उज्ज्वलनीलमणि · अध्याय 6
इति श्री-श्री-उज्ज्वल-नीलमणौ
नायिका-भेद-प्रकरणम्
॥5॥
(6)
अथ यूथेश्वरी-भेद-प्रकरणम्
एतासां यूथ-मुख्यानां विशेषो वर्णितोऽप्य् असौ ।
सुहृद्-आदौ व्यवहृति-व्यक्तये वर्ण्यते पुनः
सौभाय्गादेर् इहाधिक्याद् अधिका साम्यतः समा ।
लघुत्वाल् लघुर् इत्य् उक्तास् त्रिधा गोकुल-सुभ्रुवः
प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस् त्रिधा
प्रगल्भ-वाक्या प्रखरा ख्याता दुलङ्घ्य-भाषिता ।
तद्-ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता
तत्र अधिका-त्रिकम्-
आत्यन्तिकी तथैवापेक्षिकी चेत्य् अधिका त्रिधा
सर्वथैवासमोर्धा या सा स्याद् आत्यन्तिकाधिका ।
सा राधा स तु मध्यैव यन् नान्या सदृशी व्रजे
तत्र आत्यन्ताधिका-
यथा-
तावद् भद्रा वदति चटुलं फुल्लताम् एति पाली
शालीनत्वं त्यजति विमला श्यामलाहङ्करोति ।
स्वैरं चन्द्रावलिर् अपि चलत्य् उन्नमय्योत्तमाङ्गं
यावत् कर्णे न हि निविशते हन्त राधेति मन्त्रः
अथ आपेक्षिकाधिका-
मध्ये यूथाधिनाथानाम् अपेक्ष्यैकतमाम् इह ।
या स्याद् अन्यतमा श्रेष्ठा सा प्रोक्तापेक्षिकाधिका
अथ अधिक-प्रखरा, यथा-
पश्य क्षौणी-धराद् उपैति पुरतः कृष्णो भुजङ्गाग्रणी-
स्तूर्णं भीरुभिर् आलिभिः समम् इतस् त्वं याहि मन्त्रोज्झिते ।
आचार्याहम् अटामि भोगि-रमणी-वृन्दस्य वृन्दाटवीं
किं नः कामिनि कार्मणेन वशतां नीतः करिष्यत्य् असौ
अथ अधिक-मध्या-
आलीभिर् मे त्वम् असि विदिता पूर्णिमाया प्रदोषे
रोषेणासौ प्रथयसि कथं पाटवेनावहित्थाम् ।
धृत्वा धूर्ते सह-परिजनां मद्-गृहे त्वां निरुन्ध्यां
वर्त्म-प्रेक्षी गुणयतु स ते जागरं कुञ्ज-राजः
अथ अधिक-मृद्वी-
न्यञ्चन्-मूर्धा सह परिजनैर् दूरतो मा प्रयासी-
र्माम् आलोक्य प्रिय-सखि यतः प्रेम-पात्री ममासि ।
माला मौलौ तव परिचिता मत्-कला-कौशलाढ्या
द्यूते जित्वा दनुज-दमनं या त्वया स्वीकृतास्ति
अथ समा-त्रिकम्-
साम्यं भवेद् अधिकयोस् तथा लघु-युगस्य च
तत्र सम-प्रखरा-
न भवति तव पार्श्वे चेत् सखी कापि माभूत्
परिहर हृदि कम्पं किं हरिस् ते विधाता ।
अहम् अतिचतुराभिर् वेष्टिताली-घटाभिः
प्रिय-सखि पुरतस् ते दुस्तरा बाहुदास्मि
अथ सम-मध्या-
लोले न स्पृश मां तवालिक-तटे धातुर् यद् आलक्ष्यते
त्वं स्पृश्यासि कथं भुजङ्ग-रमणी दूराद् अतस् त्यज्यसे ।
धिग् वामं वदसि त्वम् एव कुहक-प्रेष्ठासि भोगाङ्किते
येनाद्य च्युतकञ्चुकाः शुषिर् अतःसख्योऽपि सर्पन्ति ते
अथ सम-मृद्वी-
प्रत्याख्यातु सुहृज्जनः कथम् अयं ताराभिधत्ते गिरं
प्राणास् त्वं हि ममोच्चकैर् उरसि शपे धर्माय लीलावति ।
किन्तु ताम् अहम् अर्थये परम् इदं कल्याणि तं वल्लभं
स्वीयं शाधि यथा स गौरि सरले कुर्याज् जने न च्छलम्
यथा वा-
प्रहित्य कठिने निजं परिजनं मदार्या त्वया
निकामम् उपजप्यतां किम् उ विभीषिकाडम्बरैः ।
व्रजामि रविजा-तटे गुरु-गिरा मृषा-शङ्किनि
प्रदोष-समये समं सवयसा शिवां सेवितुम्
अथ लघु-त्रिकम्-
लघुर् आपेक्षिकी चात्यन्तिकी चेति द्विधोदिता
तत्र आपेक्षिकी लघुः-
मध्ये यूथाधिनाथानाम् अपेक्ष्यैकतमाम् इह ।
या स्याद् अन्यतमा न्यूना सा प्रोक्तापेक्षिकी लघुः
तत्र लघु-प्रखरा-
त्वं मिथ्या-गुण-कीर्तनेन चटुले वृन्दाटवी-तस्करे
गाढं देवि निबध्य मां किम् अधुना तुष्टा तटस्थायसे ।
हृत्वा धैर्य-धनानि हन्त रभसाद् आच्छिद्य ह्री-वैभवं
येनायं सखि वञ्चितोऽपि बहुधा दुःखी जनो वञ्च्यते
अथ लघु-मध्या-
गोष्ठाधीश-सुतस्य सा नव-नव-प्रेष्ठस्य यावद्-दृशोः
पन्थानं वृषभानुजा सखि वशीकारौष्धिज्ञा ययौ ।
तावत् त्वय्य् अपि कूर्क्षम् अस्य बलवद्-दाक्षिण्यम् एवेक्ष्यते
का चन्द्रावलि एवि दुर्भगतया दूनात्मनां नः कथा
अथ लघु-मृद्वी-
अपसरणम् इतो नः साम्प्रतं स्याद्
यद् अपि हरि-चकोरं चित्रम् आलओचयामः ।
कलयत सहचर्यः पर्यटद्-गौर-दीप्ति-
स्तट-भुवि नव-शोभां सौति चन्द्रावलीयम्
अथ आत्यन्तिकी लघुः-
अन्या यतोऽस्ति न न्यूना सा स्याद् आत्यन्तिकी लघुः ।
त्रैविध्य-सम्भवेऽप्य् अस्या मृदुतैवोचिता भवेत्
यथा-
निज-निखिल-सखीनाम् आग्रहेणाघ-वैरी
कथम् अपि स मयाद्य व्यक्तम् आमन्त्रितोऽस्ति ।
क्षणम् उरु-करुणाभिः संवरीतुं त्रपां मे
मद्-उदवसित-लक्ष्मीं गोष्ठ-देव्यस् तनुध्वम्
न समा न लघुश् चाद्या भवेन् नैवाधिकान्तिमा ।
अन्यास् त्रिधाधिकाश् च स्युः समाश् च लघवश् च ताः
विनात्यन्ताधिकां तेन सर्वासु लघुता भवेत् ।
सर्वास्व् अधिकता च स्याद् विनैवात्यन्तिकीं लघुम्
आद्यैकैवान्तिमा द्वेधा मध्यस्था नवधोदिताः ।
इत्य् असौ यूथनाथानां भिदा द्वादशधोदिता
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0