उज्ज्वलनीलमणि · अध्याय 12
इति श्री-श्री-उज्ज्वल-नीलमणौ अनुभाव-प्रकरणम्
॥11॥
(12)
अथ सात्त्विक-प्रकरणम्
तत्र स्तम्भः, स हर्षाद्, यथा दान-केलि-कौमुद्याम् (36)-
अभ्युक्ष्य निष्कं पतयालुना मुहुः
स्वेदेन निष्कम्पतया व्यवस्थिता ।
पञ्चालिका कुञ्चित-लोचना कथं
पञ्चालिका-धर्मम् अवाप राधिका
भयाद्, यथा-
घन-स्तनित-चक्रेण चकितेयं घन-स्तनी ।
बभूव हरिम् आलिङ्ग्य निश्चलाङ्गी व्रजाङ्गना
-- दिग्धोऽयम् ।
आश्चर्याद्, यथा-
तव मधुरिम-सम्पदं विलक्ष
त्रिजगद्-अलक्ष्य-तुलां मुकुन्द राधा ।
कलय हृदि बलवच्-चमत्क्रियासौ
समजनि निर्निमिषा च निश्चला च
विषादाद्, यथा-
विलम्बम् अम्भोरुह-लोचनस्य
विलोक्य सम्भावित-विप्रलम्भा ।
सङ्केत-गेहस्य नितान्तम् अङ्के
चित्रायिता तत्र बभूव चित्रा
अमर्षाद्, यथा-
माधवस्य परिवर्तित-गोत्रां
श्यामला निशि गिरं निशमय्य ।
देव-योषिद् इव निर्निमिषाक्षी
छायया च रहिता क्षणम् अयासीत्
अथ स्वेदः, स हर्षाद्, यथा विष्णु-पुराणे (5.13.55)-
गोपी-कपोल-संश्लेषम् अभिपत्य हरेर् भुजौ ।
पुलकोद्गम-शस्याय स्वेदाम्बु-घनतां गतौ
यथा वा-
ध्रुवम् उज्ज्वल-चन्द्र-कान्त-यष्ट्या
विधिना माधव निर्मितास्ति राधा ।
यद् उदञ्चति तावकास्य-चन्द्रे
द्रवतां स्वेद-भर-च्छलाद् बिभर्ति
भयाद्, यथा-
मा भूर् विशाखे तरला विदूरतः
पतिस् तवासौ निविडा लता-कुटि ।
महा प्रयत्नेन कृताः कपोलयोः
स्वेदोद-बिन्दुर् मकरीर् विलुम्पति
क्रोधाद्, यथा-
खिन्नापि गोत्र-स्खलनेन पाली
शालीन-भावं छलतो व्यतानीत् ।
तथापि तस्याः पटम् आर्द्रयन्ती
स्वेदाम्बु-वृष्टिः कुर्धम् आचचक्षे
अथ रोमाञ्चः । स आश्चर्याद्, यथा-
चुम्बन्तम् आलोक्य चमुरु-चक्षुषां
चमूरमूषां युगपन्-मधुर-द्विषम् ।
व्योमाङ्गने तत्र सुराङ्गनावली-
रोमाञ्चिता विस्तृत-दृष्टिर् आबभौ
हर्षाद्, यथा श्री-दशमे (10.32.8)-
तं काचिन् नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।
पुलकाङ्गुल्युपगुह्यास् ते योगीवानन्दसम्प्लुता
यथा वा श्री-रुक्मिणी-स्वयंवरे-
रोमाणि सर्वाण्य् अपि बाल-भावात्
प्रिय-श्रियं द्रष्टुम् इवोत्सुकानि ।
तस्यास् तदा कोरकिताङ्ग-यष्टेर्
उद्ग्रीविकादानम् इवाम्बभुवन्
भयाद्, यथा-
परिमल-चटुले द्विरेफ-वृन्दे
मुखम् अभिधावति कम्पिताङ्ग-यष्टिः ।
विपुल-पुलक-पालिर् अद्य पाली
हरिम् अधरीकृत-ह्री-धूर् आलिलिङ्ग
अथ स्वर-भङ्गः, स विषादाद् यथा श्री-गीत-गोविन्दे (6.10)-
विपुल-पुलक-पालिः स्फीत-सीत्-कारम् अन्तर्-
जनित-जडिमम्-काकु-व्याकुलं व्याहरन्ती ।
तव कितव विधायामन्द-कन्दर्प-चिन्तां
रस-जल-निधि-मग्ना ध्यान-लग्ना मृगक्षी
विस्मयाद्, यथा-
गुरु-सम्भ्रम-स्तिमित-कण्ठया मया
कर-संज्ञयापि बहुधावबोधिता ।
न पुनस् त्वम् अत्र हरि-वेणु-वादने
पुलकान् विलोकितवती लतास्व् अपि
अमर्षाद्, यथा-
प्रेयस्यः परमाद्भुताः कति न मे दीव्यन्ति गोष्ठान्तरे
तासां नोज्ज्वल-नर्म-भङ्गिभिर् अपि प्राप्तोऽस्मि तुष्टिं तथा ।
द्वित्रैर् अद्य मुहुस् तरङ्गद्-अधर-ग्रस्तार्ध-वर्णैर् यथा
राधायाः सखि रोष-गद्गद-पदैर् आक्षेप-वाग्-बिन्दुभिः
हर्षाद्, यथा श्री-रुक्मिणी-स्वयंवरे-
पश्येम तं भूय इति ब्रुवाणां
सखीं वचोभिः किल सा ततर्ज ।
न प्रीति-कर्णे-जपतां गतानि
विदाम्बभूव स्मर-वैकृतानि
भीतेर्, यथा-
प्रथम-सङ्गम-नर्मणि साध्वस-
स्खलितयापि गिरा सखि राधिका ।
नव-सुधा-ह्रदिनीं मदिरेक्षणा
श्रुति-तटे मम काञ्चिद् अवीवहत्
अथ वेपथुः, स त्रासेन, यथा-
केशवो युवति-वेश-भाग् अयं
बालिशः किल पतिस् तवाग्रतः ।
राधिके तद् अपि मूर्तिर् अद्य ते
किं प्रवात-कदली-तुलां दधे
अमर्षेण, यथा-
यदि कुपितासि न पद्मे
किं तुनुर् उत्कम्पते प्रसभम् ।
विचलति कुतो निवाते
दीप-शिखा निर्भर-स्निग्धा
हर्षेण, यथा-
वल्लव-राज-कुमारे
मिलिते पुरतः किम् आत्त-कम्पासि ।
तव पेशलास्मि पार्श्वे
ललितेयं परिहरातङ्कम्
अथ वैवर्ण्यम्, तद्-विषादाद्, यथा-
मधुरिमभरैर् मुक्तस्यालं कलङ्कित-कुङ्कुमैर्-
र्द्विरद-रदन-श्रेणीम् आभां चिराय वितन्वतः ।
विधुर् अपि तुलाम् आप्तस् तस्या मुखस्य बकीरिपो
वद परम् अतः सारङ्ग्याक्ष्याः किम् अस्ति विडम्बनम्
रोषाद्, यथा-
विलसति किल वृन्दारण्य-लीला-विहारे
कथय कथम् अकाण्डे ताम्र-वक्त्रासि वृत्ता ।
प्रसरद्-उदय-राग-ग्रस्त-पूर्णेन्दु-बिम्बा
किम् इव सखि निशीथे शारदी जायते द्यौः
भीतेर्, यथा-
क्रीडन्त्यास् तट-भुवि माधवेन सार्धं
तत्रारात् पतिम् अवलोक्य विक्लवायाः ।
राधायास् तनुम् अनु कालिमा तथासीत्
तेनेयं किम् अपि यथा न पर्यचायि
अथ अश्रु, तत्र हर्षाद्, यथा श्री-गीत-गोविन्दे (11.32)-
अतिक्रम्यापाङ्गं श्रवण-पथ-पर्यन्त-गमन-
प्रयासेनेवाक्ष्णोस् तरलतर-तारं गमितयोः ।
इदानीं राधायाः प्रियतम-समालोक-समये
पपात स्वेदाम्बु-प्रसर इव हर्षाश्रु-निकरः
फुल्ल-गण्डं सरोमाञ्चं बाष्पम् आनन्दजं मतम्
रोषाद्, यथा-
प्रातर् मुरद्विषम् उरः-स्फुरद्-अन्य-नारी-
पत्राङ्कुर-प्रकर-लक्ष्मणम् ईक्षमाणा ।
अप्रोच्य किञ्चिद् अपि कुञ्चित-दृष्टिर् एषा
रोषाश्रु-बिन्दु-भरम् इन्दुमुखी मुमोच
यथा वा बिल्वमङ्गले-
राधेऽपराधेन विनैव कस्माद्
अस्मासु वाचः परुषा रुषा ते ।
अहो कथं ते कुचयोः प्रथन्ते
हारानुकारास् तरलाश्रु-धाराः
शिरः-कम्पि स-निश्वासं स्फुरद्-ओष्ठ-कपोलकम् ।
कटाक्ष-भ्रू-कुटी-वक्त्रं स्त्रीणाम् ईर्ष्योत्थ-रोदनम्
विषादाद्, यथा पद्यावल्याम् (349)-
मलिनं नयनाञ्जनाम्बुभिर्
मुखचन्द्रं करभोरु मा कुरु ।
करुणावरुणालयो हरिस्
त्वयि भूयः करुणां विधास्यति
अथ प्रलयः, स सुखेन, यथा-
जङ्घे स्थावरतां गते परिहृत-स्पन्दा द्वयी नेत्रयोः
कण्ठ कुण्ठितअ-निस्वनो विघटित-श्वासा च नासा-पुटी ।
राधायाः परम-प्रमोद-सुधया धौतं पुरो माधवे
साक्षात्कारम् इते मनोऽपि मुनिवन् मन्ये समाधिं दधे
दुःखेन, यथा ललित-माधवे (3.61)-
दंशः कंस-नृपस्य वक्षसि रुषा कृष्णोरगेणार्प्यतां
दूरे गोष्ठ-तडाग-जीवनम् इतो येनापजह्रे हरिः ।
हा धिक् कः शरणं भवेन् मृदि लुठद्-गात्रीयम् अन्तः-क्लमाद्
आभीरी-शफरी-ततिः शिथिलित-श्वासोर्मिर् आमीलति
अथ एषु धूमायिताः-
सुराङ्गने सखि मधुरापुर् आङ्गने
पुरः पुरातन-पुरुषस्य वीक्षया ।
तवाक्षिणी जल-कण-साक्षिणी कुतः
कथं पुनः पुलकि च गण्ड-मण्डलम्
ज्वलिताः-
सखि स्तब्धीभावं भजति नितराम् उरु-युगलं
तनु-जाली हर्षं युगम् अपि तवाक्ष्णोः सरसताम् ।
तद्-उन्नीतं धन्ये रहसि कर-पङ्केरुह-तलं
प्रपन्नस् ते दिष्ट्या नलिन-मुखि नीलो निधिर् अभूत्
अथ दीप्ताः, यथा विदग्ध-माधवे (1.36)-
क्षौणिं पङ्किलयन्ति पङ्कज-रुचोर् अक्ष्णोः पयो-बिन्दवः
श्वासास् ताण्डवयन्ति पाण्डु-वदने दूराद् उरोजांशुकम् ।
मूर्तिं दन्तुरयन्ति सन्ततम् अमी रोमाञ्च-पुञ्जाश् च ते
मन्ये माधव-माधुरी-श्रवणयोर् अभ्यासम् अभ्याययौ
उद्दीप्ताः-
स्नाता नेत्रज-निर्झरेण दधती स्वेदाम्बु-मुक्तावलिं
रोमाञ्चोत्कर-कञ्चुकेन निचिता श्री-खण्ड-पाण्डु-द्युतिः ।
खञ्जन्-मञ्जुल-भारती सवयसा युक्ता स्फुरतीत्य् असौ
सज्जा ते नव-सङ्गमाय ललिता स्तम्भाश्रिता वर्तते
उद्दीप्तानां भिदा एव सूद्दीप्ताः सन्ति कुत्रचित् ।
सात्त्विकाः परमोत्कर्ष-कोटिम् अत्रैव बिभ्रति
यथा-
स्वेदैर् दर्शिअ-दुर्दिना विदधती बाष्पाबुभिर् निस्तृषो
वत्सीरङ्ग-रुहालिभिर् मुकुकिनी-फुल्लाभिर् आमूलतः ।
श्रुत्वा ते मुरलीं तथाभवद् इयं राधा यथाराध्यते
मुग्धैर् माधव भारती-प्रतिकृतिर् भ्रान्त्याद्य विद्यार्थिभिः
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0