भाषा

ENहिગુ
ग्रंथ पाठ

उज्ज्वलनीलमणि · अध्याय 14

14.1

अत्रेर्ष्याख्य-भावस्य शान्तिः ।
इति श्री-श्री-उज्ज्वल-नीलमणौ
व्यभिचारि-प्रकरणम्
॥13॥
(14)
मन्य् ओf थे कारिकास् इन् थिस् छप्तेर् अरे लिfतेद् प्रेत्त्य् मुछ् wहोलेसले fरोम्
रसार्णव-सुधाकर. इ दोन्ऽत् हवे थे तेxत् wइथ् मे, सो इ हवे नोत् बेएन् अब्ले तो गिवे
थे रेfएरेन्चेस्.
अथ स्थायि-भाव-प्रकरणम्
स्थायि-भावोऽत्र शृङ्गारे कथ्यते मधुरा रतिः

14.2

सा, यथा गोविन्द-विलासे-
कालाहि-वक्त्र-विलसद्-रसनाग्रजाग्रद्-
गोपी-दृग्-अञ्चल-चमत्कृति-बिद्ध-मर्मा ।
शर्मादिशत्व् अरुण-घूर्णित-लोचनान्तः-
सञ्चार-चूर्णित-सती-हृदयो मुकुन्दः

14.3

यथा वा दान-केलि-कौमुद्याम् (30)-
गोवर्धन-गिरिम् उपेत्य कटाक्ष-बाणान्
कर्ण-स्फुरन्-मणिzइलोपरि सङ्क्षुवाना ।
का भ्रू-धनुर्-धुवन-सूचित-लुञ्चनेयं
व्यग्रीकरोत्य् अहह माम् अपि सम्भ्रमेण

14.4

अभियोगाद् विषयतः सम्बन्धाद् अभिमानतः ।
सा तदीय-विशेषेभ्य उपमातः स्वभावतः ।
रतिर् आविर्भवेद् एषाम् उत्तमत्वं यथोत्तरम्

14.5

तत्र अभियोगः-
अभियोगो भवेद् भाव-व्यक्तिः स्वेन परेण च

14.6

तत्र स्वेनाभियोगाद्, यथा-
मद्-अधर-विलुठद्-विलोचनान्तं
मृदुल-लता-नव-पल्लवं दशन्तम् ।
सखि हरिम् अवलोक्य भानुजाया-
स्तट-विपिने स्फुटद्-अन्तरास्मि जाता

14.7

यथा वा-
कुवलय-विपिनान्य् असौ सृजन्ती
दिशि दिशि लोचन-चापलाच् चलाक्षी ।
हरति तरणिजा-तटे पुरः का
सुबल बलान् मम चित्त-चञ्चरीकम्

14.8

परेणाभियोगाद्, यथा-
त्वदीयम् आपीय गतावलम्बा
संवाद-माध्वीकम् अतीव साध्वी ।
आघूर्णमाना व्रज-राज-सूनो
नीवीं स्खलन्तीं न विदाञ्चकार

14.9

अथ विषयाः-
शब्द-स्पर्शादयः पञ्च विषयाः किल विश्रुताः

14.10

तत्र शब्दाद्, यथा विदग्ध-माधवे (1.34)-
नादः कदम्ब-विटपान्तरतो विसर्पन्
को नाम कर्ण-पदवीम् अविशन् न जाने ।
हा हा कुलीन-गृहिणी-गण-गर्हणीयां
येनाद्य काम् अपि दशां सखि लम्भितासि

14.11

यथा वा, तत्रैव (2.2)-
एकस्य श्रुतम् एव लुम्पति मतिं कृष्णेति नामाक्षरं
सान्द्रोन्माद-परम्पराम् अपनयत्य् अन्यस्य वंशी-कलः ।
एष स्निग्ध-घन-द्युतिर् मनसि मे लग्ना सकृद्-वीक्षणात्
कष्टं धिक् पुरुष-त्रये रतिर् अभून् मन्ये मृतिः श्रेयसी

14.12

स्पर्शाद्, यथा-
व्रजं मुष्टि-ग्राह्ये तमसि निगिरत्य् अङ्गम् इह मे
सखि स्पर्शं दैवाद् यद्-अवधि परं कस्यचिद् अगात् ।
गृहीता जागर्या तद्-अवधि सदैवाङ्गज-गणैः
स-शङ्कैर् या पश्य क्षणम् अपि न साद्यान्प्य् उपरता

14.13

रूपाद्, यथा हंसदूते (77)-
कृताकृष्टि-क्रीडं किम् अपि तव रूपं मम सखी
सकृद् दृष्ट्वा दूराद् अहित-हित-बोधोज्झित-मतिः ।
हता सेयं प्रेमानलम् अनु विशन्ती सरभसं
पतङ्गीवात्मानं मुरहर मुहुर् दाहितवती

14.14

रसाद्, यथा-
पुलकयति यद् अङ्गं सेवते गात्र-भङ्गं
वहति हृदि तरङ्गं सद्य एवाद्य मुग्धा ।
तद् अघदमन-वक्त्रोद्गीर्ण-ताम्बूलम् अल्पं
स्फुटम् अविदितम् आस्ये न्यस्तम् अस्यास् त्वयालि

14.15

गन्धाद्, यथा-
विभ्राजन्ते क्व सखि सुखिनः शाखिनो मोहनास् ते
येषां पुष्पैर् इयम् अनुपमा वैजयन्ती कृतास्ति ।
पश्याकृष्ट-भ्रमर-पटला यात-यामापि कामं
या भूयोभिर् मम परिमलैः स्तम्भयत्य् अद्य चेतः

14.16

लोकोत्तर-पदार्थानां प्रभावः कोऽप्य् अनर्गलः ।
रतिं तद्-विषयं चासौ भासयेत् तूर्णम् एकदा

14.17

अथ सम्बन्धः-
सम्बन्धः कुल-रूपादि-सामग्री-गौरवं भवेत्

14.18

ततो यथा-
वीर्यं कन्दुकितादिर्-रूपम् अखिल-क्ष्मा-मण्डली-मण्डनं
जन्माभीर-पुरन्दरस्य भवने पारे-परार्धं गुणाः ।
लीला क्वापि जगच्-चमत्कृति-करीत्य् एतस्य लोकोत्तरा
वृत्तिर् वेणु-धरस्य दुर्मुखि धृतिं कस्याः क्षणं रक्षति

14.19

अथ अभिमानः-
सन्तु रम्याणि भूरीणि प्रार्थ्यं स्याद् इदम् एव मे ।
इति यो निर्णयो धीरैर् अभिमानः स उच्यते

14.20

ततो यथा-
स्फुरन्तु बहवः क्षितौ मधुरिमोर्मि-धौरेयका
विदग्ध-मणयो गुणावलि-पतिं-वराभिर् वृताः ।
न यस्य शिखि-चन्द्रं शिरसि नैव वेणुर् मुखे
न धातु-वचना तनौ सखि तृणाय मन्ये न तम्

14.21

अथ तदीय-विशेषाः-
तदीयानां विशेषाः स्युः पद-गोष्ठ-प्रियादयः

14.22

तत्र पदानि-
पदान्य् अत्र पदाङ्काः स्युः

14.23

ततो यथा-
स्फुरति सखि रथाङ्गाम्भोज-दम्भोलि-भाजां
तट-भुवि विशदेयं कस्य पङ्क्तिः पदानाम् ।
हृदयम् अघृण-घूर्णाघ्रातम् उद्घाटयन्ती
मम तनु-लतिकायां कुड्मलं या तनोति

14.24

अथ गोष्ठम्-
गोष्ठं वृन्दावनाश्रितम्

14.25

ततो, यथा-
मदयति हृदयं सखि व्रजोऽयं
मधुरिमभिः क्वचिद् अप्य् अदृष्ट-पूर्वैः ।
इह विहरति कोऽपि नागरेन्दर-
स्त्रिभुवन-मण्डल-मूर्तिर् इत्य् अवेहि

14.26

अथ प्रियजनः-
प्रौढ-भावानुबिद्धो यस् तस्य प्रिय-जनोऽत्र सः

14.27

ततो, यथा-
गुरुभिर् निषिद्धा ताम् अहं यावद् अक्ष्णोः
पदम् अनयमनन्तश्रेयसां सद्म राधाम् ।
तृषितम् इव मनो मे प्रेक्षते तन्वि तावद्
दिशि दिशि विहरन्तीं श्यामलां शालभञ्जीम्

14.28

अथ उपमा-
यथा कथञ्चिद् अप्य् अस्य सादृश्यम् उपमोदिता

14.29

ततो, यथा-
नवाम्बुधर-माधुरी स्फुरति मूर्तिर् उर्वी-तले
कृशोदरि दृशोर् इयात् पथि किम् ईदृशो वा युवा ।
पुरः सुमुखि गोपतेः सदै सन्निविष्टस्य मे
पितुर् वितनुते नटो यम् अनुकृत्य नृत्य-क्रमम्

14.30

यथा वा-
स्फुरत्य् एष प्रेयान् इव नव-घनस् तस्य सुभगे
शिखण्डीनां श्रेणीं तुलयति सुरेन्द्रायुधम् इदम् ।
असौ वासो लक्ष्मीर् इव विहरते विद्युद् इति सा
निशम्योदस्राक्षी त्वयि निहित-बुद्धिर् निवसति

14.31

अथ स्वभावः-
भैर् हेत्व्-अनपेक्षी तु स्वभावोऽर्थः प्रकीर्तितः ।
निसर्गश् च स्वरूपं चेत्य् एषोऽपि भवति द्विधा

14.32

अत्र निसर्गः-
निसर्गः सुदृढाभ्यास-जन्यः संस्कर उच्यते ।
तद्-उद्भोधस्य हेतुः स्याद् गुण-रूप-श्रुतिर् मनाक्

14.33

ततो, यथा-
स तर्जतु बताग्रजं त्यजतु मां सुहृन्-मण्डलः
पिता किल विलज्जतां घन-दृग्-अम्बुर् अम्बास्तु मे ।
मनः सखि समीहते श्रुत-गुण-श्रियं सर्वथा
तम् एव यदु-पुङ्गवं न तु कदापि चैद्यं नृपम्

14.34

यथा वा-
असुन्दरः सुन्दर-शेखरो वा
गुणैर् विहीनो गुणिनां वरो वा ।
द्वेषी मयि स्यात् करुणाम्बुधिर् वा
श्यामः स एवाद्य गतिर् ममायम्

14.35

अथ स्वरूपम्-
अजन्यस् तु स्वतःसिद्धः स्वरूपं भाव इष्यते ।
एतत् तु कृष्ण-ललनोभय-निष्ठतया त्रिधा

14.36

अथ कृष्ण-निष्ठम्-
कृष्ण-निष्ठं स्वरूपं स्याद् अदैत्यैः सुगमं जनैः

14.37

ततो, यथा-
इयं व्यक्तिर् गोपी न भवति पुरः किन्तु कुतुकी
हरिर् नारीवेशो यद् अखिल-सुर-स्त्रीर् धुवति नः ।
जगन्-नेत्र-श्रेणी-तिमिर-हरणायाम्बर-मणिं
विना कस्यान्यस्य प्रियसखि भवेद् औपयिकता

14.38

अथ ललना-निष्ठम्-
स्वरूपं ललना-निष्ठं स्वयम् उद्बुद्धतां व्रजेत् ।
अदृष्टेऽप्य् अश्रुतेऽप्य् उच्चैः कृष्णे कुर्याद् द्रुतं रतिम्

14.39

ततो, यथा-
जिहीते यः कक्षां क्वचिद् अलम् अदृष्टाश्रुत-चर-
त्रिलोक्याम् अस्तीति क्षणम् अपि न सम्भावन-मयीम् ।
घन-श्यामं पीताम्बरम् अहह सङ्कल्पयद् अमुं
जनं कञ्चिद् गोष्ठे सखि मम वृथा दीर्यति मनः

14.40

अथ उभय-निष्ठम्-
तत् स्याद् उभय-निष्ठं यत् स्वरूपं कृष्ण-सुभ्रुवोः

14.41

ततो, यथा ललित-माधवे (2.12)-
सहचरि हरिर् एष ब्रह्म-वेशं प्रपन्नः
किम् अयम् इतरथा मे विद्रवत्य् अन्तरात्मा ।
शशधर-मणि-वेदी स्वेद-धारां प्रसूते
न किल कुमुद-बन्धोः कौमुदीम् अन्तरेण

14.42

प्रोक्ता अत्राभियोगाद्या विलासाधिक्य-हेतवे ।
रतिः स्वभावजैव स्यात् प्रायो गोकुल-सुभ्रुवाम्

14.43

साधारणी निगदिता समञ्जसासौ समर्था च ।
कुब्जादिषु महिषीषु च गोकुल-देवीष्ण्ड् च क्रमतः

14.44

मणिवच्-चिन्तामणिवत्-कौस्तुभ-मणिवत् त्रिधाभिमता ।
नातिसुलभेयम् अभितः सुदुर्लभा स्याद् अनन्य-लभ्या च

14.45

तत्र साधारणी-
नातिसान्द्रा हरेः प्रायः साक्षाद् दर्शन-सम्भवा ।
सम्भोगेच्छा-निदानेयं रतिः साधारणी मता

14.46

यथा श्री-दशमे (10.48.9)---
सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया ।
रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण

14.47

असान्द्रत्वाद् रतेर् अस्याः सम्भोगेच्छा विभिद्यते ।
एतस्या ह्रासतो ह्रासस् तद्-धेतुत्वाद् रतेर् अपि

14.48

अथ समञ्जसा-
पत्नी-भावाभिमानात्मा गुणादि-श्रवणादिजा ।
क्वचिद् भेदित-सम्भोग-तृष्णा सान्द्रा समञ्जसा

14.49

यथा तत्रैव (10.52.38)-
का त्वा मुकुन्द महती कुल-शील-रूप-
विद्या-वयो-द्रविण-धामभिर् आत्म-तुल्यम् ।
धीरा पतिं कुलवती न वृणीत कन्या
काले नृ-सिंह नर-लोक-मनो-ऽभिरामम्

14.50

समञ्जसातः सम्भोग-स्पृहाया भिन्नता यदा ।
तदा तद्-उत्थितैर् भावैर् वश्यता दुष्करा हरिः

14.51

तथा हि तत्रैव (10.61.4)-
स्मायावलोक-लव-दर्शित-भाव-हारि-
भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः ।
पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर्
यस्येन्द्रियं विमथितुं करणैर् न शेकुः

14.52

अथ समर्था-
कंचिद् विशेषम् आयन्त्या सम्भोगेच्छा ययाभितः ।
रत्या तादात्म्यम् आपन्ना सा समर्थेति भण्यते

14.53

स्व-स्वरूपात् तदीयाद् वा जाता यत्-किंचिद्-अन्वयात् ।
समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता

14.54

प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते
तस्याः पार्श्वे गुरुभिर् अभितस् त्वत्-प्रसङ्गो न्यवारि ।
श्रुत्वा दूरे तद् अपि भवतः सा तुला-कोटि-नादं
हा कृष्णेत्य् अश्रुत-चरम् अपि व्याहरन्त्य् उन्मदासीत्

14.55

सर्वाद्भुत-विलासोर्मि-चमत्कार-कर-श्रियः ।
सम्भोगेच्छा-विशेषोऽस्या रतेर् जातु न भिद्यते ।
इत्य् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः

14.56

पूर्वस्यां स्व-सुखायापि कदाचित् तत्र सम्भवेत्

14.57

इयम् एव रतिः प्रौढा महाभाव-दशां व्रजेत् ।
या मृग्या स्याद् विमुक्तानां भक्तानां च वरीयसाम्

14.58

यथा श्री-दशमे (10.47.58)----
एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एव निखिलात्मनि रूढ-भावाः ।
वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर् अनन्त-कथारसस्य

14.59

स्याद् दृढेयं रतिः प्रेमा प्रोद्यन् स्नेहः क्रमाद् अयम् ।
स्यान् मानः प्रणयो रागोऽनुरागो भाव इत्य् अपि

14.60

बीजम् इक्षुः स च रसः स गुडः खण्ड एव सः ।
स शर्करा सिता सा च सा यथा स्यात् सितोपला

14.61

अतः प्रेम-विलासाः स्युर् भावाः स्नेहादयस् तु षट् ।
प्रायो व्यवहिर्यन्तेऽमी प्रेम-शब्देन सूरिभिः

14.62

यस्या यादृश-जातीयः कृष्णे प्रेमाभ्युदञ्चति ।
तस्यां तादृश-जातीयः स कृष्णस्याप्य् उदीयते

14.63

तत्र प्रेमा-
सर्वथा ध्वंस-रहितं सत्य् अपि ध्वंस-कारणे ।
यद्-भाव-बन्धनं यूनोः स प्रेमा परिकीर्तितः

14.64

यथा-
शपे तुभ्यं धर्म-स्थिति-मन्यु-सरन्त्या सखि मया
विशुद्धाम् उग्राभिर् मुहुर् अपि निरस्तो भणितिभिः ।
स मुग्धे श्यामात्मा त्यजति न हि मे वर्त्म बत मां
जगारापद्-घोरा विरचयतु शास्तिं गृह-पतिः

14.65

यथा वा-
राधायाः सखि सद्-गुणैर् अनुदिनं रूपानुरागादिभिः
सान्द्रां लब्धवतोर् अपि व्यसनितां व्याक्षिप्त-कान्तान्तरैः ।
प्राप क्वापि परस्परोपरि ययोर् न म्लानतां यस् तयो-
स्तं चन्द्रावलि-चन्द्रकाभरणयोः को वेत्ति भाव-क्रमम्

14.66

स त्रिधा कथ्यते प्रौढ-मध्य-मन्द-प्रभेदतः

14.67

तत्र प्रौढः-
विलम्बादिभिर् अज्ञात-चित्त-वृत्तौ प्रिये जने ।
इतर-क्लेश-कारी यः स प्रेमा प्रौढ उच्यते

14.68

यथा-
गत्वा ब्रूहि निकुञ्ज-सद्मनि सखे खिन्नां मम प्रेयसीं
मा कालात्ययम् आकलय्य कमले मय्य् अप्रतीतिं कृथाः ।
दुष्टं दानवम् अत्र गोकुल-शिरः-शूलं चिकित्सन्न् अहं
द्राग् एष प्रणयेन पल्लव-मयीं लब्धोऽस्मि शय्यां तव

14.69

अथ मध्यः-
इतरानुभवापेक्षां सहते यः स मध्यमः

14.70

यथा-
सर्वारम्भ-मनोहरां सपदि मे चन्द्रावलीं विन्दतो
रङ्गः शारद-शर्वरी-समुचितः पर्याप्तिम् एवाययौ ।
तां कन्दर्प-चमू-चमत्कृति-कर-क्रीडोर्मि-किर्मीरितां
राधां हन्त तथापि चित्तम् अधुना साक्षान् ममापेक्षते

14.71

अथ मन्दः-
सदा परिचितत्वादेः करोत्य् अत्यन्तिकात् तु यः ।
नैवोपेक्षां न चापेक्षां स प्रेमा मन्द उच्यते

14.72

यथा-
अनुमीय रूढमानाम् आनय भामां सखीम् अशोक-लताम् ।
भवति प्रेमवतीनां मनाग् उपेक्षापि दोषाय

14.73

अथवा-
प्रौढः प्रेमा स यत्र स्याद् विश्लेषस्यासहिष्णुता

14.74

यथा उद्धव-सन्देशे (50)-
निर्माय त्वं वितर फलकम् हारि कंसारिमूर्त्या
वारं वारं दिशसि यदि मां माननिर्वाहनाय ।
यत् पश्यन्ती भवनकुहरे रुद्धकर्णान्तराहं
साहंकारा प्रियसखि सुखम् यापयिष्यामि यामम्

14.75

कृच्छ्रात् सहिष्णुता यत्र स तु मध्यम उच्यते

14.76

यथा--
अवितथम् असौ किं द्राघीयान् गमिष्यति वासरः
सुमुखि स निशारम्भः किंवा समेष्यति मङ्गलः ।
स्मित-मुख-शशी गो-धूलिभिः करम्बित-कुन्तलः
क्षपयति दृशाम् आर्तिं यत्र व्रजेश्वर-नन्दनः

14.77

स मन्दः कथितो यत्र भवेत् कुत्रापि विस्मृतिः

14.78

यथा-
प्रतिपक्ष-जनेर्ष्यया न मे
स्मृतिर् आसीद् वन-माल्य-गुम्फने ।
सखि किं करवै गवां पुरो
घन-हम्बाध्वनिर् एष जृम्भते

14.79

अथ स्नेहः-
आरुह्य परमां काष्ठां प्रेमा चिद्-दीप-दीपनः ।
हृदयं द्रावयन्न् एष स्नेह इत्य् अभिधीयते ।
अत्रोदिते भवेज् जातु न तृप्तिर् दर्शनादिषु

14.80

यथा क्रम-दीपिकायाम् (3.27)-
तद् अतिमधुर-रूप-कम्र-शोभा-
मृत-रस-पान-विधान-लालसाभ्याम् ।
प्रणय-सलिल-पूर-वाहिनीनाम्
अलस-विलोल-विलोचनाम्बुजाभ्याम्

14.81

यथा वा-
ज्योत्स्नशीधुं हरिमुख-विधोर् अप्य् अनल्पं पिबन्तौ
नान्तस् तृप्तिं तव कथम् अपि प्राप्नुतो दृक्-चकोरौ ।
आघूर्णन्तौ मद-कलतया सुष्ठु मुग्धौ यद् एतौ
भूयो भूयस् तम् इह वमतो बाष्प-पूर-च्छलेन

14.82

अङ्ग-सङ्गे विलोके च श्रवणादौ च स क्रमात् ।
कनिष्ठो मध्यमः श्रेष्ठस् त्रिविधोऽयं मनोद्रवः

14.83

तत्र अङ्ग-सङ्गे, यथा-
असि घन-रस-रूपस् त्वं पाली लावण्य-सार-मय-मूर्तिः ।
माधव भवद्-आश्लेषे भविता नास्याः कथं द्रवता

14.84

विलोके, यथा-
अस्यास् त्वद्-वदने सरोज-सुहृदि व्यक्तिं पुरस्ताद् गते
नाश्चर्यं द्रवताम् अविन्दत मनो-हैयङ्गवीनं यदि ।
किन्त्व् आश्चर्यम् इदं मुकुन्द मिलिते श्यामा-मुखेन्दौ भव-
च्चेतश् चन्द्र-मणिर् द्रवन् जलतया भूयो बभूवाचलः

14.85

श्रवणे, यथा-
श्रुति-परिसर-कक्षां याति नाम्नस् तवार्धे
मुरदमन दृगम्भोदारया धौत-गात्री ।
मदन-मद-मधूली-मुग्ध-मेधा-समृद्धिः
स्खलति कुवलयाक्षी जृम्भते स्तम्भते च

14.86

आदि-शब्देन स्मरणे, यथा-
कृष्ण-वर्त्मनि कृताभिनिवेशो
साम्प्रतः त्वम् असि कम्पित-गात्री ।
स्नेह-पूर-परिपाक-मयं ते
किं भविष्यति मनो न विलीनम्

14.87

स घृतं मधु चेत्युक्तं स्नेहो द्वेधा स्वरूपतः

14.88

तत्र घृत-स्नेहः-
आत्यन्तिकादरमयः स्नेहो घृतम् इतीर्यते

14.89

भावान्तरान्वितओ गच्छन् स्वादोद्रेकं न तु स्वयम् ।
घनीभवेन् निसर्गाति-शीतलान् मिथ आदरात् ।
गाढादरमयस् तेन स्नेहः स्याद् घृतवद् घृतम्

14.90

यथा-
अभुत्थाय विदूरतो मधुभ्ञ्दा याश्लिष्यते सादरं
या स्नेहेन वशीकरोति गुरुणा पावित्र्य-पूर्णेन तम् ।
क्षिप्रं याति सितोपलेव विलयं तत्-केलि-वृष्ट्या च या
युक्ता हन्त कयोपमातुम् अपि सा चन्द्रावली मे सखी

14.91

यथा वा-
निजम् अघरिपुणांसे न्यस्तम् आकृष्य सव्यं
भुजम् इह निदधाना दक्षम् अस्रोक्षिताक्षी ।
पद-युगम् अपि बङ्कं शङ्कया विक्षिपन्ती
प्रतियुवति-वयस्यां स्मेरयामास गौरी

14.92

आदरो गौरवोत्थः स्याद् इत्य् अन्योन्याश्रित-द्वयम् ।
रत्यादौ सद् अपि स्नेहे सुव्यक्तत्वाद् इहोच्यते

14.93

मदीयतातिशय-भाक् प्रिये स्नेहो भवेन् मधु ।
स्वयं प्रकट-माधुर्यो नाना-रस-समाहृतिः

14.94

मत्ततोष्म-धरः स्नेहो मधु-साम्यान् मधूच्यते

14.95

यथा-
राधा स्नेहमयेन हन्त रचिता माधुर्य-सारेण सा
सौधीव प्रतिमा घनाप्य् उरु-गुणैर् भावोष्मणा विद्रुता ।
यन्-नामन्य् अपि धामनि श्रवणयोर् याति प्रसङ्गेन मे
सान्द्रानन्दमयी भवत्य् अनुपमा सद्यो जगद्-विस्मृति

14.96

अथ मानः-
स्नेहस् तूत्कृष्टतावाप्त्या माधुर्यं मानयन् नवम् ।
यो धारयत्य् अदाक्षिण्यं स मान इति कीर्त्यते

14.97

यथा-
स्रवद्-अस्र-भरे कृते दृशौ मे
तव गोधूलिभिर् एव गोप-वीर ।
अधुना वदनानिलैः किम् एभि-
र्विरमेति भ्रूकुटिं बभार सुभ्रूः

14.98

उदात्तो ललितश् चेति मानोऽयं द्विविधो मतः

14.99

तत्र उदात्तः-
उदात्तः स्याद् घृत-स्नेहो धारयन् गहन-क्रमम् ।
दाक्षिण्य-भाग-दाक्षिण्यं वाम्य-गन्धं च कुत्रचित्

14.100

तत्र दाक्षिण्योदात्तो, यथा-
राधेति स्खिलाभिधे मयि हठाद् बिद्धान्तराप्य् आर्तिभिर्
मद्-वैलक्ष्य-शमाय सा द्विगुणयन्त्य् आस्यारविन्दे स्मितम् ।
जल्पे च म्रदिमानुबिद्धम् अधिकं माधुर्यम् आतन्वती
चित्राणीव चकार मत्-प्रिय-सुहृद्-वृनानि चन्द्रावली

14.101

अथ वाम्य-गन्धोदात्तो, यथा श्री-विष्णु-पुराणे (5.13.45)
काचिद् भ्रू-भङ्गुरं कृत्वा ललाट-फलकं हरिम् ।
विलोक्य नेत्र-भृङ्गाभ्यां पपौ तन्-मुख-पङ्कजम्

14.102

यथा वा-
अक्ष-संसदि जितापि मृगाक्षी
माधवेन परिरम्भ-पणेन ।
भुग्न-दृष्टिर् इह विप्रतिपन्नां
तं करणे रुरुधे परिरिप्सुम्

14.103

अथ ललितः-
मधु-स्नेहस् तु कौटिल्यं स्वातन्त्र्य-हृदयङ्गमम् ।
बिभ्रन्-नर्म-विशेषं च ललितोऽयम् उदीर्यते

14.104

तत्र कौटिल्य-ललितो, यथा श्री-दशमे (10.32.6)-
एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला ।
घ्नतीवैक्षत् सन्दष्ट-दशन-च्छदा

14.105

यथा वा-
अदत्त मे वर्त्मनि मन्मथोन्मदा
स्वयंग्रहाश्लेषम् असौ सखी तव ।
इत्य् उक्तवन्तं कुटिलीभवन् मुखी
कृष्णं वतंसेन जघान मङ्गला

14.106

यथा वा-
चित्रं चिर-स्पर्श-सुखाय चुचुके
कुर्वन्तम् अक्षिप्रम् इयं चलेक्षणा ।
स्विन्नाङ्गुलीकं पुलकाञ्चित-श्रिया
सव्येन चिक्षेप कुचेन केशवम्

14.107

अथ नर्म-ललितो, यथा दान-केलि-कौमुद्याम् (90)-
मिथ्या जल्पतु ते कथं नु रसना साध्वी-सहस्रस्य या
बिम्बोष्ठामृत-सेवनाद् अघरिपो पुण्या प्रयत्नाद् अभूत् ।
कस्माद् एव बल्ंत्-करोतु च करः सोढुं क्षमः सुभ्रुवां
रक्तः सुष्ठु न निवि-बन्धम् अपि यः का वान्य-बन्धे कथा

14.108

अथ प्रणयः-
मानो दधानो विश्रम्भं प्रणयः प्रोच्यते बुधैः

14.109

यथा-
कुचोपान्ते स्पृष्टा मुर-विजयिना तद्-भुज-शिर-
स्तिरो-न्यस्त-ग्रीवा भ्रुवम् अनृजु-दृष्टिर् विभुजती ।
पटेनास्य म्लानीकृत-पुरट-भासा पुलकिनी
प्रमोदास्रैर् धौतं निज-मुखम् इयं मार्ष्टि सुमुखी

14.110

स्वरूपं प्रणयस्यास्य विश्रम्भः कथितो बुधैः ।
विश्रम्भोऽपि द्विधा मैत्रं सख्यं चेति निगद्यते

14.111

तत्र मैत्रं-
भावज्ञैः प्रोच्यते मैत्रं विश्रम्भो विनयान्वितः

14.112

यथा श्री-दशमे (10.32.4)-
काचित् कराम्बुजं शौरेर् जगृहेऽञ्जलिनां मुदा ।
काचिद् दधार तद्-बाहुम् अंसे चन्दन-रूषितम्

14.113

यथा वा-
न हि सङ्कुच पङ्कजेक्षणः
पादयोस् ते निदधातु नूपुरौ ।
अनयोर् ध्वनिभिर् विलज्जतां
कलहंसीव विपक्ष-कामिनी

14.114

अथ सख्यम्-
विस्रम्भं साध्वसोन्मुक्तः सख्यं स्व-वशता-मयः

14.115

यथा-
सरभसम् अधिकण्ठम् अर्पिताभ्यां
दनुज-रिपोर् निज-बाहु-वल्लरीभ्याम् ।
निटिलम् अवनमय्य तस्य कर्णे
सखि कथितं किम् इव त्वया रहस्यम्

14.116

यथा वा श्री-विष्णु-पुराणे (5.30.34)-
यदि ते तद्-वचः सत्यं सत्यात्यर्थं प्रियेति मे ।
मद्-गेह-निष्कुटार्थाय तदायं नीयतां तरुः

14.117

यथा वा-
विन्यस्य वक्षोरुह-कोरक-द्वयीं
वक्षः-स्थले कंस-हरस्य हारिणीम् ।
पत्राङ्कुरं कुङ्कुम-बिन्दु-नालिके
लिखत्य् असौ चन्द्र-मुखी सखी मम

14.118

यथा वा श्री-दशमे (10.30.38)-
ततो गत्वा वनोद्देशे दृप्ता केशवम् अब्रवीत् ।
न पारयेऽहं चलितुं नय मां यत्र ते मनः

14.119

जनित्वा प्रणयः स्नेहात् कुत्रचिन् मानतां व्रजेत् ।
स्नेहान् मानः क्वचिद् भूत्वा प्रणयत्वम् अथाश्नुते

14.120

कार्य-कारणतान्योन्ऽन्यम् अतः प्रणय-मानयोः ।
इत्य् अत्र पृथग् एवासौ विश्रम्भोदाहृतिः कृता

14.121

उदात्त-ललिताभ्यां तु मैत्र्य-सख्ये सुसङ्गते ।
द्वे सुमैत्र्य-सुसख्याख्ये यथा-सङ्ख्यम् उदीरिते

14.122

तत्र सुमैत्र्यम्-
आलीपुरः कथयितुं रजनी-रहस्यं
तत्रोद्यते मधुरिपौ मृदुला भ्रमद्-भ्रूः ।
उत्क्षिप्य तन् मुख-पुटावरणाय हस्तं
न्यञ्चन्-मुखी समवरिष्ट पुनर् वराक्षी

14.123

यथा वा-
क्षिप्ते वर्णक-भाजने तरणिजा-पुरे परीहासतः
कृष्णेन भ्रुवम् आरचय्य कुटिलाम् आलोकयन्ती तिरः ।
तारा वक्षसि चित्रम् अर्ध-लिखितं श्री-वत्स-विभ्राजिते
काश्मीरेण घन-श्रिया निज-कुचाकृष्टेन पूर्णं व्यधात्

14.124

अथ सुसख्यम्-
द्यूते सकृत् पान-विधौ पणी-कृते
जित्वा द्विरोष्ठं पिबति स्वम् अच्युते ।
बबन्ध कण्ठे कुटिली-कृतेक्षणा
तं वामया दोर्लतयास्य वल्लवी

14.125

यथा वा-
आविष्कुर्वति विस्फुरन् नवनखोल्लेखं स्व-वक्षस्-तटं
कृष्णे पीत-दुकूल-सङ्कलनया स्मित्वा सखीनां पुरः ।
अभ्रश्यामम् उरो रुरोध वलित-भ्रूर् आननं धुन्वती
रोमाञ्चोद्गम-कञ्चुकेन कुचयोर् द्वन्द्वेन गान्धर्विका

14.126

अथ रागः-
दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते ।
यतस् तु प्रणयोत्कर्षात् स राग इति कीर्त्यते

14.127

यथा-
तीव्रार्क-द्युति-दीपितैर् असिलताधाराकरालास्रिभि-
र्मार्तण्डोपल-मण्डलैः स्थपुटितेऽप्य् अद्रेस् तटे तस्थुषी ।
पश्यन्ति पशुपेन्द्र-नन्दनम् असाव् इन्दीवरैर् आस्तृते
तल्पे न्यस्त-पदाम्बुजेव मुदिता न स्पन्दते राधिका

14.128

यथा वा पद्यावल्यां (179)-
ताराभिसारक चतुर्थ-निशा-शशाङ्क
कामाम्बु-राशि-परिवर्धन देव तुभ्यम् ।
अर्घो नमो भवतु मे सह तेन यूना
मिथ्यापवाद-वचसाप्य् अभिमान-सिद्धिः

14.129

नीलिमा रक्तिमा चेति रागोऽयं द्विविधो मतः

14.130

तत्र नीलिमा-
नीली-श्यामाभवो रागो नीलिमा कथ्यते बुधैः

14.131

तत्र नीली-रागः-
व्यय-सम्भावना-हीनो बहिर् नातिप्रकाशवान् ।
स्व-लग्न-भावावरणो नीली-रागः सतां मतः ।
यथावलोक्यते चैष चन्द्रावलि-मुकुन्दयोः

14.132

यथा-
प्रसन्न-विशदाशया विविध-मुद्रया निर्मितं
प्रतारणम् अपि त्वया गुणतया सदा गृह्णती ।
तथा व्यवजहार सा व्रज-कुलेन्द्र चन्द्रावली
सखीभिर् अपि तर्किता त्वयि यथा तटस्थेत्य् असौ

14.133

अथ श्यामा-रागः-
भीरुतौषधि-सेकादिर् आद्यात् किञ्चित् प्रकाश-भाक् ।
यश् चिरेणैव साध्यः स्यात् स श्यामा-राग उच्यते

14.134

यथा-
पुरा कुञ्जे मञ्जुन्य् अवतमस-युक्तेऽपि चकिता
मुरारेर् या पार्श्वे न तरुणि दिवाप्य् अन्तरम् अगात् ।
तमालैः सैवाद्य द्विगुणित-तमिस्रेऽपि मुदिता
तमिस्रार्धे मानिन्य् अहह भवती तं मृगयते

14.135

अथ रक्तिमा-
रागः कुसुम्भ-मञ्जिष्ठा-सम्भवो रक्तिमा मतः

14.136

तत्र कुसुम्भ-रागः-
कुसुम्भ-रागः स ज्ञेयो यश् चित्ते सज्जति द्रुतम् ।
अन्य-राग-च्छवि-व्यञ्जी शोभते च यथोचितम्

14.137

यथा-
त्वय्य् एव श्रवणावधि प्रिय-सखी या कृष्ण-बद्धान्तरा
या दृष्टे भुजगेऽपि तावक-भुजा-साम्यात् प्रमोदोन्मदा ।
प्रेक्ष्य त्वां पुरतोऽद्य काम् अपि दशां प्रातास्ति सेयं तथा
न ज्ञायेत यथा किम् एष बलवान् रागो विरागोऽथवा

14.138

सदाधार-विशेषेषु कौसुम्भोऽपि स्थिरो भवेत् ।
इति कृष्ण-प्रणयिषु म्लानिर् अस्य न युज्यते

14.139

अथ मञ्जिष्ठ-रागः-
अहार्योऽनन्य-सापेक्षो यः कान्त्या वर्द्धते सदा ।
भवेन् माञ्जिष्ठ-रागोऽसौ राधा-माधवयोर् यथा

14.140

यथा-
धत्ते द्राग् अनुपाधि जन्म विधिना केनापि नाकम्पते
सूतेऽत्य् आहित-सञ्चयैर् अपि रसं ते चेन् मिथो वर्त्मने ।
ऋद्धिं सञ्चिनुते चमत्कृति-करोद्दाम-प्रमोदोत्तरां
राधा-माधवयोर् अयं निरुपमः प्रेमानुबन्धोत्सवः

14.141

यथा वा विदग्ध-माधवे (3.17)-
मया ते निर्बन्धान् मुरजयिनि रागः परिहृत्य
मयि स्निग्धे किन्तु प्रथय परमाशीस् ततिम् इमाम् ।
मुखामोदोद्गारग्रहिलमतिर् अद्यैव हि यतः
प्रदोषारम्भे स्यां विमल-वन-माला-मधु-करी

14.142

पूर्व-पूर्वस् तु यो भावः सोमाभादौ स राजते ।
तथा भीष्म-सुतादौ च श्री-हरेर् महिषी-गणे

14.143

य उत्तरोत्तरो द्वियो राधिकादौ स दीव्यति ।
तथा श्री-सत्यभामायां लक्ष्मणायाम् अपि क्वचित्

14.144

इत्थं भेदेन भावानां सर्व-गोकुल-सुभ्रुवाम् ।
आत्म-पक्ष-विपक्षादि-भेदाः पूर्वम् उदीरिताः

14.145

या भावान्तर-सम्बन्धाज् जायन्ते विविधा भिदाः ।
अपरा अपि भावानां ज्ञेयास् ताः प्रज्ञया बुधैः

14.146

अथ अनुरागः-
सदानुभूतम् अपि यः कुर्यान् नव-नवं प्रियम् ।
रागो भवन् नव-नवः सोऽनुराग इतीर्यते

14.147

यथा दान-केलि-कौमुद्याम् (28)-
प्रपन्नः पन्थानं हरिर् असकृद् अस्मन्-नयनयोर्
अपूर्वोऽयं पूर्वं क्वचिद् अपि न दृष्टो मधुरिमा ।
प्रतीकेऽप्य् एकस्य स्फुरति मुहुर् अङ्गस्य सखि या
श्रियस् तस्याः पातुं लवम् अपि समर्था न दृग् इयम्

14.148

यथा वा-
कोऽयं कृष्ण इति व्युदस्यति धृति यस् तन्वि कर्णं विशन्
रागान्धे किम् इदं सदैव भवती तस्योरसि क्रीडति ।
हास्यं मा कुरु मोहिते त्वम् अधुना न्यस्तास्य हस्ते मया
सत्यं सत्यम् असौ दृगङ्गनम् अगाद् अद्यैवअ विद्युन्-निभः

14.149

परस्पर-वशीभावः प्रेम-वैचित्त्यकं तथा ।
अप्राणिन्य् अपि जन्माप्तौ लालसा-भर उन्नतः ।
विप्रलम्भेऽस्य विस्फूर्तिर् इत्य् आद्याः स्युर् इह क्रियाः

14.150

अत्र परस्पर-वशीभावो, यथा-
समारम्भं पारस्परिक-विजयाय प्रथन् नतो-
रपूर्वा केयं वाम् अघदमन संरम्भ-लहरी ।
मनो-हस्ती बन्धस् तव यद् अनया राग-निगडै-
स्त्वअयाप्य् अस्याः प्रेमोत्सव-नव-गुणैश् चित्त-हरिणः

14.151

प्रेम-वैचित्त्य-संज्ञस् तु विप्रलम्भः स कथ्यते

14.152

अप्राणिन्य् अपि जन्म-लालसा-भरो, यथा दान-केलि-कौमुद्याम् (17)-
तपस्यामह् क्षामोदरि वरयितुम् वेनुषु जनुर्
वरेण्यम् मन्येथाः सखि तद् अखिलानां सुजनुषाम् ।
तपह्-स्तोमेनोच्चैर् यद् इयम् उरर्ञ्कृत्य मुरली
मुरारातेर् बिम्बाधर-मधुरिमानम् रसयति

14.153

अथ विप्रलम्भे विस्फूर्तिर्, यथा-
ब्रूयास् त्वं मथुराध्वनीन मथुरानाथं तम् इत्य् उच्चकैः
सन्देशं व्रज-सुन्दरी कम् अपि ते काचिन् मया प्राहिणोत् ।
तत्र क्ष्मापति-पत्तने यदि गतः स्वच्छन्द गच्छाधुना
किं क्लिष्टाम् अपि विस्फुरन् दिशि दिशि क्लिश्नासि हा मे सखीम्

14.154

अथ भावः-
अनुरागः स्वसंवेद्य-दशां प्राप्य प्रकाशितः ।
यावद्-आश्रय-वृत्तिश् चेद् भाव इत्य् अभिधीयते

14.155

यथा-
राधाया भवतश् च चित्त-जतुनी स्वेदैर् विलाप्य क्रमात्
युञ्जन्न् अद्रि-निकुञ्ज-कुञ्जर-पते निर्धूत-भेद-भ्रमम् ।
चित्राय स्वयम् अन्वरञ्जयद् इह ब्रह्माण्ड-हर्म्योदरे
भूयोभिर् नव-राग-हिङ्गुल-भरैः शृङ्गार-कारुः कृती

14.156

मुकुन्द-महिषी-वृन्दैर् अप्य् असाव् अतिदुर्लभः ।
व्रज-देव्य् एक-संवेद्यो महाभावाख्ययोच्यते

14.157

वरामृत-स्वरूप-श्रीः स्वं स्वरूपं मनो नयेत्

14.158

स रूढश् चाधिरूढश् चेत्य् उच्यते द्विविधो बुधैः

14.159

तत्र रूढः-
उद्दीप्ता सात्त्विका यत्र स रूढ इति भण्यते

14.161

निमेषासहतासन्न-जनता-हृद्-विलोडनम् ।
कल्प-क्षणत्वं खिन्नत्वं तत्-सौख्येऽप्य् आर्ति-शङ्कया

14.162

मोहाद्य्-अभावेऽप्य् आत्मादि-सर्व-विस्मरणं सदा ।
क्षणस्य कल्पएत्याद्या यत्र योग-वियोगयोः

14.163

तत्र निमेषासहता, यथा श्री-दशमे (10.82.38)-
गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं
यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति ।
दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास्
तद्-भावम् आपुर् अपि नित्य-युजां दुरापम्

14.164

आसन्न-जनता-हृद्-विलोडनं, यथा-
सख्यः प्रोक्ष्य कुरून् गुरु-क्षिति-भृताम् आघूर्णयन्ती शिरः
स्वस्था विश्लथयन्त्य् अशेष-रमणीर् आप्लाव्य सर्वं जनम् ।
गोपीनाम् अनुराग-सिन्धु-लहरी सत्यान्तरं विक्रमै-
राक्रम्य स्तिमितां व्यधाद् अपि परां वैकुण्ठ-कण्ठ-श्रियम्

14.165

कल्प-क्षणत्वम्, यथा-
शरज्-ज्योत्स्नी रासे विधिर् अजनि-रूपापि निमिषा-
दतिक्षुद्रा तासां यद् अजनि न तद् विस्मय-पदम् ।
सुखोत्सेकारम्भे निमिष-लव-कल्पाम् इव दशां
महा-कल्पाकल्पाप्य् अहह लभते काल-कलना

14.166

तत्-सौख्येऽप्य् आर्ति-शङ्कया खिन्नत्वम्, यथा श्री-दशमे (10.31.19)-
यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु;
भीताः शनैः प्रिय दधीमहि कर्कशेषु
तेनाटवीम् अटसि तद् व्यथते न किं स्वित्;
कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः

14.167

मोहाद्य्-अभावेऽपि सर्व-विस्मरणं, यथा एकादशे (11.12.12)-
ता नाविदन् मय्य् अनुषङ्ग-बद्ध-
धियः स्वम् आत्मानम् अदस् तथेदम्
यथा समाधौ मुनयोऽब्धि-तोये
नद्यः प्रविष्टा इव नाम-रूपे

14.168

क्षण-कल्पता, यथा तत्रैव (11.12.11)-
तास् ताः क्षपाः प्रेष्ठ-तमेन नीता
मयैव वृन्दावन-गोचरेण ।
क्षणार्ध-वत् ताः पुनर् अङ्ग तासां
हीना मया कल्प-समा बभूवुः

14.169

आद्य-शब्दाद् इह प्रोक्ता कृष्णाविर्भाव-कारिता ।
सम्भोग-भेदे विस्पष्टं सा पुरस्तात् प्रवक्ष्यते

14.170

अथ अधिरूढः-
रूढोक्तेभ्योऽनुभावेभ्यः काम् अप्य् आप्ता विशिष्टताम् ।
यत्रानुभावा दृश्यन्ते सोऽधिरूढो निगद्यते

14.171

यथा शिव-वाक्यम्-
लोकातीअतम् अजाण्ड-कोटिगम् अपि त्रैकालिकं यत् सुखं
दुःखं चेति पृथग् यदि स्फुटम् उभे ते गच्छतः कुटताम् ।
नैवाभास-तुलां शिवे तद् अपि तत् कुट-द्वयं राधिका-
प्रेमोद्यत्-सुख-दुःख-सिन्धु-भवयोर् विन्देत बिन्द्वोर् अपि

14.172

मोदनो मादनश् चासाव् अधिरूढो द्विधोच्यते

14.173

तत्र मोदनः-
मोदनः स द्वयोर् यत्र सात्त्विकोद्दीप्त-सौष्ठवम्

14.174

यथा ललित-माधवे (8.9)-
आतन्वन् कल-कण्ठ-नादम् अतुलं स्तम्भ-श्रियोज्जृम्भितो
भूयिष्ठोच्छलद्-अङ्कुरः फलितवान् स्वेदाम्बु-मुक्ता-फलैः ।
उद्यद्-बाष्प-मरन्द-भाग-विचलोऽप्य् उत्कम्पवान् विभ्रमै
राधा-माधवयोर् विराजति चिराद् उल्लास-कल्प-द्रुमः

14.175

हरेर् यत्र स-कान्तस्य विक्षोभ-भर-कारिता ।
प्रेमोरु-सम्पद्-विख्यात-कान्तातिशयितादयः

14.176

राधिका-यूथ एवासौ मोदनो न तु सर्वतः ।
यः श्रीमान् ह्लादिनी-शक्तेः सुविलासः प्रियो वरः

14.177

तत्र सकान्तस्य हरेः क्षोभ-भर-कारिता, यथा-
हन्त स्तम्भ-करम्बिता भुवि कुरोर् भद्रा सरस्वत्य् अभू-
द्बाष्पं भास्करजा मुमोच तरसा सत्याभ्रमन् नर्मदा ।
भेजे भीष्म-सुता च वर्ण-विकृतिं गाम्भीर्य-भाग् अप्य् असौ
कृष्णोदन्वति राधिकाद्भुत-नदी-प्रेमोर्मिभिः संवृते

14.178

प्रेमोरु-सम्पद्वती-वृन्दातिशयित्वं, यथा-
अद्वैताद् गिरिजां हरार्ध-वपुषं सख्यात् प्रियोरः-स्थितां
लक्ष्मीम् अच्युत-चित्त-भृङ्ग-नलिनीं सत्यां च सौभाग्यतः ।
माधुर्यान् मधुरेश-जीवित-सखीं चन्द्रावलीं च क्षिपन्
पश्यारुद्ध हरिं प्रसार्य लहरीं राधानुरागाम्बुधिः

14.179

मोदनोऽयं प्रविश्लेष-दशायां मोहनो भवेत् ।
यस्मिन् विरह-वैवश्यात् सूद्दीप्ता एव सात्त्विकाः

14.180

यथा-
उद्यद्-वेपथु-वाद्यमान-दशना कण्ठ-स्थलान्तर् लुठ-
ज्जल्पा गोकुल-मण्डलं विदधती बाष्पैर् नदी-मातृकम् ।
राधा कण्टकितेन कण्टकि-फलं गात्रेण धिक्-कुर्वती
चित्रं तद्-घन-राग-राशिभिर् अपि श्वेती-कृता वर्तते

14.181

अत्रानुभावा गोविन्द कान्ता-श्लिष्टेऽपि मूर्च्छना ।
असह्य-दुःख-स्वीकाराद् अपि तत्-सुख-कामता

14.182

ब्रह्माण्ड-क्षोभ-कारित्वं तिरश्चाम् अपि रोदनम् ।
स्व-भूतैर् अपि तत्-सङ्ग-तृष्णा मृत्यु-प्रतिश्रवात् ।
दिव्योन्मादादयोऽप्य् अन्ये विद्वद्भिर् अनुकीर्तिताः

14.183

प्रायो वृन्दावनेश्वर्यां मोहनोऽयम् उदञ्चति ।
सम्यग्-विलक्षणं यस्य कार्यं सञ्चारि-मोहतः

14.184

तत्र कान्ताश्लिष्टेऽपि हरौ मूर्च्छा-कारित्वं, यथा पद्यावल्याम् (371)-
रत्न-च्छाया-च्छुरित-जलधौ मन्दिरे द्वारकाया
रुक्मिण्यापि प्रबल-पुलकोद्भेदम् आलिङ्गितस्य ।
विश्वं पायान् मसृण-यमुना-तीर-वानीर-कुञ्जे
राधा-केली-परिमल-भर-ध्यान-मूर्च्छा मुरारेः

14.185

असह्य-दुःख-स्वीकारात् तत्-सुख-कामता-
स्यान् नः सौख्यं यद् अपि बलवद् गोष्ठम् आप्ते मुकुन्दे
यद्य् अल्पापि क्षतिर् उदयते तस्य मागात् कदापि ।
अप्राप्तेऽस्मिन् यद् अपि नगराद् आर्तिर् उग्रा भवेन् नः
सौख्यं तस्य स्फुरति हृदि चेत् तत्र वासं करोतु

14.186

ब्रह्माण्ड-क्षोभ-कारित्वं, यथा-
नारं चुक्रोश चक्रं फणि-कुलम् अभवद् व्याकुलं स्वेदम् ऊहे
वृन्दं वृन्दारकाणां प्रचुर-मुदम् अमुचन्न् अश्रु वैकुण्ठ-भाजः ।
राधायाश् चित्रम् ईश भ्रमति दिशि दिशि प्रेम-निःश्वास-धूमे
पूर्णानन्देऽप्य् उषित्वा बहिर् इदम् अबहिश् चार्तम् आसीद् अजाण्डम्

14.187

यथा वा-
और्व-स्तोमात् कटुर् अपि कथं दुर्बलेनोरसा मे
तापः प्रौढो हरि-विरहजः सह्यते तन् न जाने ।
निष्क्रान्ता चेद् भवति हृदयाद् यस्य धूम-च्छटापि
ब्रह्माण्डानां सखि कुलम् अपि ज्वालया जाज्वलीति

14.188

तिरश्चाम् अपि रोदनम्, यथा पद्यावल्याम् (373)-
याते द्वारवती-पुरं मुररिपौ तद्-वस्त्र-संव्यानया
कालिन्दी-तट-कुञ्ज-वञ्जुल-लताम् आलाम्ब्य सोत्कण्ठया ।
उद्गीतं गुरु-बाष्प-गद्गद-गलत्-तारस्वरं राधया
येनान्तर्जलचारिभिर् जलचरैर् अप्य् उत्कम् उत्कूजितम्

14.189

मृत्यु-स्वीकारात् स्वभूतैर् अपि तत्-सङ्ग-तृष्णा, यथा तत्रैव (336)-
पञ्चत्वं तनुर् एतु भूत-निवहाउ स्वांशे विशन्तु स्फुटं
धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् ।
तद्-वापीषु पयस् तदीय-मुकुरे ज्योतिस् तदीयाङ्गन-
व्योम्नि व्योम तदीय-वर्त्मनि धरा तत्-ताल-वृन्तेऽनिलः

14.190

अथ दिव्योन्मादः-
एतस्य मोहनाख्यस्य गतिं कामप्य् उपेयुषः ।
भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते

14.191

उद्घूर्णा-चित्र-जल्पाद्यास् तद्-भेदा बहवो मताः

14.192

तत्र उद्घूर्णा-
स्याद् विलक्षणम् उद्घूर्णा नाना-वैवश्य-चेष्टितम्

14.193

यथा-
शय्यां कुञ्ज-गृहे क्वचिद् वितनुते सा वास-सज्जायिता
नीलाभ्रं धृत-खण्डिता व्यवहृतिश् चण्डी क्वचित् तर्जति ।
आघूर्णत्यभिसार-सम्भ्रमवती ध्वान्ते क्वचिद् दारुणे
राधा ते विरहोद्भ्रम-प्रमथिता धत्ते न कां वा दशाम्

14.194

मथुरा-नगरं कृष्णे लब्धे ललित-माधवे ।
उद्घूर्णेयं तृतीयाङ्के राधायाः स्फुटम् ईरिता

14.195

अथ चित्र-जल्पः-
प्रेष्ठस्य सुहृदालोके गूढ-रोषाभिजृम्भितः ।
भूरि-भाव-मयो जल्पो यस् तीव्रोत्कण्ठितान्तिमः

14.196

चित्र-जल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम् ।
विजल्पोज्जल्प-संजल्पा अवजल्पोऽभिजल्पितम् ।
आजल्पः प्रतिजल्पश् च सुजल्पश् चेति कीर्तिताः

14.197

एष भ्रमर-गीताख्यो दशमे प्रकटीकृतः

14.198

असङ्ख्य-भाव-वैचित्री चमत्कृति-सुदुस्तरः ।
अपि चेच् चित्रजल्पोऽयं मनाक् तद् अपि कथ्यते

14.199

तत्र प्रजल्पः-
असूयेर्ष्या-मद-युजा योऽवधीरण-मुद्रया ।
प्रियस्याकौशलोद्गारः प्रजल्पः स तु कीर्त्यते

14.200

यथा (10.47.12)-
मधुप कितव-बन्धो मा स्पृशाङ्घ्रिं सपत्न्याः
कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिर् नः ।
वहतु मधु-पतिस् तन्-मानिनीनां प्रसादं
यदु-सदसि विडम्ब्यं यस्य दूतस् त्वम् ईदृक्

14.201

अथ परिजल्पितम्-
प्रभोर् निर्दयता-शाठ्य-चापलाद्य्-उपपादनात् ।
स्व-विचक्षणता-व्यक्तिर् भङ्ग्या स्यात् परिजल्पितम्

14.202

यथा (10.47.13)-
सकृद् अधर-सुधां स्वां मोहिनीं पाययित्वा
सुमनस इव सद्यस् तत्यजेऽस्मान् भवादृक् ।
परिचरति कथं तत्-पाद-पद्मं नु पद्मा
ह्य् अपि बत हृत-चेता ह्य् उत्तमः-श्लोक-जल्पैः

14.203

अथ विजल्पः-
व्यक्तयासूयया गूढ-मान-मुद्रान्तरालया ।
अघद्विषि कटाक्षोक्तिर् विजल्पो विदुषां मतः

14.204

यथा (10.47.14)-
किम् इह बहु षडङ्घ्रे गायसि त्वं यदूनाम्
अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् ।
विजय-सख-सखीनां गीयतां तत्-प्रसङ्गः
क्षपित-कुच-रुजस् ते कल्पयन्तीष्टम् इष्टाः

14.205

अथ उज्जल्पः-
हरेः कुहकताख्यानं गर्व-गर्भितयेर्ष्यया ।
सासूयश् च तद्-आक्षेपो धीरैर् उज्जल्प ईर्यते

14.206

यथा (10.47.15)-
दिवि भुवि च रसायां काः स्त्रियस् तद्-दुरापाः
कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः ।
चरण-रज उपास्ते यस्य भूतिर् वयं का
अपि च कृपण-पक्षे ह्य् उत्तमः-श्लोक-शब्दः

14.207

अथ संजल्पः-
सोल्लुण्ठया गहनया कयाप्य् आक्षेप-मुद्रया ।
तस्याकृतज्ञताद्य्-उक्तिः संजल्पः कथितो बुधैः

14.208

यथा (10.47.16)-
विसृज शिरसि पादं वेद्म्य् अहं चाटु-कारैर्
अनुनय-विदुषस् तेऽभ्येत्य दौत्यैर् मुकुन्दात् ।
स्व-कृत इह विसृष्टापत्य-पत्य्-अन्य-लोका
व्यसृजद् अकृत-चेताः किं नु सन्धेयम् अस्मिन्

14.209

अथ अवजल्पः-
हरौ काठिन्य-कामित्व-धौर्त्याद् आसक्त्य-योग्यता ।
यत्र सेर्ष्यं भियेवोक्ता सोऽवजल्पः सतां मतः

14.210

यथा (10.47.17)--
मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा
स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् ।
बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस्
तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः

14.211

अथ अभिजल्पितम्-
भङ्ग्या त्यागौचिती तस्य खगानाम् अपि खेदनात् ।
यत्र सानुशयं प्रोक्ता तद् भवेद् अभिजल्पितम्

14.212

यथा (10.47.18)--
यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्-
सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः ।
सपदि गृह-कुटुम्बं दीनम् उत्सृज्य दीना
बहव इह विहङ्गा भिक्षु-चर्यां चरन्ति

14.213

अथ आजल्पः-
जैह्म्यं तस्यार्तिदत्वं च निर्वेदाद् यत्र कीर्तितम् ।
भङ्यान्य-सुखदत्वं च स आजल्प उदीरितः

14.214

यथा (10.47.19)--
वयम् ऋतम् इव जिह्म-व्याहृतं श्रद्दधानाः
कुलिक-रुतम् इवाज्ञाः कृष्ण-वध्वो हरिण्यः
ददृशुर् असकृद् एतत् तन्-नख-स्पर्श-तीव्र-
स्मर-रुज उपमन्त्रिन् भण्यताम् अन्य-वार्ता

14.215

अथ प्रतिजल्पः-
दुस्त्यज-द्वन्द्व-भावेऽस्मिन् प्राप्तिर् नार्हेत्य् अनुद्धतम् ।
दूत-सम्माननेनोक्तं यत्र स प्रतिजल्पकः

14.216

यथा (10.47.20)--
प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किं
वरय किम् अनुरुन्धे माननीयोऽसि मेऽङ्ग ।
नयसि कथम् इहास्मान् दुस्त्यज-द्वन्द्व-पार्श्वं
सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते

14.217

अथ सुजल्पः-
यत्रार्जवात् स-गाम्भीर्यं स-दैन्यं सह-चापलम् ।
सोत्कण्ठं च हरिः पृष्टः स सुजल्पो निगद्यते

14.218

यथा (10.47.21)--
अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते
स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् ।
क्वचिद् अपि स कथां नः किङ्करीणां गृणीते
भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु

14.219

अथ मादनः-
सर्व-भावोद्गमोल्लासी मादनोऽयं परात् परः ।
राजते ह्लादिनी-सारो राधायाम् एव यः सदा

14.220

यथा-
आसृष्टेर् अक्षयिष्णुं हृदय-विधु-मणि-द्रावणं वक्रिमाणं
पूर्णत्वेऽप्य् उद्वहन्तं निज-रुचि-घटया साध्वसं ध्वंसयन्तम् ।
तन्वानं शं प्रदोषे धृत-नव-नवता-सम्पदं मादनत्वा-
दद्वैतं नौमि राधा-दनुज-विजयिनोर् अद्भुतं भाव-चन्द्रम्

14.221

अत्रेर्ष्याया अयोग्येऽपि प्रबलेर्ष्या-विधायिता ।
सदा-भोगेऽपि तद्-गन्ध-मात्राधार-स्तवादयः

14.222

अथ अयोग्येऽपीर्ष्या, यथा दान-केलि-कौमुद्याम् (92)-
विशुद्धाभिः सार्धं व्रज-हरिण-नेत्राभिर् अनिशं
त्वम् अद्धा विद्वेषं किम् इति वनमाले रचयसि ।
तृणीकुर्वत्य् अस्मान् वपुर् अघरिपोर् आशिखम् इदं
परिष्वज्यापाद महति हृदये या विहरसि

14.223

सदा-भोगेऽपि तद्-गन्ध-मात्राधार-स्तुतिर्, यथा श्री-दशमे (10.21.17)-
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग-
श्रीकुङ्कुमेन दयितास्तनमण्डितेन ।
तद्दर्शनस्मररुजस् तृणरूषितेन
लिम्पन्त्य आननकुचेषु जुहुस् तदाधिम्

14.224

यथा वा-
दुष्करं कतर-दालि मालती
कोमलेयम् अकरोत् तपः पुरा ।
हन्त गोष्ठ-पति-नन्दनोपमं
या तमालम् अमलोपगूहते

14.225

योग एव भवेद् एष विचित्रः कोऽपि मादनः ।
यद्-विलासा विराजन्ते नित्य-लीलाः सहस्रधा

14.226

मादनस्य गतिः सुष्ठु मदनस्येव दुर्गमा ।
न निर्वक्तुं भवेच् छक्या तेनासौ मुनिनाप्य् अलम्

14.227

किं च-
रागानुरागताम् आदौ स्नेहः प्राप्यैव सत्वरम् ।
मानत्वं प्रणयत्वं च क्वचित् पश्चात् प्रपद्यते

14.228

अतएवात्र शास्त्रेषु श्रूयते राधिकादिषु ।
पूर्व-राग-प्रसङ्गेऽपि प्रकटं राग-लक्षणम्

14.229

स्फुरन्ति व्रज-देवीषु परा भाव-भिदाश् च याः ।
तास् तर्काय्गोचरत्या न सम्यग् इह वर्णिताः

14.230

साधारण्यां रताव् एव धूमायिततया मताः ।
ज्वलितास् तु रति-प्रेम्णोर् दीप्ताः स्नेहादि-पञ्चसु ।
रूढे भावे तथोद्दीप्ताः सुदीप्ता मोहनादिषु

14.231

इयं प्रायिकता किन्तु श्रेष्ठ-मध्यादि-भारतः ।
देश-काल-जनादीनां क्वाप्य् एषां स्याद् विपर्ययम्

14.232

आद्या प्रेमान्तिमां तत्रानुरागान्तां समञ्जसा ।
रतिर् भावान्तिमां सीमां समर्थैव प्रपद्यन्ते

14.233

रतिर् नर्म-वयस्यानाम् अनुरागान्तिमां स्थितिम् ।
तेष्व् एव सुबलादीनां भावान्ताम् एव गच्छति

मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc