उज्ज्वलनीलमणि · अध्याय 11
इति श्री-श्री-उज्ज्वल-नीलमणौ
उद्दीपन-विभाव-भेद-प्रकरणम्
॥10॥
छप्तेर् 11
अथ अनुभाव-प्रकरणम्
अनुभावास् त्व् अलङ्कारास् तथैवोद्भास्वराभिधाः ।
वाचिकाश् चेति विद्वद्भिस् त्रिधामी परिकीर्तिताः
तत्र अलङ्काराः-
यौवने सत्त्वजास् तासाम् अलङ्कारास् तु विंशतिः ।
उदयन्त्य् अद्भुताः कान्ते सर्वथाभिनिवेशतः
भावो हावश् च हेला च प्रोक्तास् तत्र त्रयोऽङ्गजाः
शोभा कान्तिश् च दीप्तिश् च माधुर्यं च प्रगल्भता ।
औदार्यं धैर्य्म् इत्य् एते सप्तैव स्युर् अयत्नजाः
लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
विकृतं चेति विज्ञेया दश तासां स्वभावजाः
तत्र भावः-
प्रादुर्भावं व्रजत्य् एव रत्य्-आख्ये भाव उज्ज्वले ।
निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया
तथा ह्य् उक्तं (रस-सुधाकरे 1.192)-
चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।
तत्राद्या विक्रिया भावो बीजस्यादि-विकारवत्
यथा-
पितुर् गोष्ठे स्फीते कुसुमिनि पुरा खाण्डव-वने
न ते दृष्ट्वा सअङ्क्रन्दनम् अपि मनः स्पन्दनम् अगात् ।
पुरो वृन्दारण्ये विहरति मुकुन्दे सखि मुदा
किम् आन्दोलाद् अक्ष्णः श्रुति-कुमुदम् इन्दीवरम् अभूत्
अथ हावः-
ग्रीवारेचक-संयुक्तो भ्रू-नेत्रादि-विकाश-कृत् ।
भावाद् ईषत्-प्रकाशो यः स हाव इति कथ्यते
यथा-
साचि-स्तम्भित-कण्ठि कुड्मलवतीं नेत्रालिर् अभ्येति ते
घूर्णन् कर्ण-लतां मनाग् विकसिता भ्रू-वल्लरी नृत्यति ।
अत्र प्रादुरभूत् तटे सुमनसाम् उल्लासकस् त्वत्-पुरो
गौराङ्गि प्रथमं वन-प्रिअय-बन्धुः स्फुटं माधवः
अथ हेला-
हाव एव भवेद् धेला व्यक्त-शृङ्गार-सूचकः
यथा-
श्रुते वेणौ वक्षः स्फुर्तिअ-कुचम् आध्मातम् अपि ते
तिरो-विक्षिप्ताक्षं पुलकित-कपोलं च वदनम् ।
स्खलत्-काञ्चि स्वेदार्गलित-सिचयं चापि जघनं
प्रमादं मा कार्षीः सखि चरति सव्ये गुरुजनः
अथ अयत्नजाः । तत्र शोभा--
सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम्
यथा-
धृत्वा रक्ताङ्गुलि-किशलयैर् नीप-शाखां विशाखा
निष्क्रामन्ती व्रतति-भवनात् प्रातर् उद्घूर्णिताक्षी ।
वेणीम् अंसोपरि विलुठतीम् अर्धम् उक्तां वहन्ती
लग्ना स्वान्ते मम न हि बहिः सेयम् अद्याप्य् अयासीत्
अथ कान्तिः--
शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला
यथा-
प्रकृति-मधुर-मूर्तिर् बाढम् अत्राप्य् उदञ्च-
त्तरुणिम-नव-लक्ष्मी-लेखयालिङ्गिताङ्गी ।
वर-मदन-विहारैर् अद्य तत्राप्य् उदारा
मदयति हृदयं मे रुन्धती राधिकेयम्
अथ दीप्तिः--
कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ।
उद्दीपितातिविस्तारं प्राप्ता चेद् दीप्तिर् उच्यते
यथा-
निमीलन्-नेत्र-श्रीर् अचटुल-पटीराचल-मरु-
न्निपीत-स्वेदाम्बुस् त्रुटद्-अमल-हारोज्ज्वल-कुचा ।
निकुञ्जे क्षिप्ताङ्गी शशि-किरण-किर्मीरित-तटे
किशोरी सा तेने हरि-मनसि राधा मनसिजम्
अथ माधुर्यम्--
माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता
यथा-
असव्यं कंसारेर् भुज-शिरसि धृत्वा पुलकिनं
निज-श्रोण्यां सव्यं करम् अनृजु-विष्कम्भित-पदा ।
दधाना मूर्धानं लघुतर-तिरः-स्रंसिनम् इयं
बभौ रासोत्तीर्णा मुहुर् अलस-मूर्तिः शशिमुखी
अथ प्रगल्भता--
निःशङ्कत्वं प्रयोगेषु बुधैर् उक्ता प्रगल्भता
यथा विदग्ध-माधवे (7.40)-
प्रातिकूल्यम् इव यद् विवृण्वती
राधिका रद-नखार्पणोद्धूरा ।
केलि-कर्मणि गता प्रवीणतां
तेन तुष्टिम् अतुलां हरिर् ययौ
अथ औदार्यम्-
औदार्यं विनयं प्राहुः सर्वावस्थागतं बुधाः
यथा विदग्ध-माधवे (4.13) -
न्यविशत नयनान्ते कापि सारल्य-निष्ठा
वचसि च विनयेन स्तोत्र-भङ्गी न्यवात्सीत् ।
अजनि च मयि भूयान् सम्भ्रमस् तेन तस्या
व्यवृणुत हृदि मन्युं सुष्ठु दाक्षिण्यम् एव
यथा वा-
कृतज्ञोऽपि प्रेमोज्ज्वल-मतिर् अपि स्फार-विनयोऽ-
प्यभिज्ञानां चुडामणिर् अपि कृपानीरधिर् अपि ।
यद् अन्तः-स्वच्छोऽपि स्मरति न हरिर् गोकुलभुवं
ममैवेदं जन्मान्तर-दुरित-दुस्ट-द्रुम-फलम्
अथ धैर्यम्-
स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति कीर्त्यते
यथा ललित-माधवे (7.7)-
औदासीन्य-धुरा-परीत-हृदयः काठिन्यम् आलम्बतां
कामं श्यामल-सुन्दरो मयि सखि स्वैरी सहस्रं समाः ।
किन्तु भ्रान्ति-भराद् अपि क्षणम् इदं तत्र प्रियेभ्यः प्रिये
चेतो जन्मनि जन्मनि प्रणयिताद् आस्यं न मे हास्यति
अथ स्वभावजाः । तत्र लीला--
प्रियानुकरणं लीला रम्यैर् वेश-क्रियादिभिः
यथा विष्णु-पुराणे (5.13.27)-
दुष्ट-कालिय तिष्ठाद्य कृष्णोऽहम् इति चापरा ।
बाहुम् आस्फोट्य कृष्णस्य लीला-सर्वस्वम् आददे
यथा वा छन्दो-मञ्जर्याम्-
मृगमद-कृत-चर्चा पीत-कौषेय-वासा
रुचिर-शिखि-शिखण्डा बद्ध-धम्मिल्ल-पाशा ।
अनृजु-निहितम् अंसे वंशम् उत्क्वाणयन्ती
कृत-मधुरिपु-वेषा मालिनी पातु राधा
अथ विलासः-
गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् ।
तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम्
यथा-
रुणत्सि पुरतः स्फुरत्य् अघहरे कथं नासिका-
शिखग्रथित-मौक्तिकोन्नमनकैत्वेन स्मितम् ।
निरास्थद् अचिरं सुधा-किरण-कौमुदी-माधुरीं
मनाग् अपि तवोद्गता मधुर-दन्ति दन्त-द्युतिः
यथा वा-
अध्यासीनम् अमुं कदम्ब-निकटे क्रीडा-कुटीर-स्थली-
माभीरेन्द्र-कुमारम् अत्र रभसाद् आलोकयन्त्याः पुरः ।
दिग्धा दुग्ध-समुद्र-मुग्ध-लहरी-लावण्य-निस्यन्दिभिः
कालिन्दी तव दृक्-तरङ्गित-भरैस् तन्वङ्गि गङ्गायते
अथ विच्छित्तिः-
आकल्प-कल्पनाल्पापि विच्छित्तिः कान्ति-पोष-कृत्
यथा-
माकन्द-पत्रेण मुकुन्द-चेतः
प्रमोदिनी मारुत-कम्पितेन ।
रक्तेन कर्णाभरणीकृतेन
राधा-मुखाम्भोरुहम् उल्ललास
यथा वा हरि-वंशे-
एकेनामल-पत्रेण कण्ठ-सूत्रावलम्बिना ।
रराज बर्हि-पत्रेण मन्द-मारुत-कम्पिना
सखी-यत्नाद् इव धृतिर् मण्डनानां प्रियागसि ।
सेर्ष्यावज्ञा वर-स्त्रीभिर् विच्छित्तिर् इति केचन
यथा-
मुद्रां गाढतरां विधाय निहिते दूरीकुरुष्वाङ्गदे
ग्रन्थिं न्यस्य कठोरम् अर्पित-मतिः कण्ठान् मणिं भ्रंशय ।
मुग्धे कृष्ण-भुजङ्ग-दृष्टि-कलया दुर्वारया दूषिते
रत्नालङ्करणे मनाग् अपि मनस् तृष्णां न पुष्णाति मे
अथ विभ्रमः-
वल्लभ-प्राप्ति-वेलायां मदनावेश-सम्भ्रमात् ।
विभ्रमो हार-माल्यादि-भूषा-स्थान-विपर्ययः
यथा विदग्ध-माधवे (4.21)-
धम्मिल्लोपरि नील-रत्न-रचितो हारस् त्वयारोपितो
विन्यस्तः कुच-कुम्भयोः कुर्वलय-श्रेणी-कृतो गर्भकः ।
अङ्गे चर्चितम् अञ्जनं विनिहिता कस्तूरिका नेत्रयोः
कंसारेर् अभिसार-सम्भ्रम-भरान् मन्ये जगद् विस्मृतम्
यथा वा, श्री-दशमे (10.29.7)-
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश् च लोचने ।
व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः
अधीनस्यापि सेवायां कान्तस्यानभिनन्दनम् ।
विभ्रमो वामतोद्रेकात् स्याद् इत्य् आख्याति कश्चन
यथा-
त्वं गोविन्द मयासि किं नु कवरी-बन्धार्थम् अभ्यर्थितः
क्लेशेनालम् अबद्ध एव चिकुर-स्तोमो मुदं दोग्धि मे ।
वक्त्रस्यापि न माज्जनं कुरु घनं घर्मासु मे रोचते
नैवोत्तंसय मालतीर् मम शिरः खेदं भरेणाप्स्यति
अथ किलकिञ्चितम्-
गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् ।
सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम्
यथा-
मया जातोल्लासं प्रिय-सहचरी लोचन-पथे
बलान् न्यस्ते राधा-कुच-मुकुलयोः पाणि-कमले ।
उदञ्चद्-भ्रू-भेदं सपुलकम् अवष्टम्भि वलितं
स्म्राम्य् अन्तस् तस्याः स्मित-रुदित-कान्त-द्युति मुखम्
यथा वा दान-केलि-कौमुद्यां (1)-
अन्तः-स्मेरतयोज्ज्वला जल-कण-व्याकीर्ण-पक्ष्माङ्कुरा
किञ्चित् पाटलिताञ्चला रसिकतोत्सिक्ता पुरः कुञ्चती ।
रुद्धायाः पथि माधवेन मधुर-व्याभुग्न-तारोत्तरा
राधायाः किलकिञ्चित-स्तवकिनी दृष्टिः श्रियं वः क्रियात्
अथ मोट्टायितम्-
कान्त-स्मरण-वार्तादौ हृदि तद्-भाव-भावतः ।
प्राकट्यम् अभिलाषस्य मोट्टायितम् उदीर्यते
यथा-
न ब्रूते क्लम-बीजम् आलिभिर् अलं पृष्टापि पाली यदा
चातुर्येण तद्-अग्रतस् तव कथा ताभिस् तदा प्रस्तुता ।
तां पीताम्बर जृम्भमाण-वदनाम्भोजा क्षणं शृण्वती
बिम्बोष्ठी पुलकरि विडम्बितवती फुल्लां कदम्ब-श्रियम्
अथ कुट्टमितम्-
स्तनाधरादि-ग्रहणे हृत्-प्रीताव् अपि सम्भ्रमात् ।
बहिः क्रोधो व्यथितवत् प्रोक्तं कुट्टमितं बुधैः
यथा-
करौद्धत्यं हन्त स्थगय कवरी मे विघटते
दुकूलं च न्यञ्चत्य् अघहर तवास्तां विहसितम् ।
किम् आरब्धः कर्तुं तम् अनवसरे निर्दय मदात्
पताम्य् एषा पीअदे वितर शयितुं मे क्षणम् अपि
यथा वा-
न भ्रू-लतां कुटिलय क्षिप नैव हस्तं
वक्त्रं च कण्टकित-गण्डम् इदं न रुन्धि ।
प्रीणातु सुन्दरि तवाधर-बन्धु-जीवे
पीत्वा मधुनि मधुरे मधुसूद्नोऽसौ
अथ बिब्बोकः--
बिब्बोको मान-गर्वाभ्यां स्याद् अभीष्टेऽप्य् अनादरः
तत्र गर्वेण, यथा-
प्रियोक्ति-लक्षेण विपक्ष-सन्निधौ
स्वीकारितां पश्य शिखण्ड-मौलिना ।
श्यामातिवामा हृदयङ्गमाम् अपि
स्रजं दराघ्राय निरास हेलया
यथा वा-
स्फुरत्य् अग्रे तिष्ठन् सखि तव मुख-क्सिप्त-नयनः
प्रतीक्षां कृत्वायं भवद्-अवसरस्याघ-दमनः ।
दृशोच्चैर् गाम्भीर्य-ग्रथित-गुरु-हेला-गहनया
हसन्तीव क्षीवे त्वम् इह वनमालां रचयसि
मानेन, यथा-
हरिणा सखि चाटु-मण्डलीं
क्रियमाणाम् अवमन्य मन्युतः ।
न वृथाद्य सुशिक्षिताम् अपि
स्वयम् अध्यापय गौरि शारिकाम्
अथ ललितम्-
विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ।
सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम्
यथा-
सुभ्रू-भङ्गम् अननङ्ग-बाण-जननीर् आलोकयन्ती लताः
सोल्लासं पद-पङ्कजे दिशि दिशि प्रेङ्खोलयन्त्य् उज्ज्वला ।
गन्धाकृष्ट-धियः करेण मृदुना व्याधुन्वती षट्-पदान्
राधा नन्दति कुञ्ज-कन्दर-तटे वृन्दावन-श्रीर् इव
अथ विकृतम्-
ह्री-मानेर्ष्यादिभिर् यत्र नोच्यते स्व-विवक्षितम् ।
व्यज्यते चेष्टयैवेदं विकृतं तद् विदुर् बुधाः
तत्र ह्रिया, यथा-
निशमय्य मुकुन्द मन्मुखा-
द्भवद्-अभ्यर्थितम् अत्र सुन्दरी ।
न गिराभिनन्द किन्तु सा
पुलकेनैव कपोल-शोभिना
यथा वा-
न पर-पुरुसे दृष्टि-क्सेपो वराक्षि तवोचित-
स्त्वम् असि कुलजा साध्वी वक्त्रं प्रसीद विवर्तय ।
इति पथि मया नर्मण्य् उक्ते हरेर् नव-वीक्षणे
सदयम् उदयत्-कार्पण्यं माम् अवैक्षत राधिका
मानेन, यथा-
मयासक्तवति प्रसादन-विधौ विस्मृत्य चन्द्र-ग्रहं
तद्-विज्ञप्ति-समुत्सुकापि विजहौ मौनं न सा मानिनी ।
किन्तु श्यामल-रत्न-सम्पुट-दलेनावृत्य किञ्चिन् मुखं
सत्या स्मारयति स्म विस्मृतम् असौ माम् औपरागीं श्रियम्
ईर्स्यया, यथा-
वितर तस्करि मे मुरलीं हृता-
मिति मद्-उद्धर-जल्प-विवृत्तया ।
भ्रू-कुटि-भङ्गुरम् अर्क-सुता-तटे
सपदि राधिकयाहम् उदीक्षितः
अलङ्कारा निगदिता विंशतिर् गात्र-चित्त-जाः ।
अमी यथोचितं ज्ञेया माधवेऽपि मनीषिभिः
कैश्चिद् अन्येऽप्य् अलङ्काराः प्रोक्ता नात्र मयोदिताः ।
मुनेर् असम्मतत्वेन किन्तु द्वितयम् उच्यते ।
मौग्ध्यं च चकितं चेति किञ्चिन् माधुर्य-पोषणात्
तत्र मौग्ध्यम्-
ज्ञातस्याप्य् अज्ञवत् पृच्छा प्रियाग्रे मौग्ध्यम् ईरितम्
यथा मुक्ता-चरिते-
कास् ता लताः क्व वा सन्ति केन वा किल रोपिताः ।
नाथ मत्-कङ्कण-न्यस्तं यासां मुक्ताफलं फलम्
चकितम्-
प्रियाग्रे चकितं भीतेर् अस्थानेऽपि भयं महत्
यथा-
रक्ष रक्ष मुहुर् एष भीषणो
धावति श्रवण-चम्पकं मम ।
इत्य् उदीर्य मधुपाद् विशङ्किता
सस्वजे हरिण-लोचना हरिम्
इत्य् अलङ्कार-विवृतिः
अथ उद्भास्वराः
उद्भासन्ते स्वधानीति प्रोक्ता उद्भास्वरा बुधैः
नीव्य्-उत्तरीय-धम्मिल्ल-स्रंसनं गात्र-मोटनम् ।
जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश् च ते मताः
तत्र नीवि-स्रंसनं, यथा विदग्ध-माधवे(7.41)--
नैरञ्जन्यम् उपेयतुः परिगलन्-मोदाश्रुणी लोचने
स्वेदोद्धूत-विलेपनं किल कुच-द्वन्द्वं जहौ रागिताम् ।
योगौत्सुक्यम् अगाद् उरः स्फुरद् इति प्रेक्ष्योदयं सङ्गिनां
राधे नीविर् इयं तव श्लथ-गुणा शङ्के मुमुक्षां दधे
उत्तरीय-स्रंसनं, यथा-
तव हृदि मम रागात् कोऽपि रागो गरिष्ठः
स्फुरति तद् अपसृत्य व्यक्तम् एतं करोमि ।
इति खलु हृदयात् ते राधिके रोधकारि
च्युतम् इव पुरतो मे मञ्जु माञ्जिष्ठ-वासः
धम्मिल्ल-स्रंसनं, यथा-
स्फुरति मुर-द्विषि पुरतो
दुरात्मनाम् अपि विमुक्तिदे गौरि ।
नाद्भुतम् इदं यदीयुः
संयमिनस् ते कचा मुक्तिम्
गात्र-मोटनं, यथा-
व्रजाङ्गने वल्लव-पुङ्गवस्य
पुरः कुरङ्गी-नयना सलीलम् ।
अप्य् अङ्ग-भङ्गं किल कुर्वतीय-
मनङ्ग-भङ्गं तरसा व्यतानीत्
जृम्भा, यथा-
पुष्पैर् अवेत्य विशिखैर् भवतीम् असाध्यां
साध्वीम् अधीत्य मदनः किल जृम्भणास्त्राम् ।
चन्द्रावलि प्रसभम् एव वशीचकार
यद् गोष्ठ-सीमनि मुहुः सखि जृम्भसेऽद्य
घ्राण-फुल्लत्वं, यथा-
रचित-शिखर-शोभारम्भम् अम्भोरुहाक्षी
श्वसित-पवन-दोलान्दोलिना मौक्तिकेन ।
पुट-युगम् अतिफुल्लं बिभ्रती नासिकायां
मम मनसि विलग्ना दर्शनाद् एव राधा
यद्यप्य् एते विशेषाः स्युर् मोट्टायित-विलासयोः ।
शोभा-विशेष-पोषित्वात् तथापि पृथग् ईरिताः
अथ वाचिकाः-
आलापश् च विलापश् च संलापश् च प्रलापकः ।
अनुलापोऽपलापश् च सन्देशश् चातिदेशकः
अपदेशोपदेशौ च निर्देशो व्यपदेशकः ।
कीर्तिता वचनारम्भा द्वादशामी मनीषिभिः
तत्र आलापः-
चाटु-प्रियोक्तिर् आलापः
यथा श्री-दशमे(10.29.40)-
का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन
सम्मोहिता æर्यपदवीं न चलेत् त्रिलोक्याम् ।
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं
यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत्
यथा वा विदग्ध-माधवे (5.31)-
कठोरा भव मृद्वी वा प्राणास् त्वम् असि राधिके ।
अस्ति नान्या चकोरस्य चन्द्रलेखां विना गतिः
अथ विलापः-
विलापो दुःखजं वचः
यथा श्री-दशमे (10.47.47)-
परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला ।
तज् जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया
संलापः ।
उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्त्यते
यथा पद्यावल्यां (269)--
उत्तिष्ठारात् तरौ मे तरुणि मम तरोः शक्तिर् आरोहणे का
साक्षाद् आख्यामि मुग्धे तरणिम् इह रवेर् आख्यया का रतिर् मे ।
वार्तेयं नौ-प्रसङ्गे कथम् अपि भविता नावयोः सङ्गमार्था
वार्तापीति स्मितास्यं जित-गिरिम् अजितं राधयाराधयामि
प्रलापः ।
व्यर्थालापः प्रलापः स्यात्
यथा-
करोति नादं मुरली रली रली
व्रजाङ्गना-हृन्-मथनं थनं थनम् ।
ततो विदूना भजते जते जते
हरे भवन्तं ललिता लिता लिता
अनुलापः-
अनुलापो मुहुर् वचः
यथा-
कृष्णः कृष्णो नहि नहि तापिञ्छोऽयं
वेणुर् वेणुर् नहि नहि भृङ्गोद्घोषः ।
गुञ्जा गुञ्जा नहि नहि बन्धूकाली
नेत्रे नेत्रे नहि नहि पद्म-द्वन्द्वम्
अपलापः ।
अपलापस् तु पूर्वोक्तस्यान्यथा योजनं भवेत्
यथा-
फुल्लोज्ज्वल-वन-मालं कामयते का न माधवं प्रमदा ।
हरये स्पृहयसि राधे नहि नहि वैरिणि वसन्ताय
सन्देशः-
सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत्
यथा-
व्याहर मथुरानाथे मम सन्देश-प्रहेलिकां पान्थ ।
विकला कृता कुहूभिर् लभते चन्द्रावली क्व लयम्
अतिदेशः-
सोऽतिदेशस् तद् उक्तानि मद्-उक्तानीति यद् वचः
यथा-
वृथा वृथास् त्वं विचिकित्सितानि
मा गोकुलाधीश्वर-नन्दनात्र ।
गान्धर्विकाया गिरम् अन्तरस्थां
वीणेव गीतिं ललिता व्यनक्ति
अथ अपदेशः-
अन्यार्थ-कथनं यत् तु सोऽपदेश इतीरितः
यथा-
यत् ते विक्षतम् उज्ज्वलं पृथु-फल-द्वन्द्वं नवा दाडिमी
भृङ्गेण व्रणितं मधूनि पिबता ताम्रं च पुष्प-द्वयम् ।
इत्य् आकर्ण्य सखी-गिरं गुरु-जनालोके किल श्यामला
चैलेन स्तनयोर् युगं व्यवदधे दन्त-च्छदौ पाणिना
उपदेशः-
यत् तु शिक्षार्थ-वचनम् उपदेशः स उच्यते
यथा छन्दो-मञ्जर्याम्-
मुग्धे यौवन-लक्ष्मीर् विद्युद्-विभ्रम-लोला
त्रैलोक्याद्भुत-रूपो गोविन्दोऽतिदुरापः ।
तद्-वृन्दावन-कुञ्जे गुञ्जद्-भृङ्ग-सनाथे
श्री-नाथेन समेता स्वच्छन्दं कुरु केलिम्
निर्देशः-
निर्देशस् तु भवेत् सोऽयम् अहम् इत्य् आदि-भाषणम्
यथा-
सेयं मे भगिनी राधा ललितेयं च मे सखी ।
विशाखेयम् अहं कृष्ण तिस्रः पुष्पार्थम् आगताः
व्यपदेशः-
व्याजेनात्माभिलाषोक्तिर् व्यपदेश इतीर्यते
यथा-
विलसन्-नवक-स्तवका काम्य-वने पश्य मालती मिलति ।
कथम् इव चुम्बसि तुम्बीम् अथवा भ्रमरोऽसि किं ब्रूमः
अनुभावा भवन्त्य् एते रसे सर्वत्र वाचिकाः ।
माधुर्याधिक्य-पोषित्वाद् इहैव परिकीर्तिताः
मूल पाठ: Ujjvalanīlamaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0