भाषा

ENहिગુ
ग्रंथ पाठ

उज्ज्वलनीलमणि · अध्याय 2

2.1

इति श्री-श्रीमद्-उज्ज्वल-नीलमणौ नायक-भेद-प्रकरणम् ।
॥1॥
(2)
अथ नायक-सहाय-भेद-प्रकरणम्
अथैतस्य सहायाः स्युः पञ्चधा चेटको विटः ।
विदूषकः पीठमर्दः प्रियनर्मसखस्तथा

2.2

नर्मप्रयोगे नैपुण्यं सदा गाढानुरागिता ।
देशकालज्ञता दाक्ष्यं रुष्टगोपीप्रसादनम् ।
निगूढमन्त्रतेत्याद्याः सहायानां गुणाः स्मृताः

2.3

सन्धानचतुरश्चेटो गूढकर्मा प्रगल्भधीः ।
स तु भङ्गुरभृङ्गारादिकः प्रोक्तोऽत्र गोकुले

2.4

यथा-
न पुनरिदमपूर्वं देवि कुत्रापि दृष्टं
शरदि यदियमारान्माधवी पुष्पिताभूत् ।
इति किल वृषभानोर्लम्भितासौ कुमारी
व्रजनवयुवराज व्याजतः कुञ्जवीथिम्

2.5

अथ विटः-
वेशोपचारकुशलो धूर्तो गोष्ठीविशारदः ।
कामतन्त्रकलावेदी विट इत्यभिधीयते ।
कडारो भारतीवन्धुरित्यादिर्विट ईरितः

2.6

यथा-
व्रजे सारङ्गाक्षीविततिभिरनुल्लङ्घ्यवचनः
सखाहं तद्बन्धोश्चटुभिरभियाचे मुहुरिदम् ।
कलक्रीडद्वंशीस्थगितजगतीयौवतधृति-
स्त्वया युक्तः श्यामे न खलु परिहर्तुं सखि हरिः

2.7

अथ विदूषकः-
वसन्ताद्यभिधो लोलो भोजने कलहप्रियः ।
विकृताङ्गवचोवेषैर्हास्यकरी विदूषकः ।
विदग्धमाधवे ख्यातो यथासौ मधुमङ्गलः

2.8

यथा-
तुष्टेन स्मितपुष्पवृष्टिरधुना सद्यस्त्वया मुच्यताम्
आरूढः कुतुकी विमानमतुलं मां गोकुलाखण्डलः ।
इथं देवि मनोरथेन रभसादभ्यर्थ्यमानो.अप्यसौ
यत्ते मानिनि नाधरः प्रयतते तन्नाद्भुतं रागिषु

2.9

यथा वा-
ममोपहरति स्वयं भवदभीष्टदेवो नम-
न्नवं कमलमुज्ज्वलं कमलबन्धुरुत्कण्ठया ।
मया तु तदवज्ञया भुवि निरस्यते रुष्यता
न मानयसि मद्वचस्तदपि मानिनि त्वं कुतः

2.10

अथ पीठमर्दः-
गुणैर्नायककल्पो यः प्रेम्ना तत्रानुवृत्तिमान् ।
पीठमर्दः स कथितः श्रीदामा स्याद्यथा हरेः

2.11

यथा-
कालिन्दीपुलिने मुकुन्दचरितं विश्वस्य विस्मापनं
द्रष्टुं गच्छति गोष्ठमेव निखिलं नैकात्र चन्द्रावली ।
ब्रूमस्तस्य सुहृत्तमाः स्वयममी पथ्यञ्च तथ्यञ्च ते
मा गोवर्धनमल्ल घट्टय मुधा गोवर्धनोद्धारिणम्

2.12

यथा वा-
तवेयं श्रीदामन् भणितिर् इह विश्रम्भयति मां
प्रसादो रुद्राण्याः किम् इव चपलासु प्रसरतु ।
वने यान्तीं दुर्गार्चन-घुसृण-माल्याङ्कित-करां
वधूं दृष्ट्वा शङ्के प्रथयति कलङ्कं खल-जनः

2.13

अथ प्रिय-नर्म-सखः-
आत्यन्तिक-रहस्य-ज्ञः सखी-भाव-समाश्रितः ।
सर्वेभ्यः प्रणयिभ्योऽसौ प्रिय-नर्म-सखो वरः ।
स गोकुले तु सुबलस् तथा स्याद् अर्जुनादयः

2.14

यथा-
प्रत्यावर्तयति प्रसाद्य ललनां क्रीडा-कलि-प्रस्थितां
शय्यां कुञ्ज-गृहे करोत्य् अघ-भिदः कन्दर्प-लीलोचिताम् ॥
स्विन्नं बीजयति प्रिया-हृदि परिस्रस्ताङ्गम् उच्चैर् अमुं
क्व श्रीमान् अधिकारितां न सुबलः सेवा-विधौ विन्दति

2.15

यथा वा-
याभिः साचिदृगञ्चलेन चटुलं कंसारिरालिह्यते
दोर्द्वन्द्वेन कुचोपपीडमुरसि स्वैरं परिष्वज्यते ।
एतस्याधरसीधुरुद्धुरतया सामोदमास्वाद्यते
किं जानासि सखे व्यधायि कतरद्गोपीभिराभिस्तपः

2.16

चतुर्धाः सखायो.अत्र चेटः किङ्कर ईर्यते ।
पीठमर्दस्य वीरादावपि साहाय्यकारिता

2.17

हरिप्रियाप्रकरणे वक्ष्यन्ते यास्तु दूतिकाः ।
अत्रापि ता यथायोग्यं विज्ञेया रसवेदिभिः

2.18

तत्र स्वयं, यथा-
सखि माधवदृग्दूत्याः
कर्मठता कार्मणे विचित्रास्ति ।
उपधाशुद्धापि यया
रुद्धा त्वम् चित्रितेवासि

2.19

वंशी यथा श्री-ललित-माधवे (1.24- गार्ग्य्-उक्तिः)-
ह्रियमवगृह्य गृहेभ्यः
कर्षति राधां वनाय या निपुणा ।
सा जयति निसृष्टार्था
वरवंशजकाकली दूती

2.20

आप्तदूती-
वीरावृन्दादिरप्याप्तदूती कृष्णस्य कीर्तिता ।
वीरा प्रगल्भवचना वृन्दा चाटूक्तिपेशला

2.21

यथा-
विमुखी मा भव गर्विणि
मद्गिरि गिरिणा धृते न कृतरक्षम् ।
मूढे समुढवयसं
माधवमाधाव रागेण

2.22

यथा वा-
वृन्दा सुन्दरि वन्दनं विदधती यत् पृच्छति त्वामसौ
चञ्चन्मञ्जुलखञ्जरीटनयने तत्रोत्तरं व्यञ्जय ।
केयं भ्रूभुजगी तवातिविषमा बंभ्रम्यते यद्भिया
क्लान्तः कालियमर्दनो.अपि कुरुते नाद्य प्रवेशं व्रजे

2.23

अस्यासाधारणा दूत्यो वीवाद्याः कथिता हरेः ।
लिङ्गिन्यन्तास्तु वक्ष्यन्ते यास्ताः साधारणा द्वयोः

मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc