उज्ज्वलनीलमणि · अध्याय 5
इति श्री-श्री-उज्ज्वल-नीलमणौ
श्री-राधा-प्रकरणम्
॥4॥
(5)
अथ नायिका-भेद-प्रकरणम्
यूथेऽप्य् अवान्तर-गणास् तेषु च कश्चिद् गणस् त्रि-चतुराभिः ।
इह पञ्च-षाभिर् अन्यः सप्ताष्टाभिस् तथेत्य् आद्याः
नासौ नाट्ये रसे मुख्ये यत् परोढा निगद्यते ।
तत् तु स्यात् प्राकृत-क्षुद्र-नायिकाद्य्-अनुसारतः
तथा चोक्तम्-
नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा
तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन ।
आशांसया रसविधेर् अवतारितानां
कंसारिणा रसिकमण्डलशेखरेण
व्रजेन्द्र-नन्दनत्वेन सुष्ठु निष्ठाम् उपेययुः ।
यासां भावस्य सा मुद्रा सद्-भक्तैर् अपि दुर्गमा
यथा ललित-माधवे (6.14)-
गोपीनां पशुपेन्द्र-नन्दन-जुषो भावस्य कस् तां क्र्ती
विज्ञातुं क्षमते दुरूह-पदवी-सञ्चारिणः प्रक्रियाम् ।
आविष्कुर्वति वैष्णवीम् अपि तनुं तस्मिन् भुजैर् जिष्णुभि*
र्यासां हन्त चतुर्भिर् अद्भुत-रुचिं रागोदयः कुञ्चति
भुजा-चतुष्टयं क्वापि नर्मणा दर्शयन्न् अपि ।
वृन्दावनेश्वरी-प्रेम्णा द्विभुजः क्रियते हरिः
यथा-
रासारम्भ-विधौ निलीय वसता कुञ्जे मृगाक्षी-गणैर्
दृष्टं गोपयितुं स्वम् उद्धुर-धिया या सुष्ठु सन्दर्शिता ।
राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं
सा शक्या प्रभविष्णुनापि हरिणा नासीच् चतुर्-बाहुता
अपि च-
सामान्याया रसाभास-प्रसङ्गात् तादृग् अप्य् असौ ।
भाव-योगात् तु सैरिन्ध्री परकीयैव सम्मता
यथा च प्राञ्चः (शृङ्गार-तिलके 1.62,64)-
सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छता ।
गुण-हीने च न द्वेषो नानुरागो गुणिन्य् अपि ।
शृङ्गाराभास एतासु न शृङ्गारः कदाचन
इति ।
स्वकीयाश् च परोढाश् च या द्विधा परिकीर्तिताः ।
मुग्धा मध्या प्रगल्भेति प्रत्येकं तास् त्रिधा मताः
भेद-त्रयम् इदं कैश्चित् स्वीयाया एव वर्णितम् ।
तथापि सत्-कवि-ग्रन्थे दृष्टत्वात् तद्-अनादृतम्
तथा प्राचीनैश् चोक्तम्-
उदाहृति-भिदां केचित् सर्वासाम् एव तन्वते ।
तास् तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः
इति ।
तत्र मुग्धा-
मुग्धा नव-वयः-कामा रतौ वामा सखी-वशा ।
रति-चेष्टासु स-व्रीड-चारु-गूढ-प्रयत्न-भाक्
कृतापराधे दयिते बाष्प-रुद्धावलोकना ।
प्रियाप्रियोक्तौ चाशक्ता माने च विमुखी सदा
तत्र नव-वयाः-
विरमति शैशव-शिशिरे, प्रविशति यौवन-मधौ विशाखायाः ।
दीव्यति लोचन-कमलं, वदन-सुधांशुश् च विस्फुरति
यथा वा-
बाल्य-ध्वान्त सखे प्रयाहि तरसा राधा-वपुर् द्वीपत-
स्तारुण्य-द्युमणेर् यद् एष विजयारम्भः पुरो जृम्भते ।
कृष्ण-व्योम्नि रुचिर् दरोत्तरलता तारा-द्युतौ काप्य् उरः-
पूर्वाद्रौ सुषमोन्नतिः स्मित-कला पश्याद्य वक्त्राम्बुजे
नव-कामा, यथा-
बाले कंस-भिदः स्मरोत्सव-रसे प्रस्तूयमाने छलात्
प्रौढाभीर-वधूभिर् आनत-मुखी त्वं कर्णम् अध्यस्यसि ।
सव्याजं वन-मालिका-विरचनेऽप्य् उल्लासम् आलम्बसे
रङ्गः कोऽयम् अवातरद् वद सखि स्वान्ते नवीनस् तव
रतौ वामा, यथा-
नव-बालिकास्मि कुरु नर्म नेदृशं
पदवीं विमुञ्च शिखि-पिञ्छ-शेखर ।
विरचन्ति पश्य पटवस् तटीम् इमा-
मरविन्द-बन्धु-दुहितुर् नत-भ्रुवः
यथा वा-
यमुना-पुलिने विलोकनान् मे
चलितां स्मेर-सखी-गृहीत-हस्ताम् ।
अयि मुञ्च करं ममेति कञ्जद्-
वचनां खञ्जन-लोचनां स्मरामि
सखी-वशा-
व्रज-राज-कुमार कर्कशे
सुकुमारीं त्वयि नार्पयाम्य् अमुम् ।
कलभेन्द्र-करे नवोदयां
नलिनीं कः कुरुते जनः कृती
यथा वा-
न स्वीकृता सखि मया स्रग् इहास्ति कौन्दी
किं दीर्घ-रोष-विकटां भ्रु-कुटीं तनोषि ।
क्षिप्तेयम् अत्र मम मण्डन-पेटिकायां
चेद् वृन्दया चटुलया किम् अहं करिष्ये
सव्रीड-रत-प्रयत्ना, यथा-
द्वित्राण्य् एत्य पदानि कुञ्ज-वसतेर् द्वारे विलासोन्मुखी
सद्यः कम्प-तरङ्गद्-अङ्ग-लतिका तिर्यग्-विवृत्ता ह्रिया ।
भूयः स्निग्ध-सखी-गिरां परिमलैस् तल्पान्तम् आसेदुषी
स्वान्तं हन्त जहार हारि-हरिणी-नेत्रा मम श्यामला
रोष-कृत-बाष्प-मौना, यथा-
सिद्धापराधम् अपि शुद्ध-मनाः सखी मे
त्वां वक्ष्यते कथम् अदक्षिणम् अक्षमेव ।
नेमां विडम्बय कदम्ब-वनी-भुजङ्ग
वक्त्रं पिधाय कुरुताम् इयम् अश्रु-मोक्षम्
अथ माने विमुखी-
मृद्वी तथाक्षमा चेति सा माने विमुखी द्विधा
तत्र मृद्वी, यथा रस-सुधाकारे (1.44)-
व्यावृत्ति-क्रमणोद्यमेऽपि पदयोः प्रत्युद्गतौ वर्तनं
भ्रूभेदोऽपि तद् ईक्षण-व्यसनिना व्यस्मारि मे चक्षुषा ।
चाटूक्तानि करोति दग्ध-रसना रुक्षाक्ष्रेऽप्य् उद्यता
सख्यः किं करवाणि मान-समये सङ्घात-भेदो मम
अक्षमा, यथा-
आभीर-पङ्कज-दृशां बत साहसिक्यं
या केशवे क्षणम् अपि प्रणयन्ति मानम् ।
मानेति वर्ण-युगलेऽपि मम प्रयाते
कर्णाङ्गनं वहति वेपथुम् अन्तरात्मा
अथ मध्या-
समान-लज्जा-मदना प्रोद्यत्-तारुण्य-शालिनी ।
किञ्चित्-प्रगल्भ-वचना मोहान्त-सुरत-क्षमा ।
मध्या स्यात् कोमला क्वापि माने कुत्रापि कर्कशा
तत्र समान-लज्जा-मदना, यथा-
विकिरति किल कृष्णे नेत्र-पद्मं सतृष्णे
नमयति मुखम् अन्तः-स्मेरम् आवृत्य राधा ।
निदधति दृशम् अस्मिन्न् अन्यतः प्रेक्षतेऽमुं
तद् अपि सरसिजाक्षी तस्य मोदं व्यतानीत्
प्रोद्यत्-तारुण्य-शालिनी, यथा-
भ्रुवोर् विक्षेपस् ते कवलयति मीन-ध्वज-धनुः-
प्रभारम्भं रम्भा-श्रियम् उपहसत्य् उरु-युगलम् ।
कुच-द्वन्द्वं धत्ते रथ-चरण-यूनोर् विलसितं
वरोरूणां राधे तरुणिमनि चूरामणिर् असि
किञ्चित्-प्रगल्भोक्तिः, यथोद्धव-सन्देशे (54)-
मद्-वक्त्राम्भोरुह-परिमलोन्मत्त-सेवानुबन्धे
पत्युः कृष्ण-भ्रमर कुरुषे किंतराम् अन्तरायम् ।
तृष्णाभिस् त्वम् यदि कल-रुत-व्यग्र-चित्तस् तदाग्रे
पुष्पैः पाण्डु-च्छविम् अविरलैर् याहि पुंनाग-कुञ्जम्
मोहान्त-सुरत-क्षमा, यथा-
श्रम-जल-निविडां निमीलिताक्षीं
श्लथ-चिकुराम् अनधीन-बाहु-वल्लीम् ।
मुदित-मनसम् अस्मृतान्य-भावां
रति-शयने निशि गोपिकां स्मरामि
माने कोमला, यथा-
प्राणास् त्वम् एव किम् इव त्वयि गोपनीयं
मानाय केशि-मथने सखि नास्मि शक्ता ।
एहि प्रयाव रविजा-तट-निष्कुटाय
कल्याणि फुल्ल-कुसुमावचय-च्छलेन
माने कर्कशा, यथा विदग्ध-माधवे (5.30)-
मुधा मानोन्नाहाद् ग्लपयसि किम् अङ्गानि कठिने
रुषं धत्से किंवा प्रिय-परिजनाभ्यर्थन-विधौ ।
प्रकामं ते कुञ्जालय-गृह-पतिस् ताम्यति पुरः
कृपा-लक्ष्मीवन्तं चटुलय दृगन्तं क्षणम् इह
त्रिधासौ मान-वृत्तेः स्याद् धीराधीरोभयात्मिका
तत्र धीर-मध्या-
धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम्
यथा-
स्वामिन् युक्तम् इदं तवाञ्जन-नवालक्त-द्रवैः सर्वतः
संक्रान्तैर् धृत-नील-लोहित-तनोर् यच् चन्द्रलेखा-धृतिः ।
एकं किन्त्व् अवलोचयाम्य् अनुचितं हंहो पशूनां पते
देहार्धे दयितां वहन् बहुमताम् अत्रासि यन् नागतः
अथ अधीर-मध्या-
अधीरा परुषैर् वाक्यैर् निरस्येद् वल्लभं रुषा
यथा-
उत्तुङ्ग-स्तन-मण्डली-सहचरः कण्ठे स्फुरन्न् एष ते
हारः कंसरिपो क्षपा-विलसितं निःसंशयं शंसति ।
धूर्ताभीर-वधू-प्रतारित-मते मिथ्या-कथा-घर्घरी-
झङ्कारोन्मुखर प्रयाहि तरसा युक्तात्र नावस्थितिः
अथ धीराधीर-मध्या-
धीराधीर तु वक्रोक्त्या स-बाष्पं वदति प्रियम्
यथा-
गोपेन्द्रनन्दन न रोदय याहि याहि
सा ते विधास्यति रुषं हृदयाधिदेवी ।
त्वन्-मौलि-माल्य-हृत-यावक-पङ्कम् अस्याः
पाद-द्वयं पुनर् अनेन विभूषयाद्य
यथा वा-
ताम् एव प्रतिपद्य काम-वरदां सेवस्व देवीं सदा
यस्याः प्राप्य महा-प्रसादम् अधुना दामोदरामोदसे ।
पादालक्तचितं शिरस् तव मुखं ताम्बूल-शेषोज्ज्वलं
कण्ठश् चायम् उरोज-कुट्मल-सुहृन्-निर्माल्य-माल्याङ्कितः
सर्व एव रसोत्कर्षो मध्यायाम् एव युज्यते ।
यद् अस्यां वर्तते व्यक्ता मौग्ध्य-प्रागल्भ्ययोर् युतिः
अथ प्रगल्भा-
प्रगल्भा पूर्ण-तारुण्या मदान्धोरु-रतोत्सुका ।
भूरि-भावोद्गमाभिज्ञा रसेनाक्रान्त-वल्लभा ।
अतिप्रौढोक्ति-चेष्टासौ माने चात्यन्त-कर्कशा
तत्र पूर्ण-तारुण्या, यथा-
मुष्णाति स्तन-युग्मम् अभ्रम् उपतेः कुम्भ-स्थली-विभ्रमं
विस्फारं च नितम्ब-मण्डलम् इदं रोधः-श्रियं लुण्ठति ।
द्वन्द्वं लोचनयोश् च लोल-शफरी-विस्फूर्जितं स्पर्धते
तारुण्यामृत-सम्पदा त्वम् अधिकं चन्द्रावलि क्षालिता
अथ मदान्धा-
निष्क्रान्ते रति-कुञ्जतः परिजने शय्याम् अवापय्य मां
स्वैरं गौरि रिरंसया मयि दृशं दीर्घां क्षिपत्य् अच्युते ।
सद्यः-प्रोद्यद्-उरु-प्रमोद-लहरी-विस्मारितात्म-स्थिति-
र्नाहं तत्र विदाम्बभूव किम् अभूत् कृत्यं किलातःपरम्
उरु-रतोत्सुका, यथा-
उदञ्चद्-वैयात्यां पृथु-नख-पदाकीर्ण-मिथुनां
स्खलद्-बर्हाकल्पां दलद्-अमल-गुञ्जा-मणिसराम् ।
ममानङ्ग-क्रीडां सखि वलय-रिक्ती-कृत-करां
मनस् ताम् एवोच्चैर् मणित-रमणीयां मृगयते
भूरि-भावोद्गमाभिज्ञा-
साचि-प्रेङ्खद्-अपाङ्ग-शृङ्खल-शिखा विस्फारित-भ्रू-लता
साकूत-स्मित-कुड्मलावृत-मुखी प्रोत्क्षिप्त-रोमाङ्कुरा ।
कुञ्जे गुञ्ज-दलौ विराजसि चिरात् कूजद्-विपञ्ची-स्वरा
बद्धुं बन्धुर-गात्रि कृष्ण-हरिणं शङ्के त्वम् आकाङ्क्षसि
रसाक्रान्त-वल्लभा, यथा-
अवचिनु कुसुमानि प्रेक्ष्य चारुण्य् अरण्ये
विरचय पुनर् एभिर् मण्डनान्य् उज्ज्वलानि ।
मधुमथन मद्-अङ्गे कल्पयाकल्पम् एतै-
र्युवतिषु मम भीमं रौतु सौभाग्य-भेरी
अतिप्रौढोक्तिः, यथा पद्यावल्यां (280)-
काकुं करोषि गृह-कोण-करीष-पुञ्ज-
गूढाङ्ग किं ननु वृथा कितव प्रयाहि ।
कुत्राद्य जीर्ण-तरणि-भ्रमणातिभीत-
गोपाङ्गना-गण-विडम्बन-चातुरी ते
अतिप्रौढ-चेष्टा, यथा-
सख्यास् तवानङ्ग-रणोत्सवेऽधुना
ननर्त मुक्ता-लतिका स्तनोपरि ।
उत्प्लुत्य यस्याः सखि नायकश् चलो
धीरं मुहुर् मे प्रजहार कौस्तुभम्
मानेऽत्यन्त-कर्कशा, यथा उद्दव-सन्देशे (53)-
मेदिन्यां ते लुठति दयिता मालती म्लान-पुष्पा
तिष्ठन् द्वारे रमणि विमनाः खिद्यते पद्मनाभः ।
त्वं चोन्निद्रा क्षपयसि निशाम् रोदयन्ती वयस्या
माने कस् ते नव-मधुरिमा तं तु नालोकयामि
मान-वृत्तेः प्रगल्भापि त्रिधा धीरादि-भेदतः
तत्र धीर-प्रगल्भा-
उदास्ते सुरते धीरा सावहित्था च सादरा
यथा-
देवी नाद्य मयार्चितेति न हरे ताम्बूलम् आस्वादितं
शिल्पं ते परिचित्य तप्स्यति गृहीत्य् अङ्गी कृता न स्रजः ।
आहूतास्मि गृहे व्रजेशितुर् इति क्षिप्रं व्रजन्त्या वच-
स्तस्याश्रावि न भद्रयेति विनयैर् मानः प्रमाणीकृतः
यथा वा-
कण्ठे नाद्य करोमि दुर्व्रत-हता रम्याम् इमां ते स्रजं
वक्तुं सुष्ठु न हि क्षमास्मि कठिनैर् मौनं द्विजैर् ग्राहिता ।
का त्वां प्रोज्झ्य चलेत् खलेयम् अचिरं श्वश्रूर् न चेद् आह्वये-
दित्थं पालिकया हरौ विनयतो मन्युर् गभीरीकृतः
यथा वा-
कुचालम्भे पाणिर् न हि मम भवत्या विघटितो
मुहुश् चुम्बारम्भे मुखम् अपि न साचीकृतम् अभूत् ।
परीरम्भे चन्द्रावलि न च वपुः कुञ्चितम् इदं
क्व लब्धा मानस्य स्थितिर् इयम् अनालोकित-चरी
अथ अधीर-प्रगल्भा-
सन्तर्ज्य निष्ठुरं रोषाद् अधीरा ताडयेत् प्रियम्
यथा-
मुग्धाः कंसरिपो वयं रचयितुं जानीमहे नोचितं
तां नीति-क्रम-कोविदां प्रिय-सखीं वन्देमहि श्यामलाम् ।
मल्ली-दामभिर् उच्छलन्-मधुकरैः संयम्य कण्ठे यया
साक्षेपं चकितेक्षणस् त्वम् असकृत् कर्णोत्पलैस् ताड्यसे
अथ धीराधीर-प्रगल्भा-
धीराधीर-गुणोप्तेआ धीराधीरेति कथ्यते
यथा-
स्फुरति न मम जातु क्रोध-गन्धोऽपि चित्ते
व्रतम् अनु गहनाभूत् किन्तु मौने मनीषा ।
अघहर लघु याहि व्याज आस्तां यद् एताः
कुसुम-रसनया त्वां बन्धुम् इच्छन्ति सख्यः
यथा वा-
कृतागसि हरौ पुरः स्फुरति तं भ्रमद्-भ्रू-लता
तिताडयिषुर् उद्धुरा श्रुति-तटाद् विकृष्योत्पलम् ।
न तेन तम् अताडयत् किम् अपि याहि याहीति सा
ब्रुवत्य् अजनि मङ्गला सखि परं पराञ्चन्-मुखी
किशोरिकाणाम् अप्य् आसाम् आकृतेः प्रकृतेर् अपि ।
प्रागल्भ्याद् इव कासांचित् प्रगल्भात्वम् उदीर्यते
मध्या तथा प्रगल्भा च द्विधा सा परिभिद्यते ।
ज्येष्ठा चापि कनिष्ठा च नायक-प्रणयं प्रति
यथा-
सुप्ते प्रेक्ष्य पृथक् पुरः प्रियतमे तत्रार्पयन् पुष्पजं
लीलाया नयनाञ्चले किल रजश् चक्रे प्रबोधोद्यमम् ।
कृष्णः शीतल-ताल-वृन्त-रचनोपायेन पश्याग्रत-
स्तारायाः प्रणयाद् इव प्रणयते निद्राभिवृद्धि-क्रमम्
यथा वा-
दीव्यन्त्यौ दयिते समीक्ष्य रभसाद् अक्षैस् त्र्यहात्म-ग्लहै-
र्गौरीं घूर्णितयोपदिश्य हितवद्-दाय-प्रयोगं भ्रुवा ।
तस्यास् तूर्णम् उपार्जयन्न् इव जयं शिक्षा-वशेनाच्युतः
श्यामाम् एव चकार धूर्त-नगरी-सङ्केत-विज् जित्वराम्
काचित् काञ्चिद् अपेक्ष्य स्याज् ज्येष्ठेत्य् आपेक्षिकी भिदा ।
अतो भेद-द्वयम् इदं न कृतं गणनान्तरे
कन्या मुग्धैव सा किन्तु स्वीयान्योढे उभे बुधैः ।
मुग्धा-मध्यादिभेदेन षड्-भेदे परिकीर्तिते
मध्या-प्रौढे द्विषड्-भेदे प्रोक्ते धीरादि-भेदतः ।
कन्या स्वीया परोढेति मुग्धा च त्रिविधा मता ।
इति ताः कीर्तिता पञ्चदश भेदा इहाखिलाः
अथावस्थाष्टकं सर्व-नायिकानां निगद्यते ।
तत्राभिसारिका वास-सज्जा चोत्कण्ठिता तथा
खण्डिता विप्रलब्धा च कलहान्तरितापि च ।
प्रोषित-प्रेयसी चैव तथा स्वाधीन-भर्तृका
तत्र अभिसारिका, यथा-
याभिसारयते कान्तं स्वयं वाभिसरत्य् अपि ।
सा ज्योत्स्नी तामसी यान-योग्य-वेषाभिसारिका
लज्जया स्वाङ्ग-लीनेव निःशब्दाखिल-मण्डना ।
कृतावगुष्ठा स्निग्धैक-सखी-युक्ता प्रियं व्रजेत्
तत्र अभिसारयित्री, यथा-
जानीते न हरिर् यथा मम मनः-कन्दर्प-कण्डूम् इमां
मां प्रीत्याभिसरत्य् अयं सखि यथा कृत्वा त्वयि प्रार्थनाम् ।
चातुर्यं तरसा प्रसारय तथा सस्नेहम् आसाद्य तं
यावत् प्राणहरो न चन्द्रहतकः प्राची-मुखं चुम्बति
अथ ज्योत्स्न्यां स्वयम् अभिसारिका, यथा-
इन्दुस् तुन्दिल-मण्डलं प्रणयते वृन्दावने चन्द्रिकां
सान्द्रां सुन्दरि नन्दनो व्रज-पतेस् त्वद् वीथिम् उद्वीक्षते ।
त्वं चन्द्राञ्चित-चन्दनेन खचिता क्षौमेण चालङ्कृता
किं वर्त्मन्य् अरविन्द-चारु-चरण-द्वन्द्वं न सन्धित्ससि
तामस्यां, यथा विदग्ध-माधवे (4.22)-
तिमिर-मसिभिः संवीताङ्ग्यः कदम्ब-वनान्तरे
सखि बक-रिपुं पुण्यात्मानः सरन्त्य् अभिसारिकाः ।
तव तु परितो विद्युद्-वर्णास् तनु-द्युति-सूचयो
हरि हरि घन-ध्वान्तान्येताः स्ववैरिणि भिन्दते
अथ वासक-सज्जा-
स्ववासक-वशात् कान्ते समेष्यति निजं वपुः ।
सज्जी-करोति गेहं च या सा वासक-सज्जिका
चेष्टा चास्याः स्मर-क्रीडा-सङ्कल्पो वर्त्म-वीक्षणम् ।
सखी-विनोद-वार्त्ता च मुहुर् दूति-क्षणादयः
यथा-
रति-क्रीडा-कुञ्जं कुसुम-शयनीयोज्ज्वल-रुचिं
वपुः सालङ्कारं निजम् अपि विलोक्य स्मित-मुखी ।
मुहुर् ध्यायं ध्यायं किम् अपि हरिणा सङ्गम-विधिं
समृद्ध्यन्ती राधा मदन-मद-माद्यन् मतिर् अभूत्
अथ उत्कण्ठिता-
अनागसि प्रियतमे चिरयत्य् उत्सुका तु या ।
विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता
अस्यास् तु चेष्टा हृत्-तापो वेपथुर् हेतु-तर्कणम् ।
अरतिर् वाष्प-मोक्षण् च स्वावस्था-कथनादयः
यथा-
सखि किम् अभवद् बद्धो राधा-कटाक्ष-गुणैर् अयं
समरम् अथवा किं प्रारब्धं सुरारिभिर् उद्धुरैः ।
अहह बहुलाष्टम्यां प्राची-मुखेऽप्य् उदिते विधौ
विधु-मुखि! न यन् मां सस्मार व्रजेश्वर-नन्दनः
वास-सज्जा-दशाशेषे मानस्य विरताव् अपि ।
पारतन्त्र्ये तथा यूनोर् उत्कण्ठा स्याद् असङ्गमात्
अथ विप्रलब्धा-
कृत्वा सङ्केतम् अप्राप्ते दैवाज् जीवित-वल्लभे ।
व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः ।
निर्वेद-चिन्ता-खेदाश्रु-मूर्च्छा-निःश्वसितादि-भाक्
यथा-
विन्दति स्म दिवम् इन्दुर् इन्दिरा-
नायकेन सखि वञ्चिता वयम् ।
कुर्महे किम् इह शाधि सादरं
द्राग् इति क्लमम् अगान् मृगेक्षणा
उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् ।
भोग-लक्ष्माङ्कितः प्रातरागच्छेत् सा हि खण्डिता ।
एषा तु रोष-निःश्वास-तूष्णीं-भावादि-भाग् भवेत्
यथा-
यावैर् धूमलितं शिरो भुज-तटीं ताटङ्क-मुद्राङ्कितां
संक्रान्त-स्तन-कुङ्कुमोज्ज्वलम् उरो मालां परिम्लापिताम् ।
घूर्णा-कुड्मलिते दृशौ व्रज-पतेर् दृष्ट्वा प्रगे श्यामला
चित्ते रुद्र-गुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम्
अथ कलहान्तरिता-
या सखीनां पुरः पाद-पतितं वल्लभं रुषा ।
निरस्य पश्चात् तपति कलहान्तरिता हि सा ।
अस्याः प्रलाप-सन्ताप-ग्लानि-निःश्वसितादयः
यथा-
स्रजः क्षिप्ता दूरे स्वयम् उपहृताः केशि-रिपुणा
प्रिय-वाचस् तस्य श्रुति-परिसरान्तेऽपि न कृताः ।
नमन्न् एष क्षौणी-विलुठित-शिखं प्रैक्षि न मया
मनस् तेनेदं मे स्फुटति पुटपाकार्पितम् इव
अथ प्रोषित-भर्तृका-
दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका ।
प्रिय-संकीर्तनं दैन्यम् अस्यास् तानव-जागरौ ।
मालिन्यम् अनवस्थानं जाड्य-चिन्तादयो मताः
यथा-
विलासी स्वच्छन्दं वसति मथुरायां मधु-रिपु-
र्वसन्तः सन्तापं प्रथयति समन्ताद् अनुपदम् ।
दुराशेयं वैरिण्य् अहह मद्-अभीष्टोद्यम-विधौ
विधत्ते प्रत्यूहं किम् इह भविता हन्त शरणम्
अथ स्वाधीन-भर्तृका-
स्वायत्तासन्न-दयिता भवेत् स्वाधीन-भर्तृका ।
सलिलारण्य-विक्रीडा-कुसुमावचयादि-कृत्
यथा-
मुदा कुर्वन् पत्राङ्कुरम् अनुपमं पीन-कुचयोः
श्रुति-द्वन्द्वे गन्धाहृत-मधुपम् इन्दीवर-युग्मम् ।
सखेलं धम्मिल्लोपरि च कमलं कोमलम् असौ
निराबाधां राधां रमयति चिरं केशि-दमनः
यथा वा, श्री-गीत-गोविन्दे (12.25)-
रचय कुचयोश् चित्रं पत्रं कुरुष्व कपोलयो-
र्घटय जघने काञ्चीं मुग्ध-स्रजा कवरि-भरं ।
कलय वलय-श्रेणीं पाणौ पदे मणि-नूपुरा-
विति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत्
चेद् इयं प्रेयसा हातुं क्षणम् अप्य् अतिदुःशका ।
परम-प्रेम-वश्यत्वान् माधवीति तदोच्यते
हृष्टाः स्वाधीन-पतिका-वाससज्जाभिसारिकाः ।
मण्डिताश् च पराः पञ्च खिन्ना मण्डन-वर्जिताः ।
वाम-गण्डाश्रित-कराश् चिन्ता-सन्तप्त-मानसाः
उत्तमा मध्यमा चात्र कनिष्ठा चेति तास् त्रिधा ।
व्रजेन्द्रनन्दने प्रेम-तारतम्येन कीर्तिताः
भावः स्याद् उत्तमादीनां यस्या यावान् प्रिये हरौ ।
तस्यापि तस्यां तावान् स्याद् इति सर्वत्र युज्यते
तत्र उत्तमा, यथा-
कर्तुं शर्म क्षणिकम् अपि मे साध्यम् उज्झत्य् अशेषं
चित्तोत्सङ्गे न भजति मया दत्त-खेदाप्य् असूयाम् ।
श्रुत्वा चान्तर्विदलति मृषाप्य् आर्ति-वार्ता-लवं मे
राधा मूर्धन्य् अखिल-सुदृशां राजते सद्-गुणेन
मध्यमा, यथा-
दुर्मानम् एव मनना बहु मानयन्ती
किं ज्ञात-कृष्ण-हृदयार्तिर् अपि प्रयासि ।
रङ्गे तरङ्गम् अखिलाङ्गि वराङ्गनानां
नासौ प्रिये सखि भवत्य् अनुराग-मुद्रा
कनिष्ठा, यथा-
दनुजभिद्-अभिसार-प्रस्तुतौ वृष्टिम् उग्रां
जन-गमन-विरामाद् उच्चकैः स्तौषि तुष्टा ।
कथय कथम् इदानीं जृम्भिते मेघ-डिम्भे
कुतुकिनि बत कुञ्जे प्रस्थितौ मन्थरासि
पूर्वं याः पञ्चदशधा प्रोक्तास् तासां शतं तथा ।
विंशतिश् चाभिर् अत्र स्याद् अवस्थाभिः किलाष्टभिः
पुनश् च त्रि-विधैर् एभिः प्रभेदैर् उत्तमादिभिः ।
त्रिशती स्पष्टम् उक्तात्र षष्ट्या युक्ता मनीषिभिः
किं च-
यथा स्युर् नायकावस्था निखिला एव माधवे ।
तथैता नायिकावस्था राधायां प्रायशो मताः
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0