उज्ज्वलनीलमणि · अध्याय 15
इति श्री-श्री-उज्ज्वल-नीलमणौ
स्थायि-भाव-प्रकरणम्
॥14॥
(15)
अथ शृङ्गार-भेद-प्रकरणम्
स विप्रलम्भः सम्भोग इति द्वेधोज्ज्वलो मतः
तत्र विप्रलम्भः-
यूनोर् अयुक्तयोर् भावो युक्तयोर् वा तयोर् मिथः ।
अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते ।
स विप्रलम्भो विज्ञेयः सम्भोगोन्नति-कारकः
तथा चोक्तम्--
न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते ।
काषायिते हि वस्त्रादौ भूयान् एवाभिवर्धते
पूर्व-रागस् तथा मानः प्रेम-वैचित्त्यम् इत्य् अपि ।
प्रवासश् चेति कथितो विप्रलम्भश् चतुर्-विधः
तत्र पूर्व-रागः-
रतिर् या सङ्गमात् पूर्वं दर्शन-श्रवणादि-जा ।
तयोर् उन्मीलति प्राज्ञैः पूर्व-रागः स उच्यते
तत्र दर्शनात्-
साक्षात् कृष्णस्य चित्रे च स्यात् स्वप्नादौ च दर्शनम्
तत्र साक्षात्, यथा पद्यावल्याम् (159)-
इन्दीवरोदर-सहोदर-मेदुर-श्री-र्
वासो द्रवत्-कनक-वृन्द-निभं दधानः ।
आमुक्त-मौक्तिक-मनोहर-हार-वक्षाः
कोऽयं युवा जगद्-अनङ्ग-मयं करोति
चित्रे, यथा विदग्ध-माधवे (2.23)-
शिशिरय दृशौ दृष्ट्वा दिव्यं किशोरम् इतीक्षितः
परिजल्पन-गिरां विश्रम्भात् त्वं विलास-फलाङ्कितः ।
शिव शिव कथं जानीमस् त्वाम् अवक्र-धियो वयं
निविड-बडवा-वह्नि-ज्वाला-कलाप-विकासिनम्
स्वप्ने, यथा-
स्वप्ने दृष्ट्वा सहचरि सरित्-कासरी श्याम-नीरा
तीरे तस्याः क्वणित-मधुपा माधवई-कुञ्ज-शाला ।
तस्यां कान्तं कपिश-जघनो ध्वान्त-राशिः शरीरी
चित्रं चन्द्रावलिम् अपि स मां पातुम् इच्छन्न् अरौत्सीत्
अथ श्रवणम्-
वन्दि-दूती-सखी-वक्त्राद् गीतादेश् च श्रुतिर् भवेत्
ततो वन्दि-वक्त्रात्, यथा-
पठति मगध-राज-निर्जयार्थां
सखि विरुदावलिम् अत्र वन्दिवर्ये ।
वद कथम् इव लक्ष्मणे तनुते
पुलक-कुलेन विलक्षणा किलासीत्
दूती-वक्त्रात्, यथा-
आविष्कृते तव मुकुन्द मया प्रसङ्गे
तारावली पुलकिताङ्ग-लता नताक्षी ।
शुश्रूषुर् अप्य् अलघु-गद्गद-रुद्ध-कण्ठी
प्रष्टुं तवाक्षमत सा न कथा-विशेषम्
सखी-वक्त्रात्, यथा-
यावद् उन्मद-चकोर-लोचना
मन्-मुखात् तव कथाम् उपाशृणोत् ।
तावद् अञ्चति दिनं दिनं सखी
कृष्ण शारद् अनदीर्य तानवम्
गीतात्, यथा-
नयने प्रणयन्न् उदश्रुणी
मम सद्यः सदसि क्षितीशितुः ।
उपवीणयति प्रवीण-धीः
कम् उदश्रुः सखि वैणिको मुनिः
पुरोक्ता येऽभियोगाद्या हेतवो रति-जन्मनि ।
अत्र ते पूर्व-रागेऽपि ज्ञेया धीरैर् यथोचितम्
अपि माधव-रागस्य प्राथम्ये सम्भवत्य् अपि ।
आदौ रागे मृगाक्षीणां प्रोक्ते स्याच् चारुताधिका
अत्र सञ्चारिणो व्याधिः शङ्कासूया श्रमः क्लमः ।
निर्वेदौत्सुक्य-दैन्यानि चिन्ता-निद्रा-प्रबोधनम्
विषादो जडतोन्मदो मोह-मृत्य्-आदयः स्मृताः ।
प्रौढः समञ्जसः साधारणश् चेति स तु त्रिधा
तत्र प्रौढः-
समर्थअ-रति-रूपस् तु प्रौढ इत्य् अभिधीयते ।
लालसादिर् इह प्रौढे मरणान्ता दशा भवेत् ।
तत्-तत्-सञ्चारि-भावानाम् उत्कटत्वाद् अनेकधा
तथापि प्राक्तनैर् अस्य दशावस्था समासतः ।
प्रोक्तास् तद्-अनुरोधेन तासां लक्षणम् उच्यते
लालसोद्वेग-जागर्यास् तानवं जडिमात्र तु ।
वैयग्र्यं व्याधिर् उन्मादो मोहो मृत्युर् दशा दश
प्रौढत्वात् पूर्व-रागस्य प्रौढाः सर्वा दशा अपि
तत्र लालसः-
अभीष्ट-लिप्सया गाढ-गृध्नुता लालसो मतः ।
अत्रौत्सुक्यं चपलता घूर्णाश्वासादयस् तथा
यथा-
त्वम् अवसितान् निष्क्रामन्ती पुनः प्रविशन्त्य् असौ
झटिति घटिकामध्ये वाराञ्छतं व्रज-सीमनि ।
अगणित-गुरु-त्रासा श्वासान् विमुच्य विमुच्य किं
क्षिपसि बहुशो नीपारण्ये किशोरि दृशोर् द्वयम्
यथा वा विदग्ध-माधवे (3.24)-
दूराद् अप्य् अनुषङ्गतः श्रुतिम् इते त्वन्-नाम-धेयाक्षरे
सोन्मादं मदिरेक्षणा विरुवती धत्ते मुहुर् वेपथुम् ।
आः किं वा कथनीयम् अन्यद्-असिते दैवाद् वराम्भोधरे
दृष्टे तं परिरब्धुम् उत्सुक-मतिः पक्ष-द्वयीम् इच्छति
अथ उद्वेगः-
उद्वेगो मनसः कम्पस् तत्र निःश्वास-चापले ।
स्तम्भश् चिन्ताश्रु-वैवर्ण्य-स्वेदादय उदीरिताः
यथा विदग्ध-माधवे (2.2)-
चिन्ता-सन्ततिर् अद्य कृन्तति सखि स्वान्तस्य किं ते धृतिं
किंवा सिञ्चति ताम्रम् अम्बरम् अति-स्वेदाम्भसां डम्बरः ।
कम्पश् चम्पक-गौरि लुम्पति वपुः-स्थैर्यं कथं वा बलात्
तथ्यं ब्रूहि न मङ्गला परिजने सङ्गोपनाङ्गीकृतिः
अथ जागर्या-
निद्राक्षयस् तु जागर्या स्तम्भ-शोष-गदादिकृत्
यथा-
श्यामं कञ्चन काञ्चनोज्ज्वल-पटं सन्दर्श्य निद्रा क्षणं
माम् आजन्म सखी विमुच्य चलिता रुष्टेव नावर्तते ।
चिन्तां प्रोह्य सखि प्रपञ्चय मतिं तस्यास् त्वम् आवर्तने
नान्यः स्वाप्निक-तस्करोपहरणे शक्तो जनस् तां विना
अथ तानवम्-
तानवं कृशता गात्रे दौर्बल्य-भ्रमणादि-कृत्
यथा-
च्युते वलय-सञ्चये प्रबल-रिक्तता-दूषण-
व्ययाय निहितोर्मिकावलिर् अपि स्खलत्य् अञ्जसा ।
निशम्य मुरली-कलं सखि सकृद् विशाखे तनु-
स्तवासित-चतुर्दशी-शशिकला कृशत्वं ययौ
कैश्चित् तु तानव-स्थाने विलापः परिपठ्यते
यथा-
अत्रासीन् नवनीप-भूरुह-तटे कुर्वन् विहारं हरि-
श्चक्रे ताण्डवम् अत्र मित्र-सहितश् चण्डांशुजा-रोधसि ।
पश्यन्ती लतिकान्तरे क्षणम् अहं व्यग्रा निलीय स्थितं
सख्यः किं कथयामि दग्ध-विधिना क्षिप्तास्मि दावोपरि
अथ जडिमा-
इष्टानिष्टा-परिज्ञानं यत्र प्रश्नेष्व् अनुत्तरम् ।
दर्शन-श्रवणाभावो जडिमा सोऽभिधीयते ।
अत्राकाण्डेऽपि हुङ्कार-स्तम्भ-श्वास-भ्रमादयः
यथा-
अकाण्डे हुङ्कारं रचयसि शृणोषि प्रिय-सखी-
कुलानां नालापं दृतिर् इव मुहुर् निःश्वसिषि च ।
ततः शङ्के पङ्केरुह-मुखि ययौ वैणव-कला-
मधुली ते पालि श्रुति-चषकयोः प्राघूणिकताम्
अथ वैयाग्र्यम्-
वैयाग्र्यं भाव-गाम्भीर्य-विक्षोभासहतोच्यते ।
तत्राविवेक-निर्वेद-खेदासूयादयो मताः
यथा विदग्ध-माधवे (2.17)-
प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन् मनो धित्सते
बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः ।
यस्य स्फूर्ति-लवाय हन्त हृदये योगी सुमुत्कण्ठते
मुग्धेयं किल तस्य पश्य हृदयान् निष्क्रान्तिम् आकाङ्क्षति
अथ व्याधिः-
अभीष्टालाभतो व्याधिः पाण्डिमोत्ताप-लक्षणः ।
अत्र शीत-स्पृहा-मोह-निःश्वास-पतनादयः
यथा-
दव-दमनतया निशम्य भद्रा
मदन-दव-ज्वलिता दधे हृदि त्वाम् ।
द्विगुणित-दवथु-व्यथा-विदग्धा
मुरहर भस्ममयीव पाण्डुरासीत्
अथ उन्मादः-
सर्वावस्थासु सर्वत्र तन्-मनस्कतया सदा ।
अतस्मिंस् तु तद् इति भ्रान्तिर् उन्माद इति कीर्त्यते ।
अत्रेष्ट-द्वेष-निःश्वास-निमेष-विरहादयः
यथा विदग्ध-माधवे (2.3)-
वितन्वानस् तन्वा मरकत-रुचीनां रुचिवतां
पटान् निष्क्रान्तोऽभूद् धृत-शिखण्डो नव-युवा ।
भ्रुवं तेन क्षिप्त्वा किम् अपि हसतोन्मादित-मतेः
शशी वृत्तो वह्निः परम् अहह वह्निर् मम शशी
अथ मोहः-
मोहो विचित्तता प्रोक्तो नैश्चल्य-पतनादि-कृत्
यथा-
नासाश्वास-पराङ्मुखी विघटिते दृष्टी स्नुषायाः कथं
हा धिक् कृष्ण-तिलान् ममार्पय करे कुर्याम् अपामार्जनम् ।
इत्य् आरोहति कर्णयोः परिसरं कृष्णेति कर्ण-द्वये
कम्पेनाच्युत तत्र सूत्रितवती त्वाम् एव हेतुं सखी
अथ मृत्युः-
तैस् तैः कृतैः प्रतीकारैर् यदि न स्यात् समागमः ।
कन्दर्प-बाण-कदनात् तत्र स्यान् मरणोद्यमः
तत्र स्वप्रिय-वस्तूनां वयस्यासु समर्पणम् ।
भृङ्ग-मन्दानिल-ज्योत्स्ना-कदम्बानुभवादयः
यथा-
राधा रोधसि रोपितां मुकुलिनीम् आलिङ्ग्य मल्-लीलतां
हारं हीरमयं समर्प्य ललिता-हस्ते प्रशस्त-श्रियम् ।
मूर्च्छाम् आप्नुवती प्रविश्य मधुपैर् गीतां कदम्बाटवीं
नाम व्याहरता हरेः प्रिय-सखी-वृन्देन सन्धुक्षिता
यथा वा विदग्ध-माधवे (2.47)-
अकारुण्यः कृष्णो यदि मयि तवागः कथम् इदं
मुधा मा रोदीर् मे कुरु परम् इमाम् उत्तर-कृतिम् ।
तमालस्य स्कन्धे विनिहित-भुज-वल्लरिर् इयं
यथा वृन्दारण्ये चिरम् अविचला तिष्ठति तनुः
अथ समञ्जसः-
भवेत् समञ्जस-रति-स्वरूपोऽयं समञ्जसः
अत्राभिलाष-चिन्ता-स्मृति-गुण-सङ्कीर्तनोद्वेगाः ।
सविलापा उन्माद-व्याधि-जडता मृतिश् च ताः क्रमशः
तत्र अभिलाषः-
व्यवसायोऽभिलाषः स्यात् प्रिय-सङ्गम् अलिप्सया ।
स्वमण्डनान्तिक-प्राप्ति-राग-प्रकटनादि-कृत्
यथा-
यद् इह सखि सुभद्रा-सख्यम् आख्याय धूर्ते
व्रजसि पितुर् अगाराद् देवेकी-मन्दिराय ।
रचयसि बत सत्ये मण्डने च प्रयत्नं
स्फुटम् अजनि तद् अन्तर् वस्तु गूढं तवाद्य
अथ चिन्ता-
अभीष्टावाप्त्य्-उपायानां ध्यानं चिन्ता प्रकीर्तिता ।
शय्या-विवृत्ति-निःश्वास-निर्लक्ष-प्रेक्षणादि-कृत्
यथा-
निःश्वासस् ते कमल-वदने म्लापयत्योष्ठ-बिम्बं
शय्यायां च क्रशिम-कलिता चेष्टते देह-यष्टिः ।
द्वन्द्वं चाक्ष्णोर् विकिरति चिरं रुक्मिणि श्याम अम्भो
न श्वो-भाविन्य् उपयम-विधौ शोभते विक्रियेयम्
अथ स्मृतिः-
अनुभूत-प्रियादीनाम् अर्थानां चिन्तनं स्मृतिः ।
अत्र कम्पाङ्ग-वैवश्य-बाष्प-निःश्वसितादयः
यथा-
प्लुतं पुरेणापां नयन-कमल-द्वन्द्वम् अभितो
धृतोत्कम्पं सात्राजिति कुच-रथाङ्ग-द्वयम् अपि ।
श्लथारम्भं चैतद् भुज-विसल-युगं तत् तव मन-
स्तडागेऽस्मिन् कृष्ण-द्विरद-पतिर् अन्तर् विहरति
अथ गुण-कीर्तनम्-
सौन्दर्यादि-गुण-श्लाघा गुण-कीर्तनम् उच्यते ।
अत्र वेपथु-रोमाञ्च-कण्ठ-गद्गदिकादयः
यथा-
यान्त्यस् तृष्णापि युवतयो येषु घूर्णां भजन्ते
यान्य् आचम्य स्वयम् अपि भवान् रोमहर्षं प्रयाति ।
गन्धं तेषां तव मधुपते रूप-सम्पन्-मधूनां
दूरे विन्दन् मम न हि धृतिः चित्त-भृङ्गस् तनोति
षड्-उद्वेगादयः पूर्वं प्रौढे तस्मिन्न् उदाहृताः ।
सामञ्जस्याद् रतेर् अत्र किन्तु ताः स्युर् यथोचितम्
अथ साधारणः-
साधारण-रति-प्रायः साधारण इतीरितः ।
अत्र प्रोक्ता विलापान्ताः षड्-दशान्ताश् च कोमलाः
अथ अभिलाषो, यथा प्रथम-स्कन्धे (1.10.30)-
एताः परं स्त्रीत्वम् अपास्तपेशलं
निरस्त-शौचं बत साधु कुर्वते ।
यासां गृहात् पुष्कर-लोचनः पतिर्
न जात्व् अपैत्य् आहृतिभिर् हृदि स्पृशन्
चिन्तादीनां तथान्यासाम् ऊह्या धीरैर् उदाहृतिः
पूर्व-रागे प्रहीयेत काम-लेख-स्रग्-आदिकम् ।
वयस्यादि-करेणात्र कृष्णेनास्य च कान्तया
तत्र काम-लेखः-
स लेखः काम-लेखः स्यात् यः स्व-प्रेम-प्रकाशकः ।
युवत्या यूनि यूना च युवत्यां संप्रहीयते
निरक्षरः साक्षरश् च काम-लेखो द्विधा भवेत्
तत्र निरक्षरः-
सुरक्त-पल्लव-मयश् चन्द्रार्धादि-नखाङ्कभाक् ।
वर्ण-विन्यास-रहितो भवेद् एष निरक्षरः
यथा-
किसलय-शिखरे विशाखिकाया
नखर-शिखा-लिखितोऽयम् अर्ध-चन्द्रः ।
दधद् इह मदनार्ध-चन्द्र-भावं
हृदि मम हन्त कथं हठाद् विवेश
अथ साक्षरम्-
गाथामयी लिपिर् यत्र स्वहस्ताङ्कैष साक्षरः
यथा जगन्नाथ-वल्लभे-
सुइरं विज्झसि हिअअं लम्भ-इ मअणो क्खु दुज्जसः बलिअं ।
दीससि सअलदिसासुं दीस-इ मअणो ण कुत्ताबि
(सुचिरं बिध्यसि हृदयं लभते मदनः खलु दुर्यशो बलीयः ।
दृश्यसे सकल-दिशासु दृश्यते मदनो न कुत्रापि ॥)
बन्धोऽब्ज-तन्तुना रागः किं वा कस्तूरिका-मसी ।
पृथु-पुष्प-दलं पत्रः मुद्रा-कृत् कुङ्कुमैर् इह
अथ माल्यार्पणम्-
सुश्लिष्टां निज-शिल्प-कौशल-भर-व्याहारिणीम् अद्भुतां
गोष्ठाधीश्वर-नन्दनं स्रजम् इमां तुभ्यं सखि प्राहिणोत् ।
इत्य् आकर्ण्य गिरं सरोरुह-दृशः स्वेदोद-बिन्दूच्छला-
दङ्गेभ्यः कुल-धर्म-धैर्यम् अभितः शङ्के बहिर् निर्ययौ
केचित् तु-
नयन-प्रीतिः प्रथमं चिन्ता-सङ्गस् ततोऽथ सङ्कल्पः ।
निद्रा-च्छेदस् तनुता विषय-निवृत्तिस् त्रपानाप ।
उन्मादो मूर्च्छा मृतिर् इत्य् एताः स्मर-दशा दशैव स्युः
इत्य् आचक्षते ।
एवं क्रमेण विज्ञेयः पूर्व-रागो हरेर् अपि ।
निदर्शनाय तत्रैकम् उदाहरणम् उच्यते
यथा-
उपारंसीद् वंशी-कल-परिमलोल्लास-रभसा-
द्विसस्मार स्फारां विविध-कुसुमाकल्प-रचनाम् ।
जहौ कृष्णस् तृष्णां सहचर-चमू-चारु-चरिते
सखि त्वद्-भ्रू-व्याली-चुलुकित-चलच्-चित्त-पवनः
इति पूर्व-रागः ।
अथ मानः
दम्पत्योर् भाव एकत्र सतोर् अप्य् अनुरक्तयोः ।
स्वाभीष्टाश्लेष-वीक्षादि-निरोधी मान उच्यते
सञ्चारिणोऽत्र निर्वेद-शङ्कामर्षाः स-चापलाः ।
गर्वासूयावहित्थाश् च ग्लानिश् चिन्तादयोऽप्य् अमी
अहेतोर् नेति नेत्य् उकेर् हेतोर् यन् मान उच्यते ।
अस्य प्रणय एव स्यान् मानस्य पदम् उत्तमम्
तत्र स-हेतुः-
हेतुर् ईर्ष्या-विपक्षादेर् वैशिष्ट्ये प्रेयसा कृते ।
भावः प्रणय-मुख्योऽयम् ईऋषा-मानत्वम् ऋच्छति
तथा चोक्तम् (शृङ्गार-तिलक 2.53)--
स्नेहं विना भयं न स्यान् नेर्ष्या च प्रणयं विना ।
तस्मान् मान-प्रकारोऽयं द्वयोः प्रेम-प्रकाशकः
अतएव हरिवंशे (2.66.4, 2.65.50)-
रुषिताम् इव तां देवीं स्नेहात् सङ्कल्पयन्न् इव ।
भीत-भीतोऽतिशनकैर् विवेश यदु-नन्दनः
रूप-यौवन-सम्पन्ना स्व-सौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्या-वशं गता
इति ।
तत्रापि च सुसख्यादि हृदि यस्या विराजते ।
तस्या विपक्ष-वैशिष्ट्ये न स्याद् एव सहिष्णुता
अतः सत्यां विनान्यासां सुसख्यादेर् अभावतः ।
श्रुतेऽपि पारिजातस्य दाने मानो न चाभवत्
श्रुतं चानुमितं दृष्टं तद्-वैशिष्ट्यं त्रिधा मतम्
अथ श्रवणम्-
श्रवणं तु प्रिय-सखी-शुकादीनां मुखाद् भवेत्
तत्र सखी-मुखात्, यथा-
शशिमुखि मृषा जल्पं श्रुत्वा कठोर-सखी-मुखात्
प्रणयिनि हरौ मा विश्रम्भं कृथाः शिथिलं वृथा ।
परिहर मनः-क्लान्तिं देवि प्रसीद मनोरमे
तव मुखम् अनालोच्य प्रेयान् वनेऽद्य विशीर्यति
यथा वा-
अहह गहना केयं वार्ता श्रुतौ पतिताद्य मे
विदितम् अनृतं हास्याद् ब्रूषे विमुञ्च कदर्थनाम् ।
सहचरि कुतो जीवत्य् अस्मिन् जनेऽपि जनार्दनो
द्युतरु कुसुमं तस्यै हा धिक् कृती वितरिष्यति
शुक-मुखा, यथा-
आस्ते काचिद् दयित-कलहा क्रूर-चेताः सखी ते
कीरो वन्यः स्फुटम् इह यया श्यामले पाठितोऽस्ति ।
अथ व्यर्थे विहग-लपिते सुष्ठु विश्रम्भमाणा
मानारम्भे न कुरु हृदयं कातरोऽस्मि प्रसीद
अनुमितिः-
भोगाङ्क-गोत्र-स्खलन-स्वप्नैर् अनुमितिस् त्रिधा
अत्र भोगाङ्कः-
भोगाङ्को दृश्यते गात्रे विपक्षस्य प्रियस्य च
तत्र विपक्ष-गात्रे भोगाङ्क-दर्शनं, यथा-
कालिन्दी-तट-धूर्त चाटुभिर् अलं निद्रातु चन्द्रावली
खिन्नाक्षी क्षण-मङ्गनाद् अपसर क्रुद्धास्ति वृद्धा गृहे ।
किञ्चिद् बिम्बित-धातु-पत्र-मकरी-चित्रेण तत्राधुना
सर्वा ते ललिता ललाट-फलकेनोद्घाटिता चातुरी
प्रिय-गात्रे भोगाङ्क-दर्शनं, यथा विदग्ध-माधवे (4.40)-
मुक्तान्तर्-निमिषं मदीय-पदवीम् उद्वीक्षमाणस्य
जाने केशर-रेणुभिर् निपतितैः शोणीकृते लोचने ।
शीतैः कानन-वायुभिर् विरचितो बिम्बाधरे च व्रणः
सङ्कोचं त्यज देव दैव-हतया न त्वं मया दूष्यसे
तत्र गोत्र-स्खलनम्-
विपक्ष-संज्ञयाह्वानम् ईर्ष्यातिशय-कारणम् ।
आसां तु गोत्र-स्खलनं दुःखदं मरणाद् अपि
तेन यथा बिल्वमङ्गले-
राधा-मोहन-मन्दिराद् उपगतश् चन्द्रावलीम् ऊचिवान्
राधे क्षेमम् इहेति तस्य वचनं श्रुत्वाह चन्द्रावली ।
कंस क्षेमम् अये विमुग्ध-हृदये कंसः क्व दृष्टस् त्वया
राधा क्वेति विलज्जितो नत-मुखः स्मेरो हरिः पातु वः
यथा वा-
अहह विलसत्य् अग्रे चन्द्रावली विमल-द्युतिः
कितव कलिता तारा सात्र त्वया क्व नु षोडशी ।
तिमिर-मलिनाकार क्षिप्रं व्रजारुण-मण्डला
मम सहचरी यावन्-मन्यु-द्युतिं न विमुञ्चति
अथ स्वप्नः-
हरेर् विदूषकस्यापि स्वप्नः स्वप्नायितं मतः
तत्र हरेः स्वप्नायितम्, यथा-
शपे तुभ्यं राधे त्वम् असि हृदये त्वं मम बहि-
स्त्वम् अग्रे त्वं पृष्ठे त्वम् इह भवने त्वं गिरिवने ।
इति स्वप्ने जल्पं निशि निशमयन्ती मधुरिपो-
रभूत् तल्पे चन्द्रावलिर् अथ परावर्तित-मुखी
विदूषकस्य, यथा-
अवञ्चि चटुपाटवैर् अघभिदाद्य पद्मा-सखी
ततस् त्वरय राधिकां किम् इति माधवि ध्यायसि ।
निशम्य मधुमङ्गलाद् इति गिरं पुरः स्वप्नजां
विदून-वदना सखि ज्वलति पश्य चन्द्रावली
अथ दर्शनम्, यथा-
मिथ्या मा वद कन्दरे सम सखीं हित्वा त्वम् एकाकिनीं
निष्क्रान्तः पृथु-सम्भ्रमेण किम् अपि प्रख्यापयन् कैतवम् ।
दूरात् किञ्चिद् अञ्चितेन रसनाशब्देन सातङ्कया
निष्क्रम्याथ तया शठेन्द्र पुलिने दृष्टोऽसि राधा-सखः
यथा वा-
सहचरि परिगुम्फ्य प्रातर् एवार्पितासीद्
ब्रज-पति-सुत-कण्ठे या मयोत्कण्ठयाद्य ।
अपि हृदि ललितायास् तस्थुषी हन्त हृन् मे
दहति दहन-दीप्तिः पश्य गुञ्जावली सा
अथ निर्हेतुः-
अकारणाद् द्वयोर् एव कारणाभासतस् तथा ।
प्रोद्यन् प्रणय एवायं व्रजेन् निर्हेतु-मानताम्
आद्यं मानं परीणामं प्रणयस्य जगुर् बुधाः ।
द्वितीयं पुनर् अस्यैव विलास-भर-वैभवम् ।
बुधैः प्रणयमानाख्यं एष एव प्रकीर्तितः
तथा चोक्तम् (सरस्वती-कण्ठाभरणे 5.48)-
अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् ।
अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति
अवहित्थादयो ह्य् अत्र विज्ञेया व्यभिचारिणः
तत्र कृष्णस्य, यथा-
अव्यक्त-स्मित-दृष्टिम् अर्पय पुरः स्वल्पोऽपि मन्तुर् न मे
पत्युर् वञ्चन-पाटवाद् व्रजपते ज्योत्स्नी-निशार्धं ययौ ।
शुभ्रालङ्कृतिभिर् द्रुतं पथि मया दूरं ततः प्रस्थिते
सान्द्रा चान्द्रम् अरुन्ध बिम्बम् अचिराद् आकस्मिकी कालिका
यथा वा-
पुष्पेभ्यः स्पृहया विलम्बितवतीम् आलोक्य माम् उन्मनाः
कंसारिः सखि लम्बितानन-शशी तूष्णीं निकुञ्जे स्थितः ।
आतङ्केन मया तद्-अङ्घ्रि-नखरे क्षिप्ते प्रसूनाञ्जलौ
तस्यालीक-रुषा भ्रुवं विभुजतोऽप्य् आविर्बभूव स्मितम्
कृष्ण-प्रियायाः, यथा उद्धव-सन्देशे (44)
तिष्ठन् गोष्ठाङ्गणभुवि मुहुर्लोचनान्तं विधत्ते
जातोत्कण्ठस्तव सखि हरिर्देहलीवेदिकायाम् ।
मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी
स्वान्तम् हन्त ग्लपयसि बहिः प्रीणय प्राणनाथम्
यथा वा-
अहम् इह विचिनोमि त्वद्-गिरैव प्रसूनं
कथय कथम् अकाण्डे चण्डि वाचं यमासि ।
विदितम् उपधिनालं राधिके शाधि केन
प्रिय-सखि कुसुमेन श्रोत्रम् उत्तंसयामि
द्वयोर् एव युगपद्, यथा-
कुञ्जे तुष्णीम् असि नत-शिराः किं चिरात् त्वं मुरारे
किं वा श्यामे त्वम् अपि विमुखी मौन-मुद्रां तनोषि ।
ज्ञातं ज्ञातं स्मित-विमुषिते कापि वामास्ति योग्या
क्रीडा-वादे बलवति यया न द्वयोर् एव भङ्गः
यथा वा-
कुञ्ज-द्वारि निविष्टयोस् तरणिजा-तीरे द्वयोर् एव नौ
तत्रान्योन्यम् अपश्यतोः सखि मुधा निर्बन्धतः क्लान्तयोः ।
हस्ते द्राग् अथ दाडिमी-फलम् अभिन्यस्ते मया निस्तलं
राधाम् उद्भिदुर-स्मितां परिहसन् फुल्लाङ्गम् आलिङ्गिषम्
निर्हेतुकः स्वयं शाम्येत् स्वयंग्राह-स्मिताविधिः
यथा-
रोषस् तवाभूद् यदि राधिकेऽधिक-
स्तथास्तु गण्डः कथम् उच्छ्वसित्य् असौ ।
स्व-नर्मणेत्थं दुरपह्नव-स्मितां
प्रियाम् अचुम्बत् पशुपेन्द्र-नन्दनः
हेतुर् यस् तु शमं यथायोग्यं प्रकल्पितैः ।
साम-भेद-क्रिया-दान-नत्य्-उपेक्षा-रसान्तरैः
मानोपशमनस्याङ्का बाष्प-मोक्ष-स्मितादयः
तत्र साम-
प्रिय-वाक्यस्य रचनं यत् तु तत् साम गीयते
यथा-
जातं सुन्दरि तथय्म् एव पृथुना राधेऽपराधेन मे
किन्तु स्वारसिको ममात्र शरणं स्नेहस् त्वदीयो बली ।
इत्य् आकर्ण्य गिरं हरेर् नतमुखी बाष्पाम्भसां धारया
सानङ्गोत्सव-रङ्ग-मङ्गल-घटो पूर्णावकार्षीत् कुचौ
अथ भेदः-
भेदो द्विधा स्वयं भङ्ग्या स्व-माहात्म्य-प्रकाशनम् ।
सख्यादिभिर् उपालम्भ-प्रयोगश् चेति कीर्त्यते
तत्र भङ्ग्या स्वमाहात्म्य-प्रकाशनं, यथा विदग्ध-माधवे (4.41)-
चञ्चन्-मीन-विलोचनासि कमठोतकृष्ट-स्तनी सङ्गता
क्रोङेन स्फुरता तवायम् अधरः प्रह्लाद-संवर्धनः ।
मध्योऽसौ बलि-बन्धनो मुख-रुचा रामास् त्वया निर्जिता
लब्धा श्री-घनताद्य मानिनि मनस्य् अङ्गीकृता कल्किता
अथवेदं प्रियोक्तित्वात् सामोदाहरणं भवेत् ।
नायकस्य स्व-वचसा भङ्ग्यायं भेद ईर्यते
यथा-
रूक्षा यन् मयि वर्तसे त्वम् अभितः स्निग्धेऽपि ते दूषणं
तत्रास्ते न हि किन्तु तत् किल ममानौचित्य-जातं फलम् ।
येन स्वस्तरुणीर् उपेक्ष्य चरमाम् अप्य् आश्रयन्तीर् दशां
प्रेमार्तं व्रज-यौवतं च सुमुखि त्वं केवलं सेव्यसे
सख्यादिभिर् उपालम्भ-प्रयोगो, यथा-
कर्तुं सुन्दरि शङ्खचूड-मथने नास्मिन्न् उपेक्षोचिता
सर्वेषाम् अभय-प्रदान-पदवी-बद्ध-व्रते प्रेयसि ।
इत्य् आलीभिर् अलक्षितं मुरभिदा भद्रावली भेदिता
नासाग्रे वर-मौक्तिक-श्रियम् अधाद् अस्रस्य सा बिन्दुना
अथ दानम्-
व्याजेन भूषणादीनां प्रदानं दानम् उच्यते
यथा-
कामो नाम सुहृन् ममास्ति भवतीम् आकर्ण्य मत्-प्रेयसीं
हारस् तेन तवार्पितोऽयम् उरसि प्राप्नोतु सङ्गोत्सवम् ।
इत्य् उन्नम्य करं मुरद्विषि वदत्य् उद्भिन्न-सान्द्र-स्मिता
पद्मा मान-विनिग्रहात् प्रणयिना तेनोद्भटं चुम्बिता
अथ नतिः-
केवलं दैन्यम् आलम्ब्य पादपातो नतिर् मता
यथा-
क्षिति-लुठित-शिखण्डापीडम् आरान् मुकुन्दे
रचयति रति-कान्त-स्तोम-कान्ते प्रणामम् ।
नयन-जलधराभ्यां कुर्वती बाष्प-वृष्टिं
वरतनुर् इह मान-ग्रीष्म-नाशं शशंस
अथ उपेक्षा-
सामादौ तु परिक्षीणे स्याद् उपेक्षावधीरणम् ।
उपेक्षा कथ्यते कैश्चित् तूष्णीम्भावतया स्थितिः
तद् द्वयं, यथा-
सूनुर् वल्लभ एष वल्लवपतेस् तत्रापि वीराग्रणी-
स्तत्रापि स्मर-मण्डली-विजयिना रूपेण विभ्राजितः ।
सख्यः सम्प्रति रूक्षता पृथुर् इयं तेनात्र न श्रेयसे
दूरे पश्यत याति निष्ठुर-मनाः का युक्तिर् अत्रोचिता
माने मुहुर् नितिभिर् अप्य् अतिदुर्निवारे
वाचंयम-व्रतम् अहं तरसाग्रहीषम् ।
बाष्पं ततो विकिरती निजगाद पद्मा
पौष्पं रजः पतितम् अत्र दृशोर् ममेति
अथवा-
प्रसादन-विधिं मुक्त्वा वाक्यैर् अन्यार्थ-सूचकैः ।
प्रसादनं मृगाक्षीणाम् उपेक्षेति स्मृता बुधैः
यथा-
धम्मिल्ले नव-मालती परिचिता सव्ये च शब्द-ग्रहे
मल्ली सुन्दरि दक्षिणे तु कतरत् पुष्पं तव भ्राजते ।
आघ्रेयं परिचेतुम् इत्य् उपहिते व्याजेन नासा-पुटे
गण्डोद्यत्-पुलका विहस्य हरिणा चन्द्रावली चुम्बिता
अथ रसान्तरम्-
आकस्मिक-भयादीनां प्रस्तुतिः स्याद् रसान्तरम् ।
यादृच्छिकं बुद्धि-पूर्वम् इति द्वेधा तद् उच्यते
तत्र यादृच्छिकम्-
उपस्थितम् अकस्माद् यत् तद् यादृच्छिकम् उच्यते
यथा-
अपि गुरुभिर् उपायैर् अद्य सामादिभिर् या
लवम् अपि न मृगाक्षी मान-मुद्राम् अभाङ्क्षीत् ।
हरिम् इह परिरेभे सा स्वयंग्राहम् अग्रे
नव-जलधर-नादैर् भीषिता पश्य भद्रा
यथा वा-
उपायेषु व्यर्थोन्नतिषु बत सामादिषु सखे
सखीनां चातुर्ये गतवति च सद्यः शिथिलताम् ।
विशाखायाः कोप-ज्वर-हरण-मन्त्र-प्रतिनिधिं
सचीत्कारं रूक्ष-स्वनितम् अकरोद् उक्ष-दनुजः
अथ बुद्धि-पूर्वम्-
बुद्धि-पूर्वं तु कान्तेन प्रत्युत्पन्न-धिया कृतम्
यथा-
पाणौ पञ्चमुखेन दुष्ट-कृमिणा दष्टोऽस्मि रोषाद् इति
व्याजात् कूणित-लोचनं व्रज-पतौ व्याभुज्य वक्त्रं स्थिते ।
सद्यः प्रोज्झित-रोष-वृत्तिर् असकृत् किं वृत्तम् इत्य् आकुला
जल्पन्ती स्मित-बन्धुर् आस्यम् अमुना गान्धर्विका चुम्बिता
यथा वा-
न्यस्तं दाम कृतागसाद्य हरिणा दृष्ट्वा पुरो राधया
क्षिप्तेनाभिहतः स तेन कपटी दुःखीव भुग्नाननः ।
मीलन्न् एव निषेदिवान् भुवि ततः सद्यस् तया व्यग्रया
पाञिभ्यां धृत-कन्धरः स्थित-मुखो बिम्बोष्ठम् अस्याः पपौ
देश-काल-बलेनैव मुरली-श्रवणेन च ।
विनाप्य् उपायं मानोऽसौ लीयते व्रज-सुभ्रुवाम्
तत्र देश-बलेन, यथा-
अलङ्कीर्णं चन्द्रावलिर् अलि-घटा-झङ्कृति-भरैः
पुरो वृन्दारण्यं किम् अपि कलयन्ती कुसुमितम् ।
हरिं च स्मेरास्यं प्रियक-तरु-मूले प्रियम् इतः
स्खलन्-माना सख्याम् अदिशत सतृष्णं दृशम् असौ
काल-बलेन, यथा-
शरदि मधुर-मूर्तिः पश्य कान्ति-च्छटाभिः
स्नपयति रविकन्या-तीर-वन्यां सुधांशुः ।
इति निशि निशमय्य व्याहृतिं दूतिकायाः
स्मित-रुचिभिर् अतानीत् तत्र राधा प्रसादम्
मुरली-शब्देन, यथा-
यदि रोषं न हि मुञ्चसि
न मुञ्च मम देवि नात्र निर्बन्धः ।
फुत्कृति-विधूत-मानः
स भवतु विजयी हरेर् वेणुः
यथा वा-
मानस्योपाध्यायि प्रसीद सखि रुन्धि मे श्रुति-द्वन्द्वम् ।
अयम् उच्चाटन-मन्त्रं सिद्धो वेणुर् वने पठति
तारतम्यं तु मानस्य हेतोः स्यात् तारतम्यतः ।
स्याल् लघुर् मध्यमश् चासौ महिष्ठश् चेत्य् अतस् त्रिधा
सुसाध्यः स्याल् लघुर् मानो यत्न-साध्यस्य मध्यमः ।
दुःसाध्यः स्याद् उपायेन महिष्ठः प्रेयसाप्य् अयम्
कृष्णे रोषोक्तयस् तासां वामो दुर्लील-शेखरः ।
कितवेन्द्रो महा-धूर्तः कठोरो निरपत्रपः
अतिदुर्ललितो गोपी-भुजङ्गो रत-हिण्डकः ।
गोपिका-धर्म-विध्वंसी गोप-साध्वी-विडम्बकः
कामुकेशस् तमिस्रौघः श्यामात्माम्बर-तस्करः ।
गोवर्धन-तटारण्य-बाट-पाटच्-चरादयः
इति मानः ।
अथ प्रेम-वैचित्त्यम्-
प्रियस्य सन्निकर्षेऽपि प्रेमोन्माद-भ्रमाद् भवेत् ।
या विश्लेष-धियार्तिस् तत् प्रेम-वैचित्त्यम् उच्यते
यथा-
आभीरेन्द्र-सुते स्फुरत्य् अपि पुरस् तीव्रानुरागोत्थया
विश्लेष-ज्वर-सम्पदा विवश-धीर् अत्यन्तम् उद्घूर्णिता ।
कान्तं मे सखि दर्शयेति दशनैर् उद्गूर्ण-शस्याङ्कुरा
राधा हन्त तथा व्यचेष्टते यतः कृष्णोऽप्य् अभूद् विस्मितः
यथा वा विदग्ध-माधवे (5.46)-
समजनि दवाद् वित्रस्तानां किम् आर्त-रवो गवां
मयि किम् अभवद् वैगुण्यं वा निरङ्कुशम् ईक्षितम् ।
व्यरचि निभृतं किं वाहूतिः कयाचिद् अभीष्टया
यद् इह सहसा माम् अत्याक्षीद् वने वनजेक्षणः
विलासम् अनुरागस् तु कुत्रचित् कम् अपि व्रजम् ।
पार्श्वे सन्तम् अपि प्रेष्ठं हारितं कुरुते स्फुटम्
सुष्ठूदाहरता पट्ट-महिषी-गीत-विभ्रमम् ।
स्पष्टं मुक्ता-फले चैतद् वोपदेवेन वर्णितम्
इति प्रेम-वैचित्त्यम्
अथ प्रवासः
पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः ।
व्यवधानं तु यत् प्राज्ञैः स प्रवास इतीर्यते
तज्-जन्य-विप्रलम्भोऽयं प्रवासत्वेन कथ्यते ।
हर्ष-गर्व-मद-व्रीडा वर्जयित्वा समीरिताः
शृङ्गार-योग्याः सर्वेऽपि प्रवासे व्यभिचारिणः ।
स द्विधा बुद्धि-पूर्वः स्यात् तथिअवाबुद्धि-पूर्वकः
अत्र बुद्धि-पूर्वः-
दूरे कार्यानुरोधेन गमः स्याद् बुद्धि-पूर्वकः ।
कार्यं कृष्णस्य कथितं स्वभक्त-प्रीणनादिकम्
किञ्चिद् दूरे सुदूरे च गमनाद् अप्य् अयं द्विधा
तत्र आद्यः-
दृष्टिं निधाय सुरभी-निकुरम्ब-वीथ्यां
कृष्णेति वर्ण-युगलाभ्यसेन रसज्ञाम् ।
शुश्रूषणे मुरलि-निस्वनितस्य कर्णौ
चित्तं मुखे तव नयत्य् अहर् अद्य राधा
अथ द्वितीयः-
भावी भवंश् च भूतश् च तिर्विधः स तु कीर्त्यते
तत्र भावी, यथा उद्धव-सन्देशे (67)-
एष क्षत्ता व्रजनरपतेः आज्ञया गोकुले अस्मिन्
बाले प्रातो नगरगतये घोषणामातनोति ।
दुष्टम् भूयः स्फुरति च बलादीक्षणं दक्षिणं मे
तेन स्वान्तं स्फुटति चटुलम् हन्त भाव्यं न जाने
भवन्, यथा ललित-माधवे (3.7)-
भानोर् बिम्बे त्वरितम् उदय-प्रस्थतः प्रस्थितेऽसौ
यात्रानन्दीं पठति मुदितः स्यन्दने गान्दिनेयः ।
तावत् तूर्णं स्फुट खुर-पुटैः क्षौणि-पृष्टं खनन्तो
यावन् नामी हृदय भवतो घोटकाः स्फोटका स्युः
भूतो, यथा उद्धव-सन्देशे (85)-
कामं दूरे सहचरि वरीवर्ति यत् कंसवैरी
न इदम् लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति ।
आशाकीलो हृदि किल वृतः प्राणरोधी तु यो मे
सोऽयं पीडां निविडवडवावह्नितीव्रस्तनोति
अत्र श्री-यदु-सिंहेन प्रेयसीहिर् अमुष्य च ।
प्रेषणं क्रियते प्रेम्णा सन्देशस्य परस्परम्
यथा उद्धव-सन्देशे (115)-
सोढव्यं ते कथमपि बलाच्चक्षुषी मुद्रयित्वा
तीव्रोत्तापम् हतमनसिजोद्दामविक्रान्तचक्रम् ।
द्वित्रैरेव प्रियसखि दिनैः सेव्यतां देवि शव्ये
यास्यामि त्वत्प्रणयचटुलभ्रूयुगाडम्बराणाम्
तथा पद्यावल्याम् (376)-
कालिन्द्याः पुलिनं प्रदोष-मरुतो रम्याः शशङ्कांशवः
सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात् पुनः ।
सन्दिष्टं व्रज-योषिताम् इति हरेः संशृण्वतोऽन्तःपुरे
निःश्वासाः प्रसृता जयन्ति रमणी-सौभाग्य-गर्व-च्छिदः
अथ अबुद्धि-पूर्वः-
पारत्न्त्र्योद्भवो यस् तु प्रोक्तः सोऽबुद्धि-पूर्वकः ।
दिव्यादिव्यादि-जनितं पारतन्त्र्यम् अनेकधा
यथा ललित-माधवे (2.27)-
आनीतासि मया मनोरथ-शत-व्यग्रेण निर्बन्धतः
पूर्णं शारद-पुर्णिमा-परिमलैर् वृन्दाटवी-मण्डलम् ।
सद्यः सुन्दरि शङ्खचूड-कपट-प्राप्तोदयेनाधुना
दैवेनाद्य विरोधिना कथम् इतस् त्वं हन्त दूरीकृता
चिन्तात्र जागरोद्वेगौ तानवं मलिनाङ्गता ।
प्रलापो व्याधिर् उन्मादो मोहो मृत्युर् दशा दश
तत्र चिन्ता, यथा हंसदूते (2)-
यदा यातो गोपीहृदयमदनो नन्दसदनान्
मुकुन्दो गान्दिन्यास्तनयमनुविन्दन् मधुपुरीम् ।
तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर्
अगाधायां बाधामयपयसि राधा विरहिणी
अथ जागरः, यथा पद्यावल्यां (322)-
याः पश्यन्ति प्रियं स्वप्ने धन्यास्ताः सखि योषितः ।
अस्माकं तु गते कृष्णे गता निद्रापि वैरिणी
अथ उद्वेगः, यथा हंसदूते (104)-
मनो मे हा कष्टं ज्वलति किमहं हन्त करवै
न पारं नावारं किमपि कलयाम्य् अस्य जलधेः ।
इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मां
परामृष्ये यस्माद्धृतिकणिकयापे क्षणिकया
अथ तानवं, यथा-
उदञ्चद्-वक्त्राम्भोरुह-विकृतिर् अन्तः-कलुषिता
सदाहाराभाव-ग्लपित-कुच-कोका यदुपते ।
विशुष्यन्ती राधा तव विरह-तापाद् अनुदिनं
निदाघे कुल्येव क्रशिम-परिपाकं प्रथयति
अथ मलिनाङ्गता-
हिम-विसर-विशीर्णाम्भोज-तुल्यानन-श्रीः
खर-मरुद्-अपरज्यद्-बन्धु-जीवोपमौष्ठी ।
अघहर शरद्-अर्कोत्तापितेन्दीवराक्षी
तव विरह-विपत्ति-म्लापितासीद् विशाखा
अथ प्रलापः, यथा ललित-माधवे (3.25)-
क्व नन्द-कुल-चन्द्रमाः क्व शिखि-चन्द्रकालङ्कृतिः
क्व मन्द्र-मुरली-रवः क्व नु सुरेन्द्र-नील-द्युतिः
क्व रास-रस-ताण्डवी क्व सखि जीव-रक्षौषधिर्
निधिर् मम सुहृत्तमः क्व बत हन्त हा धिग्-विधिम्
अथ व्याधिः, यथा तत्रैव (3.28)
उत्तापी पुट-पाकतो æपि गरल-ग्रामाद् अपि क्षोभणो
दम्भोलेर् अपि दुःसहः कटुर् अलं हृन्-मग्न-शूल्याद् अपि
तीव्रः प्रौढ-विसूचिकानि-चयतो æप्य् उच्चैर् ममायं बली
मर्माण्य् अद्य भिनत्ति गोकुल-पतेर् विश्लेष-जन्मा ज्वरः
अथ उन्मादः-
भ्रमति भवन-गर्भे निर्निमित्तं हसन्ती
प्रथयति तव वार्तां चेतनाचेतनेषु ।
लुत्ःअति च भुवि राधा कम्पिताङ्गी मुरारे
विषम-विरह-खेदोद्गारि-विभ्रान्त-चित्ता
यथा वा-
अद्याकाण्डिकम् अट्टहास-पटलं निर्माति घर्माम्बु-भाक्
चीत्कारं कुरुते चमत्कृति-परा सोत्कण्ठम् आकस्मिकम् ।
आक्रन्दं वितनोति घर्घर-घनोद्घोषं किलातर्कितं
राधा माधव-विप्रयोग-रभसाद् अन्येव तीव्राद् अभूत्
अथ मोहः-
निरुन्धे दैन्याब्धिं हरति गुरु-चिन्ता परिभवं
विलुम्पत्य् उन्मादं स्थगयति बलाद् बाष्प-लहरीम् ।
इदानीं कंसारे कुवलय-दृशः केवलम् इदं
विधत्ते साचिव्यं तव विरह-मूर्च्छा-सहचरी
अथ मृत्युः, यथा हंसदूते (96)-
अये रासक्रीडारसिक मम सख्यां नवनवा
पुरा बद्धा येन प्रणयलहरी हन्त गहना ।
स चेन् मुक्तापेक्षस्त्वमपि धिग् इमां तुलशकलं
यदेतस्या नासानिहितमिदमद्यापि चलति
प्रवास-विप्रलम्भेऽस्मिन् दशास् तास् ता हरेर् अपि ।
अत्रोपलक्षणायैकम् उदाहरणम् ईर्यते
यथा-
क्रीडा-रत्न-गृहे विडम्बित-पयः-फेनावली-मार्दने
तल्पे नेच्छति कल्प-शाखि-चमरी-रम्येऽपि राज्ञां सुताः ।
किन्तु द्वारवती-पतिर् व्रज-गिरि-द्रोणी-विलान्तः-शिला-
पर्यङ्कोपरि राधिका-रति-कलां ध्यायन् मुहुः क्लाम्यति
प्रोक्तानां प्रेम-भेदानां विविधत्वाद् दशा अपि ।
विविधाः स्युर् इहेत्य् एता भूम-भीत्या न कीर्तिताः
एतास् तु प्रेम-भेदानाम् अनुभावतया दशाः ।
साधारण्यः समस्तानां प्रायशः सम्भवन्त्य् अपि
किन्त्व् अत्रैवाधिरूढस्य मोहनत्वम् अपेयुषः ।
असाधारण-रूपास् तु तत्-प्रसङ्गे पुरोदिताः
विप्रलम्भं परं केचित् करुणाभिधम् उचिरे ।
स प्रवास-विशेषत्वान् नैवात्र पृथग् ईरितः
इति विप्रलम्भ-भेदाः
अथ संयोग-वियोग-स्थितिः
हरेर् लीला-विशेषस्य प्रकटस्यानुसारतः ।
वर्णिता विरहावस्था गोष्ठ-वाम-भ्रुवाम् असौ
वृन्दारण्ये विहरता सदा रासादि-विभ्रमैः ।
हरिणा व्रज-देवीनां विरहोऽस्ति न कर्हिचित्
तथा च पाद्मे पाताल-खण्डे मथुरा-माहात्म्ये-
गो-गोप-गोपिका-सङ्गे यत्र क्रीडति कंसहा
इति ।
इति संयोग-वियोग-स्थितिः
अथ सम्भोगः
दर्शनालिङ्गनादीनां आनुकूल्यान् निषेवया ।
यूनोर् उल्लासम् आरोहन् भावः सम्भोग उच्यते
मनीषिभिर् अयं मुखो गौणश् चेति द्विधोदितः
तत्र मुख्यः-
मुख्यो जाग्रद्-अवस्थायां सम्भोगः स चतुर्विधः
तान् पूर्व-रागतो मानात् प्रवास-द्वयतः क्रमात् ।
जातान् संक्षिप्त-सङ्कीर्ण-सम्पन्न-र्द्धिमतो विदुः
तत्र सङ्क्षिप्तः-
युवानौ यत्र संक्षिप्तान् साध्वस-व्रीडितादिभिः ।
उपचारान् निषेवेते स संक्षिप्त इतीरितः
तत्र नायकेन कृतः, यथा सप्तशत्याम्-
लीलाहितुलिअसेलो रक्ख-उ वो राहिआत्थणप्फंसे ।
हरिणो पढम-समागम-सज्झसबेबेल्लिओ हत्थो
(लीलाभितुलित-शैलो रक्षतु वो राधिका-स्तन-स्पर्शे ।
हरेः प्रथम-समागम-साध्वस-वेवेल्लितो हस्तः ॥)
नायिकायाः, यथा-
चुम्बे पटावृत-मुखी नव-सङ्गमेऽभू-
दालिङ्गने कुटिलिताङ्ग-लता तदासीत् ।
अव्यक्त-वाग् अजनि केलि-कथासु राधा
मोदं तथापि विदधे मधुसूदनस्य
अथ सङ्कीर्णः-
यत्र सङ्कीर्यमाणाः स्युर् व्यलीक-स्मरणादिभिः ।
उपचाराः स सङ्कीर्णः किञ्चित् तप्तेक्षु-पेशलः
यथा-
सासूय-जल्पित-सुधानि समत्सराणि
मनोपराम-रमणीय-दृग्-इङ्गितानि ।
कंस-द्विषः स्फुरद्-अमन्द-मुखान्य् अनङ्ग-
विक्रीडितानि सह राधिकया जयन्ति
यथा वा-
वक्त्रं किञ्चिद् अवाञ्चितं विवृणुते नातिप्रसादोदयं
दृष्टिर् भुग्न-तटा व्यनक्ति शनकैर् ईर्ष्यावशेष-च्छटाम् ।
राधायाः सखि सूचयत्य् अविशदा वाग् अप्य् असूयाकलां
मानन्तं ब्रुवती तथापि मधुरा कृष्णं धिनोत्य् आकृतिः
अथ सम्पन्नः-
प्रवासात् सङ्गते कान्ते भोगः सम्पन्न ईरितः ।
द्विधा स्याद् आगतिः प्रादुर्भावश् चेति स सङ्गमः
तत्र आगतिः-
लौकिक-व्यवहारेण स्याद् आगमनम् आगतिः
यथा उद्धव-सन्देशे (40)-
मा मन्दाक्षं कुरु गुरुजनाद्देहलीं गेहमध्या-
देहि क्लान्ता दिवसमखिलम् हन्त विश्लेषतोऽसि ।
एष स्मेरो मिलति मृदुले वल्लवीचित्तहारी
हारी गुञ्जावलिभिरलिभिर्लीढगन्धो मुकुन्दः
अथ प्रादुर्भावः-
प्रेष्ठानां प्रेम-संरम्भ-विह्वलानां पुरो हरिः ।
आविर्भवत्य् अकस्माद् यत् प्रादुर्भावः स उच्यते
यथा श्री-दशमे (10.32.2)-
तासाम् आविरभूच् छौरिः स्मयमानमुखाम्बुजः ।
पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः
यथा वा हंसदूते (107)-
अयि स्वप्नो दूरे विरमतु समक्षं शृणु हठा-
दविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया ।
वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुका-
दकाण्डे यद्भूयः स्मरकलहपाण्डित्यमतनोत्
रूढाख्य-भाव-जातोऽयं सम्भोगो वैप्रलम्भिकः ।
निर्भरानन्द-पुराणां परमावधिर् इष्यते
द्विगुणा विरहार्तिः स्यात् स्फुरणे वेणु-रागजे ।
प्रादुर्भावे भवत्य् अत्र सर्वाभीष्ट-सुखोत्सवः
अथ समृद्धिमान्-
दुर्लभालोकयोर् यूनोः पारतन्त्र्याद् वियुक्तयोः ।
उपभोगातिरेको यः कीर्त्यते स समृद्धिमान्
यथा ललित-माधवे (7.18)-
दग्धं हन्त दधानया वपुर् इदं यस्यावलोकाशया
सोढा मर्म-विपाटने पटुर् इयं पीडातिवृष्टिर् मया ।
कालिन्दीय-तटी-कुटीर-कुहर-क्रीडाभिसार-व्रती
सोऽयं जीवित-बन्धुर् इन्दु-वदने भूयः समालिङ्गितः
यथा वा (8.10)-
तवात्र परिमृग्यता किम् अपि लक्ष्म साक्षाद् इयं
मया त्वम् उपसादिता निखिल-लोक-लक्ष्मीर् असि ।
यथा जगति चञ्चता चणक-मुष्टि-सम्पत्तये
जनेन पतिता पुरः कनक-वृष्टिर् आसाद्यते
इति मधुर-रस-परिपाक-विवेकः ।
अथ गौण-सम्भोगः
छन्न-प्रकाश-भेदेन कैश्चिद् एषां द्विरूपता ।
इष्टाप्य् अत्र न हि प्रोक्ता नात्युल्लासकरी यतः
अथ गौणः-
स्वप्ने प्राप्ति-विशेषोऽस्य हरेर् गौण इतीर्यते ।
स्वप्नो द्विधात्र सामान्य-विशेषत्वेन कीर्तितः
सामान्यः स तु यः पूर्वं कथितो व्यभिचारिषु ।
विशेषः खलु जागर्या निर्विशेषओ महाद्भुतः
भावौत्कण्ठ्ये-मयो ह्य् एष चतुर्धा पूर्ववन् मतः
तत्र स्वप्ने सङ्क्षिप्तो, यथा-
विहारं कुर्वाणस् तरणि-तनया-तीर-विपिने
नवाम्भोद-श्रेणी-मधुरिम-विडम्बि-द्युति-भरः ।
विदग्धानां चूडामणिर् अनुदिनं चुम्बति मुखं
मम स्वप्ने कोऽपि प्रिय-सखि बलीयान् नव-युवा
अथ स्वप्ने सङ्कीर्णो, यथा-
सखि क्रुद्धा मा भूर् लघुर् अपि न दोषः सुमुखि मे
न मानाग्नि-ज्वालाम् अशमयम् अहं ताम् असमये ।
स धूर्तस् ते स्वप्ने रस-वृष्टिं मयि तथा
यतो विस्तीर्णापि स्वयम् इयम् अयासीद् उपशमम्
अथ स्वप्ने सम्पन्नः, यथा हंसदूते (105)-
प्रयातो मां हित्वा यदि कठिनचूडामणिरसौ
पर्यातु स्वच्छन्दं मम समयधर्मः किल गतिः ।
इदं सोढुं का वा प्रभवति यतः स्वप्नकपटा-
दिहायातो वृन्दावनभुवि कलान् मां रमयति
अथ स्वाप्न-समृद्धिमान्, यथा ललित-माधवे (7.11)-
चिराद् अद्य स्वप्ने मम विविध-यत्नाद् उपगते
प्रपेदे गोविन्दः सखि नयनयोर् अक्षणभुवम् ।
गृहीत्वा हा हन्त त्वरितम् अथ तस्मिन्न् अपि रथं
कथं प्रत्यासन्नः स खलु पुरुषो राज-पुरुषः
तुल्य-स्वरूप एवायं प्रोद्यन् यूनोर् द्वयोर् अपि ।
ऊषा-निरुद्धयोर् यद्वत् क्वचित् स्वप्नोऽप्य् अबाधितः
अतएव हि सिद्धानां स्वप्नेऽपि परमाद्भुते ।
प्राप्तानि मण्डनादीनि दृश्यन्ते जागरेऽपि च
व्यतीत्य तुर्याम् अपि संश्रितानां
तां पञ्चमीं प्रेम-मयीम् अवस्थाम् ।
न सम्भवत्य् एव हरि-प्रियाणां
स्वप्नो रजो-वृत्ति-विजृम्भितो यः
इत्य् एष हरि-भावस्य विलासः कोऽपि पेशल ।
चित्र-स्वप्नम् इवातन्वन् कृष्णः सङ्गमयत्य् अलम्
अथैतेषु निरूप्यन्ते तद्-विशेषाः सुपेशलाः ।
येऽनुभाव-दशाम् अस्याः प्राप्नुवन्ति रतेः स्फुटम्
ते तु सन्दर्शनं जल्पः स्पर्शनं वर्त्म-रोधनम् ।
रास-वृन्दावन्-क्रीडा-यमुनाद्य्-अम्बु-केलयः
नौ-खेला लीलया चौर्यं घट्टः कुञ्जादि-लीनता ।
मधु-पानं वधू-वेश-धृतिः कपट-सुप्तता
द्यूत-क्रीडा पटाकृष्टिश् चुम्बाश्लेषौ नखार्पणम् ।
बिम्बाधर-सुधा-पानः सम्प्रयोगादयो मताः
तत्र सन्दर्शनं, यथा ललित-माधवे (2.26)
चलाक्षि-गुरु-लोकतः स्फुरति तावद् अन्तर्भयं
कुल-स्थितिर् अलं तु मे मनसि तावद् उन्मीलति ।
चलन्-मकर-कुण्डल-स्फुरित-फुल्ल-गण्ड-स्थलं
न यावद् अपरोक्षताम् इदम् अपैति वक्त्राम्बुजम्
अथ जल्पः-
जल्पः परस्परं गोष्ठी वितथोक्तिश् च कथ्यते
अत्र परस्परः गोष्ठी, यथा दान-केलि-कौमुद्याम् (42-43)
धर्षणे नकुल-स्त्रीणां भुजङ्गेशः क्षमः कथम् ।
यद् एता दशनैर् एष दशन् नाप्नोति मङ्गलम्
अप्रौढ-द्विज-राज-राजद्-अलिका लब्धा विभूतिं रुचां
नव्याम् आत्मनि कृष्ण-वर्त्म-विलसद्-दृष्टिर् विशाखाञ्चिता ।
कन्दर्पस्य विदग्धतां विदधति नेत्राञ्चलस्य त्विषा
त्वं राधे शिव-मूर्तिर् इत्य् उरसि मां भोगीन्द्रम् अङ्गीकुरु
वितथोक्तिः, यथा तत्रैव (44)-
अस्मिन्न् अद्रौ कति न हि मया हन्त हारादि-वित्तं
हारं हारं हरिण-नयना ग्राहिता जैन-दीक्षाम् ।
याः काकूक्ति-स्थगित-वदनाः पत्र-दानेन दीनास्
तूर्णं दूराद् अनुजगृहिरे प्रौढ-वल्ली-सखीभिः
अथ स्पर्शनम्, यथा-
न कुरु शपथम् अस्य स्पर्शतो दूषितोच्चैर्
असि भुज-भुजगेन त्वं भुजङ्गाधिपस्य ।
तनुर् अनुपम-कम्पा स्वेदम् अभ्युद्गिरन्ती
कपटिनि परितस् ते पश्य रोमाञ्चितास्ति
अथ वर्त्म-रोधनं, यथा विदग्ध-माधवे (6.19)-
परीतं शृङ्गेण स्फुटतर-शिला-श्यामल-रुचं
वलद्-वेत्रं वंश-व्यतिकर-लसन्-मेखलम् अमुम् ।
अतिक्रम्योत्तुङ्गं धरणि-धरम् अग्रे कथम् इतस्
त्वया गन्तुं शक्या तरणि-दुहितुस् तीर-सरणी
अथ रासो, यथा-
हरिर् नव-घनाकृतिः प्रति-वधू-द्वयं मध्यतस्
तद्-अंस-विलसद्-भुजो भ्रमति चित्रम् एकोऽप्य् असौ ।
वधूश् च तडिद्-उज्ज्वला प्रति-हरिद् वयं मध्यतः
सखी-धृत-कराम्बुजा नटति पश्य रासोत्सवे
अथ वृन्दावन-क्रीडा-
स्थल-कमल-मलीनां स्तौति गीतैः पदं ते
रद-तति-मति-नम्रा वन्दते कुन्द-राजी ।
अधरम् अनुभजन्ती लम्बते बिम्ब-माला
विलसति तव वश्या पश्य वृन्दाटवीयम्
यमुना-जल-केलिः, यथा-
व्यात्युक्षीयुधि राधया घन-रसैः पर्युक्ष्यमाणस्य ते
माल्यं भङ्गम् अवाप वीर तिलको यातः किलादृश्यताम् ।
वक्त्रेन्दौ प्रतिमा-च्छलेन शरणं लब्धः सखीं कौस्तुभस्
तन् मा भूश् चकितो विमुक्त-चिकुरं नार्दत्य् असौ त्वद्-विधम्
यथा वा, पद्यावल्यां (301)-
जल-केलि-तरल-करतल-
मुक्त-पुनः-पिहित-राधिका-वदनः ।
जगद् अवतु कोक-यूनोर्
विघटन-सङ्घटन-कौतुकी कृष्णः
अथ नौखेला, यथा पद्यावल्यां (270)-
मुक्ता तरङ्ग-निवहेन पतङ्ग-पुत्री
नव्या च नौर् इति वचस् तव तथ्यम् एव ।
शङ्का-निदानम् इदम् एव ममातिमात्रं
त्वं चञ्चलो यद् इह माधव नाविकोऽसि
अथ लीला-चौर्यम्-
लीला-चौर्यं भवेद् वंशी-वस्त्र-पुष्पादि-हारिता
अथ वंशी-चौर्यम्, यथा पद्यावल्यां (253)-
नीचैर् न्यासाद् अथ चरणयोर् नूपुर मूकयन्ती
धृत्वा धृत्वा कतक-वलयान्य् उत्क्षिपन्ती भुजान्ते ।
मुद्राम् अक्ष्णोश् चकितं शश्वद् आलोकयन्ती
स्मित्वा स्मित्वा हरति मुरलीम् अङ्कतो माधवस्य
अथ वस्त्र-चौर्यं, यथा-
छदावलि-वृतैव नः सपदि काचिद् एका व्रजं
प्रविश्य जरतीर् इहानयतु घोर-कर्मोद्धताः ।
अयं गुण-निधिस् तरोर् उपरि ताभिर् अभ्यर्च्यताम्
उमा-व्रत-कुमारिकापटल-चेल-पाटच्-चरः
अथ पुष्प-चौर्यं, यथा-
अयि ज्ञातं ज्ञातं हरसि हरिणाक्षि प्रतिदिनं
त्वम् एव प्रच्छन्ना मम सुमनसां मञ्जरिम् इतः ।
चिराद् दिष्ट्या चौरि त्वम् इह विधृताद्य स्वयम् अतो
गुहाकाराम् आरात् प्रविश वसतिं प्रौढिभिर् अलम्
अथ घट्टः, यथा दान-केलि-कौमुद्याम् (64)-
घट्टाधिराजम् अवमत्य विवादम् एव
यूयं यद् आचरथ शुल्कम् अदित्यमानाः ।
मन्ये विधित्सथ तद् अत्र गिरेस् तटेषु
दुर्गेषु हन्त विषमेषु रणाभियोगम्
अथ कुञ्जादि-लीनता, यथा विदग्ध-माधवे (6.25)-
शङ्के सङ्कुलितान्तराद्य निविड-क्रीडानुबन्धेच्छया
कुञ्जे वञ्जुल-शाखिनः शशिमुखी लीना वरीवर्ति सा ।
नो चेद् एष तद्-अङ्घ्रि-सङ्गम-विनाभावाद् अकाले कथं
पुष्पामोद-निमन्त्रितालि-पटली-स्तोत्रस्य पात्रीभवेत्
अथ मधु-पानं, यथा-
मुख-विधुम् उदितं मधु-द्विषोऽसौ
मधु-चषके मधुरं समीक्ष्य मुग्धा ।
अदिशत दृशम् एव तत्र पातुं
न तु वदनं मुहुर् अर्थितापि तेन
अथ वधू-वेश-धृतिः, यथा उद्धव-सन्देशे (64)-
केयं श्यामा स्फुरति सरले गोपकन्या किमर्थं
प्राप्ता सख्यं तव मृगयते निर्मितासौ वयस्या ।
आलिङ्गामूं मुहुरिति तथा कुर्वती मां विदित्वा
नारीवेशम् ह्रियमुपययौ मानिनी यत्र राधा
कपट-सुप्तता, यथा कर्णामृते (21)-
स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्द-स्मितं
प्रेमोद्भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोमोद्गमम् ।
श्रोतुं श्रोत्र-मनोहरं व्रज-वधू-लीला-मिथो जल्पितं
मिथ्या-स्वापम् उपास्महे भगवतः क्रीडा-निमीलद्-दृशः
अथ द्यूत-क्रीडा-
जित्वा द्यूत-पणं दशत्य् अघहरे गण्डं मुदा दक्षिणं
सा वामं च दशेति तत्र रभसाद् अक्षं क्षिपन्त्य् अभ्यधात् ।
आज्ञां सुन्दरि ते यथेति हरिणा वामे च दष्टे ततः
संरम्भाद् इव सा भुजा-लतिकया कण्ठे बबन्ध प्रियम्
अथ पट्टाकृष्टिः, यथा ललित-माधवे (6.31)-
धन्यः सोऽयं मणिर् अविरल-ध्वान्त-पुञ्जे निकुञ्जे
स्मित्वा स्मित्वा मयि कुच-पटीं कृष्टवत्य् उन्मदेन ।
गाढं गूढाकृतिर् अपि तया मन्-मुखाकुत-वेदी
निष्ठीवन् यः किरण-लहरीं ह्रेपयामास राधाम्
अथ चुम्बो, यथा-
कपट-चटुलित-भ्रुवः समन्ता-
न्मुख-शशिनः रभसाद् विधूयमानम् ।
दनुज-रिपुर् अचुम्बद् अम्बुजाक्ष्याः
कमलम् इवानिल-कम्पि चञ्चरीकः
अथ आश्लेषो, यथा-
नव-जागुड-वर्णयोपगूढः
स्फुरद्-अभ्र-द्युतिर् एतयोन्मदेन ।
हरति स्म हरिर् हिरण्य-वल्ली-
परिवीताङ्ग-तमाल-मङ्गलानि
अथ नख-क्षतं, यथा-
न कुचाव् इमौ गतिजिता तया हृतं
गजतः प्रसह्य सखि कुम्भयोर् युगम् ।
क्षतम् अत्र नाग-दमनो यद् अर्पय-
त्परमङ्गजाङ्कुश-वरेण तत्-क्षणम्
अथ बिम्बाधर-सुधा-पानं, यथा-
न हि सुधाकर-बिम्ब-सुधाकरं
कुरु मुखं करभोरु करावृतम् ।
अधर-रङ्गणम् अङ्ग वराङ्गने
पिबतु नीप-वनी-भ्रमरस् तव
अथ सम्प्रयोगो, यथा-
द्राग्-दोर्-मण्डल-पीडनोद्धुर-धियः प्रोद्दाम-वैजात्यया
निर्बन्धाद् अधरामृतानि पिबतः सीत्कार-पूर्णास्यया ।
कन्दर्पोत्सव-पण्डितस्य मणिअतिर् आक्रान्त-कुञ्जान्तया
सार्धं राधिकया हरेर् निधुवन-क्रीडा-विधिर् वर्धते
विदग्धानां मिथो लीला-विलासेन यथा सुखम् ।
न तथा सम्प्रयोगेण स्याद् एवं रसिका विदुः
यथा-
बलेन परिरम्भणे नख-शिखाभिर् उल्लेखनं
हठाद् अधर-खण्डने भुज-युगेन बन्ध-क्रियाम् ।
दुकूल-दलने हतिः कुवलयेन कुर्वाणया
रताद् अपि सुखं हरेर् अधिकम् आदधे राधया
यथा वा-
नर्मोत्सेक-कलादृगञ्चल-चमत्कारी भ्रुवोर् विभ्रमः
संव्यानस्य विकर्षण् चटुलतां कर्णोत्पलेनाहतिः ।
क्रीडेयं व्रज-नागरी-रति-गुरोर् गान्धर्विकायास् तथा
भूयिष्ठं सुरतोत्सवाद् अपि नवास्वादं वितेने सुखम्
अतएव श्री-गीत-गोविन्दे (12.10)-
प्रत्यूह-पुलकाङ्कुरेण निविड-लेश-निमेषेण च
क्रीडाकूत-विलोकितेऽधर-सुधा-पाने कथा-केलिभिः ।
आनन्दाधिगमेन मन्मथ-कला-युद्धेऽपि यस्मिन्न् अभुद्
उद्भूतः स तयोर् बभूव सुरतारम्भः प्रियम्भावुकः
यथा-
गोकुलानन्द गोविन्द गोष्ठेन्द्र-कुल-चन्द्रमः ।
प्राणेश सुन्दरोत्तंस नागराणां शिखामणेः
वृन्दावन-विधो गोष्ठ-युव-राज मनोहर ।
इत्य् आद्या व्रज-देवीनां प्रेयसी प्रणयोक्तयः
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0