उज्ज्वलनीलमणि · अध्याय 10
इति श्री-श्री-उज्ज्वल-नीलमणौ
हरि-वल्लभा -प्रकरणम्
॥9॥
(10)
अथ उद्दीपन-विभाव-प्रकरणम्
अथ विभावेषूद्दीपनाः-
उद्दीपन-विभावा हरेस् तदीय-प्रियाणां च ।
कथिता गुण-नाम-चरित-मण्डन-सम्बन्धिनस् तटस्थाश् च
तत्र गुणाः-
गुणास् त्रिधा मानसा स्युर् वाचिकाः कायिकास् तथा
तत्र मानसाः-
गुणाः कृतज्ञता-क्षान्ति-करुणाद्यास् तु मानसाः
यथा-
वशम् अल्पिकयापि सेवयामुम्
विहितेऽप्य् आगसि दुःसहे स्मितास्यम् ।
पर-दुःख-लवेऽपि कातरं मे
हरिम् उद्वीक्ष्य मनस् तनोति तृष्णाम्
अथ वाचिकाः-
वाचिकास् तु गुणाः प्रोक्ताः कर्णानन्दकतादयः
यथा-
कर्णापहारि-वर्णाम्
अश्रुत-चर-माधुरीभिर् अभ्यस्ताम् ।
आलि रसालां माधव-
वाचं नाचम्य तृप्यामि
अथ कायिकाः-
ते वयो रूप-लावण्ये सौन्दर्यम् अभिरूपता ।
माधुर्यं मार्दवाद्याश् च कायिकाः कथिता गुणाः
तत्र वयः-
वयश् चतुर्विधं त्व् अत्र कथितं मधुरे रसे ।
वयः-सन्धिस् तथा नव्यं व्यक्तं पूर्णम् इति क्रमात्
वयो-मुखा गुणाः पूर्व-मुक्ताः केशव-संश्रयाः ।
तेन तेऽत्र प्रवक्ष्यन्ते प्रायशस् तत्-प्रियानुगाः
तत्र वयः-सन्धिः-
बाल्य-यौवनयोः सन्धिर् वयः-सन्धिर् इतीर्यते
स कृष्णस्य, यथा-
यान्ती श्यामलतां विमुच्य कपिश-च्छायां स्मर-क्ष्मापते-
रद्याज्ञालिपि-वर्ण-पङ्क्ति-पदवीम् आप्नोति रोमावली ।
वाञ्छत्य् उच्छलितं मनाग् अभिनवां तारुण्य-नीर-च्छटां
लब्ध्वा किञ्चिद् अधीरम् अक्षि-शफर-द्वन्द्वं च कंसद्विषः
तन्-माधुर्यम्-
दशार्ध-शर-लुब्धकं चलम् अवेक्ष्य लक्ष्येच्छया
विशन्तम् इह साम्प्रतं भवद्-रूपाङ्ग-शृङ्गोपरि ।
सदाश्रु-निकरोक्षिता व्रज-महेन्द्र वृन्दावने
कुरङ्ग-नयनावली दर-परिप्लवत्वं गता
तत्-प्रियाणां, यथा-
वाद्यं किङ्किणिम् आहरत्य् उपचयं ज्ञात्वा नितम्बो गुणी
स्वस्य ध्वंसम् अवेत्य वष्टि बलिभिर् योगं ह्रसन्-मध्यमम् ।
वक्षः साधु-फल-द्वयं विचिनुते राजोपहार-क्षमं
राधायास् तनु-राज्यम् अञ्चति नवे क्षौणी-पतौ यौवने
तन्-माधुर्यम्-
आशास्ते पतितुं कटाक्ष-मधुपो मन्दं दृग्-इन्दीवरे
किञ्चिद् व्रीड-विसाङ्कुरं मृगयते चेतो-मरालार्भकः ।
नर्मालाप-मधु-च्छटाद्य वदनाम्भोजे तवोदीयते
शङ्के सुन्दरि माधवोत्सव-करीं काञ्चिद् दशाम् अञ्चसि
अथ नव्यम्-
दरोद्भिन्न-स्तनं किञ्चिच्-चलाक्षं मन्थर-स्मितम् ।
मनाग् अभिस्फुरद्-भावं नव्यं यौवनम् उच्यते
यथा-
उरः स्तोकोच्छूनं वचनम् उदयद्-वक्रिम-लवं
दवोद्घूर्णा दृष्टिर् जघन-तटम् ईषद् घनतरम् ।
मनाग् व्यक्ता रोमावलिर् अपचितं किञ्चिद् उदरं
हरेः सेवौचित्यं तव सुवदने विन्दति वयः
तन्-माधुर्यम्-
वारं वारं विचरसि हरेर् अद्य विश्राम-वेद्या-
मुद्भ्रान्तासि स्फुरति पवने तद् वपुर् गन्ध-भाजि ।
बाले नेत्रे विकिरसि मुहुर् नैचिकीनां पदव्यां
भावाग्निस् ते स्फुटम् इह मनो-धाम्नि धूमायितोऽस्ति
अथ व्यक्तम्-
वक्षः प्रव्यक्त-वक्षोजं मध्यं च सुवलि-त्रयम् ।
उज्ज्वलानि तथाङ्गानि व्यक्ते स्फुरति यौवने
यथा-
रथाङ्ग-मिथुनं नवं प्रकटयत्य् उरोज-द्युति-
र्व्यनक्ति युगलं दृशोः शफर-वृत्तिम् इन्द्रावलि ।
बिभर्ति च बलि-त्रयं तव तरङ्ग-भङ्गोद्गमं
त्वम् अत्र सरसीकृता तरुणिम-श्रिया राजसि
तन्-माधुर्यम्-
भ्राजन्ते वरदन्ति-मौक्तिक-गणा यस्योल्लिखद्भिर् नखैः
क्षिप्ताः पुष्कर-मालयावृत-रुचः कुञ्जेषु कुञ्जेश्व् अमी ।
शौटीर्याब्धिर् उरोज-पञ्जर-तटे संवेशयन्त्या कथं
स श्रीमान् हरिणेक्षणे हरिर् अभून् नेत्रेण बद्धस् त्वया
अथ पूर्णम्-
नितम्बो विपुलो मध्यं कृशम् अङ्गं वर-द्युति ।
पीनौ कुचाव् उरु-युग्मं रम्भाभं पूर्ण-यौवने
यथा-
दृशोर् द्वन्द्वं वक्रां हरति शफरोल्लास-लहरी-
मखण्डं तुण्ड-श्रीर् विधु-मधुरिमाणं दमयति ।
कुचौ कुम्भ-भ्रान्तिं मुहुर् अविकलां कन्दलयत-
स्तवापूर्वं लीलावति वयसि पूर्णे वपुर् अभूत्
तन्-माधुर्यम्-
न वित्रस्ता का ते प्रतियुवतिर् आसीन् मुख-रुचा
दधार स्तैमित्यं प्रणय-घन-वृष्ट्या तव न का ।
व्रजे शिष्या काभून् न हि तव कलायाम् इति हरे-
र्निकुञ्ज-स्वाराजे त्वम् असि रसिके पट्ट-महिषी
तारुण्यस्य नवत्वेऽपि कासाञ्चिद् व्रज-सुभ्रुवाम् ।
शोभा-पूर्ति-विशेषेण पूर्णतेव प्रकाशते
अथ रूपम्-
अङ्गान्य् अभूषितान्य् एव केनचिद् भूषणादिना ।
येन भूषितवद् भाति तद् रूपम् इति कथ्यते
यथा दान-केलि-कौमुद्यां (22)-
त्रपते विलोक्य पद्मा
ललिते राधां विनाप्य् अलङ्कारं ।
तद् अलं मणिमय-मण्डन-
मण्डल-रचना-प्रयासेन
यथा वा विदग्ध-माधवे (7.48)-
नीतं ते पुनर् उक्ततां भ्रमरकैः कस्तूरिका-पत्रकं
नेत्राभ्यां विफलीकृतं कुवलय-द्वन्द्वं च कर्णापितम् ।
हारश् च स्मित-कान्ति-भङ्गिभिर् अलं पिष्टानुपेषीकृतः
किं राधे तव मण्डनेन नितराम् अङ्गैर् असि द्योतिता
अथ लावण्यम्-
मुक्ताफलेषु छायायास् तरलत्वम् इवान्तरा ।
प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते
यथा-
जगद्-अमल-रुचिर् विचित्य राधे
व्यधित विधिस् तव नूनम् अङ्गकानि ।
मणिमय-मुकुरं कुरङ्ग-नेत्रे
किरण-गणेन विडम्बयन्ति यानि
यथा वा-
शृणु सखि तव कर्णे वर्णयाम्य् अत्र नीचै-
र्विरचय मुख-चन्द्रं मा वृथाराद् विवर्णम् ।
इयम् उरसि मुरारेर् अस्ति नान्या मृगाक्षी
मरकत-मुकुराभे बिइम्बितासि त्वम् एव
अथ सौन्दर्यम्-
अङ्ग-प्रत्यान्गकानां यः सन्निवेशो यथोचितम् ।
सुस्लिष्ट-सन्धि-बन्धः स्यात् तत् सौन्दर्यम् इतीर्यते
यथा-
अखण्डेन्दोस् तुल्यं मुखम् उरु-कुच-द्योतितम् उरो
भुजौ स्रस्ताव् अंसे कर-परिमितं मध्यम् अभितः ।
परिस्फारा श्रोणी क्रम-लघिम-भाग् ऊरु-युगलं
तवापूर्वं राधे किम् अपि कमनीयं वपुर् अभूत्
अथ अभिरूपता-
यदात्मीय-गुणोत्कर्षैर् वस्त्व् अन्यन् निकट-स्थितम् ।
सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते
यथा-
मग्ना शुभ्रे दशन-किरणे स्फाटिकीव स्फुरन्ती
लग्ना शोणे कर-सरसिजे पद्मारगीव गौरि ।
गण्डोपान्ते कुवलय-रुचा वैन्द्र-नीलीव जाता
सूते रत्न-त्रय-धियम् असौ पश्य कृष्णस्य वंशी
यथा वा--
वक्षोजे तव चम्पक-च्छविम् अवष्टम्भोरु-कुम्भोपमे
राधे कोकनद-श्रियः करतले सिन्दूरतः सुन्दरे ।
द्राग् इन्दिन्दिर-बन्धुरेषु चिकुरेष्व् इन्दीवरआभां वहन्
नकः कैरव-कोरको वितनुते पुष्प-त्रयी-विभ्रमम्
अथ माधुर्यम्-
रूपं किम् अप्य् अनिर्वाच्यं तनोर् माधुर्यम् उच्यते
यथा-
किम् अपि हृदयम् अभ्र-श्यामलं धाम रुन्धे
दृशम् अहह विलुण्ठत्य् आङ्गिकी कापि मुद्रा ।
चटुलयति कुल-स्त्री-धर्म-चर्यां बकारेः
सुमुखि नव-विवर्तः कोऽप्य् असौ माधुरीणाम्
अथ मर्दवम्--
मार्दवं कोमलस्यापि संस्पर्शासहतोच्यते ।
उत्तमं मध्यमं प्रोक्तं कनिष्ठं चेति तत् त्रिधा
तत्र उत्तमम्-
अभिनव-नव-मालिकाम् अयं सा
शयन-वरं निशि राधिकाधिशिश्ये ।
न कुसुम-पटलं दरापि जग्लौ
तद्-अनुभवात् तनुर् एव स-व्रणासीत्
मध्यमं, यथा-
चित्रं धनिष्ठे तनु-वाससोऽपि
चीनस्य पीन-स्तनि सङ्गमेन ।
लिप्तेव ते लोहित-चन्दनेन
मूर्तिर् बिन्दुना सखि लोहितासीत्
कनिष्ठं, यथा रस-सुधाकरे (1.186f)-
आमोदम् आमोदनम् आदधानं
निलीन-नीलालक-चञ्चरीकम् ।
क्षणेन पद्मा-मुख-पद्मम् आसीत्
त्विषा रवेः कोमलयापि ताम्रम्
अथ नाम, यथा-
तट-भुवि रवि-पुत्र्याः पश्य गौराङ्गि रङ्गी
स्फुरति सखि कुरङ्गी-मण्डले कृष्णसारः ।
इति भवद्-अभिधानं शृण्वती सा मद्-उक्तौ
सुतनुर् अतनु-घूर्णा-पूर-पूर्णा बभूव
अथ चरितम्-
अनुभावाश् च लीला चेत्य् उच्यते चरितं द्विधा ।
अग्रेऽनुभावा वक्तव्या लीलेयं कथ्यतेऽधुना
लीला स्याच् चारु-विक्रीडा ताण्डवं वेणु-वादनम् ।
गोदोहः पर्वतोद्धारो गोहूतिर् गमनादिका
अथ चारु-विक्रीडा-
रास-कन्दूक-खेलाद्या चारु-क्रीडात्र कीर्तिता
तत्र रासः-
तं विलासवति रास-मण्डले
पुण्डरीक-नयनं सुराङ्गनाः ।
प्रेक्ष्य सम्भृत-विहार-विभ्रमं
बभ्रमुर् मदन-सम्भ्रमोर्मिभिः
कन्दूक-क्रीडा-
अरुण-रुचि-मुदस्य क्षेपिणीं कुञ्चिताग्रां
सरभसम् अभिधावन् विभ्रमद्-दीर्घ-वेणिः ।
विरचयति मुकुन्दः कन्दुकान्दोल-नृत्य-
द्विपुल-नयन-भङ्गी-विभ्रमः कौतुकं नः
ताण्डवम्-
प्रचल-प्रचलाक-कुण्डलोऽयं
स्व-सुहृन्-मण्डल-चर्चरी-परीतः ।
हरिर् अद्य नटन् पतङ्ग-पुत्री-
तट-रङ्गे मम रङ्गम् आतनोति
वेणु-वादनं, यथा ललित-माधवे (4.27)-
जङ्घाधस्-तट-सङ्गि-दक्षिण-पदं किञ्चिद् विभुग्न-त्रिकम्-
साचि-स्तम्भित-कन्धरं सखि तिरः-सञ्चारि-नेत्राञ्चलम् ।
वंशीं कुट्मलिते दधानम् अधरे लोलाङ्गुली-सङ्गतां
रिङ्गद्-भ्रू-भ्रमरं वराङ्गि परमानन्दं पुरः स्वीकुरु
गो-दोहो, यथा पद्यावल्यां (262)-
अङ्गुष्ठाग्रिम-यन्त्रिताङ्गुलिर् असौ पादार्थ-नीरुद्ध-भू-
रार्द्रीकृत्य पयोधराञ्चलम् अलं सद्यः पयो-बिन्दुभिः ।
न्यग्-जानु-द्वय-मध्य-यन्त्रित-गह्टी-वक्त्रान्तराल-स्खल-
द्धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः
पर्वतोद्धारः-
उद्यम्य कन्दुकित-मन्द-रसोदराद्रिं
सव्यं करं कटिम् अनु स्थगयन्न् असव्यम् ।
स्मेराननश् चल-दृग्-अञ्चल-चञ्चरीक-
श्चित्ताम्बुजं मम हरिश् चटुलीचकार
गोहूतिः-
पिशङ्गि मणिक-स्तनि प्रणत-शृङ्गि पिङ्गेक्षणे
मृदङ्ग-मुखि धूमले शबलि हंसि वंशी-प्रिये ।
इति स्व-सुरभी-कुलं मुहुर् उदीर्ण-हीही-ध्वनि-
र्विदूर-गतम् आह्वयन् हरति हन्त चित्तं हरिः
गमनम्-
अनुपम-मदमन्दान्दोलि-दोर्-अर्गल-श्रीः
सुर-गज-गुरु-गर्व-स्तम्भि-गम्भीर-केलिः ।
सहचरि दर-चञ्चच्-चारु-चूडा-रुचिर् मां
मदयति गति-मुद्रा-माधुरी माधवस्य
अथ मण्डनम्-
चतुर्धा मण्डनं वासो-भूषा-माल्यानुलेपनैः
अथ वस्त्रं, यथा-
अम्बरं रचित-धैर्य-संवरं
रम्यम् अम्बर-मणि-प्रभोज्ज्वलम् ।
सुभ्रु किं न हि कटीर-मण्डले
पुण्डरीक-नयनस्य पश्यसि
यथा वा-
अमल-कमल-राग-रागम् एतत् तव
जयति स्फुटम् अद्भुतं दुकूलम् ।
मम हृदि निज-रागम् अत्र राधे
दधद् अपि यद् द्विगुणं बभूव रक्तम्
भूषा, यथा-
प्रहरतु हरिणा कदम्ब-पुष्पं
प्रिय-सखि शेखरितं यद् अङ्गजास्त्रम् ।
बत कथम् अमुनावतंसितोऽसौ
मम हृदि बिध्यति नीलकण्ठ-पक्षः
यथा वा-
हारेण तार-द्युतिना कपोलः
प्रेङ्खोलिना कुण्डलयोर् युगेन ।
उत्तुङ्ग-भासा कनकाङ्गदेन
मां लालितेयं ललिता धिनोति
माल्यानुलेपने, यथा रस-सुधाकरे (1.86)-
आलोक्लैर् अनुमीयते मधुकरैः केशेषु माल्य-ग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलम् अन्तर्गतम् ।
अङ्गानाम् अनुभूयते परिमलैर् आलेपन-प्रक्रिया
वेषः कोऽपि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः
यथा वा-
अनङ्ग-रागाय बभूव सद्य-
स्तवाङ्ग-रागोऽपि किम् अङ्गनासु ।
उद्दाम-भावाय तथा किम् आसीद्
दामापि दामोदर तावकीनम्
अथ सम्बन्धिनः-
लग्नाः सन्निहिताश् चेति द्विधा सम्बन्धिनो मताः
तत्र लग्नाः-
वंशी-शृङ्गी-रवौ गीतं सौरभ्यं भूषण-क्वणः ।
पदाङ्काद्या विपञ्च्यादि-निक्वाणाः शिल्प-कौशलम् ।
इत्य् आदयोऽत्र कथिता लग्नाः सम्बन्धिनो बुधैः
तत्र वंशी-रवो, दानकेलि-कौमुद्यां (32)-
वेणोर् एष कल-स्वनस् तरु-लता-व्याजृम्भणे दोहदं
सन्ध्या-गर्ज-भरः पिक-द्विज-कुहु-स्वाध्याय-पारायणे ।
आभीरेन्दु-मुखी-स्मरानल-शिखोत्सेके सलीलानिलो
राधा-धैर्य-धराधरेन्द्र-दमने दम्भोह्लिर् उन्मीलति
यथा वा रस-सुधाकरे (1.100) [पद्यावल्यां (246)]-
माधवो मधुर-माधवी-लता-
मण्डपे पटु-रटन्-मधुव्रते ।
संजगौ श्रवण-चारु गोपिका-
मान-मीन-वडिशेन वेणुना
कृष्ण-वक्त्रेन्दु-निष्ठ्यूतं मुरली-निनदामृतम् ।
उद्दीपनानां सर्वेषां मध्ये प्रवरम् ईर्यते
शृङ्गी-रवः-
कंसारातेः पिबतु मुरली तस्य सद्-वंश-जन्मा
सा वक्त्रेन्दुं स्फुटम् अकुटिला पञ्चमोद्गार-गुर्वी ।
आस्वाद्यामुं त्वम् अपि विषमा भङ्गुराङ्गार-काली
तुङ्गं शृङ्गि ध्वनसि यद् इदं तत् तु दुःखाकरोति
अथ गीतम्-
मानानलं मे शमयन् समिद्धं
गानामृतं वर्षति कृष्ण-मेघः ।
मा क्रुध्य वात्यासि सखि प्रसीद
दूरे नयामुं निज-विभ्रमेण
सौरभम्-
मिलति परिमलोर्मिः कस्य रोम-श्रियासौ
मम तनु-लतिकायां कुर्वती कुड्मलानि ।
सखि विदितम् इहाग्रे माधवः प्रादुरासीद्
भुवि सुरभितया यः ख्यातिम् अङ्गीकरोति
यथा वा-
मदयति हृदयं किम् अप्य् अकाण्डे
मम यद् इदं नव-सौरभं वरीयः ।
तद् इह कुसुम-संग्रहाय राधा
शिखरि-तटे शिखर-द्विजा विवेश
भूषण-क्वणः-
कलहंस-नादम् इह हंस-गामिनी
निशमय्य हंस-दुहितुस् तटान्तरे ।
तव नूपुर-ध्वनि-धिया परिप्लवा
कलसीं न वेद शिरसश् च्युताम् अपि
यथा वा ललित-माधवे (1.51)-
मधुरिम-लहरीभिः स्तम्भयत्य् अम्बरे या
स्मर-मद-सरसानां सारसानां रुतानि ।
इयम् उदयति राधा-किङ्किनी-झङ्कृतिर् मे
हृदि परिणमयन्ती विक्रियाडम्बराणि
पदाङ्काद्याः, यथा दान-केलि-कौमुद्यां (13)-
पद-ततिभिर् अलं कृतोज्ज्वलेयं
ध्वज-कुलिशाङ्कुश-पङ्कजाङ्किताभिः ।
नखर-लुठित-कुट्मलावनाली
किम् अपि धिनोति धुनोति चान्तरं मे
विपञ्ची-निक्वाणो, यथा ललित-माधवे (1.36)-
स्मर-केलि-नाट्य-नान्दीं
शब्द-ब्रह्म-श्रियं मुहुर् दुहती ।
वहति मुदं मम महती-
मिह महिता श्यामला-महती
शिल्प-कौशलं, यथा-
वर-कुसुम-निवेश-प्रक्रिया-सौष्ठवेन
प्रकटित-हरि-शिल्पा पट्ट-सूत्रोज्ज्वल-श्रीः ।
हृदि विनिहित-कम्पा निर्मिमीते स्रग् एषा
निशित-शर-परीत-स्मार-तुणीर् अशङ्काम्
अथ सन्निहिताः-
निर्माल्याद्याः सन्निहिता बर्ह-गुञ्जाद्रि-धातवः ।
नैचिकीनां समुदयो लगुडी-वेणु-शृङ्गीकाः
तत्-प्रेष्ठ-दृष्टिर् गोधूलिर् वृन्दारण्यं तद्-आश्रिताः ।
गोवर्धनो रविसुता तथा रास-स्थलादयः
तत्र निर्माल्याद्याः, यथा विदग्ध-माधवादौ (2.42)-
अङ्गोत्तीर्ण-विलेपनं सखि समाकृष्टि-क्रियायां मणि-
र्मन्त्रो हन्त मुहुर् वशीकृति-विधौ नामास्य वंशी-पतेः ।
निर्माल्य-स्रग् इयं महौषधिर् इह स्वान्तस्य सम्मोहने
नासां कस् तिसृणां गृणाति परमाचिन्त्यां प्रभावावलीम्
यथा वा ललित-माधवे (6.26)-
दुकूलेऽस्मिन् कार्तस्वर-महसि विस्तारित-दृशो
वपुः किं ते फुल्लैर् वहति तुलनां नीप-कुसुमैः ।
त्रुटन्तीभिः किं वा स्फटिक-मणि-मालाभिर् उपमां
लभन्तेऽमी क्षामोदरि नयनयोस् तोय-पृषताः
अथ बर्ह-गुञ्जे, यथा विदग्ध-माधवे (2.16)-
अग्रे वीक्ष्य शिखण्ड-खण्डम् अचिराद् उत्कम्पम् आलम्बते
गुञ्जानां च विलोकनान् मुहुर् असौ सास्रं परिक्रोशति ।
नो जाने जनयन्न् अपूर्व-नटन-क्रीडा-चमत्कारितां
बालायाः किल चित्त-भूमिम् अविशत् को æयं नवीन-ग्रहः
अद्रि-धातुर्, यथा-
आभीर-वृन्दाधिप-नन्दनस्य
कएवरालङ्करणोज्ज्वल-श्रीः ।
क्षिप्तेन्द्र-गोपांशुर् अपांशुलोऽयं
तनोति रागं मम धातु-रागः
नैचिकी-समुदयो, यथा-
सन्ध्या-द्योते विलसति गताः प्रेक्ष्य गोष्ठ-प्रकोष्ठे
हम्बारभोन्मुखरित-मुखी-नैचिकीस् त्वद्-विहीनाः ।
अन्तश्-चिन्ता-चुलुकित-मतिर् यादवेन्द्राद्य मन्दा
कष्टं चन्द्रावलिर् इह कथं प्राण-बन्धं करोतु
लगुडी, यथा-
विष्टभ्य यां भुवि पुरः शिखरार्पितेन
विन्यस्त-चारु-चिबुकेन कर-द्वयेन ।
दीव्यन् हरिर् गिरि-तटे मुदम् आदधान् नः
सा हन्त यस्टिर् अधुना हृदयं पिनष्टि
वेणुर्, यथा-
हृदि न्यस्ता वंशी तद्-अधर-सुधा-भाग् इति मया
दुरन्तं विश्लेष-ज्वर-गरलम् अस्याः शमयितुम् ।
वितेने सा तूर्णं शत-गुणम् इदं यादव-पते
विरक्तो यत्रेशस् तम् इह न हि वा कः प्रहरति
शृङ्गिका, यथा-
वलितं विलोचनाग्रे, शवलं धूरिभिर् इदं बलावरज ।
बलवत् कुवलय-नयनास् तव गवलं कवलयत्य् अद्य
तत्-प्रेष्ठ-दृष्टिर्, यथा-
सखि मृगमद-लेखया विशाखा-
हृदि मकरीर् अपि राधिका लिखन्ती ।
सुबलम् अवकलय्य घूर्णिताग्रे
पुलकवती वन-मालिनं लिलेख
यथा वा ललित-माधवे (6.43)-
निखिल-सुहृदाम् अर्थारम्भे विलम्बित-चेतसा
मसृणित-शिखो यः प्राप्तोद्भूद् मनाग् इव मार्दवम् ।
स खलु ललितासान्द्रस्रेहप्रसङ्ग-घनीभवन्
पुनर् अपि बलाद् इन्धे राधा-वियोग-मयः शिखी
गोधूलिर्, यथा उद्धव-सन्देशे (37)-
आ-प्रत्यूषाद् अपि सुमनसां वीचिभिर् ग्रथ्यमाना
धत्ते नासौ सखि कथम् अहो वैजयन्ती समाप्तिम् ।
धिन्वन् गोपी-नयन-शिखिनः व्योम-कक्षाम् जगाहे
सोऽयं मुग्धे निविड-धवलो धूलि-चक्राम्बुवाहः
वृन्दारण्यं, यथा तत्रैव (83)-
आशा-पाशैः सखि नव-नवैः कुर्वती प्राण-बन्धं
जात्या भीरुः कति पुनर् अहं वासराणि क्षयिष्ये ।
एते वृन्दावन-विटपिनः स्मारयन्तः विलासान्
उत्फुल्लास् तान् मम किल बलान् मर्म निर्मूलयन्ति
तद्-आश्रिताः-
तद्-आश्रित्याः खगा भृङ्गा मृगाः कुञ्जा लतास् तथा ।
तुलसी कर्णिकारश् च कदम्बाद्याश् च कीर्तिताः
तत्र खगाः, यथा ललित-माधवे (10.16)-
कस् तान् पश्यन् भवद्-उपहृत-स्निग्ध-पिञ्छावतंसान्
कंसाराते न खलु शिखिनः खिद्यते गोष्ठवासी ।
उन्मीलन्तं नव-जलधरं नीलम् अद्यापि मत्वा
ये त्वाम् अन्तर्-मुदित-मतयस् तन्वते ताण्डवानि
भृङ्गाः, यथा-
वृन्दावने श्रवसि ये निनदं विपञ्ची-
निष्ठ्युत-पञ्चम-मनोहरम् आहरन्तः ।
ते षट्पदाः कुलिश-घट्टन-घोरम् एतं
दैवे विरोधिनि भवन्ति न के विपक्षाः
मृगाः, यथा तत्रैव-
हरि हरि भवतीभिः स्वान्तहारी हरिण्यो
हरिर् इह किम् अपाङ्गातिथ्य-सङ्गी व्यधायि ।
यद् अनुरणित-वंशी-काकलीभिर् मुखेभ्यः
सुख-तृण-कवला वः सामिलीढाः स्खलन्ति
कुञ्जाः, यथा उद्धव-सन्देशे (125)-
लब्धान्दोलः प्रणय-रभसाद् एष ताम्रौष्ठि नम्रः
प्रम्लायन्तीं किम् अपि भवतीम् याचते नन्द-सूनुः ।
प्रेमोद्दाम-प्रमद-पदवी साक्षिणी शैल-कक्षे
द्रष्टव्या ते कथम् अपि न सा माधवी कुञ्ज-वीथी
लतादिर्, यथा पद्यावल्यां (295)-
तुलसि विलससि त्वं मल्लि जातासि फुल्ला
स्थल-कमलिनि भृङ्गे सङ्गताङ्गी विभासि ।
कथयत बत सख्यः क्षिप्रम् अस्मासु कस्मिन्
वसति कपट-कन्दः कन्दरे नन्द-सूनुः
कर्णिकारो, यथा ललित-माधवे (7.15)-
रासात् तिरोहित-तनुः सखि यस्य पुष्पैश्
चूडां चकार चिकुरे मम पिञ्छ-चूडः ।
कूले कलिन्द-दुहितुर् धृत-कन्दलोऽयं
मां दन्दहीति स मुहुर् नव-कर्णिकारः
कदम्बो, यथा-
सखि रोपितो द्विपत्रः
शतपत्राक्षेण यो व्रज-द्वारि ।
सोऽयं कदम्ब-डिम्भः
फुल्लो वल्लव-वधूस् तुदति
गोवर्धनो, यथा ललित-माधवे (3.42)-
गोवर्धन त्वम् इह गोकुल-सङ्गि-भूमौ
तुङ्गैः शिरोभिर् अभिपद्य नभो विभासि ।
तेनावलोक्य हरितः परितो वदाशु
कुत्राद्य वल्लव-मणिः खलु खेलतीति
रवि-सुता, यथा पद्यावल्याम् (368)-
मथुरा-पथिक मुरारेर्
उपगेयं द्वारि वल्लवी-वचनम् ।
पुनर् अपि यमुना-सलिले
कालिय-गरलानलो ज्वलति
रास-स्थली, यथा-
गोष्ठाद् अप्य् अवलोक्य मान-शिखरोच्छ्राय-श्रिया दूरतः
सद्यः खेदिनि चित्त-चत्वर-तटे वंशी-वटेनार्पिता ।
कुर्वाणा हृत-वृत्तिम् इन्द्रिय-गणं सा यादवेन्द्राय ते
कष्टं रास-विहार-भुर् विहरति प्राणैः कुरङ्गी-दृशाम्
अथ तटस्थाः-
तटस्थाश् चन्द्रिका-मेघ-विद्युतो माधवस् तथा ।
शरत्-पूर्ण-सुधांशुश् च गन्धवाह-खगादयः
तत्र चन्द्रिका, यथा रस-सुधाकरे (1.87)-
दुरासदे चन्द्रिकया सखी-गणै-
र्लतालि-कुञ्जे ललिता निगूहिता ।
चकोर-चञ्चु-च्युत-कौमुदी-कणं
कुतोऽपि दृष्ट्वा भजति स्म मूर्च्छनाम्
मेघो, यथा रस-सुधाकरे (?)-
वासः पीतं कुतुकिनि कुतः कुत्र बर्हं मदान्धे
कंसारिर् वा क्व नु सखि मुधा सम्भ्रमान् मा प्रयाहि ।
पश्योत्तुङ्गे क्षण-रुचि-घटालिङ्गिता शैल-शृङ्गे
नव्यः शक्रं दधद् उदयते कार्मुचं वार्-मुग् एषः
विद्युत्, यथा रस-सुधाकरे (1.98)-
वर्षासु तासु क्षण-रुक्-प्रकाशा-
द्गोपाङ्गना माधवम् आलिलिङ्ग ।
विद्युच् च सा वीक्ष्य तद्-अङ्ग-शोभां
ह्रीणेव तूर्णं जलदं जगाहे
वसन्तो, यथा-
ऋतु-हतकः सखि भुवने
किम् अवततीर्षुर् बभूवाद्य ।
मन्दादरम् अलिवृन्दं
वृन्दावन-कुन्द-सङ्गमे यद् अभूत्
शरत्, यथा-
कलहंसोज्ज्वल-जल्पा
प्रकटित-वृन्दावनोरु-माधुर्या ।
धृतिम् अपहर्तुं सखि मे
दूतीव हरेः शरन् मिलिता
पूर्ण-सुधांशुर्, यथा-
राका-सुधांशुर् अभवन् न तमांसि हर्तुं
वृन्दाटवी-जठरगान्य् अधुनापि शक्तः ।
राका-सुधांशु-मुखि तानि तवोन्नतानि
हृत्-कन्दरास्तर-चराणि कथं जहार
गन्धवाहो, यथा श्री-गीत-गोविन्दे (7.39)-
मनो-भवानन्दन-चन्दनानिल
प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्-प्राण निदाय माधवं
पुरो मम प्राण-हरो भविष्यसि
खगाः, यथा-
मानेन सार्धं पशुपाल-सुभ्रुवां
मराल-माला चलिता घनागमे ।
कदम्ब-कुञ्जे विजिहीर्षया समं
समागता नागरि चातकावली
आदि-शब्दात् सखी-स्नेह आत्मन्य् उद्दीपनो वरः
यथा-
हरिम् अवेक्ष्य पुरो गुर्तो भिया
मुहुर् अभून् मुकुलन्-नव-विभ्रमा ।
ललितया विवृते निज-सौहृदे
चल-दृग्-अञ्चलम् आधित राधिका
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0