तत्त्वोपप्लवसिंह · श्लोक p66682-p74666
4.18 अथातात्त्विकार्थगृहीतिरूपा कल्पना, तद केशोण्डुकविज्ञानस्यापि कल्पनात्वम् आपद्यते ।
4.19 अथ स्वयम् अतात्त्विकी, तदा प्रतीतिः कथम्? प्रतीतिश् चेद्, अतात्त्विकी कथम्?
4.1(10) अथ त्रिरूपाल् लिङ्गतो ऽर्थदृक् कल्पनेति चेत्, सापि किं लिङ्गजन्यत्वेन कल्पनाहो निर्विषयत्वेन? तद् यदि लिङ्गजन्यत्वेन कल्पनात्वं, तदा लिङ्गावगाहकनिर्विकल्पकविज्ञानस्यापि कल्पनात्वम् आपद्यते । न चानुमेयज्ञानस्याव्यवधानेन लिङ्गोत्पाद्यत्वम् अस्ति । अथ निर्विषयत्वेन कल्पनात्वं, तद् अपि न योयुज्यते, स्वांशविषयत्वाद् अनुमानज्ञानस्य । अथ स्वांशविषयव्यतिरिक्तविषयो नास्ति, निर्विषयत्वेन कल्पनात्वम् अपदिश्यते । तदा केशोण्डुकविज्ञानस्यापि कल्पनात्वम् आपद्यते ।
4.1(10)आथ यन् निर्विकल्पकं तद् विस्पष्टतयोपजायत, आनुमानिकं त्व् अस्पष्टाभं, तेन तत् कल्पनाज्ञानम् ।
4.1(10)अ तद् अयुक्तम् । अस्पष्टता च यथा न सम्भवति, तथा प्राग् एवोक्ता ।
4.1(10)अ प्रत्यक्षज्ञानस्य च स्पष्टता का? किं स्वलक्षणजन्यताहो स्वलक्षणप्रतिभासिता?
4.1(10)अ1 तद् यदि स्वलक्षणजन्यता, किं प्रतीयमानस्वलक्षणजन्यता तद्विपरीतस्वलक्षणजन्यता वा? तद् यदि प्रतीत्यारूढस्वलक्षणजन्यता, प्रतीतौ किम् अवभाति? किम् अर्थो ज्ञानम् उभयं व ? तद् यद्य् अर्थस्, तद् अयुक्तम् अप्रतीतायां प्रतीतौ तदनवभासनात् । अथ ज्ञानं, न तर्हि तद् आत्मानम् उत्पादयति स्वात्मनि क्रियाव्यतिरेकात् । अथोभयं प्रतिभाति, तद् अयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वात् । यदि चोभयं प्रतिभाति, तदार्थवज् ज्ञानेनापि ज्ञानम् उत्पाद्यतेत्य् आपद्यते । तच् चायुक्तं स्वात्मनि क्रियाविरोधात् । अथाप्रतीयमानस्वलक्षणजन्यता, तद्गतिः कथम्? न प्रत्यक्षेणाप्रतीयमानत्वाद् एव । नाप्य् अनुमानेन, स्वभावकार्यलिङ्गानवगतेः । न स्वभावानुमानं तत्कार्यतादात्म्ये तदनवगतौ तस्यानवगतेः । नापि कार्यानुमानं तद्भूतकार्यानुपलब्धेः
। पिशाचपरमाणुमहेश्वरकल्पार्थोत्पादितं कार्यं नेहोपलभ्यते । अथ
ज्ञानम् एव तस्य लिङ्गं, तद् अयुक्तं, तेन सह तस्य सम्बन्धानवगतेश् चिन्मात्रतयैव न त्व् अन्यो ऽर्थः । न च चिद् आत्मानं जनयति । समनन्तरज्ञानं तस्य हेतुर् इति चेत्, तद् अयुक्तं, तदवगतौ न मानम् अस्ति । परसन्तानज्ञानार्थकल्पं तद् अपि न स्वसंवेद्यं तत्कार्यज्ञानस्य, ततो भिन्नत्वात् परसन्तानज्ञानार्थवत् । नाप्यनुमाटेन, तदायत्ततायानवगतेः । चिन्मात्रतयैवात्मानम् अवगाहयति, नान्यायत्ततया, ततो ऽन्यस्य पिशाचेश्वरतुल्यत्वात् । यदि च समनन्तरविज्ञानोत्पाद्यत्वेन स्पष्टता, तदानुमानज्ञानस्यापि समनन्तरज्ञानोत्पाद्यत्वेन निर्विकल्पकत्वम् अनुषक्तम् ।
4.1(10)अ2 अथ स्वलक्षणप्रतिभासिता स्पष्टता, तत्र किं प्रतिभाति किम् अर्थो ज्ञानम् उभयं वा? तद् यद्य् अर्थस्, तद् अयुक्तम्, अप्रसिद्धायां प्रसिद्धौ तत्प्रसिद्ध्यभावात् । अथ ज्ञानं, तद् अनुमाने ऽपि प्रतिभाति, तद् अप्य् अस्तु निर्विकल्पकम् । तन्निर्विकल्पकत्वे तर्ह्य् अपोह्यो मृग्यो ऽधुना कल्पनापोढपदस्य । अथोभयं प्रतिभाति, तद् अयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वाभ्युपगमात् ।
4.1(11) अथातीतानागतार्थगृहीतिरूपा कल्पना, तत्र किम् अवभात्य् अर्थस् तदभावो वा न किञ्चिद् वा? यद्य् अतीतो ऽर्थः प्रतिभाति, न तर्हि तस्य कल्पनात्वं वर्तमाननीलज्ञानवत् । नाप्य् अर्थस्यातीतता प्रतीयमानत्वेन नीलजलादिवत् । न हि प्रतीयमानस्यातीतता नाम । यदि च प्रतीयमानस्याप्य् अतीततोच्यते, तदा सर्वस्य बुद्ध्युपलक्षितस्यातीतता भवेत् । ततश् च वर्तमानव्यवहारविरहः स्यात् । अथ तदभावः प्रतिभाति, तस्याप्यतीतता नास्ति, स्वेन रूपेण विद्यमानत्वात् । नापि तद्विषयविज्ञानस्य कल्पनात्वम् उपपद्यते ऽभावार्थसामर्थ्येन समुद्भवात् । असामर्थ्ये वा विषयार्थश् चिन्त्यः । अथ निर्विषयं, न तर्हि तद् अतीतानागतार्थविज्ञानम् अतीतानागतार्थोपकाररहितम् अपदिश्यते । न च निर्विषयत्वे सति सविकल्पकत्वं निर्विकल्पकत्वं वापि तु ज्ञानात्मतयैव तस्य व्यवस्थितिः
। न च ज्ञानमात्रतया तस्य सविकल्पकत्वम् इष्यते सर्वज्ञानानां सविकल्पकत्वप्रसङ्गात् । यदि
च निर्विषयत्वेनातीतानागतार्थविज्ञानस्य सविकल्पकत्वम् अभ्युपेयते, निर्विकल्पकाभिमतकेशोण्डुकविज्ञानस्यापि सविकल्पकत्वम् आपद्यते । न चातीतानागतविज्ञानस्य निर्विषयत्वम् अस्ति स्वांशपर्यवसितत्वात् । नापि स्वांशव्यतिरिक्तो ऽर्थो ऽन्यो ऽस्त्य् एकोपलम्भेनापोहितत्वात् । न च स्वांशस्य वञ्चनोपपद्यते । तदभावात् सर्वं विज्ञानं सविकल्पकं निर्विकल्पकं वा वक्तव्यं भेदानुपपत्तेः ।
4.1अ यद् अप्य् उक्तं कल्पनापोढं प्रत्यक्षम् अर्थसामर्थ्येन समुद्भवाद् रूपादिस्वलक्षणवद् इति तत्र किं प्रतीयमानस्वलक्षणोद्भवत्वं विवक्षितम् आहो ऽर्थमात्रोद्भवत्वम्? तद् यदि प्रतीयमानस्वलक्षणोद्भवत्वं विवक्षितं, तदा रागादिसंवेदनस्य योगिप्रत्यक्षस्य च प्रतीयमानस्वलक्षणोद्भवत्वं न लभ्यते । अथेन्द्रियजप्रत्यक्षविवक्षयेदम् अपदिश्यते ऽर्थसामर्थ्येन समुद्भूतत्वाद् इति साधनं, तत्रापि ... स्य बाह्यार्थनिराकरणपरत्वात् । अस्तु वा बाह्यो ऽर्थस्, तथापि किं तेन निमित्तात्मकेनोत्पाद्यताहोपादानात्मकेन? तद् यदि निमित्तभूतेनोत्पाद्यते, तदा तदुत्पादितरूपस्य रूपरूपता न प्राप्नोति निमित्तभूतरूपोत्पादितज्ञानवत् । अथोपादानात्मकेनोत्पाद्यते, तदानया रीत्या रूपरूपतापद्यते ज्ञानस्य रूपोत्पादितरूपस्येव । ततः सर्वम् अविज्ञानात्मकं
जगत् स्यात् । अविज्ञानात्मके च जगति मानमेयव्यवहाराभावप्रसङ्गः । तत्प्रसक्तौ च
कस्येदं लक्षणं प्रस्तूयते? अथोपादानभूतेन रूपेण रूपम् उत्पाद्यते, निमित्तात्मकेन तु ज्ञानम् इति चेत्, तद् इदं महानुभवस्य दर्शनम् । न ह्य् अबालिशैवं वक्तुम् उत्सहेत । न ह्य् एकस्यानेकाकारता नाम । न चानेकनामकरणे मेयाद्यन्यत्वम् अस्ति । अन्यत्वे वा न तर्हीदं वक्तव्यं स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन मनोविज्ञानं निष्पाद्यते । तद् एवम् इन्द्रियज्ञानस्य प्रतीयमानार्थसमुद्भवत्वाभावः । दृष्टान्तश् च साधनविकलो न रूपादिस्वलक्षणस्य रूपरूपावभातार्थोद्भवत्वम् अस्ति । अथाप्रतीयमानस्वलक्ष.णोद्भवत्वं मे विवक्षितं, तदातीतानागतानुमानविकल्पानाम् अप्रतीयमानार्थोद्भवत्वेन निर्विकल्पकत्वम् आपद्यते ।
4.1ब् यद् अप्य् अन्यद् उक्तम् एकोपलम्भसामर्थ्याद् विकल्पिकायाः समुद्भवेदम् उपलभेदं नोपलभेति किलैकभूतलोपलम्भे सति विकल्पिका बुद्धिर् उत्पद्यतेदम् उपलभेदं नोपलभ्यतेत्यादिकैतद् अपि न युक्तम् । यथा रूपस्वलक्षणस्य सविकल्पकविज्ञानजनकत्वं नास्त्य् अविकल्पकत्वात्, तथा विज्ञानस्वलक्षणम् अपि न सविकल्पकविज्ञानोत्पादकत्वम् अतिवर्तते ऽविचारकत्वाविशेषात् । अथाविचारकत्वाविशेषे ऽपि निर्विकल्पकविज्ञानस्य सविकल्पकविज्ञानोदयदानसामर्थ्यं जेगीयते, तदा रूपादिस्वलक्षणस्याप्य् एतद् अस्तु । ततश् च प्रत्यक्षानुमानयोर् भेदानुपपत्तिः ।
4.1च् यद् अप्य् अन्यद् उक्तं प्रत्यक्षसाधनैवेन्द्रियधियः कल्पनाविरहः ।
अथ को ऽयं कल्पनाविरहो नाम? किं ज्ञानकायतादात्म्यव्यवस्थितदेहस् तद्विपरीतो वा? तद् यदि ज्ञानतादात्म्येन व्यवस्थितस्, तदा प्रत्यक्षसाधनः कल्पनाविरहेति किम् उक्तं भवति? प्रत्यक्षसाधनो विज्ञानाकारः प्रत्यक्षधियः । न केवलं प्रत्यक्षकल्पनाविरहः प्रत्यक्षसाधनो, ऽनुमानधियो ऽपि प्रत्यक्षसाधनैव, ज्ञानाकारस्यानुमानज्ञाने ऽपि भावात् । अथानुमानज्ञानस्याप्य् आत्मसंवित्तौ कल्पनारहितत्वं, बाह्यार्थापेक्षया कल्पनात्मकत्वम् इति चेत्,
तद् एतन् मुग्धाभिधानं दुनोति मानसम् । कथं स्युर् विविधाकारास् तदेकस्य वस्तुनः?
अथ भेदेन व्यवस्थितस्, तद्गतिः कथम्? न स्वसंवेद्यो ऽसौ ज्ञानाकारव्यतिरेकात् । नापि जनकत्वाकारार्पकत्वेन गृह्यते विरहस्य सामर्थ्यव्यतिरेकात् । एवं च सति यद् उक्तं प्रत्यक्षसाधनैवेन्द्रियधियः कल्पनाविरहेति तद् बालवल्गितम् ।
4.1द् अथ गौर् इत्यादिज्ञानं कल्पना, कथम् अस्य कल्पनात्वम्?
अर्थेनाजनितत्वाद् यदि गवादेर् अर्थस्य गौर् इत्यादिज्ञानोत्पादनसामर्थ्यं स्यात्, तदा प्रथमाक्षसन्निपातवेलायाम् अपि कुर्यात् तदात्मनो ऽविशेषात् । तद् उक्तं
यः प्राग् अजनको बुद्धेर् उपयोगाविशेषतः। स पश्चाद् अपि तेन स्याद् अर्थापाये ऽपि नेत्रधीः॥
अथ शब्दस्मरणम् अपेक्ष्योत्पादयति, तद् एवास्तु तद्देहानन्तरफलत्वाद् गौर् इत्यादिज्ञानस्य । तद् उक्तम्
अर्थोपयोगे ऽपि पुनः स्मार्तं शब्दानुयोजनम्। अक्षधीर् यद्य् अपेक्षेत सो ऽर्थो व्यवहितो भवेत्॥
मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0