उज्ज्वलनीलमणि · अध्याय 4
इति श्री-श्री-उज्ज्वल-नीलमणौ श्री-हरि-प्रिया-प्रकरणम् ॥3॥
(4)
अथ श्री-राधा-प्रकरणम्
तत्रापि सर्वथा श्रेष्ठे राधा-चन्द्रावलीत्य् उभे ।
यूथयोस् तु ययोः सन्ति कोटि-सङ्ख्या मृगीदृशः
अभूद् आकुलितो रासः प्रमदा-शत-कोटिभिः ।
पुलिने यामुने तस्मिन्न् इत्य् एषागमिकी प्रथा
तयोर् अप्य् उभयोर् मध्ये राधिका सर्वथाधिका ।
महा-भाव-स्वरूपेयं गुणैर् अतिवरीयसी
गोपालोत्तर-तापन्यां यद् गान्धर्वेति विश्रुता ।
राधेत्य् ऋक्-परिशिष्टे च माधवेन सहोदिता ।
अतस् तदीय-माहात्म्यं पाद्मे देवर्षिणोदितम्
तथा हि-
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा
ह्लादिनी या महा-शक्तिः सर्व-शक्ति-वरीयसी ।
तत्-सार-भाव-रूपेयम् इति तन्त्रे प्रतिष्ठिता
सुष्ठु-कान्त-स्वरूपेयं सर्वदा वार्षभानवी ।
धृत-षोडश-शृङ्गारा द्वादशाभरणान्विता
तत्र सुष्ठु-कान्त-स्वरूपा, यथा श्री-कृष्ण-वाक्यम्---
कचास् तव सुकुञ्चिता मुखम् अधीर-दीर्घेक्षणं
कठोर-कुच-भाग्-उरः क्रशिम-शालि मध्य-स्थलम् ।
नते शिरसि दोर्लते करज-रत्न-रम्यौ करौ
विधूनयति राधिके त्रि-जगद् एष रुपोत्सवः
अथ धृत-षोडश-शृङ्गारा-
स्नाता नासाग्र-जाग्रन्-मणि-रसित-पटा सूत्रिणी बद्ध-वेणी
सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता ।
ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशा-कल्पिनीयम्
अथ द्वादशाभरणाश्रिता-
दिव्यश् चूडा-मणीन्द्रः पुरट-विरचिताः कुण्डल-द्वन्द्व-काञ्चि-
निष्काश् चक्री-शलाका-युग-वलय-घटाः कण्ठ-भूषोर्मिकाश् च ।
हारास् तारानुकार भुज-कटक-तुलाकोटयो रत्न-क् प्तास्
तुङ्गा पादाङ्गुरीय-च्छविर् इति रविभिर् भूषणैर् भाति राधा
।
अथ वृन्दावनेश्वर्याः कीर्त्यन्ते प्रवरा गुणाः ।
मधुरेयं नव-वयाश् चलापाङ्गोज्ज्वल-स्मिता
चारु-सौभाग्य-रेखाढ्या गन्धोन्मादित-माधवा ।
सङ्गीत-प्रसराभिज्ञा रम्य-वाङ् नर्म-पण्डिता
विनीता करुणा-पूर्णा विदग्धा पाटवान्विता ।
लज्जा-शीला सुमर्यादा धैर्य-गाम्भीर्य-शालिनी
सुविलासा महाभाव-परमोत्कर्ष-तर्षिणी ।
गोकुल-प्रेम-वसतिर् जगच्-छ्रेणी-लसद्-यशाः
गुर्व्-अर्पित-गुरु-स्नेहा सखी-प्रणयिता-वशा ।
कृष्ण-प्रियावली-मुख्या सन्तताश्रव-केशवा ।
बहुना किं गुणास् तस्याः सङ्ख्यातीता हरेर् इव
इत्य् अङ्गोक्ति-मनः-स्थास् ते पर-सम्बन्ध-गास् तथा ।
गुणा वृन्दावनेश्वर्या इह प्रोक्ताश् चतुर्विधाः
माधुर्यं चारुता नव्यं वयः कैशोर-मध्यमम् ।
सौभाग्य-रेखा पादादि-स्थिताश् चन्द्र-कलादयः
साधुमार्गाद् अचलनं मर्यादेत्य् उदितं बुधैः ।
लज्जाभिजात्य-शीलाद्यैर् धैर्यं दुःख-सहिष्णुता
व्यक्तत्वाल् लक्षितत्वाच् च नान्येषां लक्षणं कृतम्
तत्र मधुरा, यथा विदग्ध-माधवे (1.32)-
बलाद् अक्ष्णोर् लक्ष्मीः कवलयति नव्यं कुवलयं
मुखोल्लासः फुल्लं कमल-वनम् उल्लङ्घयति च ।
दशां कष्टाम् अष्टा-पदम् अपि नयत्य् आङ्गिक-रुचिर्
विचित्रं राधायाः किम् अपि किल रूपं विलसति
अथ नव-वयाः-
श्रोणिः स्यन्दनतां कृशोदरि कुच-द्वन्द्वं क्रमाच् चक्रतां
भ्रूश् चाप-श्रियम् ईक्षण-द्वयम् इदं यात्य् आशुगत्वं तव ।
सैनापत्यम् अतः प्रदाय भुवि ते कामः पशूनां पतिं
धुन्वन् जित्वर-मानिनं त्वयि निजं साम्राज्य-भारं न्यधात्
अथ चपलापाङ्गी-
तडिद्-अतिचलतां ते किं दृगन्ताद् अपाठीद्
विधु-मुखि तडितो वा किं तवायं दृगन्तः ।
ध्रुवम् इह गुरुताभूत् त्वद्-दृग्-अन्तस्य राधे
वरम् अतिजविनां मे येन जिग्ये मनोऽपि
अथ उज्ज्वल-स्मिता-
तव वदन-विधौ विधौत-मध्यां
स्मित-सुधयाधर-लेखिकाम् उदीक्ष्य ।
सखि लघुर् अघभिच्-चकोर-वर्यः
प्रमद-मदोद्धुर-बुद्धिर् उज्जिहीते
अथ चारु-सौभाग्य-रेखाढ्या-
अघहर भज तुष्टिं पश्य यच्चन्द्रलेखा-
वलयकुसुमवल्लीकुण्डलाकारभाग्भिः ।
अभिदधति निलीनामत्र सौभाग्यरेखा-
विततिभिरनुविद्धाः सुष्ठु राधां पदाङ्काः
अथ गन्धोन्मादित-माधवा-
वल्ली-मण्डल-पल्लवालिभिर् इतः सङ्गोपनायात्मनो
मा वृन्दावन-चक्रवर्तिनि कृथा यत्नं मुधा माधवि ।
भ्राम्यद्भिः स्व-विरोधिभिः परिमलैर् उन्मादनैः सूचितां
कृष्णस् तां भ्रमाधिपः सखि धुवन् धूर्तो ध्रुवं धास्यति
अथ सङ्गीत-प्रसराभिज्ञा-
कृष्ण-सार-हर-पञ्चम-स्वरे
मुञ्च गीत-कुतुकानि राधिके ।
प्रेक्षतेऽत्र हरिणानुधावितां
त्वां न यावद् अतिरोषणः पतिः
अथ रम्य-वाक्-
सुवदने वदने तव रधिके
स्फुरति केयम् इहाक्षर-माधुरी ।
विकलतां लभते किल कोकिलः
सखि ययाद्य सुधापि मुधार्थताम्
अथ नर्म-पण्डिता-
वंश्यास् त्वम् उपाध्यायः
किम् उपाध्यायी तवात्र वंशी वा ।
कुल-युवति-धर्म-हरणाद्
अस्ति ययोर् नापरं कर्म
यथा वा-
देव प्रसीद वृष-वर्धन पुण्य-कीर्ते
साध्वी-गण-स्तन-शिवार्चन-नित्य-पूत ।
निर्मञ्छनं तव भजे रवि-पूजनाय
स्नातास्मि हन्त मम न स्पृश न स्पृशाङ्गम्
अथ विनीता-
अपि गोकुले प्रसिद्धा भ्रू-भ्रमिभिः परिजनैर् निषिद्धापि ।
पीठं मुमोच राधा भद्रिकाम् अपि दूरतः प्रेक्ष्य
यथा वा, विदग्ध-माधवे (5.15)-
भूयो भूयः कलि-विलसितैः सापराधापि राधा
श्लाघ्येनाहं यद् अघरिपुणा बाढम् अङ्गीकृतास्मि ।
तत्र क्षामोदरि किम् अपरं कारणं वः सखीनां
दत्तामोदां प्रगुण-करुणा-मञ्जरीम् अन्तरेण
अथ करुणा-पूर्णा-
तार्ण-सूचि-शिखयापि तर्णकं
विद्ध-वक्त्रम् अवलोक्य सास्रया ।
लिप्यते क्षतम् अवाप्त-बाधया
कुङ्कुमेन कृपयास्य राधया
अथ विदग्धा-
आचार्या धातु-चित्रे पचन-विरचना-चातुरी-चारु-चित्ता
वाग्-युद्धे मुग्धयन्ती गुरुम् अपि च गिरां पण्डिता माल्य-गुम्फे ।
पाठे शारी-शुकानां पटुर् अजितम् अपि द्यूत-केलिषु जिष्णुर्
विद्या-विद्योति-बुद्धिः स्फुरति रति-कला-शालिनी राधिकेयम्
अथ पाटवान्विता, यथा विदग्ध-माधवे (3.3)-
छिन्नः प्रियो मणिसरः सखि मौक्तिकानि
वृत्तान्य् अहं विचिनुयाम् इति कैतवेन ।
मुग्धं विवृत्य मयि हन्त दृगन्त-भङ्गीं
राधा गुरोर् अपि पुरः प्रणयाद् व्यतानीत्
अथ लज्जा-शीला-
व्रज-नरपति-सूनुर् दुल्रभालोकनोऽयं
स्फुरति रहसि ताम्यत्य् एष तर्षाज् जनोऽपि ।
विरम जननि लज्जे किञ्चिद् उद्घाट्य वक्त्रं
निमिषम् इह मनाग् अप्य् अक्षि-कोणं क्षिपामि
अथ सुमर्यादा-
प्राणान् अकृताहारा सखि राधा-चातकी वरं त्यजति ।
न तु कृष्ण-मुदिर-मुक्ताद् अमृताद् वृत्तिं भजेद् अपराम्
यथा वा-
आहूयमाना व्रजनाथयास्मि युक्तोऽभिसारः सखि नाधुना मे ।
न तादृशीनां हि गुरूत्तमानाम् आज्ञास्व् अवज्ञा वलते शिवाय
यथा वा-
पूर्णाशीः पूर्णिमासाव् अनवहिततया या त्वयास्यै वितीर्णा
वष्टि त्वाम् एव तन्वन्न् अखिल-मधुरिमोत्सेकम् अस्यां मुकुन्दः ।
दिष्ट्या पर्वोदगात् ते स्वयम् अभिसरणे चित्तम् आधत्स्व वत्से
युक्त्याप्य् उक्ता मयेति द्युमणि-सख-सुता प्राहिणोद् एव चित्राम्
अथ धैर्य-शालिनी-
तीव्रस् तर्जति भिन्न-धीर् गृह-पतिश् छद्म-ज्ञया पद्मया
हारं हारयति हरि-प्रणिहितं कीशेन भर्तुः स्वसा ।
मल्लीं लुम्पति कृष्ण-काम्य-कुसुमां शैव्या प्रिया वर्करी
राधा पश्य तथाप्य् अतीव सहना तुष्णीम् असौ तिष्ठति
अथ गाम्भीर्य-शालिनी-
कलहान्तरितापदे स्थितिं
सखि धीराद्य गतापि राधिका ।
बहिर् उद्भट-मान-लक्षणा
सुदुरूहा ललिता धियाप्य् अभूत्
अथ सुविलासा-
तिर्यक्-क्षिप्त-चलद्-दृगञ्चल-रुचिर् लास्योल्लसद्-भ्रू-लता
कुन्दाभ-स्मित-चन्दिकोज्ज्वल-मुखी गण्डोच्छलत्-कुण्डला ।
कन्दर्पागम-सिद्ध-मन्त्र-गहनाम् अर्धं दुहाना गिरं
हारिण्य् अद्य हरेर् जहार हृदयं राधा विलासोर्मिभिः
अथ महा-भाव-परमोत्कर्ष-तर्षिणी-
अश्रूणाम् अतिवृष्टिभिर् द्विगुणयन्त्य् अर्कात्मजा-निर्झरं
ज्योत्स्नी-स्यन्दि-विधूपल-प्रतिकृति-च्छायं वपुर् बिभ्रती ।
कण्ठान्तस् त्रुटद्-अक्षराद्य-पुलकैर् लब्धा कदम्बाकृतिं
राधा वेणु-धर प्रवात-कदली-तुल्या क्वचिद् वर्तते
अथ गोकुल-प्रेम-वसतिः-
प्रेम-सन्ततिभिर् एव
वेधसा नु वृषभानु-नन्दिनी ।
यादृशां पदम् इता मनांसि नः
स्नेहयत्य् अखिल-गोष्ठ-वासिनाम्
अथ जगच्-छ्रेणी-लसद्-यशाः-
उत्फुल्लं किल कुर्वती कुवलयं देवेन्द्र-पत्नी-श्रुतौ
कुन्दं निक्षिपती विरिञ्ची-गृहिणी-रोमौषधी-हर्षिणी ।
कर्णोत्तंस-सुधांशु-रत्न-सकलं विद्राव्य भद्राङ्गि ते
लक्ष्मीम् अप्य् अधुना चकार चकितां राधे यशः-कौमुदी
अथ गुर्व्-अर्पित-गुरु-स्नेहा-
न सुतासि कीर्तिदायाः
किन्तु ममैवेति तथ्यम् आख्यामि ।
प्राणिमि वीक्ष्य मुखस् ते
कृष्णस्येवेति किं त्रपसे
अथ सखी-प्रणयाधीना-
उपदिश सखि वृन्दे वल्लवेन्द्रस्य सूनुं
किम् अयम् इह सखीनां माम् अधीनां दुनोति ।
अपसरतु सशङ्कं मन्दिरान् मानिनीनां
कलयति ललितायाः किं न शौटीर्य-धाटीम्
अथ कृष्ण-प्रियावली-मुख्या, यथा ललित-माधवे (10.10)-
सन्तु भ्राम्यद्-अपाड्ग-भङ्गि-खुरली-खेलाभुवः सुभ्रुवः
स्वस्ति स्यान् मदिरेक्षणे क्षणम् अपि त्वाम् अन्तरा मे कुतः ।
ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया
नाकाशे वृषभानुजां श्रियम् ऋते निष्पद्यते स्वश्-छटा
अथ सन्तताश्रव-केशवा-
षड्-अङ्घ्रिभिर् अर्दितान् कुसुम-सञ्चयान् आचिनोद्
अखण्डम् अपि राधिके बहु-शिखण्डकं त्वद्-गिरा ।
अमुञ्च नव-पल्लव-व्रजम् उदञ्चद् अर्कोज्ज्वलं
करोतु वशगो जनः किम् अयम् अन्यद्-आज्ञापय
यस्याः सर्वोत्तमे यूथे सर्व-सद्-गुण-मण्डिताः ।
समन्तान् माधवाकर्षि-विभ्रमाः सन्ति सुभ्रुवः
तास् तु वृन्दावनेश्वर्याः सख्यः पञ्च-विधा मताः ।
सख्यश् च नित्य-सख्यश् च प्राण-सख्यश् च काश्चन ।
प्रिय-सख्यश् च परम-प्रेष्ठ-सख्यश् च विश्रुताः
सख्यः कुसुमिका-विन्ध्या-धनिष्ठाद्याः प्रकीर्तिताः ।
नित्य-सख्यश् च कस्तूरी-मणि-मञ्जरिकादयः
प्राण-सख्यः शशिमुखी-वासन्ती-लासिकादयः ।
गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम्
प्रिय-सख्यः कुरङ्गाक्षी सुमध्या मदनालसा ।
कमला माधुरी मञ्जु-केशी कन्दर्प-सुन्दरी ।
माधवी मालती काम-लता शशिकलादयः
परम-प्रेष्ठ-सख्यस् तु ललिता स-विशाखिका ।
स-चित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।
रङ्गदेवी सुदेवी चेत्यष्टौ सर्व-गणाग्रिमाः
आसां सुष्ठु द्वयोर् एव प्रेम्णः परम-काष्ठया ।
क्वचिज् जातु क्वचिज् जातु तद्-आधिक्यम् इवेक्षते
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0