भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p82268-p94290

p82268

4.25आपि च यथा रूपेणोपादानभूतेन जन्यते रूपं, तथा ज्ञानम् अप्य् उपादानभूतेनैव जन्यते । यैव तस्य रूपोत्पादनात्मा, सैव तस्य ज्ञानोत्पादने ऽपि । न हि तस्य ज्ञानोत्पादनात्मान्यत्वम् ।

p82495

अथ निमित्तभूतेन ज्ञानम् उत्पाद्यतोपादानभूतेन रूपम् इति चेत्, तत् कथम् एकस्यानेकाकारयोगितोपपद्यते? न च सञ्ज्ञान्यत्वे मेयाद्यन्यत्वम् उपपद्यते । रूपवद् विज्ञानस्यापि रूपरूपता प्राप्नोति । तत्प्राप्तौ च न परलोक्य् आत्मा । तदभावान् न परलोकः । इदम् एव चेतसि समारोप्याह भगवान् बृहस्पतिः परलोकिनो ऽभावात् परलोकाभावः ।

p82865

अथ रूपोपादानजन्यत्वे ऽपि ज्ञानरूपतैव, रूपस्यापि ज्ञानरूपता प्राप्ता रूपोपादानजन्यत्वाज् ज्ञानवत् । अथ ज्ञानं ज्ञानेनोपादानभूतेन जन्यते, रूपम् अपि तेनैव जन्यते । न हि तस्य रूपोत्पादनात्मान्यत्वम् । एवं च

p83113

तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः। तद् रूपादि किम् अज्ञानं विज्ञानाभिन्नहेतुजम्॥

p83229

अथ रूपोपादानजन्यत्वे ऽपि विज्ञानस्य न रूपात्मता, तथा ज्ञानोपादानजन्यत्वे ऽपि विज्ञानस्य न ज्ञानरूपताटतश् च नैरात्म्यप्रसङ्गः । अथ ज्ञानोपादानजन्यत्वे ज्ञानाकारपरिकल्पना, तथा रूपोपादानजन्यत्वे रूपाकारातालोकोपादानजन्यत्वे चालोकाकारता प्राप्नोति । ततश् चाकारकदम्बात्मकं ज्ञानं प्रसक्तम् । अनिष्टं चैतद् अद्वयरूपत्वेनाभ्युपगमात् ।

p83610

4.25ब् यत् तद् रूपोत्पाद्यं विज्ञानं, तत् किम् एकदेशेन रूपोत्पाद्यत्वेन स्थितं सर्वात्मना वोत्पाद्यत्वेन पर्यवसितम्? तद् यद्य् एकदेशेन स्थितं, तद् अयुक्तम्, अखण्डस्यैकदेशविरहात् । अथ सर्वात्मना रूपोत्पाद्यत्वेन पर्यवसितं, तदा विज्नानोत्पाद्यं न प्राप्नोति, यथैककारकसमूहोत्पाद्यत्वेन पर्यवसितस्य कार्यस्य सङ्घातान्तरोत्पाद्यत्वं न दृष्तम् । ततश् च विज्ञानसङ्घातानुपपत्तिः ।

p84032

4.25च् तथा रूपम् अपि ज्ञानम् एकदेशेन कुर्यात् सर्वात्मना करणपर्यवसितं वा । तद् यद्य् एकदेशेन करोति, तद् अयुक्तम्, अखण्डस्यैकदेशायोगात् ।

p84207

अथ सर्वात्मना करोति, तदा रूपं सर्वात्मना विज्ञानकरणे पर्यवसितं न रूपान्तरकरणे प्रवर्तते । यथैककारकसामग्र्य् एककार्योत्पादनपर्यवसिता कार्यान्तरसवित्री न भवति, तथा रूपम् अपि रूपान्तरोत्पादकं न भवति । ततश् च रूपान्तरस्याकस्मिकत्वम् । तदाकस्मिकत्वे कार्यानुमानं विलुप्यते सौगतानाम् । अथानेककार्योत्पादकत्वेन पर्यवसितं रूपस्वरूपं, तदा घटसङ्ख्यासामान्यादेर् अप्य् अनेकाधिकरणाश्रितात्मकं रूपं, वृत्तिविकल्पदोषानुपपत्तिः ।

p84700

द्.1 इतो ऽपि वृत्तिविकल्पदोषानुपपत्तिर् वृत्तिविकल्पदोषेण वृत्तेर् एव निराकरणं कृतं, न घटसङ्ख्यासामान्यादेस्, ततो ऽन्यत्वात् । न ह्य् अन्यस्याभावे ऽन्यस्याभावो ऽस्त्य् असम्बन्धात् । न ह्य् अनुदकः कमण्डलुर् इत्य् उक्ते कमण्डलोर् अभावः प्रतीयते, कपालानां तदुदकस्य वा, अपि तु कमण्डलुना साकम् उदकस्य विश्लेषमात्रं प्रतीयते । ननु नैयायिकैर् वृत्तिमद् घटसामान्यम् अभ्युपेयते । तदभावे कथं तस्य संस्थितिः? यद्य् एवं रूपरसविज्ञानानाम् अपि वृत्तिर् अभ्युपेयते नैयायिकैस्, तदभावे ऽपि सद्भावो ऽभ्युपगम्यते तेषां भवद्भिः । अथ तानि प्रतिभान्ति वृत्त्यभावे ऽपि, तेन तेषाम् अभ्युपगमः क्रियते । यद्य् एवं घटसङ्ख्यासामान्यादेर् अपि स्वरूपं प्रतिभात्य् अभिन्नानुगतात्मतया । न चानुभूयमानस्य निह्नवो युक्तः सर्वापलापप्रसङ्गात्
। अनुपलब्धौ वा सैव समर्था, अतं वृत्तिविकल्पदोषेण । यद्य् उपलभ्यते, तदा वृत्तिविकल्पदोषो न वक्तव्यः । अथ
नोपलभ्यते, तथापि न वक्तव्यः ।

p85642

द्.2 यद् अप्य् उक्तं देशभेदेनाग्रहणाद् घटसामान्यानुपपत्तिस् तद् अप्य् अयुक्तम् । न देशभेदेन वस्तूनां भेदो, ऽपि त्व् आकारभेदेनाभिन्नानुगतात्मतया तयोः स्वरूपम् अनुभूयते । न देशभेदाग्रहणेन स्वावयवाधिकरणेन सह तयोस् तादात्म्यं सिध्यत्य् असत्त्वं वा । यद्य् आकारभेदेन ग्रहणं, तदा देशभेदेनाग्रहणस्याप्रयोजकत्वम्, आकारभेदग्रहणेन स्वरूपान्यत्वस्य प्रबोधितत्वात् । अथाकारान्यत्वेन नावबोधो ऽस्ति, सैवास्त्व् असद्व्यवहारसमर्थत्वात् । किं देशभेदाग्रहणेन? स्वहेतोर् एव नियतदेशकालनियमितस्योत्पत्तेर् न देशान्तरादौ ग्रहणम् । अन्यथा रूपादेर् असत्त्वं स्याद् इतरेतरदेशलग्नस्याग्रहणात् ।

p86291

द्.3 यद् अप्य् उक्तं नास्ति घटसामान्यं तदग्रहे ऽग्रहात् । किम् अनेन क्रियते? किम् अवयवाधिकरणाव्यतिरेकप्रतिपादनम् आहो ऽसत्त्वप्रतिपादनम्? तद् यद्य् अव्यतिरेकप्रतिपादनं क्रियते, कस्यात्र पक्षीकरणम्? किं घटसामान्यस्याहो तदवयवाधिकरणस्य? तद् यदि घटसामान्यस्य पक्षीकरणं, तत् किम् अवगतस्यानवगतस्य वा? तद् यद्य् अनवगतस्य, तद् अयुक्तम् । न ह्य् अनवगते धर्मिणि हेतोर् उत्थानम् अस्ति । न चाश्रयवैकल्ये गमकत्वम् । अथावगतस्य, तदा तेनैव भिन्नाकारावगमेनाव्यतिरेकप्रत्यायकसाधनं बाध्यते । अथ तदवयवाधिकरणस्य पक्षीकरणं, तत्रापि किं स्वस्मात् स्वरूपाद् अव्यतिरेकः साध्यताहो परस्माद् इति?

p86957

यदि स्वस्मात् स्वरूपाद् अव्यतिरेकः साध्यते, सिद्धसाध्यतया सम्बोधयितव्याः । अथ परस्माद् अव्यतिरेकः साध्यते, स परात्मा प्रतिपन्नो ऽप्रतिपन्नो वा? यदि प्रतिपन्नः, स किं भिन्नाकारतयावगतो ऽभिन्नाकारतया वा?

p87206

तद् यदि भिन्नाकारतयोपलब्धस्, तदानेनैव भिन्नाकारावगमेनाभेदप्रत्यायकं साधनं बाध्यते । अथाभिन्नाकारतयावगतो, न तर्हि परात्मा । इदानीं स्वस्मात् स्वरूपाद् अव्यतिरेकः साध्यतेति सिद्धसाध्यतया सम्बोधयितव्याः । अथानवगतो, न तर्ह्य् एकत्वं रथतुरगविषाणयोर् इव । अथाभावः साध्यस्, तत्रापि कस्य पक्षीकरणम्? किं घटसामान्यस्याहो तद् अवयवाधिकरणस्य? तद् यदि घटसामान्यस्य पक्षीकरणं, तत् किम् अवगतस्यानवगतस्य वा? यद्य् अवगतस्य, तदा तेनैव सद्भावावगमेनाभावहेतोर् बाध्यमानत्वाद् अगमकत्वम् । अथ नावगतं, कथं तस्य पक्षीकरणं स्वयम् अनवगतस्य पक्षीकरणायोगात्? अथावयवाधिकरणस्य पक्षीकरणं घटसामान्यं नास्तीति प्रतिज्ञा तदग्रहे ऽग्रहाद् इत्य् अस्य हेतोस् तदभावेन सह सम्बन्धो नास्ति ।
तादात्म्यतदुत्पत्तिसम्बन्धाभावे सति कथं गमकत्वम्? तदग्रहे ऽग्रहाद् इत्य् अस्य को ऽर्थः? किम्
अवयवाधिकरणग्रहणम् एव घटसामान्यस्य ग्रहणम् आहो ऽवयवाधिकरणग्रहणानन्तरं घटसामान्यस्य ग्रहणं किं वा घटसामान्यस्याग्रहणम् एव विवक्षितम्? तद् यद्य् अवयवाधिकरणग्रहणम् एव घटसामान्यस्य ग्रहणं विवक्षितं, तदा नानेनाव्यतिरेको ऽन्यतरासत्त्वं वा प्रतिपाद्यते । यथा नीलतद्धियोर् एकोपलम्भे ऽपि नान्यतराभावो ऽव्यतिरेको वा, तथा नीललोहितयोर् एकोपलम्भे ऽपि नान्यतराभावो ऽव्यतिरेको वा । अथावयवाधिकरणग्रहणानन्तरं घटसामान्यग्रहणं विवक्षितं, तदा नानेनाव्यतिरेकः साध्यते ऽन्यतरासत्त्वं वा । यथा रूपग्रहणानन्तरं रससंवेदनं न तयोर् एकतां गमयत्य् ऽन्यतरासत्त्वं वा । अथाग्रहणम् एव विवक्षितं घटसामान्यस्य, तदा तदग्रहे ऽग्रहाद् इत्य् एतन् न वक्तव्यम् । अग्रहाद् इत्य् एतावद् अस्तु । न
ह्य् अन्यस्याग्रहे तदनुपलम्भसिद्धिस् तत्स्वभावविनिवृत्तिनिबन्धनत्वात् तदनुपलम्भस्य । न चायं
व्यतिरेकार्थो लभ्यते तदग्रहे ऽग्रहाद् इत्य् अस्य हेतोर् घटसामान्यस्याग्रहणम् एव, अपि त्व् अवयवाधिकरणग्रहणानन्तरं घटसामान्यस्य ग्रहणं लभ्यते । ततश् च विपरीतसाधनाद् विरुद्धो भवति ।

p89151

द्.4 यद् अप्य् अभ्यधाय्य् एकपिण्डग्रहणकालोपलब्धिलक्षणप्राप्तस्यानुपलब्धेर् नास्ति सामान्यम् । कैवम् आह नोपलब्धं सामान्यम्? अपि तूपलब्धम् एव । कथम् ज्ञायते? द्वितीयादिपिण्डदर्शने सति पूर्वे पिण्डे स्मृतिदर्शनाद्, अनेन सदृशो ऽसाव् एवम् अनुस्मरति । अथवैकपिण्डग्रहणकाले तद् उपलब्धिलक्षणप्राप्तं न भवति तेन नोपलभ्यते । उपलब्धिलक्षणप्राप्तिर् इहानेकसहकारिपिण्डोपनिपातः । यदि चोपलब्धिलक्षणप्राप्तं, कथं नोपलभ्यते? अथ नोपलभ्यते, न तर्ह्य्.उपलब्धिलक्षणप्राप्तम् । उपलब्धिलक्षणप्राप्तिर् इह प्रत्ययान्तरसाकल्यं स्वभावविशेषश् च । एतच् चेद् विद्यते कथम् अनुपलब्धिः? एवम्भूतस्याप्य् अनुपलम्भे परिकल्प्यमाने सर्ववस्तूनाम् अनुपलम्भप्रसङ्गः । उपलब्धौ वान्यत् कारणम् अन्वेष्टव्यम् । अथ प्रत्ययान्तरसाकल्यमात्रं
विवक्षितं, न तत्स्वभावविशेषः । यद्य् एवम् अदृश्यस्यैवानुपलब्धिर्, न दृश्यानुपलब्धिर् अस्ति । यदि
चान्यकारकसाकल्यम् उपलब्धिलक्षणप्राप्तिर् अभिधीयते, तदाप्य् उपलब्ध्या भवितव्यं नानुपलब्ध्या । इतरकारकसाकल्यं ह्य् उपलम्भजननसामर्थ्यम् । तच् चेद् विद्यते, कथम् अनुपलब्धिः? तस्माद् अनुपलब्धिलक्षणप्राप्तस्यैवानुपलब्धिर्, नोपलब्धिलक्षणप्राप्तस्य ।

p90322

द्.5 यद् अप्य् उवाच क्षीरोदकवद् विवेकेनाग्रहणान् नास्ति सामान्यं तद् अप्य् अयुक्तम् । विवेको ह्य् आकारान्यत्वं व्यक्तीनाम् अननुगमरूपता, सामान्यं त्व् अनुगताकारम् अनयोः सारूप्यं तैः सह सारूप्यम् अस् येति विविक्ताकारावगमदर्शनात् । तथा क्षीरोदकयोर् अपि विविक्तम् एव ग्रहणम् । तत्र क्षीरोदकयोर् एकभाजननिक्षेपे सति, किं केवलं क्षीरं प्रतिभात्य् आहोदकम् उभयं वा? तद् यदि क्षीरम् एव प्रतिभाति, कथं तद् उदकाकारान् न विविक्तं भवति? अथोदकं केवलं प्रतिभाति, तद् अपि कथं क्षीरान् न विविक्तं भवति? अथोभयं प्रतिभाति, तदोभयोर् इतरेतराकारविविक्तयोर् ग्रहणं तादात्म्यव्यतिरेकात् ।

p90962

द्.6 यद् अप्य् अन्यद् उक्तम् एकत्र दृष्टो भेदो हि क्वचिन् नान्यत्र दृश्यते। न तस्माद् भिन्नम् अस्त्य् अन्यत् सामान्यं बुद्ध्यभेदतः॥ इत्य् एतद् अप्य् अयुक्तम् । एकत्र दृष्टस्य भेदस्यान्यत्र दर्शनम् अस्त्य् एव । यथा घटवस्त्रादेर् एकावयवोपरिदृष्टस्यावयवान्तरलग्नस्योपलम्भस्, तथा सामान्यम् अपि भिन्नम् अस्त्य् अनुगताकारस्य बुद्धिभेदेनाध्यवसीयमानत्वात् ।

p91345

द्.7 यद् अप्य् अन्यद् उक्तं नित्यस्य क्रमेतराभ्याम् अर्थक्रियाकरणसामर्थ्यं नास्तीत्य् असत् सामान्यं, तद् एतद् अयुक्तम् । उभयथाप्य् अर्थक्रियासम्पादनम् उपपद्यते युगपत् क्रमेण च । ननु क्रमकर्तृत्वम् अभिन्नस्य नोपपद्यते, कार्यस्यैककालीनता प्राप्नोति । एतच् चासमीचीनम् । यथा भवतां पक्षैकं नीलस्वलक्षणम् अनेकाकारकार्यं नियतदेशसम्बन्धि जनयति नयनालोकमनस्कारादिरूपं, न च कार्याणाम् एकाकारतैकदेशसम्बन्धिता वा विद्यतैकस्वभावसमुद्भवत्वे ऽपि, तथेहाप्य् एवम्भूतं । तत् सामान्यं यत् क्रमेतराभ्यां कार्योत्पादात्मकम् । ननु यदि क्रमेण कार्यं करोति, तदा तद् एव जनकं तद् एव चाजनकम् । सत्यं, तद् एव जनकं तद् एव चाजनकम् । ननु जनकाजनकयोर् भेदप्रसङ्गः । न प्रसङ्गो ऽस्ति । यथा त्वदीये पक्षैकं नीलस्वलक्षणं स्वकार्यापेक्षया
जनकं, स्वकारणात्मापेक्षया त्व् अजनकं, न तस्य स्वरूपभेदो ऽस्ति । अथ
स्वकारणम् आत्मानं च जनयति, तद् अयुक्तम् । तद् आत्मानं कुर्वद् उत्पन्नं वा कुर्याद् अनुत्पन्नं वा ।

p92331

तद् यद्य् उत्पन्नं करोति, तद् अयुक्तं, कृतस्य करणायोगात् । अथानुत्पन्नं करोत्य् असतः कः कारकार्थः? तथा स्वकारणम् अपि न जनयतीतरेतराश्रयत्वदोषप्रसङ्गात् । अतस् तद् एव कारकं तद् एव चाकारकम् इति तथा सामान्यम् अपि जनकम् अजनकं च । न चार्थक्रियाकर्तृत्वाभावे ऽसत्त्वं सिध्यति । यथा वह्नेर् अयोगोलकाङ्गारावस्थायां धूमोत्पादकत्वाभावे ऽपि न निवर्तते वह्निरूपता, स्वहेतोर् एव तथाभूतस्योत्पत्तेर् वह्निस्वभावस्य धूमाजनकात्मकस्य च, तथान्यद् अपि कार्यं स्वहेतुनोत्पादितं यद् वस्तुस्वभावं कार्याजनकात्मकं च । तथा सामान्यम् अपि वस्तुभूतं न च कार्यम् उत्पादयति । ननु यदि कार्यं नोत्पादयति, तद् अस्तीति कथं वेत्सि? तदुपलब्ध्या । ननु तदनुत्पाद्या कथं तद्गृहीतिर् भवति? स्वहेतुसामर्थ्यनियमितायास् तद्गृहीत्यात्मतयोत्पत्तेः । न च
तदुत्पाद्यत्वेन तद्गृहीतित्वं, चक्षुरादेर् अपि संवेद्यत्वप्रसङ्गात् । न च
विषयाकारयोगित्वेन तद्गृहीतित्वं विज्ञानात्मताव्यतिरेकेण विषयाकारसमावेशायोगात् । यो ऽसाव् आकारो विषयार्पितः, स किं ज्ञानाकाराद् भिन्नो ऽभिन्नो वा? यदि भिन्नः, स तात्त्विको ऽतात्त्विको वा । यदि तात्त्विकस्, तद्गतिः कथम्? किं स्वसंवेद्यत्वेनाहो जनकत्वाकारार्पकत्वेन? तद् यदि स्वसंवेद्यत्वेन, तद् अयुक्तम्, अविज्ञानात्मतया स्वसंवेद्यत्वायोगात् । अथ जनकत्वाकारार्पकत्वेन, तदा प्राप्ताकारपरम्परा । अथातात्त्विकस्, तद्गतिर् नोपपद्यते स्वसंवेद्यत्वजनकत्वव्यतिरेकात् । अथाव्यतिरिक्तः, स तात्त्विको ऽतात्त्विको वा । यदि तात्त्विकः, स जडात्मा तद्विपरीतो वा । यदि जडात्मा, न तर्हि चिता सह तादात्म्यम् । चिदचितोस् तादात्म्यानुपपत्तिः । अथ तद्विपरीतस्, तदा ज्ञानमात्रता स्यात् । ज्ञानरूपता च सर्वज्ञानसाधारणा प्रतिकर्मव्यवस्थानुपपत्तिः । अथातात्त्विकस्, तदा ज्ञानस्याप्य्
अतात्त्विकत्वं प्राप्नोति । यदि च विज्ञानतादात्म्येनाकारोत्पत्तिर् भवति, विज्ञानं
सर्वकारकनिष्पाद्यत्वेन साधारणं प्रतिकर्मव्यवस्थानुपपत्तिः । एवं च सति यद् उक्तम्

p94170

अर्थेन घटयत्य् एनं न हि मुक्त्वार्थरूपताम्। तस्माद् अर्थाधिगतेः प्रमाणं मेयरूपता॥

p94290

तन् मुग्धविलसितं सौगतानाम् ।

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc