भाषा

ENहिગુ
ग्रंथ पाठ

उज्ज्वलनीलमणि · अध्याय 1

1.1

श्री-श्री-उज्ज्वल-नीलमणिः
(1)
नायक-भेद-प्रकरणम्
नामाकृष्ट-रसज्ञः शीलेनोद्दीपयन् सदानन्दम् ।
निज-रूपोत्सव-दायी सनातनात्मा प्रभुर् जयति

1.2

मुख्य-रसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् ।
पृथग् एव भक्ति-रस-राट् स विस्तरेणोच्यते मधुरः

1.3

वक्ष्यमाणैर् विभावाद्यैः स्वाद्यतां मधुरा रतिः ।
नीता भक्ति-रसः प्रोक्तो मधुराख्यो मनीषिभिः

1.4

तत्र विभावेष्व् आलम्बनाः-
अस्मिन्न् आलम्बनाः प्रोक्ताः कृष्णस् तस्य च वल्लभाः

1.5

पद-द्युति-विनिर्धुत-स्मर-परार्ध-रूपोद्धतिर्
दृग्-अञ्चल-कलानटीपटिमभिर् मनो-मोहिनी ।
स्फुरन्-नव-घनाकृतिः परम-दिव्य-लीला-निधिः
क्रियात् तव जगत्-त्रयी-युवति-भाग्य-सिद्धिर् मुदम्

1.6

अयं सुरम्यो मधुरः सर्व-सल्-लक्षणान्वितः ।
वलीयान् नव-तारुण्यो वावदूकः प्रियं-वदः

1.7

सुधीः स-प्रतिभो धीरो विदग्धश् चतुरः सुखी ।
कृतज्ञो दक्षिणः प्रेम-वश्यो गम्भीराम्बुधिः

1.8

वरीयान् कीर्तिमान् नारी-मोहनो नित्य-नूतनः ।
अतुल्य-केलि-सौन्दर्य-प्रेष्ठ-वंशी-स्वनाङ्कितः

1.9

इत्य् आदयोऽस्य शृङ्गारे गुणाः कृष्णस्य कीर्तिताः ।
उदाहृतिर् अमीषां तु पूर्वम् एव प्रदर्शिता

1.10

पूर्वोक्त-धीरोद्दात्तादि-चतुर्-भेदस्य तस्य तु ।
पतिश् चोपपतिश् चेति प्रभेदाव् इह विश्रुतौ

1.11

तत्र पतिः-
उक्तः पतिः स कन्याया यः पाणिग्राहको भवेत्

1.12

यथा-
रुक्मिणं युधि विजित्य रुक्मिणीं
द्वारकाम् उपगमय्य विक्रमी ।
उत्सवोच्छलित-पौर-मण्डलः
पुण्डरीक-नयनः करेऽग्रहीत्

1.13

यथा वा-
कलित-युगल-भावः क्वापि वैदर्भ्य-पुत्र्या
मख-भुवि कृत-दीक्षो दक्षिणार्थान् ददानः ।
विहरति हरिर् उच्चैः सत्यया दीयमानः
क्वचिद् अलम् अलसाङ्गः पुण्यके नारदाय

1.14

यथा वा (भ्प् 10.22.44)-
कात्यायनि महा-माये
महायोगिन्य् अधीश्वरि ।
नन्द-गोप-सुतं देवि
पतिं मे कुरु ते नमः

1.15

इति सङ्कल्पम् आचेरुर् या गोकुल-कुमारिकाः ।
तास्व् एव कियतीनां तु पति-भावो हराव् अभूत्

1.16

मूल-माधव-माहात्म्ये श्रूयते तत एव हि ।
रुक्मिण्य्-उद्वाहतः पूर्वं तासां परिणयोत्सवः

1.17

अथोपपतिः-
रागेणोल्लङ्घयन् धर्मं परकीया-बलार्थिना ।
तदीय-प्रेम-वसतिर् बुधैर् उपपतिः स्मृतः

1.18

यथा पद्यावल्याम् (205)-
संकेतीकृत-कोकिलादि-निनदं कंस-द्विषः कुर्वतो
द्वारोन्मोचन-लोल-शङ्ख-वलय-क्वाणं मुहुः शृण्वतः ।
केयं केयम् इति प्रगल्भ-जरती-वाक्येन दूनात्मनो
राधा-प्राङ्गण-कोण-कोलि-विटपि-क्रोडे गता शर्वरी

1.19

अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः

1.20

तथा च मुनिः-
बहु वार्यते खलु यत्र प्रच्छन्न-कामुकत्वं च ।
या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः

1.21

लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृत-नायके ।
न कृष्णे रस-निर्यास-स्वादार्थम् अवतारिनि

1.22

तथा च प्राञ्चः-
शृङ्गार-रस-सर्वस्वं शिखि-पिच्छ-विभूषणम् ।
अङ्गीकृत-नराकारम् आश्रये भुवनाश्रयम्

1.23

अनुकूल-दक्षिण-शठा धृष्टश् चेति द्वयोर् अथोच्यन्ते ।
प्रत्येकं चत्वारो भेदा युक्तिभिर् अमी वृत्त्या

1.24

शाठ्य-धार्ष्ट्ये परं नाट्य-प्रोक्ते उपपतेर् उभे ।
कृष्णे तु सर्वं नायुक्तं तत्-तद्-भावस्य सम्भवात्

1.25

तत्रानुकूलः-
अतिरक्ततया नार्यां त्यक्तान्य-ललना-स्पृहः ।
सीतायां रामवत् सोऽयम् अनुकूलः प्रकीर्तितः

1.26

राधायाम् एव कृष्णस्य सुप्रसिद्धानुकूलता ।
तद्-आलोके कदाप्य् अस्य नान्या-सङ्गः स्मृतिं व्रजेत्

1.27

वैदग्धी-निकुरम्ब-चुम्बित-धियः सौन्दर्य-सारोज्ज्वलाः
कामिन्यः कति नाद्य वल्लव-पतेर् दीव्यन्ति गोष्ठान्तरे ।
राधे पुण्यवती-शिखा-मणिर् असि क्षामोदरि त्वां विना
प्रेङ्खन्ती न परासु यन् मधुरिपोर् दृष्टात्र दृष्टिर् मया

1.28

धीरोदात्तानुकूलो, यथा-
कुवलय-दृशः सङ्केत-स्था दृग्-अञ्चल-कौशलैर्
मनसिज-कला-नाटी-प्रस्तावनाम् अभितन्वताम् ।
न किल घटते राधा-रङ्ग-प्रसङ्ग-विधायिता
व्रत-विलसिते शैथिल्यस्य च्छटाप्य् अघ-विद्विषः

1.29

धीरललितानुकूलो, यथा-
गहनाद् अनुरागतः पितृभ्याम्
अपनीत-व्यवहार-कृत्य-भारः ।
विहरन् सह राधया मुरारिर्
यमुना-कूल-वनान्य् अलंचकार

1.30

धीरशान्तानुकूलो. यथा-
ब्रध्नोपास्ति-विधौ तव प्रणयितापूरेण वेशं गते
क्ष्मा-देवस्य कथं गुणोऽप्य् अघरिपौ द्राग् अद्य संचक्रमे
बुद्धिः पश्य विवेक-कौशलवती दृष्टिः क्षमोद्गारिणी
वाग् एतस्य मृगाक्षि रूढ-विनया मूर्तिश् च धीरोज्ज्वला

1.31

धीरोद्धतानुकूलो, यथा-
सत्यं मे परिहृत्य तावक-सखीं प्रेमावदातं मनो
नान्यस्मिन् प्रमदाजने क्षणम् अपि स्वप्नेऽपि सङ्कल्पते ।
सार-ग्राहिणि गौरि सद्-गुण-गुरौ मुक्त-व्यलीकोद्यमे
मुद्रां किं नु मयि व्यनक्षि ललिते गूढाभ्यसूया-मयीम्

1.32

अथ दक्षिणः-
यो गौरवं भयं प्रेम दाक्षिण्यं पूर्व-योषिति ।
न मुञ्चत्य् अन्य-चित्तोऽपि ज्ञेयोऽसौ खलु दक्षिनः

1.33

यथा-
तथ्यं चन्द्रावलि कथयसि प्रेक्ष्यते न व्यलीकं
स्वप्नेऽप्यस्य त्वयि मधुभिदः प्रेमशुद्धान्तरस्य ।
श्रुत्वा जल्पं पिशुनमनसां तद्विरुद्धं सखीनां
युक्तः कर्तुं सखि सविनये नात्र विश्रम्भभङ्गः

1.34

यद् वा-
नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते

1.35

यथा दश-रूपके-
स्नाता तिष्ठति कुन्तलेश्वर-सुता वारोऽङ्ग-राज-स्वसुर्
द्यूते रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च ।
इत्य् अन्तः-पुर-सुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्ति-मूढ-मनसा द्वित्राः स्थितं नाडिकाः

1.36

यथा वा-
पद्मा दृग्-भङ्गिर् अलं कलयति कमला जृम्भते साङ्ग-भङ्गं
तारा दोर्-मूलम् अल्पं प्रथयति कुरुते कर्ण-कण्डूं सुकेशी ।
शैव्या नीव्यां विधत्ते करम् इति युगपन् माधवः प्रेयसीभिर्
भावेनाहूयमानो बहु-शिखर-मनाः पश्य कुण्ठोऽयम् आस्ते

1.37

शठः-
प्रियं व्यक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् ।
निगूढम् अपराधं च शठोऽयं कथितो बुधैः

1.38

यथा-
स्वप्ने व्यलीकं वनमालिनोक्तं
पालीत्य् उपाकर्ण्य विवर्ण-वक्त्रा ।
श्यामा विनिःश्वस्य मधु-त्रियामां
सहस्र-यामाम् इव सा व्यनैषीत्

1.39

यथा वा-
तल्पितेन तपनीय-कान्तिना
कृष्ण कुञ्ज-कुहरेऽद्य वाससा ।
अभ्यध्यायि तव निर्व्यलीकता
मुञ्च साम-पटलीपटिष्ठताम्

1.40

अथ धृष्टः-
अभिव्यक्तान्य-तरुणी-भोग-लक्ष्मापि निर्भयः ।
मिथ्या-वचन-दक्षश् च धृष्टोऽयं खलु कथ्यते

1.41

यथा--
नखाङ्का न श्यामे घन-घुसृण-रेखा-ततिर् इयं
न लाक्षान्तः-क्रुरे परिचिनु गिरेर् गैरिकम् इदम् ।
धियं धत्से चित्रं वत मृग-मदेऽप्य् अञ्जनतया
तरुण्यास् ते दृष्टिः किम् इव विपरीत-स्थितिर् अभूत्

1.42

उदात्ताद्यैश् चतुर्-भेदैस् त्रिभिः पूर्णतमादिभिः ।
चतुर्विंशत्य् आत्मा पत्य्-आदि-युग्मतः

1.43

नायकः सोऽनुकूलाद्यैः स्यात् षन्-नवतिधोदितः ।
नोक्तो धूर्तादि-भेदस् तु मुनेः सम्मत्य्-अभावतः

मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc