तत्त्वोपप्लवसिंह · श्लोक p74792-p81559
तद् एतद् अयुक्तम् । प्राथमिकम् अपि ज्ञानं गौर् इति ज्ञानं, गोपिण्डावगाहिनि विज्ञाने गौर् इति ज्ञानसञ्ज्ञा । ततश् च प्रथमाक्षसन्निपातजम् अपि भवति । एवं च पूर्वापरविज्ञानयोर् एकविषयत्वोभयोर् गौर् इति ज्ञानसञ्ज्ञाविषयत्वम् । नन्व् एकस्य क्रमभाविविज्ञानजनकत्वं किम् एकेन स्वरूपेण स्वरूपान्तरेण वा? एकेनैव स्वभावेन जनयतीति ब्रूमः । नन्व् एककालीनता पूर्वापरविज्ञानयोर् एकस्वभावायत्तत्वे सत्य् आपद्यते । यद्य् एवम् एकनीलोत्पादितनयनालोकविज्ञानानाम् एकदेशसम्बन्धित्वम् एकाकारतैकव्यक्तित्वम् आपद्यतैकनीलोत्पाद्यत्वाविशेषात् । अथैवम्भूतं तत् तस्य स्वरूपं यच् चित्रकार्यकरणात्मकम् । यद्य् एवं ममके ऽपि पक्षे क्रमभाव्यनेककार्यकरणात्मकम् एव स्वरूपं स्वहेतुसामर्थ्यनियमितस्योत्पत्तेः । अथवा यथात्वदीये पक्षे मनोज्ञानं स्वलक्षणविषयं
न च प्रथमाक्षसन्निपातजम्, अपि त्व् इन्द्रियज्ञानेन
स्वविषयानन्तरविषयसहकारिणोत्पाद्यते, तथा गौर् इत्यादिकम् अपि ज्ञानं प्रथमाक्षसन्निपातजेन विज्ञानेन स्वविषयानन्तरविषयसहकारिणा स्मरणाद्युपहितेन चोत्पाद्यतेति निर्विषयत्वाभावो विषयान्तरस्य स्वकारणसामर्थ्यानुरोधेन गौर् इत्यादिज्ञानजननयोग्यस्योत्पत्तेः । स्मरणम् अपि समर्थम् उत्पन्नं सद् गौर् इत्य् उत्पादयति । एवं सति यद् उक्तं यः प्राग् अजनको बुद्धेर् इत्यादि, तद् स्वपरमतम् अनालोच्यैव जेगीयते ।
4.1ए न च ज्ञानाकरव्यतिरेकेण विकल्पाकारो ऽन्यो ऽस्ति । कल्पनाकारो हि ज्ञानतादात्म्येन व्यवस्थितः । ततश् च कल्पनापोढं प्रत्यक्षं किम् उक्तं भवति? ज्ञानापोढं प्रत्यक्षम् । यो यत्स्वभावोपनिबद्धः, स निवर्तमानस् तम् आदाय निवर्तते । ततश् चाज्ञानात्मकं प्रत्यक्षं भिक्षूणां प्रसक्तम् ।
4.2 तथाव्यभिचारिपदम् अपि नोपादेयम् अपोह्यज्ञानासम्भवात् । ननु मार्तण्डपादसङ्घातोत्पादितं विज्ञानम् अपोह्यम् अस्ति कथं तद् अपोह्यम्? अतथ्योदकविषयत्वात् । यद्य् अतथ्योदकविषयत्वं, कथं तद् अपनीयते ऽतथ्योदकाकारस्य स्वेन रूपेण विद्यमानत्वान् मधुरोदकदीर्घोदकाकारवत्? अथ तत्र मधुरोदकं विद्यते, स्वेन रूपेण प्रतीयमानत्वात्, तद् इहाप्य् उदकं प्रतीयतोदकं गृह्णामीति व्यवहारदर्शनात् । सत्यं, प्रतिभात्य्, अतथ्यं तु प्रतिभाति ।
4.21 अतथ्यता का? किं प्रतीयमानस्याभावो ऽथ प्रतीयमानैवाभावः?
4.211 यदि प्रतीयमानस्याभावः, सो ऽत्र नावाभात्य्, उदकाकारैवावभाति ।
4.212 अथ प्रतीयमानैवाभावः सो ऽप्य् अनुपपन्नैव । न हि भावाकारे प्रतीयमाने ऽभावकल्पना युक्ता । अन्यथा रसाकारे प्रतीयमाने रूपाकारः परिकल्पयितव्यः । ततश् चालूनविशीर्णं जगत् स्यात् । यदि चाभावः प्रतिभाति, कथं तद् उदकज्ञानं मिथ्याज्ञानं चोच्यते ऽभावविषयस्य स्वेन रूपेण विद्यमानत्वात्?
4.22 तद् एतद् उदकज्ञानम् उदकं विषययत्य् उदकाभावम् आत्मानं न किञ्चिद् वा ।
4.221 तद् यद्य् उदकं विषययति, तदा न तस्य मिथ्यात्वं मधुरोदकसंवेदनस्येव । तत्र तथ्योदकं प्रतिभाति । किं यत् प्रतिभाति तत् तथ्योदकम्, आहो यत् तथ्यं तत् प्रतिभाति? तद् यदि यत् प्रतिभाति तत् तथ्यम्, इहाप्य् उदकं प्रतिभाति, प्राप्ता तस्यापि तथ्यता ।
अथ यत् तथ्यं तत् प्रतिभाति, तस्य तथ्यता कथं ज्ञायते? किं प्रतीत्यान्यथा वा? यदि प्रतीत्या, इहापि प्रतीतिर् उत्पद्यते । अस्तु तथ्यता । अथ प्रतीतिम् अन्तरेण तथ्यतोपपाद्यते, तदा सुस्थितानि वस्तूनि । सर्ववादसिद्धिः स्यात् । अथ प्रतीयते यदि नाम बाध्यते । प्रतीयते बाध्यते चेति चित्रम् । प्रतीयमानत्वं च जनकत्वाकारार्पकत्वेन व्याप्तम् । यच् च न जनयति नाकारम् अर्पयति तन् नावभाति यथा रूपज्ञाने रसः । प्रतीयते चात्रोदकं, जनकत्वाकारार्पकत्वोपपत्तिः । तदुपपत्तौ च न बाधोपपत्तिर्, जनकत्वाकारार्पकत्वस्य सत्त्वनिबन्धनत्वात् ।
4.222 अथाभावं विषययति, न तर्ह्य् उदकज्ञानरूपताभावगृहीतिरूपत्वात् । नापि तस्य मिथ्यात्वम् अभावविषयस्योपपत्तेः । न च सौगतमते ऽभावे कश्चिद् विषयार्थोपपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात्. उदकाकारो हि प्रतीत्युत्कलितः । तदभावश् चाप्रातीतिकेहोपपाद्यते मुग्धबौद्धैः ।
4.223 अथात्मविषयं, तथापि व्यभिचारिता नोपपद्यते, स्वांशस्यावञ्चनात् । न हि ज्ञानम् आत्मानं विसंवदति । नापि तद् उदकज्ञानत्वेन व्यपदेश्यं रागादिसंवेदनवत् । न हि नीलाभं संवेदनं रसविज्ञानात्मकत्वेन व्यपदिश्यमानं दृष्तम् ।
4.224 अथ निर्विषयं, न तर्हि तद् उदकज्ञानम्, उदकज्ञानतया तु प्रतिभाति, तेन जानीम न निर्विषयम् । यदि च निर्विषयं, कथं तन् मिथ्याज्ञानम्? ज्ञानमात्रानुरोधेन न मिथ्याज्ञानं नापि सम्यग्ज्ञानम् । न च भवतां पक्षे ज्ञानं निरालम्बनम् अस्ति स्वांशपर्यवसितत्वात् ।
4.23 विज्ञानस्य व्यभिचारिता किं स्वसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन?
4.231 तद् यदि स्वसत्तानुरोधेन, तदा सर्वविज्ञानानां व्यभिचारिता प्राप्नोति ज्ञानरूपतायाः सर्वत्र भावात् । न किञ्चिद् विज्ञानम् अव्यभिचारि स्यात् ।
4.232 अथ परसत्तानुरोधेन व्यभिचारितोच्यते, किम् अनुपकारकपरसत्तानुरोधेनाहोपकारकपरसत्तानुरोधेन? तद् यद्य् अनुपकारकपरसत्तानुरोधेन व्यभिचारिता, तदा सर्वसंवित्तीनां व्यभिचारिता प्राप्नोत्यनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन व्यभिचारिताभिधीयते, किं करणभूतपरोपकारकसत्तानुरोधेनाहो कर्मतापन्नोपकारकपरसत्तानुरोधेन? तद् यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां मिथ्यात्वम् आपद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मकारकोपकारकपरसत्तानुवेधेन मिथ्यात्वं, तद् अयुक्तं, न तस्य मिथ्यात्वं सत्योदकज्ञानस्येव कर्मकारकेणोपक्रियमाणत्वात् ।
4.24 तथा सम्यग्ज्ञानत्वम् अपि क हम्? किं ज्ञानसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन?
4.241 तद् यदि ज्ञानसत्तामात्रानुरोधेन सम्यक्त्वं, तदा सर्वसंवित्तीनां सम्यक्त्वं प्राप्नोति ज्ञानाकारस्योपपत्तेः ।
4.242 अथ परसत्तानुरोधेन सम्यक्त्वं, तदा किम् अनुपकारकपरसत्तानुरोधेन किं वोपकारकपरसत्तानुरोधेन? तद् यद्य् अनुपकारकपरसत्तानुरोधेन सम्यक्त्वं, तदा सर्वासां संवित्तीनां सम्यक्त्वम् आपद्यते ऽनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन किं करणभूतपरोपकारकसत्तानुवेधेनाहो कर्मतापन्नोपकारकपरसत्तानुवेधेन? तद् यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां सम्यक्त्वम् आपद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मतापन्नोपकारकपरसत्तानुवेधेन सम्यक्त्वम् अभिधीयते, तदा रागादिसंवेदनस्य सम्यक्त्वं न प्राप्नोत्य्, अतीतानागतार्थविषयत्वे योगिज्ञानस्य च ।
4.25 यत् तद् व्यभिचारि ज्ञानं, तत् किं व्यभिचारिभूतेनोपादानज्ञानेन जन्यताहो ऽव्यभिचारिभूतेनोपादानज्ञानेन जन्यते?
4.251 तद् यदि व्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तद् अपि व्यभिचारिभूतेन, प्राप्ता व्यभिचारिपरम्परा । सङ्ग्राह्यम् अव्यभिचारि न लभ्यते ।
4.252 अथाव्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तद् उपादानकारणम् अनुकुर्वद् वोपजायते ऽननुकुर्वद् वा । तद् यद्य् उपादानकारणानुकारेणोत्पाद्यते, तदा किम् आप्नोति? अव्यभिचारिस्वरूपानुकारेणोत्पाद्यते । कथम्? अव्यभिचारस्य ज्ञानतादात्म्येन व्यवस्थितेः । न चैकदेशानुकारित्वम् अस्त्य् उपादानकारणस्य निरवयवत्वात् । एवं सर्वं विज्ञानम् अव्यभिचारि प्रसक्तम्, अपोह्यज्ञानानुपपत्तिः । न च व्यभिचाराव्यभिचारौ ज्ञानाद् व्यतिरिक्तौ स्तः । यथा रसाकारो रूपाकारो वा ज्ञानाकाराद् भिन्नो, न तथा व्यभिचाराव्यभिचारौ ज्ञानाद् व्यतिरिक्तौ । ततश् च व्यभिचाराकारो ऽत्र निराक्रियते किम् उक्तं भवति? ज्ञानाकारो ऽत्र निराक्रियते । ततश् चाज्ञानात्मकं प्रत्यक्षं प्रसक्तं सौगतानाम् ।
मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0