्प्रति सोऽयम् एव विषमो लुब्धे क्व लब्धस् त्वया
द्रागिष्ठोऽप्य् उरग-क्षताङ्गुलि-निभो दुष्टः सखि त्यज्यताम्
अथ चापलम्-
नात्मानं व्यथय वृथा निकुञ्ज-मध्ये
खद्योति दुतिम् इह कुर्वती सरागम् ।
कृष्णाभ्रे गिरिवर-सङ्गतेऽनुरूपा
सोमाभा विलासितुम् अत्र विद्युद् एव
अथ आसूया-
यद् भाण्डीरे तव सहचरी ताण्डवं सा व्यतानीत्
पद्मे शैव्या समजनि न तत् कस्य विस्मापनाय ।
सा चेत् तन्वी प्रकृति-लडहा शिक्षिता चाभविष्य-
न्मन्ये सर्वं जगद् अपि ततः प्रेक्षयामोहयिष्यत्
अथ मत्सरः-
अलं चक्रे राधा-हृदयम् उरु-हारेण हरिणा
स्रजा धूर्तेनेयं तव तु कवर-श्रीर् अवरया ।
मनो द्वन्द्वातीतं मुनिवद् अविकल्पं च दधती
तथापि त्वं मुग्धे न विपिन-विनोदाद् विरमसि
अथ अमर्षः-
स्फुटद्भिर् इव कोरकैर् अलघुभिश् च गुञ्जा-फलिअ-
र्मयाद्य विरचय्य यन्-मुरहराय विश्राणितम् ।
त्वयात्र पखि राधिकाश्रवसि वीक्ष्य तत्-कुण्डलं
मनः स्वम् उदघाटि यत् तद् अतिलाघवायैव नः
अथ गर्वितम्-
अहङ्कारोऽभिमानश् च दर्प उद्धसितं तथा ।
मद औद्धत्यम् इत्य् एष गर्वः षोढा निगद्यते
अत्र अहङ्कारः-
अहङ्कारः पराक्षेपः स्वपक्ष-गुण-वर्णनात्
यथा-
आकाशे रुचि-लवम् इन्द्र-नील-शोभे
सोमाभा जनयति तावद्-अस्फुट-श्रीः ।
नेत्राणां तिमिर-हरा वरेण्य-दीप्तिः
सा यावन् न हि वृषभानुजाभ्युदेति
अभिमानः-
अभिमानो निज-प्रेमोत्कर्षाख्यानं तु भङ्गितः
तत्र कृष्णे स्वपक्ष-प्रेमाख्यानं, यथा-
त्वं धीर-धीः फणि-ह्रदे हरि-झम्प-गाथां
निष्कम्पम् एव यद् इयं गदितुं प्रवृत्ता ।
तत्रानुषङ्गिकतयाप्य् उदिते कदम्बे
वक्षः पिनष्टि रुदती तरला सखी मे
स्वपक्षे कृष्ण-प्रेमाख्यानं, यथा-
धन्यासि कृष्ण-कर-कल्पित-पत्र-वल्ली
रमालिका विहरसे मद-मन्थराङ्गी ।
हा वञ्चितास्मि कलिते ललिता-मुखेन्दौ
जाड्यं स यात्य् अखिल-शिल्प-धुरन्धरोऽपि
दर्पः-
गर्वम् आचक्षते दर्पं विहारोत्कर्ष-सूचकम्
यथा-
विद्मः पुण्यवती-शिखामणिम् इह त्वाम् एव हर्म्ये यया
नीयन्ते शरदिन्दु-धाम-धवलाः स्वापोत्सवेन क्षपाः ।
कोऽयं नः फलति स्म कर्म-विटपी वृन्दाटवी-कन्दरे
श्यामः कोऽपि करी करोति हृदयोन्मादेन निद्रा-क्षयम्
उद्धसितम्-
उपहासो विपक्षस्य साक्षाद् उद्धसितं भवेत्
यथा-
नोच्चैर् निःश्वसिहि प्रसीद परमे मुञ्च ग्रहं दुर्लभे
म्लानिं ते सखि वीक्ष्य हन्त कृपया मच्-चित्तम् उत्ताम्यति ।
बद्धः पश्य विभङ्गुरेऽत्र ललिता-वाग्-वागुराडम्बरे
जानीते न किल स्वम् एव सरले श्यामः कुरङ्गी-पतिः
मदः-
सेवाद्य्-उत्कर्षकृद् गर्वो मद इत्य् अभिधीयते
यथा-
जगति ललिते धन्या यूयं सुगन्धिभिर् अद्भुतै-
रविरविरतिं याभिः पुष्पैर् अमीभिर् उपास्यते ।
बत विधि-वशाज् जातं वन्य-स्रजि व्यसनं तथा
दलम् अपि न नः कात्यायन्यै यथा परिशिष्यते
औद्धत्यम्-
स्पष्टं स्वोत्कृष्टताख्यानम् औद्धत्यम् इति कीर्त्यते
यथा-
कस् तावद् व्रज-मण्डले स वलते गान्धर्विका स्पर्धतां
सार्धं हन्त जनेन येन जगती-जङ्घाल-कीर्ति-ध्वजा ।
कुल्यायाः कृपणावलीषु कृपया कामं द्रवच्-चेतसो
यस्याः प्रेरणया क्षणं भवति वः पद्मे निषेव्यो हरिः
किं च-
श्लिष्टोक्तिश् च क्वचित् तासां निन्दा-गर्भोपजायते
यथा-
गोविन्दाहित-मण्डना विधुरतावाप्ति-प्रसङ्गोज्झिता
दक्षानल्प-कला वयो-घन-रुचिं तन्वा मुहुस् तन्वती ।
सर्वानुत्तम-साधु-तापद-कृतिर् भव्ये भवत्याः सखी
नासौ भाग्य-भरात् कदापि विरतिं प्राप्नोति सौदामिनी
यथा वा-
समस्त-जन-लोचनोत्सव-विनोद-निष्पादिनी
विलक्षण-गति-क्रिया-विचलिताङ्ग-हार-स्थितिः ।
निरस्य हरितालजं रुचि-तरङ्गम् आत्मोर्जितैः
सखी नटति ते रस-स्खलितम् अत्र खेलावती
यास् तु यूथाभिनाथाः स्युः साक्षान् नेर्ष्यन्ति ताः स्फुटम् ।
विपक्षाय स्व-गाम्भीर्य-मर्यादादि-गुणोदयात्
यथा-
विपक्ष-रमणी-सखीं पिशुनितोरुगर्वच्छटां
विलोक्य किल मङ्गला विरल-हास-फेनोज्ज्वलम् ।
ततान तम् अनाकुलं विनय-निर्झरं येन सा
निजे तरसि मज्जिता सपदि लज्जिता विव्यथे
विपक्ष-यूथ-नाथायाः पुरतः प्रकटं न हि ।
जल्पन्ति लघवः सेर्ष्यं प्रायशः प्रखरा अपि
यथा-
दिष्ट्या दुस्तरतो मद्-उक्ति-निगडान् मुक्तासि मुग्धे क्षणा-
दभ्यर्णे वृषभानुजा विजयते यद् भानुजायास् तटे ।
नातथ्यं प्रथयामि देव्य् अपि गिरां वाग्-द्यूत-केलीषु मे
निर्धूत-प्रतिभोद्गमा भगवती लज्जार्णवे मज्जति
हरि-प्रिय-जने भावा द्वेषाद्या नोचिता इति ।
ये व्याहरन्ति ते ज्ञेया अपूर्व-रसिकाः क्षितौ
यथा वा-
सम्मोहनस्य कन्दर्प-वृन्देभ्योऽप्य् अघ-विद्विषः ।
मूर्तो नर्म-प्रिय-सखः शृङ्गारो वर्तते व्रजे
क्षिपेन् मिथो विजातीय-भावयोर् एष पक्षयोः ।
ईर्ष्यादीन् स्वपरिवारान् योगे स्व-प्रेष्ठ-तुष्टये ।
अतएव हि विश्लेषे स्नेहस् तासां प्रकाशते
यथा ललित-माधवे (3.39)-
सान्द्रैः सुन्दरि वृन्दशो हरि-परिष्वङ्गैर् इदं मङ्गलं
दृष्टं ते हत-राधयाङ्गम् अनया दिष्ट्याद्य चन्द्रावलि ।
द्राग् एनां निहितेन कण्ठम् अभितः शीर्णेन कंस-द्विषः
कर्णोत्तंस-सुगन्धिना निज-भुज-द्वन्द्वेन सन्धुक्षय
यूथेशायाः स्व-पक्षादि-भेद-हेतुर् अथोच्यते ।
भावस्य सर्वथैवात्र साजात्ये स्यात् सपक्षता
मनाग् एतस्य वैजात्ये सुहृत्-पक्षत्वम् ईरितम् ।
साजात्यस्य तथाल्पत्वे सति ज्ञेया तटस्थता ।
सर्वथा खलु वैजात्ये निश्चिता प्रतिपक्षता
मिथो-भावस्य वैजात्ये न भावो रोचते मिथः ।
अरोचकतयैवायम् अक्षान्तिं जनयेत् पराम्
यथा-
या मध्यस्थ-पदेन सङ्कुलतरा शुद्धा प्रकृत्या जडा
वैदग्धी-नलिनी-निमीलन-पटुर् दोषान्तरोल्लासिनी ।
आशायाः स्फुरणं हरेर् जनयितुं युक्तात्र चन्द्रावली
सापि स्याद् इति लोचयन् सखि जनः कः सोढुम् ईष्टे क्षितौ
षोडश्यास् त्वम् उडोर् विमुञ्च सहसा नामापि वामाशये
तस्या दुर्विनयैर् मुनेर् अपि मनः शान्तात्मनः कुप्यति ।
धिग् गोष्ठेन्द्र-सुते समस्त-गुणिनां मौलौ व्रजाभ्यर्चिते
पादान्ते पतितेऽपि नैव कुरुते भ्रू-क्षेपम् अप्य् अत्र या
यत्र स्यान् निज-भावस्य प्रायस् तुल्य-प्रमाणता ।
पक्षः स एव मैत्राय विद्वेषाय च युज्यते
नांशोऽप्य् अन्यत्र राधायाः प्रेमादि-गुण-सम्पदाम् ।
रसेनैव विपक्षादौ मिथः साम्यम् इवार्प्यते
भावस्यात्यन्तिकाधिक्ये साजात्यं सर्वथा द्वयोः ।
तथा तुल्य-प्रमाणत्वम् एवं प्रायः सुदुर्घटम्
स्याच् चेद् घूणाक्ष्र-न्यायात् सुहृत्तैवेह सम्मता ।
रस-स्वभावाद् अत्रापि वैपक्ष्यम् इति केचन
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0