भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 32

32.1

पिण्ड.चारिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.न.अन्य.पोषिणे ।
देवाः.स्पृहयन्ति.तायिने.ह्य्.उपशान्ताय.सदा.स्मृत.आत्मने ॥

32.2

पिण्ड.पातिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.न.अन्य.पोषिणे ।
देवाः.स्पृहयन्ति.तायिने.न.तु.सत्कार.यशो.अभिकाङ्क्षिने ॥

32.3

सर्व.कर्म.जहस्य.भिक्षुणे.धुन्वानस्य.पुरस्कृतम्.रजः ।
अममस्य.सदा.स्थित.आत्मनो.ह्य्.अर्थो.न.अस्ति.जनस्य.लापनम् ॥

32.4

तुदन्ति.वाचाभिर्.असम्यता.जनाः.शरैर्.हि.संग्राम.गतम्.यथा.गजम् ।
श्रुत्वा.तु.वाचाम्.परुषाम्.उदीरिताम्.अधिवासयेद्.भिक्षुर्.अदुष्ट.चित्तः ॥

32.5

यस्.त्व्.अल्प.जीवी.लघुर्.आत्म.कामो.यत.इन्द्रियः.सर्व.गतिः.प्रमुक्तः ।
अनोकसारी.ह्य्.अममो.निराशः.कामम्.जहश्.च.एक.चरः.स.भिक्षुः ॥

32.6

मात्रम्.भजेत.प्रतिरूपम्.शुद्ध.आजीवो.भवेत्.सदा ।
प्रतिसंस्तार.वृत्तिः.स्याद्.आचार.कुशलो.भवेत् ।
ततः.प्रमोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥

32.7

हस्त.सम्यतः.पाद.सम्यतो.वाचा.सम्यतः.सर्व.सम्यतः ।
आध्यात्म.रतः.समाहितो.ह्य्.एकः.संतुषितो.हि.यः.स.भिक्षुः ॥

32.8

धर्म.आरामो.धर्म.रतो.धर्मम्.एव.अनुचिन्तयन् ।
धर्मम्.च.अनुस्मरन्.भिक्षुर्.धर्मान्.न.परिहीयते ॥

32.9

शुन्य.अगारम्.प्रविष्टस्य.प्रहित.आत्मस्य.भिक्षुणः ।[.शून्य.अगारम्.]
अमानुषा.रतिर्.भवति.सम्यग्.धर्मान्.विपश्यतः ॥

32.10

यतो.यतः.संस्पृशति.स्कन्धानाम्.उदय.व्ययम् ।
प्रामोद्यम्.लभते.तत्र.प्रीत्या.सुखम्.अनल्पकम् ।
ततः.प्रामोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥

32.11

यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
एवम्.राग.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥

32.12

यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
एवम्.द्वेष.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥

32.13

यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
एवम्.मोह.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥

32.14

यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
एवम्.मान.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥

32.15

यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
एवम्.लोभ.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥

32.16

यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
एवम्.तृष्णा.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥

32.17

यस्य.सम्निचयो.न.अस्ति.यस्य.न.अस्ति.ममायितम् ।
असन्तम्.शोचते.न.एव.स.वै.भिक्षुर्.निरुच्यते ।

32.18

भिक्षुर्.न.तावता.भवति.यावता.भिक्षते.परान् ।
वेष्मान्.धर्मान्.समादाय.भिक्षुर्.भवति.न.तावता ॥

32.19

यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् ।
विश्रेणयित्वा.चरति.स.वै.भिक्षुर्.निरुच्यते ॥

32.20

मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने ।
अधिगच्छेत्.पदम्.शान्तम्.असेचनक.दर्शनम् ॥

32.21

मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने ।
अधिगच्छेत्.पदम्.शान्तम्.संस्कार.उपशमम्.सुखम् ॥

32.22

मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने ।
अभव्यः.परिहाणाय.निर्वाणस्य.एव.सो.अन्तिके ॥

32.23

उदग्र.चित्तः.सुमना.ह्य्.अभिभूय.प्रिय.अप्रियम् ।[.प्रिया.प्रियम्.]
प्रामोद्य.बहुलो.भिक्षुर्.दुह्ख.क्षयम्.अवाप्नुयात् ॥

32.24

शान्त.कायः..............शान्त.वाक्.सुसमाहितः ।
वान्त.लोक.आमिषो.भिक्षुर्.उपशान्तो.निरुच्यते ॥

32.25

न.अस्त्य्.अप्रज्ञस्य.वै.ध्यानम्.प्रज्ञा.न.ध्यायतो.अस्ति.च ।
यस्य.ध्यानम्.तथा.प्रज्ञा.स.वै.निर्वाण.सान्तिके ॥

32.26

तस्माद्.ध्यानम्.तथा.प्रज्ञाम्.अनुयुज्येत.पण्डितः ।
तस्य.अहम्.आदिर्.भवति.तथा.प्राज्ञस्य.भिक्षुणः ॥

32.27

संतुष्टिर्.इन्द्रियैर्.गुप्तिः.प्रातिमोक्षे.च.संवरः ।
मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयन.आसनम् ॥
अधिचित्ते.समायोगम्.यस्य.असौ.भिक्षुर्.उच्यते ॥

32.28

यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् ।
कल्याण.शीलम्.आहुस्.तम्.ह्रीमन्तम्.भिक्षुम्.उत्तमम् ॥

32.29

धर्माः.सुभाविता.यस्य.सप्त.सम्भोध.पक्षिकाः ।
कल्याण.धर्मम्.आहुस्.तम्.सदा.भिक्षुम्.समाहितम् ॥

32.30

इह.एव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः ।
कल्याण.प्रज्ञम्.आहुस्.तम्.सदा.शीलम्.अनास्रवम् ॥

32.31

न.शील.व्रत.मात्रेण.बहुश्रुत्येन.वा.पुनः । [.बाहुश्रुत्येन.]
तथा.समाधि.लाभेन.विविक्त.शयनेन.वा ॥

32.32

भिक्षुर्.विश्वासम्.आपद्येद्.अप्राप्ते.ह्य्.आस्रव.क्षये ।
स्पृशेत्.तु.सम्बोधि.सुखम्.अकापुरुष.सेवितम् ॥

32.33

ताप.जातो.ह्य्.अयम्.लोकः.स्कन्धा.न.आत्मा.इति.मन्यते ।
मन्यते.येन.येन.अहम्.तत्.तद्.भवति.च.अन्यथा ॥

32.34

लोको.अयम्.अन्यथा.भूतो.भव.सक्तो.भवे.रतः ।
भव.अभिनन्दी.सततम्.भवान्.न.परिमुच्यते ॥

32.35

यन्.नन्दते.स.हि.भवो.दुह्खस्य.स.बिभेति.च ।
उष्यते.भव.हानाय.ब्रह्मचर्यम्.मम.अन्तिके ॥

32.36

ये.भवेन.भवस्य.एव.प्राहुर्.निह्सरणम्.सदा ।
अनिह्सृतान्.भवा.सर्वांस्.तान्.वदामि.सदा.व्.अहम् ॥?

32.37

प्रतीत्य.दुह्खम्.उपधिम्.भवत्य्.उपधि.सम्भवम् ।
क्षयात्.सर्व.उपधीनाम्.तु.न.अस्ति.दुह्खस्य.सम्भवः ॥

32.38

अनित्या.हि.भवाः.सर्वे.दुह्खा.विपरिणामिनः ।
पश्यतः.प्रज्ञया.सर्वे.क्षीयन्ते.न.अभिनन्दिताः ॥

32.39

निर्वृतस्य.सदा.भिक्षोर्.आयत्याम्.उपशाम्यते ।
अभिभूतो.भवः.सर्वो.दुह्ख.अन्तः.स.निरुच्यते ॥

32.40

सदा.उपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥

32.41

सदा.उपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः ॥

32.42

अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥

32.43

अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः ॥

32.44

विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥

32.45

विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः ॥

32.46

उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥

32.47

उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः ॥

32.48

उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
यश्.च.राग.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥

32.49

उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
यश्.च.द्वेष.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥

32.50

उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
यश्.च.मोह.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥

32.51

उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
यश्.च.मान.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥

32.52

उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
यश्.च.लोभ.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥

32.53

उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
यश्.च.तृष्णा.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥

32.54

येन.जिता.ग्राम.कण्टका.ह्य्.आक्रोशाश्.च.वधाश्.च.बन्धनम्.च ।
यः.पर्वतवत्.स्थितो.ह्य्.अनेयः.सुख.दुह्खेन.न.वेथते.स.भिक्षुः ॥

32.55

यो.न.अत्यसरम्.न.च.अत्यलीयम्.ज्ञात्वा.वितथम्.इमम्.हि.सर्व.लोकम् ।
स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.56

यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.57

यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.58

यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.59

यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.60

यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.61

तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.62

यस्.तु.उत्पलितम्.निहन्ति.रागम्.विसृतम्.सर्प.विषम्.यथा.औषधेन ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.63

यस्.तु.उत्पलितम्.निहन्ति.द्वेषम्.विसृतम्.सर्प.विषम्.यथा.औषधेन ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.64

यस्.तु.उत्पलितम्.निहन्ति.मोहम्.विसृतम्.सर्प.विषम्.यथा.औषधेन ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.65

यस्.तु.उत्पलितम्.निहन्ति.मानम्.विसृतम्.सर्प.विषम्.यथा.औषधेन ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.66

यस्.तु.उत्पलितम्.निहन्ति.लोभम्.विसृतम्.सर्प.विषम्.यथा.औषधेन ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.67

यस्.तु.उत्पलितम्.निहन्ति.तृष्णाम्.विसृतम्.सर्प.विषम्.यथा.औषधेन ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.68

यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.69

यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.70

यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.71

यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.72

यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.73

तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.74

तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.सरिताम्.शीघ्र.जवाम्.अशोषयज्ञः ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.75

यः.काम.गुणान्.प्रहाय.सर्वान्.छित्त्वा.काम.गतानि.बन्धनानि ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.76

यो.नीवरणाम्.प्रहाय.पञ्च.त्व्.अनिघश्.छिन्न.कथम्.कथो.विशल्यः ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.77

यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.78

यस्य.हि.वनसा.न.सन्ति.केचिन्.मूलम्.च.अकुशलस्य.यस्य.नष्टम् ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.79

यस्य.ज्वरथा.न.सन्ति.केचिन्.मूलम्.च.अकुशलस्य.यस्य.नष्टम् ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.80

यस्य.अनुशया.न.सन्ति.केचिन्.मूलम्.च.अकुशलस्य.यस्य.नष्टम् ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.81

स.भिक्षुर्.यस्य.शीलानि.स.ध्यायी.यत्र.शुन्यता ।[.शून्यता.]
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥

32.82

अरति.रति.सहो.हि.भिक्षुर्.एवम्.................. ।
..................राग.अनुशयम्.समुद्धरम्.हि ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc