उदानवर्ग · अध्याय 29
अवभासति.तावत्.स.कृमिर्.यावन्.न.उदयते.दिवा.करः ।
वैरोचने.तु.उद्गते.भृशम्.श्यावो.भवति.न.च.अवभासते ॥
एवम्.भाषितम्.आसि.तार्किकैर्.यावन्.न.उदयते.तथा.गतः ।[.आसि.]?
बुद्ध.प्रतिभासिते.तु.लोके.न.तार्किको.भासति.न.अस्य.श्रावकः ॥
असारे.सार.मतयः.सारे.च.असार.संज्ञिनः ।
ते.सारम्.न.अधिगच्छन्ति.मिथ्या.संकल्प.गोचराः ॥
सारम्.तु.सारतो.ज्ञात्वा.ह्य्.असारम्.च.अप्य्.असारतः ।
ते.सारम्.अधिगच्छन्ति.सम्यक्.संकल्प.गोचराः ॥
उप.अतिधावन्ति.हि.सार.बुद्ध्या.नवम्.नवम्.बन्धनम्.आददन्तः ।
पतन्ति.हि.द्योतम्.इव.अन्ध.काराद्.दृष्ट्ते.श्रुते.चैव.निविष्ट.चित्ताः ॥
काङ्क्षा.हि.या.स्याद्.इह.वा.पृथग्.वा.इह.वेदिका.वा.पर.वेदिका.वा ।
ताम्.ध्यायिनो.विप्रजहन्ति.सर्वा.ह्य्.आतापिनो.ब्रह्मचर्यम्.चरन्तः ॥
अनिष्कषायः.काषायम्.यो.वस्त्रम्.परिधास्यति ।
अपेत.दम.सौरत्यो.न.असौ.काषायम्.अर्हति ॥
यस्.तु.वान्त.कषायः.स्यात्.शीलेषु.सुसमाहितः ।
उपेत.दम.सौरत्यः.स.वै.काषायम्.अर्हति ॥
यस्य.दोषाः.समुच्छिन्नास्.ताल.मस्तकवद्.धताः ।[.हताः.]
स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥
न.नाम.रूप.मात्रेण.वर्ण.पुष्कलया.न.च ।
साधु.रूपो.नरो.भवति.मायावी.मत्सरी.शठः ॥
न.वर्ण.रूपेण.नरो.हि.सर्वो.विज्ञायते.नेत्वर.दर्शनेन ।?
सुसंवृतानाम्.इह.व्यञ्जनेन.त्व्.असंवृता.लोकम्.इमम्.चरन्ति ॥
प्रतिरूपकम्.धूपित.कर्णिका.वा.लोह.अर्ध.माष;इव.हिरण्यच्.छन्नः ।
चरन्ति.ह.एके.परिवारवन्तस्.त्व्.अन्तर्.ह्य्.अशुद्धा.बहि.शोभमानाः ।[.बहिः.शोभमानाः.]
मिद्धी.च.यो.भवति.महा.ग्रसश्.च.रात्रिम्.दिवम्.सम्परिवर्त.शायी ।
महा.वराहैव.निवाप.पुष्टः.पुनः.पुनर्.मन्दम्.उपैति.गर्भम् ॥
मनुजस्य.सदा.स्मृतीमतो.लब्ध्वा.भोजन.मात्र.जानतः ।[.स्मृतिमतो.]
तनुका.अस्य.भवन्ति.वेदनाः.शनकैर्.जीर्यति.आयुः.पालयम् ॥
शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् ।
भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इव.अबलम् ॥
शुभ.अनुपश्यी.विहरन्न्.इन्द्रियैर्.हि;असंवृतः ।
भोजने.च.अप्य्.अमात्रज्ञः.कुसीदो.हीन.वीर्यवान् ।
तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इव.अबलम् ॥
शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् ।
भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
तम्.वै.प्रसहते.द्वेषो.वातो.वृक्षम्.इव.अबलम् ॥
शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् ।
भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
तम्.वै.प्रसहते.मोहो.वातो.वृक्षम्.इव.अबलम् ॥
शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् ।
भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
तम्.वै.प्रसहते.मानो.वातो.वृक्षम्.इव.अबलम् ॥
शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् ।
भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
तम्.वै.प्रसहते.लोभो.वातो.वृक्षम्.इव.अबलम् ॥
शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् ।
भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
तम्.वै.प्रसहते.तृष्णा.वातो.वृक्षम्.इव.अबलम् ॥
अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.स्थिरम् ॥
अशुभ.अनुपश्यी.विरहन्न्.इन्द्रियैर्.हि.सुसंवृतः ।
भोजने.च.अपि.मात्रज्ञः.श्राद्ध;आरब्ध.वीर्यवान् ।
तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.पर्वतम् ॥
अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
तम्.न.प्रसहते.द्वेषो.वातः.शैलम्.इव.स्थिरम् ॥
अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
तम्.न.प्रसहते.मोहो.वातः.शैलम्.इव.स्थिरम् ॥
अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
तम्.न.प्रसहते.मानो.वातः.शैलम्.इव.स्थिरम् ॥
अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
तम्.न.प्रसहते.लोभो.वातः.शैलम्.इव.स्थिरम् ॥
अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
तम्.न.प्रसहते.तृष्णा.वातः.शैलम्.इव.स्थिरम् ॥
रमणीयान्य्.अरण्यानि.न.च.अत्र.रमते.जनः ।
वीत.रागा.अत्र.रंस्यन्ते.न.तु.काम.गवेषिणः ॥
ग्रामे.वा.यदि.वा.अरण्ये.निम्ने.वा.यदि.वा.स्थले ।
यत्र.अर्हन्तो.विहरन्ति.ते.देशा.रमणीयकाः ॥
दूरात्.सन्तः.प्रकाश्यन्ते.हिमवान्.इव.पर्वतः ।
असन्तो.न.प्रकाश्यन्ते.रात्रि.क्षिप्ताः.शरा.यथा ॥
सद्भिर्.एव.सह.आसीत.पण्डितैर्.अर्थ.चिन्तकैः ।
अर्थम्.महान्तम्.गम्भीरम्.प्रज्ञया.प्रतिविध्यते ॥
अहम्.नाग;इव.संग्रामे.चापाद्.उत्पतितान्.शरान् ।
अतिवाक्यम्.तितीक्षामि.दुह्शीलो.हि.महा.जनः ॥[.तितिक्षामि.]
भवे.च.अहम्.भयम्.दृष्ट्वा.भूयश्.च.विभवम्.भवे ।
तस्माद्.भवम्.न.अभिनन्दे.नन्दी.च.विभवेन.मे ॥
अश्राद्धश्.च.अकृतज्ञश्.च.संधिच्.छेत्ता.च.यो.नरः ।[.अश्रद्धश्.च.]
हत.अवकाशो.वान्त.आशः.स.वै.तु.उत्तम.पूरुषः ॥
मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ ।
राष्ट्रम्.सानुचरम्.हत्वा.अनिघो.याति.ब्राह्मणः ॥
येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः ।
शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः ।
शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः ।
शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः ।
शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.न.आश्रिताः ।

अल्पकास्.ते.मौष्येषु.ये.जनाः.पारगामिनः ।
अथ.इयम्.इतराः.प्रजास्.तीरम्.एव.अनुधावति ॥
ये.तर्हि.सम्यग्.आख्याते.धर्मे.धर्म.अनुदर्शिनः ।
ते.जनाः.पारम्.एष्यन्ति.मृत्यु.धेयस्य.सर्वशः ॥
गत.अध्वानो.विशोकस्य.विप्रमुक्तस्य.तायिनः ।
सर्व.ग्रन्थ.प्रहीणस्य.परिदाघो.न.विद्यते ॥
उत्तीर्णः.सभयो.मार्गः.पातालः.परिवर्जितः ।
मुक्तो.योगैस्.तथा.ग्रन्थैः.सर्वम्.राग.विषम्.हतम् ॥
न.अस्ति.काम.समो.ह्य्.ओघो.न.अस्ति.दोष.समो.ग्रहः ।
न.अस्ति.मोह.समम्.जालम्.न.अस्ति.तृष्टा.समा.नदी ॥
आकाशे.तु.पदम्.न.अस्ति.श्रमणो.न.अस्ति.बाह्यकः ।
प्रपञ्च.अभिरता.बाला.निष्प्रपञ्चास्.तथागताः ॥
योगैः.समुह्यते.बालो.योगान्.नुदति.पण्डितः ।
योगान्.प्रणुद्य.मेधावी.ये.दिव्या.ये.च.मानुषाः ॥
योगाद्.भवः.प्रभवति.वियोगाद्.भव.संक्षयः ।
एतद्.द्वैधा.पथम्.ज्ञात्वा.भवाय.विभवाय.च ।
तत्र.शिक्षेत.मेधावी.यत्र.योगान्.अतिक्रमेत् ॥
अकृतम्.कुकृतात्.श्रेयः.पश्चात्.तपति.दुष्कृतम् ।
शोचते.दुष्कृतम्.कृत्वा.शोचते.दुर्गतिम्.गतः ॥
कृतम्.तु.सुकृतम्.श्रेयो.यत्.कृत्वा.न.अनुतप्यते ।
नन्दते.सुकृतम्.कृत्वा.नन्दते.सुगतिम्.गतः ॥
न.अभाषमाना.ज्ञायन्ते.मिश्रा.बालैर्.हि.पण्डिताः ।
ज्ञायन्ते.भाषमानास्.तु.देषयन्तो.अरजः.पदम् ॥
भाषयेद्.द्योतयेद्.धर्मम्.उच्छ्रयेद्.ऋषिणाम्.ध्वजम् ।
सुभाषित.ध्वजा.नित्यम्.ऋषयोर्.धर्म.गौरवाः ॥
निन्दन्ति.तुष्णिम्.आसीनम्.निन्दन्ति.बहु.भाषिणम् ।[.तूष्णीम्.आसीनम्.]
अल्प.भाणिम्.च.निन्दन्ति.न.अस्ति.लोकेष्व्.अनिन्दितः ॥
एकान्त.निन्दितः.पुरुषः.एकान्तम्.वा.प्रशंसितः ।
न.अभूद्.भविष्यति.च.नो.न.च.अप्य्.एतर्हि.विद्यते ॥
यम्.तु.विज्ञाः.प्रशंसन्ति.ह्य्.अनुयुज्य.शुभ.अशुभम् ।
प्रशंसा.सा.समाख्याता.न.त्व्.अज्ञैर्.यः.प्रशंसितः ॥
मेधाविनम्.वृत्त.युक्तम्.प्राज्ञम्.शीलेषु.संवृतम् ।
निष्कम्.जाम्बुनदस्य.एव.कस्.तम्.निन्दितुम्.अर्हति ॥
शैलो.यथा.अप्य्.एक.घनो.वायुना.न.प्रकम्प्यते ।
एवम्.निन्दा.प्रशंसाभिर्.न.कम्प्यन्ते.हि.पण्डिताः ॥
यस्य.मूले.त्वचा.न.अस्ति.पर्णा.न.अस्ति.तथा.लताः ।
तम्.धीरम्.बन्धनान्.मुक्तम्.कस्.तम्.निन्दितुम्.अर्हति ॥
यस्य.ह.प्रपञ्चितम्.हि.नो.सत्.संतानम्.परिखम्.च.यो.निवृत्तः ।
तृष्णा.विगतम्.मुनिम्.चरन्तम्.न.विजानाति.सदेवको.अपि.लोकः ॥
यस्य.जितम्.न.उपजीयते.जितम्.अन्वेति.न.कंचिद्.एव.लोके ।
तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥
यस्य.जालिनी.विषक्तिका.तृष्णा.न.अस्ति.हि.लोक.नायिनी ।
तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥
यस्य.मूलम्.क्षितौ.न.अस्ति.पर्णा.न.अस्ति.तथा.लताः ।
तम्.धीरम्.बन्धनान्.मुक्तम्.को.नु.निन्दितुम्.अर्हति ॥
यस्य.जालिनी.विषक्तिका.तृष्णा.न.अस्ति.हि.लोक.नायिनी ।
तम्.बुद्धम्.अनन्त.विक्रमम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥
यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् ।
स.हि.सङ्गम्.अतीत्य.सर्व.संज्ञाम्.योग.अपेतम्.अतीर्ण.सङ्गम्.एति ॥
मुञ्च.पुरतो.मुञ्च.पश्चतो.मध्ये.मुञ्च.भवस्य.पारगः.[.पश्चातो.]
सर्वत्र.विंकुत.मानसो.न.पुनर्.जाति.जराम्.उपेष्यसि ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0