उज्ज्वलनीलमणि · अध्याय 3
इति श्री-श्री-उज्ज्वल-नीलमणौ नायक-सहाय-भेद-प्रकरणम् ॥2॥
(3)
अथ श्री-हरि-प्रिया-प्रकरणम्
हरेः साधारण-गुणैर् उपेतास् तस्य वल्लभाः ।
पृथु-प्रेम्णां सुमाधुर्य-सम्पदां चाग्रिमाश्रयाः
यथा-
प्रणमामि ताः परम-माधुरी-भृतः
कृत-पुण्य-पुञ्ज-रमणी-शिरोमणीः ।
उपसन्न-यौवन-गुरोर् अधीर्त्य याः
स्मर-केलि-कौशलम् उदाहरन् हरौ
स्वकीयाः परकीयाश् च द्विधा ताः परिकीर्तिताः
तत्र स्वकीयाः-
कर-ग्रह-विधिं प्राप्ताः पत्युर् आदेश-तत्-पराः ।
पातिव्रत्याद् अविचलाः स्वकीयाः कथिता इह
यथा-
सुनिर्माणे धर्माध्वनि पति-पराभिः परिचिते
मुदा बद्ध-श्रद्धा गिरि च गुरु-वर्गस्य परितः ।
गृहे याः सेवन्ते प्रियम् अपरतन्त्राः प्रतिदिनं
महिष्यस् ताः शौरेस् तव मुदम् उदग्रां विदधतु
यथा वा श्री-दशमे (10.60.55)-
न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु
पश्यामि मानिनि यया स्व-विवाह-काले ।
प्राप्तान् नृपान् न विगणय्य रहो-हरो मे
प्रस्थापितो द्विज उपश्रुत-सत्-कथस्य
तास् तु श्री-यदु-वीरस्य सहस्राण्यस्य षोडश ।
अष्टोत्तर-शताग्राणि द्वारवत्यां सुविश्रुताः
आसां सख्यश् च दास्यश् च प्रत्येकं स्युः सहस्रशः ।
तुल्य-रूप-गुणाः सख्यः किञ्चिन् न्यूनास् तु दासिकाः
तत्रापि रुक्मिणी सत्या जाम्बवत्य् अर्क-नन्दिनी ।
शैव्या भद्रा च कौशल्या माद्रीत्य् अष्टौ गणाग्रिमाः
तत्रापि रुक्मिणी-सत्ये वरीयस्यौ प्रकीर्तिते ।
ऐश्वर्याद् रुक्मिणी तत्र सत्या सौभाग्यतो वरा
तथा हि हरि-वंशे-
कुटुम्बस्येश्वरी यासीद् रुक्मिणी भीष्मकात्मजा ।
सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत्
पाद्मे (6.88.28) च कार्त्तिक-माहात्म्ये तां प्रति श्री-कृष्ण-वाक्यं
न मे त्वत्तः प्रियतमा काचिद् अन्या नितम्बिनी ।
षोडश-स्त्री-सहस्राणां प्रिये प्राण-समा ह्य् असि
अनयोः सकलोत्कृष्टाः सख्यो दास्यश् च लक्षशः ।
स्वीया-जातीय-भावेन निखिला एव भाविताः
याश् च गोकुल-कन्यासु पति-भाव-रता हरौ ।
तासां तद्-वृत्ति-निष्ठित्वान् न स्वीयात्वम् असाम्प्रतम्
यथा-
आर्या चेद् अतिवत्सला मयि मुहुर् गोष्ठेश्वरी किं ततः
प्राणेभ्यः प्रणयास्पदं प्रिय-सखी-वृन्दं किम् एतेन मे ।
वैकुण्ठाटवि-मण्डली-विजयी चेद् वृन्दावनं तेन किं
दीव्यत्य् अत्र न चेद् उमा-व्रत-फलं पिञ्चावतंसी पतिः
गाधर्व-रीत्या स्वीकारात् स्वीयात्वम् इह वस्तुतः ।
अव्यक्तत्वाद् विवाहस्य सुष्ठु प्रच्छन्न-कामता
अथ परकीया-
रागेणैवार्पितात्मानो लोक-युग्मानपेक्षिणा ।
धर्मेणास्वीकृता यास् तु परकीया भवन्ति ताः
यथा--
रागोल्लास-विलङ्घितार्य-पदवी-विश्रान्तयोऽप्य् उद्धुर-
श्रद्धा-रज्यद्-अरुन्धती-मुख-सती-वृन्देन वन्द्येहिताः ।
आरण्या अपि माधुरी-परिमल-व्याक्षिप्त-लक्ष्मी-श्रियस्
तास् त्रैलोक्य-विलक्षणा ददतु वः कृष्णस्य सख्यः सुखम्
कन्यकाश् च परोढाश् च परकीया द्विधा मताः ।
प्रच्छन्न-कामता ह्य् अत्र गोकुएन्द्रस्य सौख्यता
तथा हि रुद्रः (शृङ्गार-तिलके 2.30)-
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम्
विष्णु-गुप्त-संहितायां च-
यत्र निषेध-विशेषः सुदुर्लभत्वं च यन् मृगाक्षीणाम् ।
तत्रैव नागराणां निर्भरम् आसज्जते हृदयम्
आः किंवान्यद् यतस् तस्याम् इदम् एव महामुनिः ।
जगौ पारमहंस्यां च संहितायां स्वयं शुकः
यथा श्री-दशमे (10.33.19)-
कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः ।
रेमे स भगवांस् ताभिर् आत्मारामो æपि लीलया
तथा च तत्रैव (10.33.31, 36)-
नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः ।
विनश्यत्य् आचरन् मौठ्याद् यथारुद्रो æब्धि-जं विषम्
अनुग्रहाय भक्तानां मानुषं देहम् आश्रितः ।
भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत्
श्री-मुखेन तु माहात्म्यम् आसां प्राह स्वयं हरिः
यथा तत्रैव (10.32.22)-
न पारये æहं निरवद्य-संयुजां
स्व-साधु-कृत्यं विबुधायुषापि वः ।
याम् आभजन् दुर्जर-गेह-शृङ्खलाः
संवृश्च्य तद् वः प्रतियातु साधुना
उद्धवोऽपि जगौ सुष्ठु सर्व-भागवतोत्तमः
यथा (भ्प् 10.47.61)-
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् ।
या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा
भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम्
माया-कलित-तादृक्-स्त्री-शीलनेनानसूयभिः ।
न जातु व्रज-देवीनां पतिभिः सह सङ्गमः
तथा हि श्री-दशमे (10.33.37)-
नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः
तत्र कन्यकाः-
अनूढाः कन्यकाः प्रोक्ताः स-लज्जाः पितृ-पालिताः ।
सखी-केलिषु विस्रब्धाः प्रायो मुग्धा-गुणान्विताः
तत्र दुर्गा-व्रत-पराः कन्या धन्यादयो मताः ।
हरिणा पूरिताभीष्टास् तेन तास् तस्य वल्लभाः
यथा-
विस्रब्धा सखि धूलि-केलिषु पटा-संवीत-वक्षः-स्थला
बालासीति न वल्लवस् तव पिता जामातरं मृग्यति ।
त्वं तु भ्रान्त-विलोचनास् तम् अचिराद् आकर्ण्य वृन्दावने
कूजन्तीं शिखि-पिच्छ-मौलि-मुरलीं सोत्कम्पम् आघूर्णसि
अथ परोढाः-
गोपैर् व्यूढा अपि हरेः सदा सम्भोग-लालसाः ।
परोढा वल्लभास् तस्य व्रज-नार्योऽप्रसूतिकाः
यथा पद्यावल्याम् (312)-
कात्यायनी-कुसुम-कामनया किम् अर्थं
कान्तार-कुक्षि-कुहरं कुतुकाद् गतासि ।
पश्य स्तन-स्तवकयोस् तव कण्टकाङ्कं
गोपः सुकण्ठि बत पश्यसि जात-कोपः
एताः सर्वातिशायिन्यः शोभा-साद्गुण्य-वैभवैः ।
रमादिभ्योऽप्य् उरु-प्रेम-माधुर्य-भर-भूषिताः
तथा श्री-दशमे (10.47.60)-
नायं श्रियो æङ्ग उ नितान्त-रतेः प्रसादः
स्वर्-योषितां नलिन-गन्ध-रुचां कुतो æन्याः ।
रासोत्सवे æस्य भुज-दण्ड-गृहीत-कण्ठ-
लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम्
तास् त्रिधा साधन-परा देव्यो नित्य-प्रियास् तथा
तत्र साधनपराः-
स्युर् यौथिक्यस् त्व् अयौथिक्य इति तत्रादिमा द्विधा
तत्र यौथिक्यः-
यौथिक्यस् तत्र संभूय गणशः साधने रताः ।
द्विविधास् तास् तु मुनयस् तथोपनिषदो मताः
तत्र मुनयः-
गोपालोपासकाः पूर्वम् अप्राप्ताभीष्ट-सिद्धयः ।
चिराद् उद्बुद्ध-रतयो राम-सौन्दर्य-वीक्षया
मुनयस् तन्-निजाभीष्ट-सिद्धि-सम्पादने रताः ।
लब्ध-भावा व्रजे गोप्यो जाताः पाद्म इतीरितम्
कथाप्य् अन्या किल बृहद्-वामने चेति विश्रुतिः ।
सिद्धिं कतिचिद् एवासां रासारम्भे प्रपेदिरे ।
इति केचित् प्रभाषन्ते प्रकटार्थानुसारिणः
अथ उपनिषदः-
समन्तात् सूक्ष्म-दर्शिन्यो महोपनिषदोऽखिलाः ।
गोपीनां वीक्ष्य सौभाग्यम् असमोर्ध्वं सुविस्मिताः
तपांसि श्रद्धया कृत्वा प्रेमाढ्या जज्ञिरे व्रजे ।
वल्लव्य इति पौराणी तथौपनिषदी प्रथा
अथ अयौथिक्यः-
तद्-भाव-बद्ध-रागा ये जनास् ते साधने रताः ।
तद्-योग्यम् अनुरागौघं प्राप्योत्कण्ठानुसारतः
ता एकशोऽथवा द्वि-त्राः काले काले व्रजेऽभवन् ।
प्राचीनाश् च नवाश् च स्युर् अयौथिक्यस् ततो द्विधा
नित्य-प्रियाभिः सालोक्यं प्राचीनाश् चिरम् आगताः ।
व्रजे जाता नवास् त्व् एता मर्त्यामर्त्यादि-योनितः
अथ देव्यः-
देवेष्व् अंशेन जातस्य कृष्णस्य दिवि तुष्टये ।
नित्य-प्रियाणाम् अंशास् तु या याता देव-योनयः
अत्र देवावतरणे जनित्वा गोप-कन्यकाः ।
ता अंशिनीनाम् एवासां प्रिय-सख्योऽभवन् व्रजे
अथ नित्यप्रियाः-
राधा-चन्द्रावली-मुख्याः प्रोक्ताः नित्य-प्रिया व्रजे ।
कृष्णवन् नित्य-सौन्दर्य-वैदग्ध्यादि-गुणाश्रयाः
तथा च ब्रह्म-संहितायां (5.48)-
आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तत्र शास्त्रसिद्धास्तु राधा चन्द्रावली तथा ।
विशाखा ललिता श्यामा पद्मा शैब्या च भद्रिका ।
तारा विचित्रा गोपाली धनिष्ठा पालिकादयः
चन्द्रावल्येव सोमाभा गान्धर्वा राधिकैव सा ।
अनुराधा तु ललिता नैतास्तेनोदिताः पृथक्
लोकप्रसिद्धनाम्न्यस्तु खञ्जनाक्षी मनोरमा ।
मङ्गला विमला लीला कृष्णा शारी विशारदा ।
तारावली चकोराक्षी शङ्करी कुङ्कुमादयः
इत्यादीनान्तु शतशो यूथानि व्रजसुभ्रुवाम् ।
लक्षसङ्ख्यास्तु कथिता यूथे यूथे वराङ्गनाः
सर्वा यूथाधिपा एता राधाद्याः कुङ्कुमान्तिमाः ।
विशाखां ललितां पद्मां शैब्याञ्च प्रोह्य कीर्तिताः
किन्तु सौभाग्य-धौरेया अष्टौ राधादयो मताः ।
यूथाधिपात्वे æप्य् औचित्यं दधाना ललितादयः ।
स्वेष्ट-राधादि-भावस्य लोभात् सख्य-रुचिं दधुः
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0