भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p105585-p110709

p105585

अथ तदभावविषयं, तस्यापि स्वेन रूपेण विद्यमानत्वान् न कर्तव्यता ।

p105689

अथ निर्विषयं, न तर्हि चोदना कर्तव्यावबोधिका, अपि तु निर्विषयेत्य् एवं वक्तव्यम् । एवं स्थिते यथा प्रत्यक्षं विद्यमानोपलम्भकं तथान्यान्य् अपि प्रमाणानि ।

p105884

5.अ बुद्धिजन्म प्रत्यक्षं, न च बुद्ध्यवगमे प्रमाणम् अस्ति । प्रत्यक्षावसेया सा न भवति स्वयम् अनभ्युपगमात् । अनुमानगम्यापि न भवति तया प्रतिबद्धलिङ्गानवगतेः । अथार्थापत्त्या प्रतीयते, किं घटार्थान्यथानुपपत्त्याहो तदुपादानपरित्यागान्यथानुपपत्त्या घटावबोधान्यथानुपपत्त्या वा?

p106218

तद् यदि घटार्थान्यथानुपपत्त्या, तद् अयुक्तम् । न बुद्धिकार्यो घटो, ऽपि तु बुद्धिर् इह तत्कार्या ।

p106350

अथ घटोपादानपरित्यागान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते, तद् अयुक्तं, बुद्धिस्वरूपस्यानेककालान्तरावस्थानायोगाद् अर्थापत्तेर् निर्विषयत्वम् । केनापि बलवता प्रेरितो बुद्धिम् अन्तरेण वा तदुपप्लवाद् वा घटोपादानपरित्यागाय घटते तेन सन्दिग्धार्थापत्तिः । न च सम्बन्धग्रहणम् अन्तरेण नियतायां बुद्धौ प्रतिपत्तिर् उपपद्यते । अर्थापत्तितस् तु तदनुपपत्ताव् इन्द्रियकल्पनापि दुर्घटा । अथावबोधान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते, तस्यापि बुद्ध्या सह सम्बन्धो नास्ति, कथम् अवबोधयति? अवबोधे चावगते प्रत्यक्षावगतैव बुद्धिर् नावबोधगम्या । अवबोधबुद्धिविज्ञानशब्दानां पर्यायत्वाद् अवबुध्यते ज्ञायतेत्य् एको ऽर्थः ।

p107041

6. तथा श्रोत्रादिवृत्तिर् अविकल्पिका, एतद् अपि प्रत्युक्तम् ।

p107129

6.1 श्रोत्रादिकरणानां शब्दादिविषयाकारतया विपरिणामो वृत्तिशब्देनाभिधीयते । सा चानेकप्रकारा भवति सम्यग्ज्ञानरूपा विपर्ययज्ञानसन्देहरूपा च । तद् उक्तं तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्रेत्यादि ।

p107372

6.11 तद् यदि श्रोत्रादिवृत्तेः प्रत्यक्षत्वं, तदा विपर्ययादिवृत्तेर् अपि प्रत्यक्षत्वं प्राप्नोति । अथाबाधितपदोपादानं क्रियते । तत् सूत्रे न श्रूयते । भवतु वा तस्य कल्पना, तथाप्य् अव्यभिचारित्वं ज्ञातुं न शक्यते । तच् च नैयायिकप्रत्यक्षलक्षणाधिकारे प्रपञ्चितम् । यदि चाव्यभिचारिपदेन विपर्ययरूपा वृत्तिर् अपोद्यते, तत् तदात्मतया व्यवस्थिता सम्यग्रूपापि वृत्तिर् अपोदिता भवति । ततश् च सङ्ग्राह्या न लभ्यते वृत्तिः ।

p107839

अथ सम्यग्रूपा वृत्तिर् इह सङ्ग्राह्या, तदापोह्या नलभ्यते वृत्तीनां स्वरूपैकताभ्युपगमात् । भेदाभ्युपगमे वाभ्युपेतहानम् । न हि भवतां पक्षेन्द्रियाद् भिद्यन्ते वृत्तयस्, तच् चेद् अभिन्नं, कथं वृत्तीनां भेदः? भेदाभ्युपगमेन्द्रियैकत्वं हीयते । इन्द्रियाव्यतिरेकित्वं वा न वक्तव्यम् ।

p108166

6.1एन्द्रियाव्यतिरेकित्वे ऽभ्युपगम्यमाने नीललोहितघटादीनां सर्वदोपलम्भः स्याद्, इन्द्रियावस्थाने तदव्यतिरिक्ताया वृत्तेर् अवस्थानसम्भवात् । तत्सम्भवे च घटाद्यनुपलम्भानुपपत्तिः । अथ वृत्तिसद्भावे ऽप्य् अनुपलब्धिर्, न कदाचिद् उपलब्धिः स्यात् । न हि भवतां पक्षे किञ्चिद् अपूर्वं जायते पूर्वं वा निरुध्यते । ततश् च सर्वस्यास्तित्वोपलब्ध्यनुपलब्धी किङ्कृते? सदोपलब्धिर् अनुपलब्धिर् वा । न ह्य् एवंवादिनो द्वितीया गतिर् अस्ति ।

p108643

6.1ब् किं च शब्दादयोपलभ्यन्ते किम् अनुपलभ्यस्वभावोपलभ्यन्ताहोस्विद् उपलभ्यस्वभावाह्?

p108770

तद् यद्य् अनुपलभ्यस्वभावोपलभ्यन्ते, तदोपलब्धिः कथम्?

p108864

यद्य् अनुपलभ्यस्वभावाः, कथम् उपतभ्येरन्? अन्यथात्मादेर् अप्य् उपलब्धिः स्यात् ।

p108978

अथोपलभ्यस्वभावोपलभ्यन्ते, ऽनुपलब्धिः कथम्? किं तेनैवाकारेणाहोस्विद् आकारान्तरेण?

p109101

यदि तेनैवाकारेणानुपलब्धिर्, आत्मादेर् अप्य् अनुपलब्धिर् न प्राप्नोति । उपलब्धौ वा बीजान्तरं वचनीयम् ।

p109238

अथाकारान्तरेण नोपलभ्यन्ते, तथाप्य् उपलभ्यमानानुपलभ्यमानयोर् नैकत्वं शब्दात्माकारयोर् इव । न ह्य् उपलभ्यस्वभावाच् छब्दाद् अनुपतभ्यस्वभावात्माव्यतिरिक्तो दृष्तः । अथ तस्यैवाभिव्यक्तस्योपलब्धिः । तत्स्वरूपवद् अभिव्यक्तेः सर्वदावस्थानात् सततोपलब्धिप्रसङ्गः ।

p109552

अथ तिरोधाने सत्य् अनुपलब्धिस्, तदातत्स्वरूपतादात्म्यात् सततानुपतम्भप्रसङ्गः । उभयोर् वावस्थाने समम् उपलम्भानुपलम्भौ स्याताम् । ततश् चेदानीम् उपतभे पूर्वं नोपलभ इति व्यवहारविरहः स्यात् । तथा पूर्वम् उपलभेदानीं नोपलभेत्य् एतद् अपि न प्राप्नोति । अथावयवोपचये सत्य् उपलम्भः । तस्य सर्वदा भावात् सर्वदोपलम्भप्रसङ्गः । अथस्वलक्षणपुष्टौ सत्याम् उपलम्भः । तस्याः सर्वदा सत्त्वात् सततोपलम्भप्रसङ्गः । अथ संस्थानोत्कर्षे सत्य् उपलम्भः । तस्यापि सर्वदा विद्यमानत्वात् सततोपलब्धिः स्यात् ।

p110121

तस्माद् येन येन निमित्तेनोपलम्भपरिकल्पना, तस्य तस्य सर्वदा भावात् सततोपलम्भप्रसङ्गः । अथ देशकालकारकापबन्धाद् अनुपलम्भस्, तदा तस्यापबन्धस्य सर्वदा भावाद् अनुपलम्भानुपरमः स्यात् ।

p110359

6.2 तथेन्द्रियाणाम् अपि करणरूपता नोपलभ्यते फलवैकल्यात् । नन्व् अस्ति विज्ञानं फलम् । न तस्य सर्वदा विद्यमानत्वात् । सर्वदा विद्यमानयोर् हेतुफलभावो नोपपद्यते, यथा गुणानां परस्परम् आत्मभेदानां वा । न ह्य् आत्मात्मान्तरस्य हेतुर् भवति तत्फलं वा, तथेहाप्यनाद्यन्ता सत्ता न फलं हेतुर् वोच्यते ।

p110709

f . किं च भूजलाद्य् अनेकं कार्यं, तत् किं गुणत्रयाद् व्यतिरिक्तम् अव्यतिरिक्तं वा? तद् यदि व्यतिरिक्तं, तत् किं तात्त्विकम् अतात्त्विकं वा?

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc