भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p60137-p65501

p60137

अथ निर्विषयं, न तर्हि मानयोर् भेदो ऽस्त्य्, अनुमानज्ञानस्य विषयासम्भवात् । नापि भ्रान्तता निर्विषयत्वाद् एव । न च ज्ञानस्य स्वसत्तामात्रेण भ्रान्तताभ्रान्तता चोपपद्यते, किं तु परोपधानवशात् ।

p60370

अथ स्वांशविषयं, तथापि प्रत्यक्षानुमानयोर् न नानात्वम्, उभयोः स्वलक्षणविषयत्वात् । न चानुमानज्ञानस्य भ्रान्तता स्वांशस्यावञ्चनात् ।

p60540

3.332 तथा प्रत्यक्षस्यापि विषयो वक्तव्यः किं रूपादिस्वलक्षणविषयम् आत्मविषयम् उभयविषयं वा?

p60674

तद् यदि रूपादिमात्रालोचकं, तद् अयुक्तं तदनवगतावेतद्गत्यभावात् ।

p60775

अथ ज्ञानमात्रकायावगाहकं, तद् अपि नोपपद्यते, विषयभावस्य जनकत्वाकारार्पकत्वेन व्यवस्थितेः । न च स्वात्मनि जनकत्वम् आकारार्पकत्वं चोपपद्यते । विषयिणम् अपेक्ष्य विषयो भवति, यथा कारणम् अपेक्ष्य कार्यं कार्यं चापेक्ष्य कारणं तथेहापि ।

p61063

यदि च प्रत्यक्षज्ञानेनात्ममात्रम् आत्मसात्क्रियते, तदानुमाने ऽप्य् एतद् अस्ति, प्रत्यक्षानुमानयोर् भेदानुपपत्तिः ।

p61205

अथोभयं विषयीक्रियते, तद् अप्य् अयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारेण व्यवस्थितत्वात् । यदि च रूपगृहीतिर् एव ज्ञानगृहीतिस्, तदा रूपस्य ज्ञानरूपता, ज्ञानस्य वा रूपरूपता, रूपगृहीतेर् वा रूपाव्यवस्थापकत्वम् । न चैकस्याकारद्वयं पश्यामः ।

p61492

3.3अ न च द्वित्वावधारणम् इहोपपद्यते । प्रत्यक्षं ज्ञानम् आत्मानं गृह्णद् उपजायते, नानुमानं विषययति । तथानुमानम् अप्य् आत्मानम् आत्मसात्कुर्वद् उपजायते, न प्रत्यक्षं ज्ञानम् अवद्योतयति । एवं द्वित्वसङ्ख्याव्यवहारानुपपत्तिः ।

p61757

अथ विकल्पेन द्वयावधारणम् इति चेत्, तद् अयुक्तम्, असाव् अप्य् आत्मसंवेदनपर्यवसितत्वान् न द्वयं गृह्णाति । ग्रहणे वाभ्युपेतहानम् । तदनुपपत्तौ च द्व एवेति जडचेष्टितम् ।

p62046

4.1 तथा प्रत्यक्षं कल्पनापोढम् अभ्रान्तम् इति न वक्तव्यं कल्पनापोढपदस्यापोह्यार्थासम्भवात् ।

p62177

ननु कल्पनैवापोह्या ।

p62229

केयंकल्पना किं गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पनाहो स्मृत्युत्पादकं विज्ञानं कल्पना स्मृतिरूपं वा स्मृत्युत्पाद्यं वाभिलापसंसर्गनिर्भासो वाभिलापवती प्रतीतिर् वा कल्पनास्पष्टाकारा वातात्त्विकार्थगृहीतिरूपा वा स्वयं वातात्त्विकी त्रिरूपाल् लिङ्गतो ऽर्थदृग् वातीतानागतार्थनिर्भासा वा?

p62562

4.11 तद् यदि गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पना, तत् किम् अविद्यमानगुणचलनजात्यादिविशेषनोत्पाद्यत्वेन कल्पनोत विद्यमानोत्पाद्यत्वेन?

p62744

तद् यद्य् अविद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पनात्वं, तद् अयुक्तम् अविद्यमानस्य जनकत्वाभावाद् एवाकल्पनात्वम् । अथ विद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पना, तत् किं सविषयं कल्पनाज्ञानं निर्विषयं वा? तद् यदि सविषयं सत् कल्पनाज्ञानं, तद् अयुक्तं, गुणचलनजात्यादिजन्यत्वे ऽपि न कल्पनात्वम् अर्थसामर्थ्यसमुद्भवत्वस्यानतिवृत्तेः । अथ निर्विषयं सत् कल्पना, तदा निर्विषयत्वम् एव कल्पनात्वे कारणं, न गुणचलनजात्यादिविशेषणजन्यत्वम् । यदि च तन् निर्विषयं, तदा न कल्पनाज्ञानं नाप्य् अकल्पनाज्ञानं, ज्ञानमात्रता स्यात् । ज्ञानात्मतया च कल्पनात्वे सर्वं ज्ञानं कल्पनाज्ञानं स्यात् ।

p63408

4.12 अथ स्मृत्युत्पादकं ज्ञानं कल्पना, तद् अयुक्तं, रूपादिदर्शनाद् अपि स्मृतिर् उत्पद्यते न च कल्पनात्वं, यत्सन्निधाने यो दृष्टस् तद्दृष्टेस् तद्ध्वनौ स्मृतिर् इति वचनात् ।

p63612

4.13 अथ स्मृतिरूपत्वेन कल्पना, तत्रापि किं गृहीतग्राहित्वेन निर्विषयत्वेनापूर्वार्थगृहीतिरूपत्वेन वा? तद् यदि गृहीतार्थग्राहित्वेन कल्पनात्वं, तदा प्रथमानुभवस्यापि कल्पनात्वम् आपद्यते गृहीतार्थग्राहित्वाविशेषाद् इत्य् उक्तं पुरस्तात् । अथ निर्विषयत्वेन, तदा न कल्पनाकारता नाप्य् अकल्पनाकारता ज्ञानाकारव्यतिरेकेण । अथापूर्वार्थगृहीतित्वेन कल्पनात्वं, तद् अयुक्तं, न स्मृतेर् अपूर्वार्थगृहीतित्वम् अस्ति । तदभावान् न कल्पनात्वम् । यदि चापूर्वार्थगृहीतित्वेन कल्पनात्वं, रूपादिज्ञानानां कल्पनात्वम् आपद्यते ।

p64166

4.14 अथ स्मृत्युत्पाद्यत्वेन कल्पनात्वं, तदा रूपादिज्ञानस्यापि निर्विकल्पकत्वेनाभिमतस्य स्मृत्युत्पाद्यत्वम् अस्ति, तद् अस्तु कल्पनाज्ञानम् । अथ न भवति तत् कल्पनाज्ञानं स्मृत्या बोधस्वभावतयोत्पादितं, कल्पनाज्ञानं तु स्मरणाकारतयोत्पाद्यते । तद् इदं मद्विकल्पान्दोलितबुद्धेर् निरुपपत्तिकाभिधानम् । न ह्य् एकस्य स्वभावद्वयम् उपपश्यामः ।

p64546

4.15 अथाभिलापसंसर्गप्रतिभासा प्रतीतिः कल्पना, स संसर्गः पारमार्थिको ऽपारमार्थिको वा । यदि पारमार्थिको, न तदा तस्य कल्पनात्वं रूपादिज्ञानस्येव । अथापारमार्थिकः, कथं तदाभं विज्ञानं नैरात्म्यप्रसङ्गात्? न चातात्त्विके विषयार्थः कश्चिल् लभ्यते जनकत्वाकारार्पकत्वसहोत्पादसत्तामात्रव्यतिरेकात् । यदि चातात्त्विकार्थगृहीतिरूपं, तदा विपर्ययज्ञानम् । तच् चाव्यभिचारिपदेनापोदितं, न कल्पनापोढपदम् उपादेयम् ।

p65014

4.16 अथाभिलापवाती प्रतीतिः कल्पना, किम् अभिलापात्मिकाहो ऽभिलापोत्पाद्याभिलापगृहीतिर् वा? तद् यद्य् अभिलापात्मिका, प्रतीतिः कथम्? प्रतीतिश् चेद् अभिलापात्मिकेति न वक्तव्यं, विरुद्धाकारयोस् तादात्म्यव्यतिरेकात् । अथाभिलापोत्पाद्या, तदा शब्दज्ञानानां कल्पनात्वम् आपद्यते । तेषां च कल्पनात्वे शब्दव्यवस्थानुपपत्तिः स्यात् । अथाभिलापगृहीतित्वेन कल्पनात्वं, तदा सर्वासाम् अभिलापगृहीतीनां कल्पनात्वम् आपद्यते । तत्कल्पनात्वे शब्दव्यवस्थानुपपत्तिः ।

p65501

4.17 अथास्पष्टाकारा प्रतीतिः कल्पना, अस्पष्टता का? किम् अविज्ञानात्मकत्वम् आहो स्वलक्षणाजन्यत्वम् अथ प्रतीयमानार्थाजन्यत्वं प्रतीयमानासत्यता वा स्वलकणाप्रतिभासिता वा? तद् यद्य् अविज्ञानात्मकत्वम् अस्पष्टता, तद् अयुक्तं, प्रतीतिर् इहास्पष्टाकारा गीयते, सा कथम् अविज्ञानात्मिका भवितुम् अर्हति? अथ स्वलक्षणाजन्यतास्पष्टता, तदा ज्ञानाकस्मिकत्वप्रसङ्गः । अथ प्रतीयमानार्थाजन्यत्वं, तदा रागादिसंवेदनस्यास्पष्टता प्राप्नोति, रागादीनां स्वात्मसंवेदनोत्पादकत्वायोगात् । स्वात्मोत्पादकत्वं वस्तूनां न दृष्टपूर्वम् । तथा केशोण्डुकविज्ञानस्य प्रतीयमानकेशोण्डुकोत्पाद्यत्वं न विद्यते । तद् अपि स्पष्टाभम् उपजायते, न त्व् अस्पष्टाभं, न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासितेति वचनात् । अथ स्वलक्षणाप्रतिभासित्वम्
अस्पष्टता, तदा निर्विकल्पाभिमतकेशोण्डुकविज्ञानस्यास्पष्टता प्राप्नोति, तत्र स्वलक्षणस्याप्रतिभासनात्,
स्पष्टाभं च तद् गीयते । न च ताथागते दर्शने तथाभूतं ज्ञानम् अस्ति यत् स्वलक्षणाप्रतिभासि, सर्वस्मिन् ज्ञाने ज्ञानकायप्रतिभासनात् । अथ प्रतीयमानासत्यातास्पष्टता, तदा केशोण्डुकेन्दुद्वयविज्ञानस्यास्पष्टता प्राप्नोति । न च प्रतीयमानस्यासत्यता विज्ञानकायस्य प्रतीयमानत्वात् । न च तस्य विसंवादो ऽस्ति ।

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc