भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 31

31.1

दुर्निग्रहस्य.लघुनो.यत्र.काम.निपातिनः ।
चित्तस्य.दमनम्.साधु.चित्तम्.दान्तम्.सुखावहम् ॥

31.2

वारिजो.वा.स्थले.क्षिप्त;ओकाद्.ओघात्.समुद्धृतः ।
परिस्पन्दति.वै.चित्तम्.मार.धेयम्.प्रहातवै ॥

31.3

पृथग्.विधावते.चित्तम्.सूर्यस्य.इव.हि.रश्मयः ।
तत्.पण्डितो.वारयति.ह्य्.अङ्कुशेन.एव.कुञ्जरम् ॥

31.4

भ्रूण.धेयम्.इदम्.चित्तम्.निह्सारम्.अनिदर्शनम् ।
सदा.एनम्.अनुशासामि.मा.मे.अनर्थाय.निश्चरेत् ॥

31.5

इदम्.पुरा.चित्तम्.अचारि.चारिकाम्.येन.इच्छकम्.येन.कामम्.यथा.इष्टम् ।
तत्.सम्निगृह्णामि.हि.योनिशस्.त्व्.इदम्.नागम्.प्रभिन्नम्.हि.यथा.अङ्कुशेन ॥

31.6

अनेकम्.जाति.संसारम्.संधावित्वा.पुनः.पुनः ।
गृह.कारक.एषमाणस्.त्वम्.दुह्खा.जातिः.पुनः.पुनः ॥

31.7

गृह.कारक.दृष्टो.असि.न.पुनर्.गेहम्.करिष्यसि ।
सर्वे.ते.पार्शुका.भग्ना.गृह.कूटम्.विसंस्कृतम् ।
विसंस्कार.गते.चित्ते;इह.एव.क्षयम्.अध्यगाः ॥

31.8

स्पन्दनम्.चपलम्.चित्तम्.दुरक्ष्यम्.दुर्निवारणम् ।[.दूरक्ष्यम्.]
ऋजुम्.करोति.मेधावी;इषु.कार;इव.तेजसा ॥
दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् ।
ये.चित्तम्.दमयिष्यन्ति.विमोक्ष्यन्ते.महा.भयात् ।

31.9

न.द्वेषी.द्वेषिणः.कुर्याद्.वैरी.वा.वैरिणो.हितम् ।
मिथ्या.प्रणिहितम्.चित्तम्.यत्.कुर्याद्.आत्मना.आत्मनः ॥

31.10

न.तम्.माता.पिता.वा.अपि.कुर्याज्.ज्ञातिस्.तथा.अपरः ।
सम्यक्.प्रणिहितम्.चित्तम्.यत्.कुर्याद्द्.हितम्.आत्मनः ॥

31.11

यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
एवम्.ह्य्.अभावितम्.चित्तम्.रागः.समतिभिन्दति ॥

31.12

यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
एवम्.ह्य्.अभावितम्.चित्तम्.द्वेषः.समतिभिन्दति ॥

31.13

यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
एवम्.ह्य्.अभावितम्.चित्तम्.मोहः.समतिभिन्दति ॥

31.14

यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
एवम्.ह्य्.अभावितम्.चित्तम्.मानः.समतिभिन्दति ॥

31.15

यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
एवम्.ह्य्.अभावितम्.चित्तम्.लोभः.समतिभिन्दति ॥

31.16

यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
एवम्.ह्य्.अभावितम्.चित्तम्.तृष्णा.समतिभिन्दति ॥

31.17

यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
एवम्.सुभावितम्.चित्तम्.रागो.न.व्यतिभिन्दति ॥

31.18

यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
एवम्.सुभावितम्.चित्तम्.द्वेषो.न.व्यतिभिन्दति ॥

31.19

यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
एवम्.सुभावितम्.चित्तम्.मोहो.न.व्यतिभिन्दति ॥

31.20

यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
एवम्.सुभावितम्.चित्तम्.मानो.न.व्यतिभिन्दति ॥

31.21

यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
एवम्.सुभावितम्.चित्तम्.लोभो.न.व्यतिभिन्दति ॥

31.22

यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
एवम्.सुभावितम्.चित्तम्.तृष्णा.न.व्यतिभिन्दति ॥

31.23

मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः ।
मनसा.हि.प्रदुष्टेन.भाषते.वा.करोति.वा ।

31.24

मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः ।
मनसा.हि.प्रसन्नेन.भाषते.वा.करोति.वा ।
ततस्.तम्.सुखम्.अन्वेति.छाया.वा.ह्य्.अनुगामिनी ॥

31.25

न.अप्रसन्नेन.चित्तेन.दुष्टेन.क्षुभितेन.वा ।
धर्मो.हि.शक्यम्.आज्ञातुम्.संरम्भ.बहुलेन.वा ॥

31.26

विनीय.यस्.तु.संरम्भम्.अप्रसादम्.च.चेतसा ।
आघातम्.चैव.निह्सृज्य.प्रजानीयात्.सुभाषितम् ॥

31.27

न.प्रत्यनीक.सारेण.सुविज्ञेयम्.सुभाषितम् ।
उपक्लिष्टेन.चित्तेन.संरम्भ.बहुलेन.वा ॥

31.28

अनवस्थित.चित्तस्य.सद्धर्मम्.अविजानतः ।
पारिप्लव.प्रसादस्य.प्रज्ञा.न.परिपूर्यते ॥

31.29

स्रोतांसि.यस्य.षट्.त्रिंशन्.मनः.प्रस्रवणानि.हि ।
वहन्ति.नित्यम्.दुर्दृष्टेः.संकल्पैर्.ग्रेध.निह्श्रितैः ॥

31.30

रतिम्.अनुसृतम्.इन्द्रिय.अनुगम्.पुरुषम्.चित्त.वश.अनुवर्तकम् ।
यश;इह.हि.जहाति.सर्वदा.द्रुमम्.इव.शीर्ण.फलम्.यथा.अण्डजः ॥

31.31

आतापी.विहर.त्वम्.अप्रमत्तो.मा.ते.काम.गुणो.मथेत.चित्तम् ।
मा.लोह.गुडाम्.गिलेः.प्रमत्तः.क्रन्दन्.वै.नरकेषु.पच्यमानः ॥

31.32

उत्थान.कालेषु.निहीन.वीर्यो.वाचा.बली.त्व्.आलसिको.निराशः ।
सदा.एव.संकल्प.हतः.कुसीदो.ज्ञानस्य.मार्गम्.सततम्.न.वेत्ति ॥

31.33

स्थूलान्.वितर्कान्.अथ.वा.अपि.सूक्ष्मान्.समुद्गतान्.मान.सम्प्लव.अर्थम् ।
वितर्कयन्.वै.सततम्.वितर्कान्.एताम्.सदा.धावति.भ्रान्त.चित्तः ॥

31.34

एतांस्.तु.विद्यान्.मनसो.वितर्कान्.आतापवान्.संवरवान्.स्मृत.आत्मा ।
जहात्य्.अशेषान्.अपुनर्.भवाय.समाहितो.ध्यान.रतः.सुमेधाः ॥

31.35

कुम्भ.उपमम्.कायम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च ।
युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥

31.36

फेन.उपमम्.कायम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च ।
युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥

31.37

कुम्भ.उपमम्.लोकम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च ।
युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥

31.38

फेन.उपमम्.लोकम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च ।
युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥

31.39

सम्भोध्य्.अङ्गेषु.येषांस्.तु.सम्यक्.चित्तम्.सुभावितम् ।
आदानम्.प्रतिनिह्सृज्य.च.अनुपादायम्.आश्रिताः ।
क्षीण.आस्रवा.वान्त.दोषास्.ते.लोके.परिनिर्वृताः ॥

31.40

स्व.चित्तम्.अनुरक्षम्.वै.स्व.वालम्.चमरी.यथा ।
भूतेषु.च.दया.आपन्नः.सुखान्.न.परिहीयते ॥

31.41

एतम्.नागस्य.नागेन.त्व्.ईषा.दन्तस्य.हस्तिनः ।
समेति.चित्तम्.चित्तेन.यद्.एको.रमते.वने ॥

31.42

अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते ।
मैत्रः.स.सर्व.सत्त्वेषु.वैरम्.तस्य.न.केनचित् ॥
अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते ।
मैत्रः.स.सर्व.प्राणेषु.वैरम्.तस्य.न.केनचित् ॥
अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते ।
मैत्रः.स.सर्व.भूतेषु.वैरम्.तस्य.न.केनचित् ॥

31.43

एकम्.अपि.चेत्.प्राणम्.अदुष्ट.चित्तो.मैत्रायते.कुशलम्.तेन.हि.स्यात् ।
सर्वांस्.तु.सत्त्वान्.मनसा.अनुकम्पयन्.प्रभूतम्.आर्यः.प्रकरोति.पुण्यम् ।[.सत्त्वाम्.]*

31.44

यो.ह्य्.उदग्रेण.चित्तेन.त्व्.अदीनेन.सदा.नरः ।
भावयेत्.कुशलान्.धर्मान्.योग.क्षेमस्य.प्राप्तये ॥

31.45

शान्तम्.अस्य.मनो.भवति.शान्ता.वाक्.काय.कर्म.च ।
सम्यग्.आज्ञा.विमुक्तस्य.ह्य्.उपशान्तस्य.भिक्षुणः ॥

31.46

पञ्च.अङ्गिकेन.तूर्येण.न.रतिर्.भवति.तादृशी ।
यादृश्य्.एक.अग्र.चित्तस्य.सम्यग्.धर्मान्.विपश्यतः ॥

31.47

सुखम्.स्वपन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् ।
येषाम्.ध्यान.रतम्.चित्तम्.कामस्.तेषाम्.न.विद्यते ॥

31.48

सुखम्.मोदन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् ।
येषाम्.ध्यान.रतम्.चित्तम्.वर्त्मस्.तेषाम्.न.विद्यते ॥

31.49

यस्य.शैल.उपमम्.चित्तम्.स्थितम्.न.अनुप्रकम्पते ।
विरक्तम्.रजनीयेभ्यः.कोपनीये.न.कुप्यते ।
यस्य.एवम्.भावितम्.चित्तम्.कुतस्.तम्.दुह्खम्.एष्यति ॥

31.50

न.उपवादी.न.उपघाती.प्रीति.मोक्षे.च.संवरः ।
मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयन.आसनम् ।
अधिचित्ते.समायोग;एतद्.बुद्धस्य.शासनम् ॥

31.51

चित्त.निमित्तस्य.कोविदः.प्रविवेकस्य.रसम्.प्रजानकः ।
ध्यायी.निपकः.प्रतिस्मृतो.वेत्ति.प्रीति.सुखम्.निरामिषम् ॥

31.52

मनश्.च.यो.रक्षति.भाषितम्.च.चेष्टे.च.कायस्य.सदा.एव.युक्तः ।
स.प्राप्य.शोकम्.हि.न.दुह्खितः.स्यात्.सत्य.स्थितः.सत्यविदः.सुमेधाः ॥

31.53

अरक्षितेन.चित्तेन.मिथ्या.दृष्टि.हतेन.च ।
स्तीन.मिद्ध.अभिभूतेन.वशम्.मृत्योर्.निगच्छति ।[.स्तीनमिद्धाभिभूतेन.]

31.54

तस्माद्.रक्षित.चित्तः.स्यात्.सम्यक्.संकल्प.गोचरः ।
सम्यग्.दृष्टि.पुरस्कारो.ज्ञात्वा.चैव.उदय.व्ययम् ।
स्तीन.मिद्ध.अभिभूर्.भिक्षुः.सर्व.दुर्गतयो.जहेत् ॥

31.55

चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.नरकेषु.पच्यते ॥

31.56

चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.तीर्यक्षु.पच्यते ॥[.तिर्यक्षु.]

31.57

चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.प्रेतेषु.पच्यते ॥

31.58

चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.मनुजेषु.मोदते ॥

31.59

चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.स्वर्गेषु.मोदते ॥

31.60

चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.निर्वाणम्.आप्नुते ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc