भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 30

30.1

जयाद्.वैरम्.प्रसवते.दुह्खम्.शेते.पराजितः ।
उपशान्तः.सुखम्.शेते.हित्वा.जय.पराजयौ ॥

30.2

पर.दुह्ख.उपधानेन.य;इच्छेत्.सुखम्.आत्मनः ।
वैर.संसर्ग.संसक्तो.दुह्खान्.न.परिमुच्यते ॥

30.3

सुख.कामानि.भूतानि.यो.दण्डेन.विहिंषति ।
आत्मनः.सुखम्.एषाणः.स.वै.न.लभते.सुखम् ॥

30.4

सुख.कामानि.भूतानि.यो.दण्डेन.न.हिंसति ।
आत्मनः.सुखम्.एषाणः.स.प्रेत्य.लभते.सुखम् ॥

30.5

धर्मम्.चरेत्.सुचरितम्.न.एनम्.दुश्चरितम्.चरेत् ।
धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिन्.लोके.परत्र.च ॥

30.6

धर्मः.सदा.रक्षति.धर्म.चारिणम्.छत्रम्.महद्.वर्ष.काले.यथैव ।
एष.अनुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥

30.7

धर्मः.सदा.रक्षति.धर्म.चारिणम्.धर्मः.सुचीर्णः.सुखम्.आदधाति ।
एष.अनुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥

30.8

अल्पा.अपि.सन्तो.बहवो.जयन्ति.सुसंविधाने.न.संविधानम् ।
अल्पम्.अपि.चेत्.श्रद्दधानो.ददाति.तेन.एव.असौ.भवति.सुखी.परत्र ॥

30.9

दानम्.च.युद्धम्.च.समानम्.आहुर्.न.एते.गुणाः.कापुरुषा.इव.सन्ति ।
संग्राम.वेला.इव.हि.दान.वेला.तुल्यम्.भवेत्.कारण.संग्रहेण ॥

30.10

अयम्.हि.प्रत्यूह.शतानि.जित्वा.मात्सर्यम्.आक्रम्य.च.शत्रु.भूतम् ।
शुराद्द्.हि.तम्.शूरतरम्.वदामि.ददाति.यो.दानम्.असक्त.चित्तः ।[.शूराद्.]

30.11

सुखो.विपाकः.पुण्यानाम्.अभिप्रायः.समृध्यते ।
क्षिप्रम्.च.परमाम्.शान्तिम्.निर्वृतिम्.सो.अधिगच्छति ॥

30.12

परतो.ह्य्.उपसर्गांश्.च.देवता.मार.कायिकाः ।
अन्तरायम्.न.शक्तिष्ठाः.कृत.पुण्यस्य.कर्तु.वै ॥

30.13

धर्म.प्रीतिः.सुखम्.शेते.विप्रसन्नेन.चेतसा ।
आर्य.प्रवेदिते.धर्मे.रमते.पण्डितः.स्मृतः ॥

30.14

येषाम्.धर्म.रतम्.चित्तम्.अनुपादाय.निर्वृतिम् ।
स्मृत्य्.उपस्थान.निरतम्.बोध्य्.अङ्गेषु.च.सप्तसु ॥

30.15

येषाम्.धर्म.रत्म्.चित्तम्.अनुपादाय.निर्वृतिम् ।
ऋद्धि.पाद.रतम्.चैव.मार्गे.च.अष्ट.अङ्गिके.रतम् ॥

30.16

सुखम्.ते.भुञ्जते.पिण्डम्.धारयन्ति.च.चीवरम् ।
सुखम्.चङ्क्रमणम्.तेषाम्.पर्वतेषु.गुहासु.च ॥

30.17

क्षेम.प्राप्ता.हि.सुखिता.दृष्ट.धर्म.अभिनिर्वृताः ।
सर्व.वैर.भय.अतीतास्.तीर्णा.लोके.विषक्तिकाम् ॥

30.18

सुखो.विवेकस्.तुष्टस्य.श्रुत.धर्मस्य.पश्यतः ।
अव्यावध्यः.सुखम्.लोके.प्राण.भूतेषु.सम्यमः ॥

30.19

सुखम्.विरागता.लोके.कामानाम्.समतिक्रमः ।
अस्मि.मानस्य.विनय;एतद्.वै.परमम्.सुखम् ॥

30.20

सुखम्.यावज्.जरा.शीलम्.सुखम्.श्रद्धा.प्रतिष्ठिता ।
सुखम्.च.अर्थ.रता.वाचा.पापस्य.अकरणम्.सुखम् ॥

30.21

सुखम्.मातृव्यता.लोके.सुखम्.चैव.पितृव्यता ।
सुखम्.श्रामण्यता.लोके.तथा.ब्राह्मण्यता.सुखम् ॥

30.22

सुखम्.बुद्धस्य.च.उत्पादः.सुखम्.धर्मस्य.देशना ।
सुखम्.संघस्य.सामग्री.समग्राणाम्.तपः.सुखम् ॥

30.23

शीलवन्तः.सुखम्.दृष्टुम्.सुखम्.दृष्टुम्.बहु.श्रुताः ।[.द्रष्टुम्.]
अर्हन्तश्.च.सुखम्.दृष्टुम्.विप्रमुक्त.पुनर्.भवाः ॥

30.24

सुखा.नदी.सूपतीर्था.सुखम्.धर्मजिनो.जिनः ।
प्रज्ञा.लाभः.सुखो.नित्यम्.अस्मि.मान.क्षयः.सुखम् ॥

30.25

सुखम्.दर्शनम्.आर्याणाम्.संवासो.अपि.सदा.सुखम् ।
अदर्शनेन.बालानाम्.नित्यम्.एव.सुखी.भवेत् ॥

30.26

बाल.संसर्ग.चारी.हि.दीर्घ.अध्वानम्.प्रशोचति ।
दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रैर्.इव.सर्वशः ।
धीरैस्.तु.सुख.संवासो.ज्ञातीनाम्.इव.संगमः ॥

30.27

दुर्लभः.पुरुषो.जात्यो.न.असौ.सर्वत्र.जायते ।
यत्र.असौ.जायते.वीरस्.तु.कुलम्.सुखम्.एधते ॥

30.28

सर्वथा.वै.सुखम्.शेते.ब्राह्मणः.परिनिर्वृतः ।
यो.न.लिप्यते.कामेभिर्.विप्रमुक्तो.निरास्रवः ॥

30.29

सर्वा.ह्य्.आशास्तयश्.छित्त्वा.विनीय.हृदय.ज्वरम् ।
उपशान्तः.सुखम्.शेते.शान्तिम्.प्राप्य.इह.चेतसः ॥

30.30

मात्रा.सुख.परित्यागाद्.यः.पश्येद्.विपुलम्.सुखम् ।
त्यजेन्.मात्रा.सुखम्.धीरः.सम्पश्यन्.विपुलम्.सुखम् ॥

30.31

यच्.च.काम.सुखम्.लोके.यच्.च.अपि.दिविजम्.सुखम् ।
तृष्णा.क्षय.सुखस्य.एतत्.कलाम्.न.अर्घति.षोडशीम् ॥

30.32

निक्षिप्य.हि.गुरुम्.भारम्.न.आदद्याद्.भारम्.एव.तु ।
भार.आदानम्.परम्.दुह्खम्.भार.निक्षेपणम्.सुखम् ॥

30.33

सर्व.तृष्णाम्.विप्रहाय.सर्व.सम्योजन.क्षयात् ।
सर्व.उपधिम्.परिज्ञाय.न.आगच्छन्ति.पुनर्.भवम् ॥

30.34

अर्थेषु.जातेषु.सुखम्.सहायाः.पुण्यम्.सुखम्.जीवित.संक्षयेषु ।
तुष्टिः.सुखा.या.त्व्.इतरेतरेण.सर्वस्य.दुह्खस्य.सुखो.निरोधः ॥

30.35

अयोघन.हतस्य.एव.ज्वलतो.जात.वेदसः ।
अनुपूर्व.उपशान्तस्य.यथा.न.ज्ञायते.गतिः ॥

30.36

एवम्.सम्यग्.विमुक्तानाम्.काम.पङ्क.ओघ.तारिणाम् ।
प्रज्ञापयितुम्.गतिर्.न.अस्ति.प्राप्तानाम्.अचलम्.सुखम् ॥

30.37

यस्य.अन्तरतो.न.सन्ति.कोपा;इत्थम्.भाव.गतम्.च.यो.निवृत्तः ।
अखिलम्.तम्.सुखिनम्.सदा.विशोकम्.देवा.न.अनुभवन्ति.दर्शनेन ॥

30.38

सुखम्.हि.यस्य.इह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य ।[.किंचन.]
सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.चित्तम् ॥

30.39

सुखम्.हि.यस्य.इह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य ।[.किंचन.]
सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥[इदेन्तिचल् ऋइह् 38]

30.40

सुखिनो.हि.जना.ह्य्.अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः ।
सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.बद्ध.चित्तम् ॥

30.41

सुखिनो.हि.जना;अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः ।
सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥

30.42

सर्वम्.पर.वशम्.दुह्खम्.सर्वम्.आत्म.वशम्.सुखम् ।
साधारणे.विहन्यन्ते.योगा.हि.दुरतिक्रमाः ॥

30.43

सुसुखम्.बत.जीवामो.ह्य्.उत्सुकेषु.त्व्.अनुत्सुकाः ।
उत्सुकेषु.मनुष्येषु.विहरामो.ह्य्.अनुत्सुकाः ॥

30.44

सुसुखम्.बत.जीवामो.येषाम्.नो.न.अस्ति.किंचनम् ।[.किंचन.]
मिथिलायाम्.दह्यमानायाम्.न.नो.दह्यति.किंचनम् ॥

30.45

सुसुखम्.बत.जीवामो.ह्य्.आतुरेषु.त्व्.अनातुराः ।
आतुरेषु.मनुष्येषु.विहरामो.ह्य्.अनातुराः ॥

30.46

सुसुखम्.बत.जीवामो.हिंसकेषु.त्व्.अहिंसकाः ।
हिंसकेषु.मनुष्येषु.विहरामो.ह्य्.अहिंसकाः ॥

30.47

सुसुखम्.बत.जीवामो.वैरिकेषु.त्व्.अवैरिकाः ।
वैरिकेषु.मनुष्येषु.विहरामो.ह्य्.अवैरिकाः ॥

30.48

सुसुखम्.बत.जीवामो.हेठकेषु.त्व्.अहेठकाः ।
हेठकेषु.मनुष्येषु.विहरामो.ह्य्.अहेठकः ॥

30.49

सुसुखम्.बत.जीवामो.येषाम्.नो.न.अस्ति.किंचनम् ।[.किंचन.]
प्रीति.भक्षा.भविष्यामो.देवा.ह्य्.आभस्वरा.यथा ॥[.आभास्वरा.]

30.50

सुसुखम्.बत.जीवामो.येषाम्.नो.न.अस्ति.किंचनम् ।[.किंचन.]
प्रीति.भक्षा.भविष्यामो.सत्कायेन.उपनिह्श्रिताः ॥

30.51

ग्रामे;अरण्ये.सुख.दुह्ख.स्पृष्टो.न.एव.आत्मनो.न.परतो.दधाति ।
स्पर्शाः.स्पृशन्ति.ह्य्.उपधिम्.प्रतीत्य.निरौपधिम्.किम्.स्पर्शाः.स्पृशेयुः ॥

30.52

सापत्रपाः.सत्.पुरुषा.भवन्ति.न.काम.हेतोर्.लपयन्ति.सन्तः ।
स्पृष्टा.हि.दुह्खेन.तथा.सुखेन.न.उच्च.अवचाः.सत्.पुरुषा.भवन्ति ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc