भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p94352-p105252

p94352

द्.8 तद् एवं वृत्तिविकल्पादिदूषणं सामान्यादौ न सम्भवति यथैकं रूपम् अनेककार्योत्पादकत्वेन साधारणं, तथैकं सामान्यम् अनेकाधारसाधारणम् । अथैकं रूपं नानेकं कार्यं जनयत्य्, अपि त्व् एकम् एव, तत्रापि किं रूपम् एव केवलम् उत्पादयत्य् उत ज्ञानम् एव? तद् यदि रूपम् एव केवलम् उत्पादयति, तदा रूपस्याग्रहणं प्राप्नोति विज्ञानाजननात् । अथ ज्ञानम् एव केवलम् उत्पादयति, तथापि मानसं प्रत्यक्षं न प्राप्नोति । स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन यज् जन्यते, तन् मानसं प्रत्यक्षम् । न च स्वविषयानन्तरभावी विषयोऽस्ति रूपान्तराजननात्6टस्माद् एकम् एव रूपं विज्ञाननीलादिकार्यसाधारणं प्रतिपत्तव्यम् । चक्षूरूपालोकादीनि कारणानि विज्ञानम् उत्पादयन्ति, तानि किम् एकस्वभावयुक्तान्य् आहो नियतस्वभावयुक्तानि?
तद् यद्य् एकस्वभावतयोत्पादयन्ति, तदा कारकैकत्वं प्राप्नोत्य् अभिन्नस्वभावयोगित्वात् ।

p95216

अथ नियतस्वभावयुक्तानि ज्ञानरूपं कार्यं जनयन्ति, तदा विज्ञानस्याभेदरूपता निवर्तते नियतस्वभावकारकजन्यत्वाद् रूपशब्दादिवत् । अथ विविधाद् अपि कारणाद् अखण्डितरूपं कार्यं भवति । एवं च कार्यभेदाद् भिन्नकारणानुमानं निवर्तते । एकस्वभावाद् अपि विज्ञानाद् अनेकं नयनालोकादिकार्यम् उत्पद्यते । अनेकस्माद् अप्य् एकं भवति । एवं च सति नियतकार्यदर्शने नियतकारणानुमानं निवर्तते । अथैकस्माद् एव कारणाद् एकं कार्यं भवति न बहूनां सङ्कलितानाम् एकफलोत्पादकत्वम् । ततश् च नियतकार्यदर्शने नियतकारणानुमानं केन निवार्यते? तद् एतद् असमीचीनम् । यद्य् एकं कारणम् एकं कार्यं जनयति तदाभ्युपगमविरोधश् चतुर्भ्यश् चित्तचैत्ता भवन्ति बोधाद् बोधरूपता विषयाद् विषयाकारतेत्यादि । एकम् एव जनयति, किं समानजातीयत्वेनाहो
तदाकारत्वेन किं वा पूर्वापरकालभावित्वेन? तद् यदि
समानजातीयत्वेन जनकत्वं, तदा समानजातीयं पश्चाद् उत्पन्नम् अपि जनयेत् । अथ तदाकारानुकारित्वेन जनकं, तत्राप्य् एतद् एव दूषणम् । अथ पूर्वापरकालभावित्वेन जनकं, न तर्हीदं वक्तव्यम् एकम् एव जनकं चक्षूरूपालोकमनस्काराणां पूर्वकालभावित्वाविशेषात् । एवं चानेकोपादानोत्पाद्यत्वेनाकारकदम्बकस्वरूपं विज्ञानं प्रसक्तम् । रूपाद्याकारपरिहारे वा विज्ञानाकारस्याप्य् अनुपपत्तिः । तदनुपपत्तौ नैरात्म्यप्रसङ्गः । किं च ज्ञानं कार्यैकस्वभावं कारणैकस्वभावम् उभयस्वभावं वा । तद् यदि कारणैकस्वभावं, तदा कार्यरूपता न सम्भवति । तदभावे न वस्तुत्वं संस्कृतानां वस्तुत्वाभ्युपगमात् । नापि कारणरूपतोपपद्यते ऽनाधीयमानातिशयत्वेन जनकत्वायोगात् । अथकार्यैकस्वभावं, तथापि न सदात्मकम्
अर्थक्रियाकरणे वस्तुत्वविरहात् । अथोभयात्मकम् । एकम् अनेकात्मकं भवति । केन
त्वं विप्रलम्भितः? न ह्य् एकस्यानेकनामकरणे नानातोपपद्यते । न चानेकनामकरणम् उपपद्यते निमित्तस्याविचित्रत्वात् । एवं विज्ञानस्यासम्भवे सति सन्तानानुपपत्तिर् अभ्रान्तभ्रान्तद्वैतस्यानुपपत्तिश् च ।

p97099

ए.1 इतो ऽपि सन्तानस्यासिद्धिर् विज्ञानस्यैकत्वात् । तदेकत्वं चाकारान्तरस्यानुपपत्तेः । उपपत्तौ वा ज्ञानाकारविरहप्रसङ्गः । तत्प्रसक्तौ च सन्तानानुपपत्तिः ।

p97295

ए.2 इतो ऽपि विज्ञानसन्तानानुपपत्तिर् विज्ञानम् असद्धर्मात् सदात्मतया निवर्तते, स्वरूपान्तरात् तु कथं व्यावर्तते? किं सदात्मतयाहाकारान्तरेण? तद् यदि सदात्मतया व्यावर्तते, तदा रूपादेर् असदाकारता प्राप्नोति वाजिविषाणयोर् इव । अथाकारान्तरेण निवर्तते, तदा ज्ञानस्यासत्स्वभावता प्राप्नोति तुरगविषाणवद् इत्य् अथ विज्ञानाकारतया निवर्तते रूपादिभ्यो विज्ञानं, सा विज्ञानाकारता सत्स्वभावासत्स्वभावा वा तद् यदि सत्स्वभावा, तदा ज्ञानाकारतया निवर्ततेति किम् उक्तं भवति? सदात्मतया निवर्तते विज्ञानसदाकारयोर् अव्यतिरेकात् । ततश् च रूपादेर् असदाकारता प्राप्नोति तुरगविषाणवद् इति पूर्वोदितम् एव दूषणम् आपद्यते । अथासत्स्वभावा, तदा खरविषाणवद् विज्ञानरूपतां परित्यजति । त्यागे विज्ञानसन्तानानुपपत्तिः । तदनुपपत्तौ चैत्यवन्दनादिक्रियानर्थक्यम् ।

p98107

ए.3 इतो ऽपि विज्ञानसन्तानानुपपत्तिस् तदुत्पादकविज्ञानस्य पूर्वापरसहोत्पन्नविज्ञानं प्रति स्वरूपाविशेषात् । यद् एव पूर्वसहोत्पन्नविज्ञानापेक्षया स्वरूपं तद् एवापरविज्ञानापेक्षयापि स्वरूपं विज्ञानस्य निरवयवत्वेन । ततश् च यथा पूर्वसहोत्पन्नविज्ञानस्य हेतुर् न भवत्य्, एवम् अपरविज्ञानस्यापि हेतुर् न भवति तत्स्वरूपव्यतिरिक्तव्यापारातिशयस्यानुपलब्धेः । अथ पूर्वकालभावैवातिशयस् तेन तस्य हेतुत्वम् उपपाद्यते । यद्य् एवं यथा देवदत्तज्ञानपूर्वकालभावि देवदत्तज्ञानं देवदत्तज्ञानकारणं, तथा सर्वपुरुषज्ञानानां देवदत्तज्ञानपूर्वकालोत्पन्नानां देवदत्तज्ञानं प्रति हेतुत्वं प्रसक्तम् । तत्प्रसक्तावनेकद्वीपदेशान्तरितपुरुषानुभूतार्थानुस्मरणं स्यात् । तथा स्वजनभुजङ्गमादाव् अननुभूते ऽप्य् अर्थे ऽनुस्मरणं स्यात् । तथा
तथागतावदातज्ञानजन्यत्वे देवदत्तादिज्ञानानाम् अवदातता स्यात् ।
ततश् च सर्वे सर्वज्ञाः स्युः । अथ नैवावदातता देवदत्तादिज्ञानानां तथागतावदातज्ञानोपादानजन्यत्वे ऽपि देवदत्तादिज्ञानेनापि जनितत्वात्, तज्जन्यत्वेनैवतथागतज्ञानस्याप्य् अवदातरूपता न प्राप्नोति । ततश् चासाव् अप्य् अवीतरागः स्याद् असर्वज्ञश् च ।

p99223

ए.4 इतश् च सन्तानानुपपत्तिर् विज्ञानयोः सहोत्पादे हेतुफलभावानुपपत्तेः । यदैव कारणज्ञानं विनश्यति, तदैव कार्यज्ञानं जायतेति वः सिद्धान्तः । कारणज्ञानस्य च विनाशस् तदुत्पादैव । ततश् च कारणज्ञानविनाशकाले कार्यज्ञानं भवति किम् उक्तं भवति? कारणज्ञानोत्पादकालैव भवति । ततश् च सहोत्पन्नयोर् हेतुफलभावानुपपत्तिर् एककालोद्गतयोर् गोविषाणयोर् इव । कारणज्ञानस्य चानुत्पन्नस्योत्पत्तिवद् अनुत्पन्नस्य विनाशप्रसङ्गः । ततश् च क्षणम् अपि नोपलभ्येत । उपलब्धौ वा सततोपलम्भप्रसङ्गस् तदात्मभूतविनाशस्योपलम्भविघाताकर्तृत्वात् । विघातकर्तृत्वे वैकक्षणोपलम्भस्याप्य् अनुपपत्तिप्रसङ्गः । अथैकक्षणोपलभ्यस्वभावकं सञ्जातं तेन न सततोपलब्धिर् अनुपलब्धिर् वा । यद्य् एवं द्वादशाष्टक्षणोपलभ्यस्वभावकं
सञ्जातं किं न कल्प्यते? किं चोत्पादविनाशयोर् अभेदे सति कार्यकारणयोः समं विनाशः
स्यात् ।

p100113

ए.5 यद् अप्य् अन्यद् उक्तं मातुर् उदरनिष्क्रमणानन्तरं यद् आद्यं ज्ञानं तज् ज्ञानान्तरपूर्वकं ज्ञानत्वाद् द्वितीयज्ञानवत् । नासिद्धत्वाद् दृष्टान्तस्य । द्वितीयादिज्ञानस्यापि यथा ज्ञानपूर्वकत्वं नावगाहयितुं पार्यते, तथा प्राग् एवावेदितम् । किं च यदि ज्ञानत्वाज् ज्ञानपूर्वकत्वानुमानं, न किलावबोधात्मककारणम् अन्तरेण बोधात्मकं कार्यम् उपपद्यते । एतच् चावद्यम् । अबोधात्मकाद् अपि नीलालोकलोचनादिकारणाद् उपजायते । तथा गर्भादौ यद् आद्यं विज्ञानं, तद् भूतसङ्घाताद् एव भविष्यति, न ज्ञानान्तरं परिकल्पनीयम् । यस्यानन्तरं यद् भवति, तत् तस्य कारणं, नापरिदृष्टसामर्थ्यम् । विज्ञानाभावे विज्ञानजन्याकारता निवृत्ता, न तु ज्ञानाकारता । यथेन्द्रियव्यापारम् अन्तरेणोपजायमाने मनोविज्ञानेन्द्रियजन्याकारता
निवर्तते, न तु ज्ञानाकारता । यदि च सदृशात् सदृशस्योत्पत्तिर् नियम्यते, तदा धूमेन
दहनानुमानं न प्राप्नोति, दहनस्य धूमसारूप्यम् अन्तरेणोपादानकारणत्वायोगात् । अथ रूपरूपता सारूप्यम् उभयोर् इति चेत्, तद् इहापि स्वलक्षणरूपता सारूप्यं भूतविज्ञानयोर्, अलं परलोकविज्ञानकल्पनया । अथ विज्ञानरूपता भूतानां न विद्यते तेन तेषाम् उपादानकारणत्वं नास्ति विज्ञानं प्रतीति चेद्, इहापि धूमरूपता नास्ति दहनस्य, नोपादानकारणत्वम् । तदभावे न दहनानुमानम् । तथानुभवज्ञानाद् अनुभवज्ञानस्यैव निष्पत्तिर् अभ्युपेयोपादानकारणानुकारित्वेन कार्यस्य निष्पत्त्यभ्युपगमात् । न चैकदेशानुकारित्वम् अस्ति तद्बीजस्याविचित्रत्वात् । अनुभवाकाराननुकार्.इत्वे च ज्ञानाकारताविरहः स्यात् । अनुकरोति च विज्ञानरूपतां तेन कथं नानुभवात्मकम्? तदुपपत्तौ च प्राप्तानुभवपरम्परेत्य् अलः स्मरणानुपपत्तिः । तदनुपपत्तौ
चानुमानज्ञानस्याप्य् अनुपपत्तिः । ततश् च सर्वव्यवहारविलोपप्रसङ्गः ।

p101781

(4.) एवं च न सन्तानसिद्धिर्, नापि सविकल्पकनिर्विकल्पकज्ञानद्वैराश्यम् अस्ति, नापि व्यभिचाराव्यभिचारद्वैविध्यम् उपपद्यते सौगते मते ।

p102015

5. तथा सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षं तद् अपि प्रत्युक्तम् । कथम्? एतत् सूत्रं कदाचिल् लक्षणपरं कदाचिच् च कारकसङ्ख्याप्रतिपादनपरं कदाचिच् चानुवादपरम् ।

p102241

5.1(1) तद् यदि लक्षणपरं, तदावबोधस्याव्यभिचारित्वं नावगन्तुं पार्यते नादुष्टकारणजन्यत्वेन नापि प्रवृत्तिसामर्थ्येन नापि बाधारहितत्वेन नान्यथा वा । सर्वं पूर्वोदितम् अनुस्मृत्य वक्तव्यम् ।

p102477

5.12 नापीन्द्रियार्थसम्प्रयोगजत्वं विज्ञानस्यावबोधस्य चार्वाग्भागविदावगम्यते तदतीन्द्रियत्वेन तदायत् ततानढिगतेः । नापीन्द्रियजन्यत्वम् अवगन्तुं पार्यतेन्द्रियाणाम् अतीन्द्रियत्वाद् एव । अथावबोधान्यथानुपपत्त्या सन्निकर्षपरिकल्पना क्रियते । अवबोधस्यान्यथानुपपत्तिर् न भवति । कानुमा?

p102809

5.2 अथ कारकसङ्ख्यार्थं, किं तेन परिसङ्ख्यानेन प्रयोजनम्? आलोकादीनाम् अपि कारकत्वात् तान्य् अपि परिसङ्ख्येयानि भवन्ति ।

p102967

5.3 अथानुवादपरता, प्रसिद्धस्यानुवादो नाप्रसिद्धस्य । न चाध्यक्षं क्वचिद् विदितम् । ननु लके विदितम् । न विदितम् इति ब्रूमो ऽव्यभिचारितयानवगतेः । नापि सत्सम्प्रयोगजत्वं विदितम् । ततश् च प्रत्यक्षानधिगतिः । तदनवगतौ चानुवादानुपपत्तिः ।

p103255

5.3एतो ऽप्य् अनुवादानुपपत्तिः प्रयोजनाभावात् । न हि प्रयोजनं विनानुवादः प्रवर्तत, ऽनूद्य क्वचित् किञ्चिद् विधीयते प्रतिषिध्यते वा । नन्व् अत्रापि धर्मं प्रति निमित्तत्वं प्रतिषिध्यते । तद् उक्तं धर्मं प्रत्य् अनिमित्तं प्रत्यक्षं विद्यमानोपलम्भनत्वात् सम्प्रयोगजत्वाच् च ।

p103570

तत्र किम् अन्यपदार्थावभासोत्पन्नं प्रत्यक्षं धर्मं प्रति निमित्तत्वेन प्रतिषिध्यते किं वा धर्मावभासोत्पन्नम् अनुत्पन्नं वा? तद् यद्य् अन्यपदार्थावभासोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते, तदाविप्रतिपत्त्या सम्बोधयितव्या जडमतयः ।

p103842

अथ धर्मावबोधकोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते, तदा विरोधेन प्रत्यवस्थेयो भवति । धर्मावबोधकोत्पन्नं प्रत्यक्षं न च धर्मनिमित्तम् इति व्याहतम् अपदिश्यते । अन्यथा चदनावचनजनितविज्ञानस्यापि धर्मावबोधकत्वेनत्पन्नस्यातन्निमित्तत्वं स्यात् । अथानुत्पन्नस्य धर्मावबोधकत्वं नास्ति, केनात्र प्रतिपद्यते यन् नोत्पन्नं तद् धर्मावबोधकम् ? नापि कमलदलावबोधकं स्वयम् असत्त्वात् ।

p104282

यद् अप्य् उक्तं सत्सम्प्रयोगजत्वाद् इति, तद् अप्य् अयुक्तम् । सत्सम्प्रयोगजत्वं यथा न भवति तथा प्राग् एवोक्तम् ।

p104427

5.3ब् यद् अप्य् अन्यद् उक्तं विद्यमानोपलम्भनत्वात् किल प्रत्यक्षं विज्ञानं विद्यमानम् अवबोधयति । यद्य् एवं न केवलं प्रत्यक्षम्, अपि तु सर्वप्रमाणोत्पादितं विज्ञानं विद्यमानावबोधकम् ।
अथ चदनाजनितं विज्ञानम् अविद्यमानकर्तव्यार्थावबोधकम् ।

p104713

यद्य् अविद्यमानं, कथम् अवबोध्यते? अथावबोध्यते, कथम् अविद्यमानता? अवबोध्यमानत्वेनैव विद्यमानता प्रत्यक्षप्रमाणावबोधितार्थवद् इति नाप्य् अवबोधनम् अवबोध्यम् अन्तरेणोपजायते प्रत्यक्षावबोधनवत् । अपि च चोदनावचनजनितविज्ञानस्य मिथ्यात्वम् उपपद्यते ऽविद्यमानविषयत्वात् केशोण्डुकज्ञानवत् । केशोण्डुकविज्ञानस्यापि प्रतीयमानोपकारकार्थाभावे मिथ्यात्वम् । तद् इहापि प्रतीयमानोपकारकार्थो नास्त्य् एव, कथं न मिथ्यात्वम्? तदन्वये वा कर्तव्यार्थविषयत्वं प्रतिहीयेत चोदनावचसः ।

p105252

किं च चोदनाजनितं विज्ञानं कर्तव्यतार्थविषयं वा तदभावविषयं निर्विषयं वा । तद् यदि कर्तव्यतार्थविषयं, तदा तस्य वर्तमानतैव प्रतीत्युत्कलितत्वाद् विद्यमानतोयादिवत् । तोयादेर् अप्रतीयमानत्वं स्वसत्ताधूमाद् अग्नौ सति जनकत्वादिना निमित्तेन । एतच् चेद् विद्यते, कथम् अविद्यमानता?

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc