उज्ज्वलनीलमणि · अध्याय 8
इति श्री-श्री-उज्ज्वल-नीलमणौ
यूथेश्वरी-भेद-प्रकरणम्
॥6॥
(8)
अथ सखी-प्रकरणम्
प्रेम-लीला-विहाराणां सम्यग् विस्तारिका सखी ।
विश्रम्भ-रत्न-पेटी च ततः सुष्थु विविच्यते
एक-यूथानुषक्तानां सखीनाम् एव मध्यतः ।
अधिकादेर् भिदा ज्ञेया प्रखरादेश् च पूर्ववत्
प्रेम-सौभाग्य-साद्गुण्याद्य्-आधिक्याद् अधिका सखी ।
समा तत्-साम्यतो ज्ञेया तल्-लघुत्वात् तथा लघुः
दुर्लङ्घ्य-वाक्य-प्रखरा प्रख्याता गौरवोचिता ।
तद्-ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता
आत्यन्तिकाधिकत्वादि-भेदः पूर्ववद् अत्र सः ।
स्व-यूथे यूथ-नाथैव स्याद् अत्रात्यन्तिकाधिका ।
सा क्वापि प्रखरा यूथे क्वापि मध्या मृदुः क्वचित्
तत्र आत्यन्तिकाधिका-त्रिकम्-
तत् त्रिकं सकलापेक्ष्यं नातीवान्यवशं तथा ।
स्व-यूथे तद्-व्यवहृति-व्यक्तये पुनर् उच्यते
तत्र आत्यन्तिकाधिक-प्रखरा-
नीले नील-निचोलम् अर्थये मघे देहि स्रजं दामनीं
त्वं कालागुरु-कर्दमैः सखि तनुं लिम्पस्व चम्पे मम ।
जानीहि भ्रमराक्षि कुत्र गुरवः पश्य प्रदोषोद्गमे
कुञ्जाभिक्रमणाय मां त्वरयते स्फारान्धकारावली
अधिक-प्रखराः श्यामा-मङ्गलाद्याः प्रकीर्तिताः
तत्र आत्यन्तिकाधिक-मध्या-
अनङ्ग-शर-जर्जरं स्फुटति चेन् मनो वस् तदा
मद्-अर्थन-कदर्थनैः कृतम् इतः स्वयं गच्छत ।
दृशां पथि भवादृशी-प्रणयितानुरूपः सुखं
यद् अत्र रत-हिण्डकः स किल पाति गो-मण्डलम्
भवन्त्य् अधिक-मध्यास् तु श्री-राधा-पालिकादयः
तत्र आत्यन्तिकाधिक-मृद्वी-
शृणु सखि वचस् तथ्यं मान-ग्रहे मम का क्षतिः
स्फुरति मुरली-नादे को वा श्रमः श्रवणावृतौ ।
अतिकठिनता-दुर्वादं ते निशम्य मया व्रजे
दमयितुम् अमुं किन्तु क्षिप्रं दृग्-अर्धम् अघ-द्विषि
अधिका मृदवश् चन्द्रावली-भद्रादयो मताः
अथ आपेक्षिकाधिका-त्रिकम्-
यौथिकीषु सखीष्व् एव यूथेशातो लघुष्व् इह ।
याधिकैकाम् अपेक्षान्या सा स्याद् आपेक्षिकाधिका
तत्र अधिक-प्रखरा-
सुमध्ये मा यासीस् त्वम् अधिकम् अमीभिर् मृदुलतां
मदस्योपादानैः शठ-कुल-गुरोर् जल्प-मधुभिः ।
अयि क्रीडा-लुब्धे किम् उ निभृत-भृङ्गेन्द्र-भणिते
कुडुङ्गे राधायाः क्लमम् अपि विसस्मार भवती
यथा वा-
मुग्धे तूष्णीं भव शठ-कला-मण्डलाखण्डलेन
त्वं मन्त्रेण स्फुटम् इह वशीकृत्य तेनानुशिष्टा ।
कुञ्जे गोवर्धन-शिखरिणो जागरेणाद्य राधां
दृष्ट्वाप्य् उच्चैः सखि यद् असि मे चाटु-वादे प्रवृत्ता
ललिताद्यास् तु गान्धर्वा-यूथेऽत्र प्रखराधिकाः
अथ अधिक-मध्या-
दामार्प्यतां प्रिय-सखी-प्रहितां त्वयैव
दामोदरे कुसुमम् अत्र मयावचेयम् ।
नाहं भ्रमाच् चतुरिके सखि सूचनीया
कृष्णः कदर्थयति माम् अधिकं यद् एषः
यथा वा-
गीरो गम्भीरार्थाः कथम् इव हितास् ते न शृणुयां
निगूढो मां किन्तु व्यथयति मुरारेर् अविनयः ।
मयोल्लासात् तस्मै स्वयम् उपहृता हन्त सखि या
कुरङ्गाक्षी-केशोपरि परिचिता सा स्रग् अधुना
अत्र यूथे विशाखाद्या भवन्त्य् अधिक-मध्यमाः
अथ अधिक-मृद्वी-
दरापि न दृग्-अर्पिता सखि शिखण्ड-चूडे मया
प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् ।
नटन्-मकर-कुण्डलं सपदि चण्डि लीला-गतिं
तनोत्य् अयम् अदूरतः किम् इह संविधेयं मया
अधिका मृदवश् चात्र चित्रा मधुरिकादयः
अथ समा-त्रिकम्-
गाढ-विश्रम्भ-निर्भेद-प्रेम-बन्धं समा-त्रिकम्
तत्र सम-प्रखरा-
प्रविशति हरिर् एष प्रेक्ष्य नौ हृष्ट-चेताः
सखि सपदि मुधा त्वं सम्भ्रमान् मा प्रयासीः ।
पृथु-भुज-परिघाभ्यां स्कन्धयोर् अर्पिताभ्यां
तट-भुवि सुखम् आवां मण्डिते पर्यटावः
अथ सम-मध्या-
श्यामे गौरि हरिः क्व दीव्यति सखि क्षौणीभृतः कन्दरे
किं पञ्चास्य-नखाः स्व-विक्रम-मधुर् वक्षोज-कुम्भे तव ।
आकर्षत्य् अभितः स नाग-मथनस् त्वाम् एव कृत्वा रवं
मिथ्यालास्य-नटि त्वम् एव रमसे तस्मिन् सुकण्ठि-रवे
अथ सम-मृद्वी-
प्रालम्बम् इन्दुमुखि यादृशम् एव दत्तं
कृष्णेन तुभ्यम् अपरं सखि तादृशं मे ।
त्वं चेन् मदीयम् अपि दित्ससि नाद्य मा दा
हास्यं विमुञ्च चलिता तव पार्श्वतोऽस्मि
अथ लघु-त्रिकम्-
लघु-त्रिकं प्रिय-सखी-सौख्योत्कर्षार्थ-चेष्टितम्
यदप्य् अन्योन्य-निष्ठं स्यात् सख्यं तद् अपि युज्यते ।
सदा साहाय्य-हेतुत्वान् मुख्यं तत् तु लघु-त्रिके
लघुर् आपेक्षिकी चात्यन्तिकी चेति द्विधेरिता
तत्र आपेक्षिक-लघुः-
आपेक्षिक-लघुश् चात्र कथिता ललितादिका
तत्र लघु-प्रखरा, यथा विदग्ध-माधवे (5.32)-
धारा बाष्प-मयी न याति विरतिं लोकस्य निमित्सतः
प्रेमास्मिन्न् इति नन्द-नन्दन-रतं लोभोन्मना मा कृथाः ।
इत्थं भूरि निवारितापि तरले मद्-वाचि साचीकृत-
भ्रू-द्वन्द्वा न हि गौरवं त्वम् अकरोः किं नाद्य रोदिष्यसि
सा लघु-प्रखरा द्वेधा भवेद् वामाथ दक्षिणा
तत्र वामा-
मान-ग्रहे सदोद्युक्ता तच् छैथिल्ये च कोपना ।
अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते
तत्र मान-ग्रहे सदोद्युक्ता, यथा पद्यावल्यां (222)-
कञ्चन वञ्चन-चतुरे
प्रपञ्चय त्वं मुरान्तके मानम् ।
बहु-वल्लभे हि पुरुषे
दाक्षिण्यं दुःखम् उद्वहति
मान-शैथिल्ये कोपना, यथा-
सरभसम् अभिव्यक्तिं याते नवाविनयोत्करे
चटुपटिमभिर् नीता मृद्वी प्रसादम् अघ-द्विषा ।
असरल-सखी-चिल्ली-व्याली-परिभ्रम-कम्पिता
विमुखितमुखी भूयो भद्रा हठाद् भ्रुकुटिं दधे
नायकाभेद्या, यथोद्धव-सन्देशे (52)-
कामं दूरे वसतु पटिमा चाटु-वृन्दस् तत्रायं
राज्यं स्वामिन् विरचय मम प्राङ्गणं मा प्रयासीः ।
हन्त क्लान्ता मम सहचरी रात्रिम् एकाकिनी इयं
नीता कुञ्जे निखिल-पशुपी-नागरोज्जागरेण
नायके क्रूरा, यथा दान-केलि-कौमुद्यां (57)-
अमूर् व्रज-मृगेक्षणाश् चतुर्-अशीति-लक्षाधिकाः
प्रतिस्वम् इति कीर्तितं सवयसा तवैवामुना ।
इहापि भुवि विश्रुता प्रिय-सखी महार्घ्येत्य् असौ
कथं तद् अपि साहसी शठ! जिघृक्षुर् एनाम् असि
यूथे æत्र वाम-प्रखरा ललिताद्याः प्रकीर्तिताः
अथ दक्षिणा-
असहा मान-निर्बन्धे नायके युक्त-वादिनी ।
सामभिस् तेन भेद्या च दक्षिणा परिकीर्तिता
तत्र मान-निर्बन्धासहा, यथा श्री-गीत-गोविन्दे (9.10)-
स्निग्धे यत् परुषासि प्रणमति स्तब्धासि यद् रागिणि
द्वेषस्थासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये ।
तद् युक्तं विपरीत-कारिणि तव श्री-खण्ड-चर्चा विषं
शीतांशुस् तपनो हिमं हुतवहः क्रीडा-मुदो यातनाः
नायके युक्त-वादिनि, यथा पद्यावल्याम् (297)-
अदोषाद् दोषाद् वा त्यजति विपिने तां यदि भवान्
अभद्रं भद्रं वा त्रिभुवन-पते त्वां वदतु कः ।
इदं तु क्रूरं मे स्मरति हृदयं यत् किल तया
त्वद्-अर्थं कान्तारे कुल-तिलक नात्मापि गणितः
नायक-भेद्या, यथा-
न व्यर्थां कुरुषे ममैव भणितिं मध्ये सखीनाम् इति
श्रुत्वा ख्यातिम् असौ कृती मधुरिपुर् मां बाढम् आशिश्रिये ।
दृष्ट्वा मद्-वदनं प्रसीद रभसाद् एनं पुरः कातरं
कल्याणीभिर् अलं कृशोदरि दृशोर् भङ्गीभिर् अङ्गीकुरु
तुङ्गविद्यादिका चात्र दक्षिण-प्रखरा भवेत्
अथ लघु-मध्या-
त्वया रचित-संकथां पथि समीक्ष्य मां मानिनी
सखी मम विषण्ण-धीः कृत-कटाक्षम् आक्षेप्यति ।
व्रजाधिपति-नन्दन त्वम् अवधेहि मन्त्रं ब्रुवे
विनात्र ललिताश्रयं भवद्-उपक्रमोऽयं वृथा
अथ लघु-मृद्वी-
सखि तव मुहुर् मूर्ध्ना पाद-ग्रहोऽपि मया कृत-
स्तद् अपि च हरौ जातासि त्वं प्रसाद-पराङ्-मुखी ।
भवतु यमुना-तीरे वेणोर् उदञ्चति पञ्चमे
विचलित-धृतिस् त्वं लोलाक्षी मयापि हसिष्यसे
अथ आत्यन्तिक-लघुः-
आत्यन्तिक-लघुस् तत्र प्रोक्ता कुसुमिकादिका ।
सर्वथा मृदुर् एवेयं यन् नितान्त-लघीयसी
यथा-
वन्दे सुन्दरि सन्दिश प्रिय-सखीं मानं विमुञ्चत्व् असौ
सोत्कण्ठापि मनस्विनीव वसति त्वच्-छङ्कया वेश्मनि ।
दूरे त्वन्-मुखम् ईक्षते हरिर् इयं मौनं शुकः शिक्षते
लास्यं नेच्छति चन्द्रकी सवयसः क्वासीमित् न स्वं विदुः
प्रखरादिष्व् अन्यतमा यूथेशैकैव कीर्तिता ।
मध्यस्था नवधैवन्त्या समा लघुर् इति द्विधा
एकैकस्मिन्न् अतो यूथे भिदा द्वादशधा भवेत् ।
अथ दूत्यार्थम् एतासां विशेषः पुनर् उच्यते
दूत्यम् अत्र तु तद्-दूराद् यूनोर् यद् अभिसारम् ।
तत्र तु प्रथमा नित्य-नायिकावात्र कीर्तिता
स्युर् नायिकाश् च सख्यश् च तिस्रो मध्यस्थितास् ततः
तत्राद्या नायिका-प्राया द्वितीया द्वि-समा ततः ।
तृतीया तु सखी-प्राया नित्य-सख्येव पञ्चमी
आद्यायां निखिलाः सख्यो दूत्य एव न नायिकाः ।
पूर्वोक्ता नायिका एव पञ्चम्यां न तु दूतिकाः
तत्र नित्य-नायिका-
यात्र यूथेश्वरी प्रोक्ता सा भवेन् नित्य-नायिका ।
अपेक्ष्यत्वाद् अतीवास्या मुख्यं दूत्यं न विद्यते
स्वयौथिक्य-सखी-मध्ये या यत्रातीव रागिणी ।
नियुक्तैर् अस्ति तद् दूत्ये सुष्ठु सा यूथ-मुख्यया ।
तथापि प्रणयां क्वापि कदाचिद् गौणम् ईक्ष्यते
दूरे गतागतम् ऋते यद् दूत्यं गौणम् अत्र तत् ।
गौणं हरेः समक्षं च परोक्षं चेति तद् द्विधा
तत्र समक्षम्-
साङ्केतिकं वाचिकं च समक्षं द्विविधं मतम्
तत्र साङ्केतिकम्-
तत्राद्यं स्याद् दृगन्ताद्यैः कृष्णं प्रेर्य स्व-निह्नुतिः
यथा-
प्रिय-सखि विदितं ते कर्म यत् प्रेरयन्ती
त्वम् अघदमनम् अक्ष्णा क्षिप्त्रम् अन्तर्हितासि ।
अहह न हि लताः स्युस् तत्र चेत् कण्टकिन्यो
मम गतिर् अभविष्यत् तत्-करात् का न वेद्मि
--इदम् अधिक-मृद्वी-दूत्यम्
अथ वाचिकम्-
मिथः पुरो वा पश्चाद् वा वाक्यम् एकत्र वाचिकम्
तत्र मिथः पुरः कृष्णे वाचिकम्-
मयापलपनं कियत् त्वयि करिष्यते या सखी
ममानिशम् उपेन्द्र ते कुसुम-मञ्जरीर् लुञ्चति ।
इयं गुणवती करे तव विधृत्य दत्ताद्य सा
यथेच्छसि तथा कुरु स्वयम् इतो गृहं गम्यते
--इदम् अधिक-प्रखरा-दूत्यम्
कृष्णस्य पश्चात् सख्यं, यथा-
मत्-कण्ठाद् इह मौक्तिकानि विचिनु त्वं वीरुदारोधतः
स्रस्तान्य् एष किलास्ति माल्य-रचनाव्यासक्त-चित्तो हरिः ।
दिष्ट्या क्षेमम् उपस्थितं सुमुखि नः सानौ यद् अस्य च्युतो
हस्ताद् वेणुर् इति प्रयामि कपटान् निह्नोतुम् एनं गिरौ
--इदम् अधिक-मध्या-दूत्यम्
सख्याः पश्चात् कृष्णे, यथा-
विचकिलम् अवचेतुं सा सखी मद्-वचोभिः
कथम् अपि तट-पुष्पारण्यम् एका गतास्ति ।
अघहर मम गेनाद् यान्तम् अभ्यर्थये त्वां
पुनर् इयम् अतिमुग्धा न त्वया खेदनीया
अथ हरेः परोक्षम्-
तत परोक्षं हरेः सख्याः सखी-द्वारा यद् अर्पणम् ।
व्यपदेशादिना वापि तत्-पार्श्वे प्रेषणादिकम्
तत्र सखी-द्वारा, यथा-
रुद्धां विद्धि गुरोर् गिरा शशिकलाम् आत्म-द्वितीयाम् अत-
स्त्वाम् उद्यम्य नयामि शर्मणि सदा जागर्ति ते राधिका ।
भृङ्गाः सुभ्रु तद्-अङ्ग-सौरभ-भरैर् आकृष्यमाणाः क्रमात्
पन्थानं प्रथयन्ति ते कुरु पुरः कुञ्ज-प्रवेशे त्वराम्
अथ व्यपदेशः-
व्यपदेशो हरौ लेखोपायनाद्य्-अर्पण-क्रिया ।
निज-प्रयोजनाश्चर्य-दर्शनादिश् च कीर्तितः
तत्र लेख्य-व्यपदेशेन, यथा-
दूती-पद्धतिम् उद्धते परिहर त्वं साचि किं प्रेक्षसे
वामाक्षि स्वयम् आहृतं प्रिय-सखी-लेखं पुरो वाचय ।
शय्या पुष्पमयी निकुञ्ज-भवने सौरभ्य-पुञ्जावृता
मृद्वी त्वाम् इयम् आह्वयत्य् अलि-घटा कोलाहल-व्याजतः
उपायन-व्यपदेशेन, यथा-
प्रसीद वसनाञ्चलं मम विमुञ्च निर्मञ्छनं
व्रजामि ननु निर्दय स्फुरति पश्य सन्ध्योर्जिता ।
विदत्य् अपि तवोन्नतं गुणम् उपाहरं मन्द-धीः
स्रजं प्रिय-सखी-गिरा व्रजपते न ते दूषणम्
निज-प्रयोजन-व्यपदेशेन, यथा-
मुक्तावली निशि मया दयिता कदम्ब-
बाटी-कुटीर-कुहरे सखि विस्म्.र्तास्ति ।
ताम् आहरेति व्.र्.सभानुजया नियुक्ता
तां प्रोज्झ्य किं शशिकले ग्.र्हम् आगतासि
आश्चर्य-दर्शन-व्यपदेशेन, यथा-
सखि व्यालीं वक्त्रे द्युमणि-पटलं कण्ठ-सविधे
दधच्-चन्द्रान् मूर्धोपरि सकल-रत्नानि वमति ।
अलि-श्यामो हंसः स्फुटम् इति मद्-उक्तासि चलिता
तद् आश्चर्यं द्रष्टुं किम् इव कुपितेवात्र मिलसि
अथ नायिका-प्रायात्रिकम्-
आपेक्षिकाधिकानां यत् तिसॄणां लघुषु स्फुटम् ।
कदाचिद् एव दूत्यं ता नायिका-प्रायिकास् ततः
तत्र अधिक-प्रखरा-दूत्यम्-
पाणौ मे पतितासि शम्भलि चिराद् अत्याकुलं मा कृथाः
काकुं ते करवाणि निष्क्रयम् अहं शीर्णाभिसारैः सदा ।
त्वं दिष्ट्यात्र निकुञ्ज-सीमनि समानीता किम् उ स्तम्भसे
मुक्तास् त्वत्-कुच-कुम्भगाः क्षपतु श्यामः स सिंही-पतिः
तत्र अधिक-मध्या-दूत्यम्-
व्यथयसि सदा मां वाग्-भङ्ग्या शनैर् अनुशिष्य यं
छलयसि च मां भ्रू-नर्तक्या विनुद्य यम् उद्धते ।
अहम् इह वशीकृत्य स्वैरी मयाप्य् उपलम्भित-
स्त्वयि वितनुतां कृष्णः पद्मी स पद्मिनि विभ्रमम्
तत्र अधिक-मृद्वी-दूत्यम्-
अनुदिनम् अभिसारं कारितास्मि त्वयाहं
कुसुमित-रवि-कन्यातीर-वन्या-कुटीषु ।
सकृद् अहम् अकृतज्ञा त्वां पुरः कुञ्ज-मध्ये
यद् इयम् उपनये का निष्कृतिस् ते ततोऽभूत्
अथ द्विसमात्रिकम्-
समानां प्रखरा-मध्या-मृद्वीनां तु परस्परम् ।
दूत्यं च नायिकात्वं च समं ता द्विसमास् ततः
तत्र सम-प्रखरा-दूत्यम्-
प्राग् एकान्तरम् एव निश्चितम् अभूद् अन्योन्य-दूत्यं हि नौ
वारस् तत्र तवायम् अस्तु करवै दूत्यं तथाप्य् अद्य ते ।
भ्रू-भङ्गं सखि मुञ्च मण्डय तनुं यद् याचते माम् असौ
सव्या ते स्फुरती दृग् अद्य मृगये गोष्ठाङ्गने माधवम्
अथ सम-मध्या-दूत्यम्-
त्वं न्यस्तासि मुरद्विषः शशिकले पाणौ मया गम्यते
दूती हन्त तवाहम् एव कमले किं धिङ् मृषा जल्पसि ।
इत्य् अन्योन्य-विक्षेपण-प्रणयिता-माधुर्य-मुग्धो हरि-
र्दोर्भ्यां ते हृदये निधाय युगपत् पश्योन्मदः खेलति
यथा वा-
क्व मालतिकयार्पिता चलसि माधवि त्वं मम
क्व माधविकयार्पिता त्वम् अपि यास्य् अलं मालति ।
असम्भव-सहोद्गमे रहसि कृष्ण-भृङ्गो युवा
युवाम् इह धयन्न् अयं वहतु कञ्चिद् आनन्दथुम्
अतीवाभेद-मधुरं सौहृदं सम-मध्ययोः ।
विरलं शक्यते ज्ञातुं किन्तु प्रेम-विशेषिभिः
अथ सम-मृद्वी-दूत्यम्-
द्रुतम् अनुसरन् मन्दाराक्षीं मुकुन्द निवर्तय
व्रजति निभृतं या कुञ्जान्तः-कुटीम् उपनीय माम् ।
इति तव सखी-वाक्येन त्वाम् अहं सुखम् आह्वये
स्फुरति हि मुहुर् मध्ये तिष्ठन् विधुः सम-तारयोः
अथ सखी-प्रायात्रिकम्-
लघूनां प्रखरा-मध्या-मृद्वीनां प्रायशः सदा ।
दूत्यं भवति तेनेमाः सखी-प्रायाः प्रकीर्तिताः
तत्र लघु-प्रखरा-दूत्यं, यथा श्री-गीत-गोविन्दे (11.22)-
त्वं चित्तेन चिरं वहन्न् अयम् अतिश्रान्तो भृशं तापितः
कन्दर्पेण च पातुम् इच्छति सुधा-सम्बाध-बिम्बाधरम् ।
अस्याङ्कं तद् अलङ्कुरु क्षणम् इह भ्रू-क्षेप-लक्ष्मी-लव-
क्रीते दास इवोपसेवित-पदाम्भोजे कुतः सम्भ्रमः
अथ लघु-मध्या-दूत्यम्-
किम् इति कुटिलित-भ्रूश् चण्डि वृत्ताद्य सद्य-
स्त्वम् इह कुसुम-हेतोः सौहृदाद् आहृतासि ।
व्रज-नर-पति-पुत्रं सन्तम् अन्तर् निलीय
प्रिय-सखि तट-कुञ्जे हन्त जाने कथं वा
अथ लघु-मृद्वी-दूत्यम्-
कुञ्ज-गेहम् अवगाह्य माधवं
सुप्तम् अत्र सिचयेन वीजय ।
फुल्लम् इन्दु-किरणैः कुमुद्वती-
कोरक-प्रकरम् आहराम्य् अहम्
आसां मध्ये भवेत् काचिन् नायिकात्वे दराग्रहा ।
तस्मिन्न् अनाग्रहा काचित् सख्य-सौख्याभिलाषिणी
तत्र आद्या, यथा-
लेखाम् आहर नीप-कुञ्ज-कुहरात् त्वं चन्द्रकाणां मया
न्यस्तानाम् इति मद्-गिरा सरभसं स्मेरा स्वयं प्रस्थिता ।
ताम् उन्मुच्य मद्-ईरितां शशिकले किं चन्द्रलेखा-शतं
चेलेनावृतम् अन्यद् एव दधती लब्धासि नम्रा गृहम्
द्वितीया, यथा-
मां पुष्पाणाम् अवचयम् इयाद् वृन्दशो मा प्रहैषी-
र्वृन्दारण्ये परम् इह भवद्-दुःख-भीत्या प्रयामि ।
सत्यं सत्यं सुमुखि सखिता-सौख्यतस् ते मम स्या-
न्न स्वादीयान् अघ-विजयिनः केलि-शय्याधिरोहः
अथ नित्य-सखी-
सख्येनैव सदा प्रीता नायिकात्वानपेक्षिणी ।
भवेन् नित्य-सखी सा तु द्विधैकात्यन्तिकी लघुः ।
आपेक्षिक-लघूनां च मध्येऽन्या काचिद् ईरिता
यथा-
राधा-रङ्ग-लसत्-त्वद्-उज्ज्वल-कला-सञ्चारण-प्रक्रिया
चातुर्योत्तरम् एव सेवनम् अहं गोविन्द सम्प्रार्थये ।
येनाशेष-वधू-जनोद्भट-मनो-राज्य-प्रपञ्चावधौ
नौत्सुक्यं भवद्-अङ्ग-सङ्गम-रसेऽप्य् आलम्बते मन्-मनः
यथा वा-
त्वया यद् उपभुज्यते मुरजिद्-अङ्ग-सङ्गे सुखं
तद् एव बहु जानती स्वयम् अवाप्तितः शुद्ध-धीः ।
मया कृत-विलोभनाप्य् अधिक-चातुरी-चर्यया
कदापि मणि-मञ्जरी न कुरुतेऽभिसार-स्पृहाम्
तत्र तद्-दूत्यं, यथा-
अन्तः प्रविशति स सखी
कुप्यति मे कुञ्ज-देहली-लीना ।
तदिमां भङ्गुरित-भ्रुव-
मनुनय वृन्दाटवी-चन्द्र
प्राख्यर्यं मार्दवं चापि यद्यप्य् आपेक्षिकं भवेत् ।
तथापि विस्तर-भयात् तद् विशेषोऽत्र नेरितः
प्राखर्यादि-स्वभावोऽयं यथायथम् उदीरितः ।
देश-कालादि-वैशिष्ट्ये स्याद् अस्यापि विपर्ययः
तत्र प्राखर्यस्य विपर्ययो, यथा-
ध्वान्तैर् गाढतमां तमीम् अगणयन् वृष्टिं च धारा-मयीं
चण्डं चानिल-मण्डलं सखि हरि-द्वारं तवासौ श्रितः ।
हा क्रोधं विसृज प्रसीद तरसा कण्ठे गृहाण प्रियं
मूर्ध्नायं ललिताभिधस् तव पदं नत्वा जनो याचते
मार्दवस्य विपर्ययो, यथा-
गुण-स्तवन-कूटतः कुटिल-धीः सखि त्वाम् असौ
कटाक्षितवती कथं तद् अपि नोज्झसि प्रश्रयम् ।
रुषं कुरु करोषि चेन् मृदुतराद्य चित्राप्य् असौ
विधास्यति तदौचितीं हिम-घटेव पद्मोपरि
दूत्यं तु कुर्वती सख्याः सखी रहसि सङ्गता ।
कृष्णेन प्रार्थ्यमानापि स्यात् कदापि न सम्मता
यथा-
दूत्येनाद्य सुहृज्-जनस्य रहसि प्राप्तास्मि ते सन्निधिं
किं कन्दर्प-धनुर् भयङ्करम् अमुं भ्रू-गुच्छम् उद्यच्छसि ।
प्राणान् अर्पयितास्मि सम्प्रति वरं वृन्दाटवीचन्द्र ते
न त्व् एताम् असमापित-प्रिय-सखी-कृत्यानुबन्धां तनुम्
मिथः प्रेम-गुनोत्कीर्तिस् तयोर् आसक्ति-कारिता ।
अभिसारो द्वयोर् एव सख्याः कृष्णे समर्पणम्
नर्माश्वासन-नेपथ्यं हृदयोद्घाट-पाटवम् ।
छिद्र-संवृतिर् एतस्याः पत्य्-आदेः परिवञ्चना
शिक्षा सङ्गमनं काले सेवनं व्यजनादिभिः ।
तयोर् द्वयोर् उपालम्भः सन्देश-प्रेषणं तथा ।
नायिका-प्राण-संरक्षा प्रयत्नाद्याः सखी-क्रियाः
तत्र कृष्णे सखी-प्रेमोत्कीर्तिः, यथा पद्यावल्यां (189)-
मुरहर साहस-गरिमा
कथम् इव वाच्यः कुरङ्ग-शावाक्ष्याः ।
खेदार्णव-पतितापि
प्रेम-मधुरां ते न सा त्यजति
सख्यां कृष्ण-प्रेमोत्कीर्तिः, यथा तत्रैव (191)-
केलिकलासु कुशला नगरे मुरारेर्
आभीर-नीरज-दृशः कति वा न सन्ति ।
राधे त्वया महद् अकारि तपो यद् एष
दामोदरस् त्वयि परं परमानुरागः
तत्र तस्या गुणोत्कीर्तिः, यथा-
निनिन्दि निजम् इन्दिरा वपुर् अवेक्ष्य यस्याः श्रियं
विचार्य गुण-चातुरीम् अचलजा च लज्जां गता ।
अघार्दन त्वया विना जगति क्वानुरूपास्ति ते
परं परम-दुर्लभा मिलतु कस्य सा मे सखी
तस्यां तस्य गुणोत्कीर्तिः, यथा ललित-माधवे (1.49)-
महेन्द्र-मणि-मण्डली[#1]-मद-विडम्बि-देह-द्युतिर्
व्रजेन्द्र-कुल-चन्द्रमाः[#2] स्फुरति को æपि नव्यो युवा
सखि स्थिर-[#3]कुलाङ्गना-निकर-नीवि-बन्धार्गल-
च्छिदाकरण-कौतुकी जयति यस्य वंशी-ध्वनिः
[#1: नवाम्बुधर-मण्डली-]
[#2: -नन्दनः]
[#3: पति-व्रता]
कृष्णे सख्या आसक्ति-कारिता, यथा विदग्ध-माधवे (2.10)-
सा सौरभोर्मि-परिदिग्ध-दिगन्तरापि
बन्ध्यं जनुः सुतनु गन्ध-फली बिभर्ति ।
राधे न बिभ्रम-भरः क्रियते यद्-अङ्के
कामं निपीत-मधुना मधुसूदनेन
तस्यां तस्यासक्ति-कारिता, यथा-
यद्य् एतस्यां वर-परिमलारब्ध-विश्वोत्सवायां
न त्वं कृष्ण-भ्रमर रमसे राधिकाम् अल्पिकायाम् ।
अर्थः को वा नव-तरुणिमोद्भासिनस् ते ततः स्याद्
वृन्दाटव्याम् इह विहरण-प्रक्रिया-चातुरीभिः
कृष्णस्याभिसारणं, यथा-
अवरुद्ध-सुधांशु-वैभवं
विनुदन्तं सखि सर्वतो-मुखम् ।
इह कृष्ण-घनं प्रगृह्य तं
ललिता-प्रावृड् इयं समागता
सख्या अभिसारणं, यथा श्री-गीत-गोविन्दे (5.18)-
त्वद्-वाम्येन समं समग्रम् अधुना तिग्मांशुर् अस्तं गतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुण-स्वनेन सदृशी दीर्घ-मद्-अभ्यर्थना
तन् मुग्धे विफलं विलम्बनम् असौ रम्योऽभिसार-क्षणः
कृष्णे सख्याः समर्पणं, यथा-
तद्-अन्तरम् उपासितुं कमल-योनिम् ईजुर् गुणा
यद् अङ्गम् उपसेवितुं तरुणिमापि चक्रे तपः ।
नव-प्रणय-माधुरी-प्रमद-मेदुरेयं सखी
मयाद्य भवतः करे मुरहरोपहारीकृता
नर्म, यथा विदग्ध-माधवे (1.33)-
देहं ते भुवनान्तराल-विरल-च्छाया-विलासास्पदं
मा कौतूहल-चञ्चलाक्षि लतिका-जाले प्रवेशं कृथाः ।
नव्याम् अञ्जन-पुञ्ज-मञ्जुल-रुचिः कुञ्जेचरी देवता
कान्तां कान्तिभिर् अङ्किताम् इह वने निःशङ्कम् आकर्षति
आश्वासनं, यथा-
मा गाः क्लमं सखि मुहुर् वृषभानु-पुत्रि
भानुं प्रतीहि चरमाचल-चङ्क्रमोत्कम् ।
आनन्दयन्-नयनम् उद्धुर-धेनु-धूली-
ध्वान्तं विधूय विधुर् एष पुरोज्जिहीते
नेपथ्यं, यथा-
हृदयोद्घाट-पाटवं, यथा-
यथा वा-
छिद्र-संवृतिर्, यथा विदग्ध-माधवे (6.1)-
मुदा क्षिप्तैः पर्वोत्तरल-हृदयाभिर् युवतिभिः
पयः-पूयैः पीतीकृतम् अतिहरिद्रा-द्रव-मयैः ।
दुकूलं दोर्-मूलोपरि परिदधानां प्रिय-सखीं
कथं राधाम् आर्ये कुटिलित-दृगन्तं कलयसि
पत्य्-आदेः परिवञ्चना, यथा-
शिक्षा, यथा-
यथा वा-
अथ काले सङ्गमनं, यथा-
अथ व्यजनादिना सेवा, यथा-
अथ तयोर् द्वयोर् उपालम्भः । तत्र हरेर् उपालम्भो, यथा-
सख्या उपालम्भो, यथा-
अथ सन्देश-प्रेषणं, यथा हंसदूते (75)-
त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदं
न तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपाम् ।
अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर्
दरालोकं शोकास्पदमिव कथं नेष्यति सखी
अथ नायिका-प्राण-संरक्षा-प्रयत्नो, यथा-
त्वाम् आयान्तं कथयसि मृषा कुर्वती दिव्यम् उग्रं
मूर्च्छारम्भे तव मणिमयीं दर्शयत्य् आशु मूर्तिम् ।
वन्ये वेणौ ध्वन्ति मरुता कर्ण-रोधं विधत्ते
रक्षत्य् अस्याः कथम् अपि तनुं माधवी यादवेन्द्र
इति सखी-क्रिया-प्रकरणम् ।
अथासाम् अपरः कोऽपि विशेषः पुनर् उच्यते ।
असमं च समं चेति स्नेहं सख्यं स्वपक्षगाः ।
कृष्णे यूथाधिपायां च वहन्त्यो द्विविधा मताः
अथ असम-स्नेहाः-
अधिकं प्रिय-सख्यास् तु हरौ तस्यां ततस् तथा ।
वहन्त्यः स्नेहम् असम-स्नेहास् तु द्विविधा मताः
तत्र हरौ स्नेहाधिकाः-
अहं हरेर् इति स्वान्ते गूढानभिमतिं गताः ।
अन्यत्र क्वाप्य् अनासक्त्या स्वेष्टां यूथेश्वरीं श्रिताः
मनाग् एवाधिकं स्नेहं वहन्त्यस् तत्र माधवे ।
तद् दूत्यादि-रताश् चेमा हरौ स्नेहाधिका मताः
यथा-
न मे चेतस्य् अन्यद्-वचसि पुनर् अन्यं कथम् अपि
स्थवीयान् मानस् ते सखि मयि सुखं प्रथयति ।
रवेस् तापेनेव क्षणम् उदयता येन जनितो
बकारेर् वक्त्रेन्दु-च्छवि-शवलिमा मां ग्लपयति
यथा वा-
सुर-कुलम् अखिलं प्रणम्य मूर्ध्ना
प्रवरम् अमुं वरम् अर्थये वराङ्गि ।
मुहुर् अभिमत-सेवया यथाहं
सुबल-सखं सुखयामि राधिकां च
याः पूर्वं सख्य इत्य् उक्तास् तास् तु स्नेहाधिका हरौ
अथ प्रिय-सख्यां स्नेहाधिकाः-
तदीयताभिमानिन्यो याः स्नेहं सर्वदाश्रिताः ।
सख्याम् अल्पाधिकं कृष्णात् सखी-स्नेहाधिकास् तु ताः
यथा-
विरमतु तव वृन्दे दूत्य-चातुर्य-चर्या
सहचरि विनिवृत्य ब्रूहि गोष्ठेन्द्र-सूनुम् ।
विषम-विषधरेयं शर्वरी प्रावृषेण्या
कथम् इह गिरि-कुञ्जे भीरुर् एषा प्रहेया
यथा वा-
वयम् इदम् अनुभूय शिक्षयाम
कुरु चतुरे सह राधयैव सख्यम् ।
प्रिय-सहचरि यत्र बाढम् अन्त-
र्भवति हरि-प्रणय-प्रमोद-लक्ष्मीः
याः पूर्वं प्राण-सख्यश् च नित्य-सख्यश् च कीर्तिताः ।
सखी-स्नेहाधिका ज्ञेयास् ता एवात्र मनीषिभिः
अथ सम-स्नेहाः-
कृष्णे स्व-प्र्य-सख्यां च वहन्त्यः कम् अपि स्फुटम् ।
स्नेहम् अन्यूनताधिक्यं सम-स्नेहास् तु भूरिशः
यथा-
विना कृष्णं राधा व्यथयति समन्तान् मम मनो
विना राधां कृष्णो æप्य् अहह सखि मां विक्लवयति ।
जनिः सा मे मा भूत् क्षणम् अपि न यत्र क्षणदुहौ
युगेनाक्ष्णोर् लिह्यां युगपद् अनयोर् वक्त्र-शशिनौ
तुल्य-प्रमाणकं प्रेम वयन्त्योऽपि द्वयोर् इमाः ।
राधाया वयम् इत्य् उच्चैर् अभिमानम् उपाश्रिताः ।
परम-प्रेष्ठ-सख्यश् च प्रिय-सख्यश् च ता मताः
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0