भाषा

ENहिગુ
ग्रंथ पाठ

उज्ज्वलनीलमणि · अध्याय 13

13.1

इति श्री-श्री-उज्ज्वल-नीलमणौ सात्त्विक-प्रकरणम्
॥12॥
(13)
अथ व्यभिचारि-प्रकरणम्
निर्वेदाद्यास्त्रयस्त्रिंशद्-भावा ये परिकीर्तिताः ।
औग्र्यलस्ये विना तेऽत्र विज्ञेया व्यभिचारिणः

13.2

सख्यादिषु निज-प्रेमाप्य् अत्र सञ्चारितां व्रजेत्

13.3

साक्षाद्-अङ्गत्या नेष्टा किन्त्व् अत्र मरणादयः ।
वर्ध्यमानास् तु युक्त्यामी गुणताम् उपचिन्वते

13.4

तत्र निर्वेदः, स महार्त्या, यथा विदग्ध-माधवे (2.41)-
यस्योत्सङ्ग-सुखाश्रया शिथिलता गुर्वी गुरुभ्यस् त्रपा
प्राणेभ्योऽपि सुहृत्तमाः सखि तथा यूयं परिक्लेशिताः ।
धर्मः सोऽपि महान् मया न गणितः साध्वीभिर् अध्यासितो
धिग् धैर्यं तद्-उपेक्षितापि यद् अहं जीवामि पापीयसी

13.5

विप्रयोगेण, यथा उद्धव-सन्देशे (81)-
न क्षोदीयान् अपि सखि मम प्रेमगन्धो मुकुन्दे
क्रन्दन्तीं मां निजशुभगताख्यापनाय प्रतीहि ।
खेलत्वम्शीवलयिनमनालोक्य तं वक्त्रबिम्बं
ध्वस्तालम्बा यदहमहह प्राणकीटम् बिभर्मि

13.6

ईर्स्यया, यथा-
नात्मानम् आक्षिप त्वं म्लायद्-वदना गभीर-गरिमाणम् ।
सखि नान्तरं क्षितौ कश् चन्द्रावलि-तारयोर् वेत्ति

13.7

अथ विषादः । स इष्टानवाप्तितो, यथा विदग्ध-माधवे (2.56)-
पीतं नवाग् अमृतम् अद्य हरेर् अशङ्कं
न्यस्तं मयाद्य वदने न दृग्-अञ्चलं च ।
रम्ये चिराद् अवसरे सखि लब्ध-मात्रे
हा दुर्विधिर् विरुरुधे जरती च्छलेन

13.8

यथा व श्री-दशमे (10.21.7)-
अक्षण्वतां फलम् इदं न परं विदामः
सख्यः पशून् अनुविवेशतयोर् वयस्यैः ।
वक्त्रं व्रजेश-सुतयोर् अनुवेणु-जुष्टं
यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम्

13.9

प्रारब्ध-कार्यासिद्धेर्, यथा श्री-गीत-गोविन्दे (2.10)-
गणयति गुण-ग्रामं भ्रामं भ्रामाद् अपि नेहते
वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलत्-तृष्णे कृष्णे विहरति मां विना
पुनर् अपि मनो वामं कामं करोति करोमि किम्

13.10

विपत्तितो, यथा ललित-माधवे (3.26)-
निपीता न स्वैरं श्रुति-पुटिकया नर्म-भणितिर्
न दृष्टा निःशङ्कं सुमुखि मुख-पङ्केरुह-रुचः ।
हरेर् वक्षः-पीठं न किल घनम् आलिङ्गितम् अभूद्
इति ध्यायं ध्यायं स्फुटति लुठद् अन्तर् मम मनः

13.11

अपराधाद्, यथा-
हरेर् वचसि सूनृते न निहिता श्रुतिर् वामया
तथा दृग् अपि नार्पिता प्रणति-भाजि तस्मिन् पुरः ।
हितोक्तिर् अपि धिक्-कृता प्रिय-सखी मुहुस् तेन मे
ज्वलत्य् अहह मुर्मुर-ज्वलन-जाल-रुद्धं मनः

13.12

अथ दैन्यम् । तद् दुःखेन, यथा बिल्वमङ्गले-
अयि मुरलि मुकुन्द-स्मेर-वक्त्रारविन्द-
श्वसन्-रस-रसज्ञे त्वां नमस्कृत्य याचे ।
मधुरम् अधर-बिम्बं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्-दशां नन्द-सूनोः

13.13

यथा वा, श्री-दशमे (10.29.38)-
तन् नः प्रसीद वृजिनार्दन ते æङ्घ्रिमूलं
प्राप्ता विसृज्य वसतीस् त्वदुपासनाशाः ।
त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम-
तप्तात्मनां पुरुष-भूषण देहि दास्यम्

13.14

त्रासेन, यथा-
अपि कर-धुतिभिर् मयापनुन्नो
मुखमयम् अञ्चति चञ्चलो द्विरेफः ।
अघदमन मयि प्रसीद वन्दे
कुरु करुणाम् अवरुन्धि दुष्टम् एनम्

13.15

अपराधेन, यथा-
आलि तथ्यम् अपराद्धम् एव ते
दुष्ट-मान-फणि-दष्टया मया ।
पिञ्छ-मौलिर् अधुनानुमीयतां
मामकीनम् अनवेक्ष्य दूषणम्

13.16

अथ ग्लानिः, सा श्रमेण, यथा-
व्यात्युक्षीम् अघमथनेन पङ्कजाक्षी
कुर्वाणा किम् अपि सखीषु सस्मितासु ।
क्षामाङ्गी मणि-वलयं स्खलत् करान्तात्
कालिन्दी-पयसि रुरोध नाद्य राधा

13.17

आधिना, यथा हंसदूते (95)-
प्रतीकारारम्भ-श्लथ-मतिभिर् उद्यत्-परिणतेर्
विमुक्ताया व्यक्त-स्मर-कदन-भाजः परिजनैः ।
अमुञ्चन्ती सङ्गं कुवलय-दृशः केवलम् असौ
बलाद् अद्य प्राणान् अवति भवाशा-सहचरी

13.18

रतेन, यथा श्री-गीत-गोविन्दे (12.12)-
माराङ्के रति-केलि-सङ्कुल-रणारम्भे तया साहस-
प्रायं कान्त-जयाय किंचिद् उपरि प्रारम्भि यत्-सम्भ्रमात् ।
निष्पन्दा जघन-स्थली शिथिलिता दोर्-वल्लिर् उत्कम्पितं
वक्षो मीलितम् अक्षि पौरुष-रसः स्त्रीणां कुतः सिध्यति

13.19

अथ श्रमः । सोऽध्वनो, यथा पद्यावल्यां (211)-
द्वित्रैः केलि-सरोरुहं त्रि-चतुरैर् धम्मिल्ल-मल्ली-स्रजं
कण्ठान् मौक्तिक-मालिकां तद् अनु च त्यक्त्वा पदैः पञ्चमैः ।
कृष्ण-प्रेम-विघूर्णितान्तरतया दूराभिसारातुरा
तन्वङ्गी निरुपायम् अध्वनि परं श्रेणीभरं निन्दति

13.20

नृत्याद्, यथा-
शिथिल-गति-विलासास् तत्र हल्लीश-रङ्गे
हरि-भुज-परिघाग्र-न्यस्त-हस्तारविन्दाः ।
श्रम-लुलित-ललाट-श्लिष्ट-लीलालकान्ताः
प्रतिपदम् अनवद्याः सिष्विदुर् वेदिमध्याः

13.21

रताद्, यथा-
अहह भुजयोर् द्वन्द्वं मन्दं बभूव विशाखिके
समजनि घन-स्वेदं चेदं युगं तव गण्डयोः ।
धृत-मधुरिम-स्फूर्ति-मूर्तिस् तथापि वरानने
प्रमद-सुधयाक्रान्तं स्वान्तं मम प्रणयत्य् असौ

13.22

अथ मदः । स मधुपानजो, यथा-
या ह्रिया हरि-पुरो मुख-मुद्रां
भङ्क्तु-मध्य-वससौ न कदापि ।
स पपाठ चटुलं मधु पीत्वा
शारिकेव पशुपाल-किशोरी

13.23

अथ गर्वः । स सौभाग्येन, यथा-
मुञ्चन् मित्र-कदम्ब-सङ्गम् अभजन्न् अप्य् उत्सुकाः प्रेयसी-
रेष द्वारि हरिस् त्वद्-आनन-तटी-न्यस्तेक्षणस् तिष्ठति ।
यूथिभिर् मकराकृति स्मित-मुखी त्वं कुर्वती कुण्डलं
गण्डोद्यत्-पुलका दृशोऽपि न किल् क्षीवे क्षिपस्य् अञ्चलम्

13.24

रूपेण, यथा-
चन्द्रावली-वदन-चन्द्र-मरीचि-पुञ्जं
कः स्तोतुम् अप्य् अतिपटु क्षमते क्षमायाम् ।
येनाद्य पिञ्छ-मुकुटोऽपि निकेत-वाटी-
पर्यन्त-कानन-कुटिर-चरः कृतोऽयम्

13.25

यथा वा विदग्ध-माधवे (7.27)-
सहचरि वृषभानुजया प्रादुर्भावे वरत्विषोपगते ।
चन्द्रावली-शतान्य् अपि भवन्ति निर्धूत-कान्तीनि

13.26

गुणेन, यथा-
रमयन्तु तावद् अमलै-
र्ध्वनिभिर् गोपी-कपोतिका कृष्णम् ।
इह ललिता-कल-कण्ठी
कलं न यावत् प्रपञ्चयति

13.27

सर्वोत्तमाश्रयेण, यथा श्री-विष्णु-पुराणे (5.30.51)
जानामि ते पतिं शत्रुं जानामि त्रदशेश्वरम् ।
पारिजातं तथाप्य् एनं मानुषी हारयामि ते

13.28

इष्ट-लाभेन, यथा-
नम्रा न भवतु वंशी मुकुन्द-वक्त्रेन्दु-माधुरी-रसिका ।
त्वं दुर्लभ-तद्-गन्धा लगुडि वृथा स्तब्धतां वहसि

13.29

यथा वा श्री-दशमे (10.83.29)-
उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्-
गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः ।
राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर्
अंसे æनुरक्त-हृदया निदधे स्व-मालाम्

13.30

अथ शङ्का, सा चौर्येण, यथा-
हरन्ती निद्राणे मधुभिदि करात् केलि-मुरलीं
लतोत्सङ्गे लीना घन-तमसि राधा चकितधीः ।
निशि ध्वान्ते शान्ते शरद-अमल-चन्द्र-द्युतिम् उषा-
मसौ निर्मातारं स्व-वदन-रुचां निन्दति विधिम्

13.31

अपराधाद्, यथा ललित-माधवे (2.4)-
उत्ताम्यन्ती विरमति तमस्तोम-सम्पत्-प्रपञ्चे
न्यञ्चन्-मूर्धा सरभसम् असौ स्रस्त-वेणीवृतांसा ।
मन्द-स्पन्दं दिशि दिशि दृशोर् द्वन्द्वम् अल्पं क्षिपन्ती
कुञ्जाद् गोष्ठं विशति चकिता वक्त्रम् आवृत्य पाली

13.32

शङ्का तु प्रवर-स्त्रीणां भीरुत्वाद् भय-कृद् भवेत्

13.33

पर-क्रौर्याद्, यथा विदग्ध-माधवे (5.23)-
व्यक्तिं गते मम रहस्य-विनोद-वृत्ते
रुष्टो लघिष्ठ-हृदयस् तरसाभिमन्युः ।
राधां निरुध्य सदने विनिगूहन्ते वा
हा हन्त लम्भयति वा यदु-राजधानीम्

13.34

अथ त्रासः, स तडिता, यथा-
स्फूर्जिते नभसि भीरुर् उद्यतां
विद्युतां द्युतिम् अवेक्ष्य कम्पिता ।
सा हरेर् उरसि चञ्चलेक्षणा
चञ्चलेव जलदे न्यलीयत

13.35

घोर-सत्त्वेन, यथा विदग्ध-माधवे (5.44)-
कर्णोत्तंसित-रक्त-पङ्कज-जुषो भृङ्गीपतेर् झङ्क्रिया
भ्रान्तेनाद्य दृगञ्चलेन दधती भृङ्गावली-विभ्रमम् ।
त्रासान्दोलित-दोर्-लतान्त-विलसच्-चूडा-झणत्-कारिणी
राधे व्याकुलतां गतापि भवति मोदं ममाध्यस्यति

13.36

उग्र-निस्वनेन, यथा-
त्वम् असि मम सखेति किंवदन्ती
मुद्र चिराद् भवता व्यधायि तथ्या ।
मद्-उरसि रसितैर् निरस्यमानं
यद् उदित-वेपथुर् अर्पिताद्य राधा

13.37

अथ आवेगः, स प्रिय-दर्शनजो, यथा ललित-माधवे (2.11)-
सहचरि निरातङ्कः कोऽयं युवा मुदिर-द्युतिर्
व्रज-भुवि कुतः प्राप्तो माद्यन्-मतङ्गज-विभ्रमः ।
अहह चटुलैर् उत्सर्पद्भिर् दृग-अङ्चल-तस्करैर्
मम धृतिर्-धनं चेतः-कोषाद् विलुण्ठयतीह यः

13.38

यथा वा तत्रैव (6.40)-
उपतरु ललितां तां प्रत्यभिक्षाय सद्यः
प्रकृति-मधुर-रूपां वीक्ष्य राधाकृतिं च ।
मणिम् अपि परिचिन्वन् शङ्ख-चूडावतंसं
मुहुर् अहम् उद्घूर्णं भूरिणा सम्भ्रमेण

13.39

प्रिय-श्रवणजो, यथा ललित-माधवे (1.25)-
धन्ये कज्जल-मुक्त-वाम-नयना पद्मे पदोढाङ्गदा
सारङ्गि ध्वनद्-एक-नूपुर-धरा पालि स्खलन्-मेखला ।
गण्डोद्यत्-तिलका लवङ्गि कमले नेत्रार्पितालक्तका
माधावोत्तरलं त्वम् अत्र मुरली दूरे कलं कूजति

13.40

अप्रिय-दर्शनजो, यथा तत्रैव (3.18)-
क्षणं विक्रोशन्ती विलुठति शताङ्गस्य पुरतः
क्षणं बाष्प-ग्रस्तां किरति किल दृष्टिं हरि-मुखे ।
क्षणं रामस्याग्रे पतति दशनोत्तम्भित-तृणा
न राधेयं कं वा क्षिपति करुणाम्भोधि-कुहरे

13.41

अप्रिय-श्रवणजो, यथा-
व्रज-नरपतेर् एष क्षत्ता करोति गिरा प्रगे
नगर-गतये घोरं घोषे घनां सखि घोषणाम् ।
श्रवण-पदवीम् आरोहन्त्या यया कुलिशोग्रया
रचितम् अचिराद् आभीरीणां कुलं मुहुर् आकुलम्

13.42

-एवम् अन्येऽप्य् ऊह्याः ।
अथ उन्मादः, स प्रौढानन्दाद्, यथा-
प्रसीद मदिराक्षि मां सखि मिलन्तम् आलिङ्गितुं
निरुन्धि मुदिर-द्युतिं नव-युवानम् एनं पुरः ।
इति भ्रमरिकाम् अपि प्रिय-सखी-भ्रमाद् याचते
समीक्ष्य हरिम् उन्मद-प्रमद-विक्लवा वल्लवी

13.43

विरहाद्, यथा-
क्वाप्य् आन्दोलित-कुन्तला विलुठति क्वाप्य् आङ्गुली-भङ्गत-
स्त्वङ्गद्-भ्रूर्-दशनैर् विदश्य दशनान् कंसं शपत्य् उद्धूरा ।
कुत्राप्य् अद्य तमालम् उत्तरल-धीर् आलोक्य धावत्य् अलं
राधा त्वद्-विरह-ज्वरेण पृथुना दूना यदूनां पते

13.44

अत्ज अपस्मारः, यथा-
अङ्ग-क्षेप-विधायिभिर् निविडतोत्तुङ्ग-प्रलापैर् अलं
गाढोद्वर्तित-तार-लोचन-पुटैः फेन-च्छटोद्गारिभिः ।
कृष्ण त्वद्-विरहोत्थितैर् मम सखीम् अन्तर्विकारोर्मिभि-
र्ग्रस्तां प्रेक्ष्य वितर्कयन्ति गुरवः सम्प्रत्य् अपस्मारिणीम्

13.45

अथ व्याधिः, स यथा रस-सुधाकरे (2.52)-
शय्या पुष्प-मयी पराग-मयताम् अङ्गार्पणाद् अश्नुते
ताम्यन्त्य् अन्तिक-ताल-वृन्त-नलिनी-पत्राणि गात्रोष्मणा ।
न्यस्तं च स्तन-मण्डले मलयजं शीर्णान्तरं लक्ष्यते
क्वाथाद् आशु भवन्ति फेनिल-मुखा भूषा-मृणालाङ्कुराः

13.46

अथ मोहः, स हर्षाद्, यथा विदग्ध-माधवे (2.6)-
दरोन्मीलन् नीलोत्पल-दल-रुचस् तस्य निविडाद्
विरूढानां सद्यः कर-सरसिज-स्पर्श-कुतुकात् ।
वहन्ती क्षोभाणां निवहम् इह नाज्ञासिषम् इदं
क्व वाहं का वाहं चकर किम् अहं वा सखि तदा

13.47

यथा व श्री-दशमे (10.21.12)-
कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं
श्रुत्वा च तत्-क्वणित-वेणु-विचित्र-गीतम् ।
देव्यो विमान-गतयः स्मर-नुन्न-सारा
भ्रश्यत् प्रसून-कवरा मुमुहुर् विनीव्य्

13.48

विश्लेषाद्, यथा उद्धव-सन्देशे (117)-
सा पल्यङ्के किशलय-दलैः कल्पिते तत्र सुप्ता
गुप्ता नीर-स्तवकित-तृशां चक्रवालैः सखीनाम् ।
द्रष्टव्या ते क्रशिम-कलिताकण्ठनालोप-कण्ठ
स्पन्देनान्तर्-वपुर् अनुमित-प्राण-सङ्गा वराङ्गी

13.49

विषादाद्, यथा श्री-दशमे (10.35.16-17)-
निज-पदाब्ज-दलैर् ध्वज-वज्र-
नीरजाङ्कुश-विचित्र-ललामैः ।
व्रज-भुवः शमयन् खुर-तोदं
वर्ष्म-धुर्य-गतिर् ईडित-वेणुः

13.50

व्रजति तेन वयं स-विलास-
वीक्षणार्पित-मनोभव-वेगाः ।
कुज-गतिं गमिता न विदामः
कश्मलेन कवरं वसनं वा

13.51

अथ मृतिः-
मृतेर् अध्यवयायोऽत्र वर्ण्यः साक्षाद् इयं न हि

13.52

यथा उद्धव-सन्देशे (69)-
यावद्-व्यक्तिं न किल भजते गान्दिनेयानुबन्धस्
तावन् नत्वा सुमुखि भवतीं किंचिद् अभ्यर्थयिष्ये ।
पुष्पैर् यस्या मुहुर् अकरवं कर्ण-पूरान् मुरारेः
सेयं फुल्ला गृह-परिसरे मालती पालनीया

13.53

अथ आलस्यम्-
साक्षाद् अङ्गं न चालस्यं भङ्ग्या तेन निबध्यते

13.54

यथा-
निरवधि दधि-पूर्णां गर्गरीं लोडयित्वा
सखि कृत-तनु-भङ्गं कुर्वती भूरि जृम्भाम् ।
भुवम् अनुपतिता ते पत्युर् आस्ते सवित्री
विरचय तद्-अशङ्कं त्वं हरेर् मूर्ध्नि चूडाम्

13.55

अथ जाड्यं, तद्-इष्ट-श्रुत्या, यथा-
गोपुरे रुवति कृष्ण-नूपुरे
निष्क्रमाय धृत-सम्भ्रमाप्य् असौ ।
कीलितेव परिमीलितेक्षणा
सीदति स्म सदने मनोरमा

13.56

अनिष्ट-श्रुत्या, यथा ललित-माधवे (3.10)-
आली-व्यालीक-वचनेन मुहुर् विहन्तो
हन्तारविन्द-विगलद्-ग्रथितार्ध-माल्या ।
हा हन्त हन्त किम् अपि प्रतिपन्न-तन्द्रा
चन्द्रावली किल दशान्तरम् आरुरोह

13.57

इष्टेक्षणेन, यथा विदग्ध-माधवे (3.29)-
अहो धन्या गोप्यः कलित-नव-नर्मोक्तिभिर् अलं
विलासैर् आमोदं दधति मधुरैर् या मधुभिदः ।
धिग् अस्तु स्वं भाग्यं यद् इह मम राधा प्रिय-सखी
पुरस् तस्मिन् प्राप्ते जडिम-निविडाङ्गी विलुठति

13.58

अनिष्टेक्षणेन, यथा-
राधा वनान्ते हरिणा विहारिणी
प्रेक्ष्याभिमन्युं स्तिमिताभरत् तथा ।
क्रुद्यास्य तूर्णं भजतोऽपि सन्निधिं
यथा भवानी-प्रतिमाभ्रमं दधे

13.59

विरहेण, यथा पद्यावल्यां (187)
गृहीतं ताम्बूलं परिजन-वचोभिर् न सुमुखी
स्मरत्य् अन्तःशून्या मुरहर गतायाम् अपि निशि ।
ततेवास्ते हस्तः कलित-फणि-वल्ली-किसलयस्
तथवास्यं तस्याः क्रमुक-फल-फाली-परिचितम्

13.60

अथ व्रीडा, सा नवीन-सङ्गमेन, यथा-
विधुमुखि भज शय्यां वर्तसे किं नतास्या
मुहुर् अयम् अनुवर्ती याचते त्वां प्रसीद ।
इति चटुभिर् अनल्पैः सा मयाभ्यर्थ्यमाना
व्यरुचद् इह निकुञ्ज-श्रीर् इव द्वारि राधा

13.61

अकार्येण, यथा-
पटुः किम् अपि भाग्य-तत्त्वम् असि पुत्रि वित्तार्जने
यद् एतम् अतुल्यं बलाद् अपजहर्थ हारं हरेः ।
गभीरम् इति शृण्वती गुरुजनाद् उपालम्भनं
मणि-स्रग्-अवलोकनान् मुखम् अवाञ्चयन् मालती

13.62

स्तवेन, यथा-
सङ्कुच न तथ्य-वचसा
जगन्ति तव कीर्ति-कौमुदी मार्ष्टि ।
उरसि हरेर् असि राधे
यद् अक्षया कौङ्कुमी-चर्चा

13.63

अवज्ञया, यथा श्री-गीत-गोविन्दे (8.10)-
तवेदं पश्यन्त्याः प्रसरद्-अनुरागं बहिर् इव
प्रिय-पादालक्त-च्छुरितम् अरुण-द्योति हृदयम् ।
ममाद्य प्रख्यात-प्रणय-भर-भङ्गेन कितव
त्वद्-आलोकः शोकाद् अपि किम् अपि लज्जां जनयति

13.64

अथ अवहित्था, सा जैह्म्येन, यथा श्री-जगन्नाथ-वल्लभे-
अमुष्याः प्रोन्मीलत्-कमल-मधु-धारा इव गिरो
निपीय क्षीबत्वं गत इव चलन्-मौलिर् अधिकम् ।
उदञ्चत्-कामोऽपि स्व-हृदय-कला-गोपन-परो
हरिः स्वैरं स्वैरं स्मित-सुभगम् ऊचे कथम् अयम्

13.65

जैह्म्य-लज्जाभ्यां, यथा उद्धव-सन्देशे (52)-
मा भूयस्त्वं वद रविसुतातीरधूर्तस्य वार्तां
गन्तव्या मे न खलु तरले दूति सीमापि तस्य ।
विख्याताहम् जगति कठिना यत् पिधत्ते मदङ्गं
रोमाञ्चो.अयं सपदि पवनो हैमनस्तत्र हेतुः

13.66

ह्रिया, यथा विदग्ध-माधवे (2.16)-
भजन्त्याः स-व्रीडं कथम् अपि तदाडम्बर-घटाम्
अपह्नोतुं यत्नाद् अपि नवम-दामोद-मधुरा ।
अधीरा कालिन्दी-पुलिन-कलभेन्द्रस्य विजयं
सरोजाक्ष्याः साक्षाद् वदति हृदि कुञ्जे तनुवनी

13.67

दाक्षिण्येन, यथा ललित-माधवे (7.38)-
उद्धूता स्मित-कौमुदी न मधुरा वक्त्रेन्दु-बिम्बात् तया
मृद्वीनां न निराकृता निज-गिरां माधुर्य-लक्ष्मीर् अपि ।
कोष्णैर् अद्य दुरावरैर् निज-मनो-गूढ-व्यथा-शंसिभिः
श्वासैर् एव दरोद्धूत-स्तन-पटैस् तस्या रुषः कीर्तिताः

13.68

ह्री-भयाभ्यां, यथा-
हृदये त्वदीय-रागं, माधव दधती शमीव सा दहनम् ।
अन्तर्ज्वलितापि बहिः, सरसा स्फुरति क्षमा-गुणतः

13.69

भयेन, यथा-
चन्द्रावली मन्दिर-मण्डलानि
पतुय्ः प्रस्ताच् चिरम् आचरन्ती ।
वंशी-निनादेन विरूड-कम्पा
निनिन्द धूर्ता घन-गर्जितानि

13.70

गौरवदाक्षिण्याभ्यां, यथा-
स्वकर-ग्रथिताम् अवेक्ष्य मालां
विलुठन्तीं प्रतिपक्ष-केश-पक्षे ।
मलिनाप्य् अघमर्दनादरोर्मि-
स्थगिता चन्द्रमुखी बभूव तूष्णीम्

13.71

अथ स्मृतिः । सा सदृशेक्षया, यथा हंसदूते (23)-
तमालस्यालोकाद् गिरि-परिसरे सन्ति चपलाः
पुलिन्द्यो गोविन्द-स्मरण-रभसोत्तप्त-वपुषः ।
शनैस् तासां तापं क्षणम् अपनयन् यास्यति भवान्
अवश्यं कालिन्दी-सलिल-शिशिरैः पक्ष-पवनैः

13.72

द्यूताभ्यासेन, यथा-
ते पीयूषिकिरां गिरां परिमलाः सा पिञ्छ-चूडोज्ज्वला
तास् तापिञ्छ-मनोहरास् तनुरुचस् ते केलयः पेशलाः ।
तद्-वक्त्रं शरद्-इन्दु-निन्दि नयने ते पुण्डरीक-श्रिणी
तस्येति क्षणम् अप्य् अविस्मरद् इदं चेतो ममाघूर्णते

13.73

अथ वितर्कः, स विमर्शाद् यथा विदग्ध-माधवे (6.29)-
विघूर्णन्तः पौष्पं न मधु लिहतेऽमी मधुलिहः
शुकोऽयं नादत्ते कलित-जडिमा दाडिम-फलम् ।
विवर्णा पर्णाग्रं चरति हरिणीयं न हरितं
पथानेन स्वामी तद्-इभ-वर-गामी ध्रुवम् अगात्

13.74

संशयाद्, यथा ललित-माधवे (3.40)-
विदूरे कंसारिर् मुकुटित-शिखण्डावलिर् असौ
पुरे गौराङ्गीभिः कलित-परिरम्भो विलसति ।
न कान्तोऽयं शङ्के सुरपतिधनुर् धाम-मधुरस्
तडिल्-लेखाहारी गिरिम् अवललम्बे जलधरः

13.75

यथा पद्यावल्यां (238)-
आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परा
नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः ।
मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते
तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वियोगिन्य् अपि

13.76

यथा वा विदग्ध-माधवे (3.4)-
अक्ष्णोर् द्वन्द्वं प्रसरति दरोद्घूर्ण-तारं मुरारेः
श्वासाः क् प्तां किल विचकिलैर् मालिकां म्लापयन्ति ।
केयं धन्या वसति रमणी गोकुले क्षिप्रम् एतां
नीतस् तीव्रामयम् अपि यया काम् अपि ध्यान-निष्ठाम्

13.77

अनिष्टाप्त्या-
बाल्यस्योच्छिदुरतया यथा यथाङ्गे
राधाया मधुरिम-कौमुदी दिदीपे ।
पद्माया मुख-कमलं विशीर्णमन्तः
सन्ताम्यद् भ्रमरम् इदं तथा तथासीत्

13.78

यथा वा-
मा चन्द्रावलि मलिना भव राधायाः समीक्ष्य सौभाग्यम् ।
ज्योतिर्-विदोऽपि विद्युः कृष्णे किल बलवती तारा

13.79

अथ मतिः, यथा पद्यावल्याम् (337)-
आश्लिष्य वा पाद-रतां पिनष्टु माम्
अदर्शनान् मर्म-हतां करोतु वा ।
यथा तथा वा विदधातु लम्पटो
मत्-प्राण-नाथस् तु स एव नापरः

13.80

यथा वा-
भवाम्बुज-भवादयस् तव पदाम्बुजोपासना-
मुशन्ति सुर-वन्दिताः किम् उत मन्द-पुण्या नृपाः ।
अतस् तव जगत्पते मधुरिमाम्बुधेर् मद्-विधो
न दास्यम् इह वष्टि कः पुरुष-रत्न कन्या-जनः

13.81

अथ धृतिः । सा दुःखाहावेन, यथा श्री-दशमे (10.32.13)-
तद्-दर्शनाह्लाद-विधूत-हृद्-रुजो
मनोरथान्तं श्रुतयो यथा ययुः ।
स्वैर् उत्तरीयैः कुचकुङ्कुमाङ्कितैर्
अचीक्ल्पन्न् आसनम् आत्मबन्धवे

13.82

उत्तमाप्त्या, यथा-
नव्या यौवन-मञ्जरी स्थिरतरा रूपं च विस्मापनं
सर्वाभीर-मृगी-दृशाम् इह गुण-श्रेणी च लोकोत्तरा ।
स्वाधीन पुरुषोत्तमश् च नितरां त्यक्तान्यकान्ता-स्पृहो
राधायाः किम् अपेक्षणीयम् अपरं पद्मे क्षितौ वर्तते

13.83

अथ हर्षः । सोऽभीष्टेक्षणेन, यथा श्री-दशमे (10.32.3)-
तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशो æबलाः ।
उत्तस्थुर् युग् थे कारिकास् ओf रसार्णव-सुधाकर

13.84

यथा वा ललित-माधवे (1.53)-
स एष किम् उ गोपिका-कुमुदिनी-सुधा-दीधितिः
स एष किम् उ गोकुल-स्फुरित-यौवराज्योत्सवः ।
स एष किम् उ मन्-मनः-पिक-विनोद-पुष्पाकरः
कृशोदरि दृशोर् द्वईम् अमृत-वीचिभिः सिञ्चति

13.85

अभीष्ट-लाभेन, यथा तत्रैव (8.11)-
आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे
नाश्लेषे किल शक्तिभाग् अतिपृथु-स्तम्भा भुजा-वल्लरी ।
वाणी गद्गद-कुण्ठितोत्तर-विधौ नालं चिरोपस्थिते
वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गी-दृशः

13.86

अथ औत्सुक्यम् । तद्-इष्टेक्षा-स्पृहया, यथा हंसदूते (36)-
असव्यं बिभ्राणा पदम् अधूत-लाक्षा-रसम् असौ
प्रयाताहं मुग्धे विरम मम वेशैः किम् अधुना ।
अमन्दाद् आशङ्के सखि पुर-पुरन्ध्रि-कल-कलाद्
अलिन्दाग्रे वृन्दावन-कुसुम-धन्वा विजयते

13.87

इष्टाप्ति-स्पृहया, यथा श्री-गीत-गोविन्दे (6.11)-
अङ्गेष्व् आभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्य् आकल्प-विकल्प-तल्प-रचना-सङ्कल्प-लीला-शत-
व्यासक्तापि विना त्वया वर-तनुर् नैषा निशां नेष्यति

13.88

अथ औग्र्यम् ।
औग्र्यं न साक्षाद् अङ्गं स्यात् तेन वृद्धादिषूच्यते

13.89

यथा विदग्ध-माधवे (4.50)-
नवीनाग्रे नप्त्री चटुल न हि धर्मात् तव भयं
न मे दृष्टिर् मध्ये-दिनम् अपि जरत्याः पटुर् इयम् ।
अलिन्दात् त्वं नन्दात्मज न यदि रे यासि तरसा
ततोऽहं निर्दोषा पथि कियति हंहो मधुपुरी

13.90

अथ अमर्षः । सोऽधिक्षेपाद्, यथा श्री-दशमे (10.60.44)-
तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः
स्त्रीणां गृहेषु खर-गो-श्व-विडाल-भृत्याः ।
यत्-कर्ण-मूलम् अरि-कर्षण नोपयायाद्
युष्मत्-कथा मृड-विरिञ्च-सभासु गीता

13.91

अपमानाद्, यथा विदग्ध-माधवे (4.39)-
बाले वल्लव-यौवत-स्तन-तटी-दत्तार्ध-नेत्रादितः
कामं श्याम-शिला-विलासि-हृदयाच् चेतः परावर्तय ।
विद्मः किं न हि यद् विकृष्य कुलजाः केलिभिर् एष स्त्रियो
धूर्तः सङ्कुलयन् कलङ्क-ततिभिर् निःशङ्कम् उन्मुञ्चति

13.92

अथ असूया । सा सौभाग्येन, याथा श्री-दशमे (10.30.32)-
इमान्य् अधिकमग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः

13.93

याथा वा तत्रैव (10.21.9)-
गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर्
दामोदराधर-सुधाम् अपि गोपिकानाम् ।
भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो
हृष्यत्-त्वचो æश्रु मुमुचुस् तरवो यथार्याः

13.94

यथा वा,
कृष्णाधर-मधु-मुग्धे पिबसि सदेति त्वम् उन्मदा मा भूः ।
मुरली-भुक्त-विमुक्ते रज्यति भवतीव का तत्र

13.95

गुणेन, यथा-
त्वत्तोऽपि मुग्धे मधुरं सखी मे
वन्य-स्रजः स्रष्टुम् असौ प्रवीणा ।
नास्याः करौ सिञ्चति चेद् उदीर्णा
निरुध्य दृष्टिं प्रणयाश्रु-धारा

13.96

अथ चापल्यम् । तद् रागेण, यथा-
फुल्लासु गोकुल-तडाग-भवासु केलिं
निःशङ्कम् आचर चिरं वर-पद्मिनीषु ।
मृद्वीम् अलब्ध-कुसुमां नलिनीं त्वम् एनां
मा कृष्ण-कुञ्जर करेण परिस्पृशाद्य

13.97

यथा वा, श्री-गीत-गोविन्दे (1.49)
रासोल्लास-भरेण विभ्रम-भृताम् आभीर-वाम-भ्रुवाम्
अभ्यर्णं परिरभ्य निर्भरम् उरः प्रेमान्धया राधया ।
साधु त्वद्-वदनं सुधा-मयम् इति व्याहृत्य गीत-स्तुति-
व्याजाद् उद्भट-चुम्बितः स्मृत-मनोहारि हरिः पातु वः

13.98

द्वेषेण, यथा-
यातु वक्षसि हरेर् गुण-सङ्ग-
प्रोज्झिता लयम् इयं वन-माला ।
या कदाप्य् अखिल-सौख्य-पदं नः
कण्ठम् अस्य कुटिला न जहाति

13.99

अथ निद्रा । सा क्लमेन, यथा-
श्वास-स्पन्दन-बन्धुरोदर-तलं पुष्पावली-स्रस्तर-
न्यञ्चन्-मौक्तिक-हार-यष्टि कलयन् नीवीं मनाग् आकुलाम् ।
क्लान्तः केलि-भराद् उरोज-कलसीम् आभीर-वाम-भ्रुवः
कल्याणीम् उपधाय सान्द्र-पुलकाम् अद्रौ निदद्रौ हरिः

13.100

यथा वा हंसदूते (115)-
अलिन्दे कालिन्दी-कमल-सुरभौ कुञ्ज-वसतेर्
वसन्तीं वासन्ती नव-परिमलोद्गारि-चिकुराम् ।
त्वद्-उत्सङ्गे निद्रा-सुख-मुकुलिताक्षीं पुनर् इमां
कदाहं सेविष्ये किशलय-कलाप-व्यजनिनी

13.101

अथ सुप्तिर्, यथा-
पुरः पन्थानं मे त्यज यद् अमुना यामि यमुना-
मिति व्याक्षाणा चुचुक-विचरत्-कौस्तुभ-रुचिः ।
हरेः सव्यं राधा भुजम् उपदधत्य् अम्बुज-मुखी
दरी-क्रोडे क्लान्ता निविडम् इह निद्रा-भरम् अगात्

13.102

यथा वा-
आभीरेन्द्र-सुतस्य गण्ड-मुकुरे स्वाप्नीभिर् उल्लासितं
लीलाभिः पुलकं विलोक्य चकिता निश्चिन्वती जागरम् ।
सा वेणोर् हरणोत्सवे धृत-नवोत्कण्ठापि तल्पाञ्चले
विस्रस्तं करतोऽपि माध्यवससौ तं हर्तुम् एणेक्षणा

13.103

प्रबोधः, यथा-
निद्रा-प्रमोद-हरम् अप्य् उरु-कण्ठ-नादं
कण्ठी-रवस्य शितिकण्ठ-पतत्र-मौलिः ।
तुष्टाव सत्वर-विबुद्ध-परिप्लवाक्ष
राधा-पयोधर-गिरिन्द्र-निपीडिताङ्गम्

13.104

सख्यां स्व-स्नेहो, यथा-
शैल-मूर्ध्नि हरिणा विहरन्ती
रोम-कुड्मल-कर्मबित-मूर्तिः ।
राधिका सललितं ललितायाः
पश्य मार्ष्टि लुलितालकम् आस्यम्

13.105

अथ उत्पत्त्यादि-दशा-चतुष्टयम्, तत्र उत्पत्तिर्, यथा-
मृदुर् इयम् इति वादीर् मा त्वम् अस्या कुडुङ्गे
शशिमुखि तव सख्याः पौरुषं दृष्टम् अस्ति ।
इति भवद्-उपकण्ठे मद्-गिरा भुग्न-दृष्टेः
स्थपुटित-वदनाया राधिकायाः स्मरामि

13.106

अत्रासूयोत्पत्तिः ।
अथ सन्धिः । तत्र सरूपयोर्, यथा-
चिराभीष्टे प्रेक्षे दनुजदमने विद्नति दृशोः
पदं पत्यौ चार्ध-स्फुट-वचसि रक्त-त्विषि रुषा ।
इयं निस्पन्दाङ्गी निमिष-कलनोन्मुक्त-नयना
बभूवावष्टम्भ-प्रतिकृतिर् इवाब्म्होज-वदना

13.107

अत्रेष्टानिष्टेक्षण-कृतयोर् जाड्ययोः सन्धिः ।
अथ भिन्नयोः । तत्र एकहेतुजयोर्, यथा ललित-माधवे (9.39)-
शिखरि-भर-वितर्कतः प्रतप्तं
समहम् अहर्निशम् ईक्षया प्रियस्य ।
हृदयम् इह समस्त-वल्लवीनां
युगपद् अपूर्व-विधं द्विधा बभूव

13.108

अत्र विषाद-हर्षयोः ।
भिन्न-हेतुजयोर्, यथा-
स्थवयति नव-रागं माधवे राधिकायां
गिरम् अथ ललितायाः सावहेलां प्रतीत्य ।
चलतर-चरणाग्रेणालिखन्ती धरित्रीं
विधृत-वदन-पद्मा तत्र सिष्वेद पद्मा

13.109

अत्र चिन्तामर्षयोः ।
अथ शावल्यम्, यथा विदग्ध-माधवे (5.7)-
धन्यास् ता हरिणी-दृशः स रमते याभिर् नवीनो युवा
स्वैरं चापलम् आकलय्य लल्ता मां हन्त निन्दिष्यति ।
गोविन्दं परिरब्धुम् इन्दु-वदनं हा चित्तम् उत्कण्ठते
धिग् वामं विधिम् अस्तु येन गरलं मानाभिधं निर्ममे

13.110

अत्र चापल-शङ्कौत्सुक्यामर्षाणां शावल्यम् ।
अथ शान्तिः, यथा-
आली-युक्ति-कुठारिका-पटिमाभिर् यो न प्रपेदे छिदां
दूती-जल्पित-निर्झरेण च चिरं यः क्वापि नोच्चालितः ।
वंश्-नाद-मरुल्-लवेन कमलाचेतस् तटी-वेष्टनो
मानाख्यः प्रबलोन्नतिस् तरुर् अयं न क्षिप्रम् उन्मूल्यते

मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc