भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p55304-p59870

p55304

3.2 अन्ये त्व् अविसंवादि ज्ञानं प्रमाणम् अभिदधति । को ऽयम् अविसंवादार्थः? किं यथाव्यवस्थितार्थगृहीतित्वं बाधारहितत्वं वा प्रतीयमानार्थजन्यता वा प्रतीयमानार्थं प्रति प्रवर्तकत्वं वार्थप्रापकत्वं वा?

p55551

3.21 तद् यदि यथाव्यवस्थितार्थगृहीतित्वं, तद् अनुमानज्ञाने नोपपद्यते ।

p55657

3.22 अथ बाधारहितत्वं, तद् अप्य् अनुमानज्ञाने नोपपद्यते ।

p55748

3.23 अथ प्रतीयमानार्थोत्पाद्यत्वं, तद् अप्य् अनुमानज्ञानस्य नोपपद्यते, सामान्याकारस्य जनकत्वव्यावृत्तेः ।

p55887

तथा रागादिसंवेदनस्याप्य् अवभातार्थोत्पाद्यत्वं नोपपद्यते, स्वात्मोत्पादने सामर्थ्यव्यतिरेकात् । तथा योगिप्रत्यक्षस्य प्रतीयमानार्थजन्यता न सम्भवति व्यतीतानागतयोर् अजनकत्वात् । जनकत्वे वातीतानागतता हीयते ।

p56140

3.24 अथ प्रतीयमानार्थं प्रति प्रवर्तकत्वम् अविसंवादार्थस्, तद् विपर्ययज्ञानस्यापि प्रवर्तकत्वं विद्यते । विपरीतोत्पन्नोदकबुद्धिः प्रवर्तते, न च तस्याविसंवादो ऽस्ति । सत्योदकज्ञाने ऽपि जाते न प्रवर्तते केनापि हेतुना, तद् अपि विसंवादि स्यात् ।

p56427

3.25 अथार्थप्रापकत्वम् अविसंवादस्, तत्र किम् अर्थमात्रप्रापकत्वम् आहो ऽवभातार्थप्रापकत्वं तज्जातीयोदकप्रापकत्वं वा स्वोत्पादकार्थप्रापकत्वं वाथ स्वोत्पादककारकाणां ध्रुवभावित्वम् अविसंवादः?

p56663

यद्य् अर्थमात्रप्रापकत्वं, केशोण्डुकेन्दुद्वयसंवेदनस्याप्य् अविसंवादित्वम् आपद्यते । अथावभातार्थप्रापकत्वं, तदानुमानज्ञानस्याविसंवादित्वं न लभ्यते ऽवभातार्थाप्रापकत्वात् । अनुमानज्ञाने हि सामान्याकारो ऽवभाति, न चासौ प्राप्यते स्वयम् असत्त्वात् ।

p56950

तथा योगिज्ञानस्यातीतानागतार्थे समुत्पन्नस्यार्थप्रापकत्वं न विद्यते । तथा रागादिसंवेदने ऽपि जाते नावभातरागादिप्राप्तिर् अस्ति । तथा प्रत्यक्षे पि विज्ञाने नावभातार्थप्राप्तिर् अस्ति क्षणिकत्वेनास्तमितत्वात् । अथ तज्जातीयोदकप्रापकत्वेनाविसंवादित्वम् उच्यते, तद् अयुक्तम् उदकत्वजातेर् अभावात् । अथानुदकत्वव्यावृत्तिर् जातिर् इत्य् उच्यते, सोदकव्यक्तिभ्यो ऽव्यतिरिक्ता व्यतिरिक्ता वा । यद्य् अव्यतिरिक्ता तदा व्यक्तिर् एव न जातिः । अथ व्यतिरिक्ता सा वस्तुभूतावस्तुभूता वा । यदि वस्तुभूता तदाभ्युपेतहानिः । अथावस्तुभूता तद्गतिः कथम्?

p57526

न चोदकव्यक्तीनां नानात्वम् उपपद्यते । यथा च नोपपद्यते तथा निवेदितं नैयायिकप्रत्यक्षलक्षणाधिकारे ।

p57668

अथ स्वोत्पादकार्थप्रापकत्वम् अविसंवादकत्वं, तद् अयुक्तं, नयनालोकमनस्कारादेः प्रत्यस्तमितत्वात् ।

p57802

अथ स्वोत्पादककारकाणां ध्रुवभावित्वम् अविसंवादस्, तदभावे तदभावप्रसङ्गात् । यद्य् एवं केशोण्डुकविज्ञानस्यापि ध्रुवभाविकारणत्वेनाविसंवादो ऽस्त्य् अन्यथाकस्मिकत्वप्रसङ्गात् ।

p58014

एवं चाव्यवस्थिते यद् उक्तं न ह्य् आभ्याम् अर्थं परिच्छिद्य प्रवर्तमानो ऽर्थक्रियायां विसंवाद्यतेति तद् बालविलसितम् ।

p58167

3.3 तथा मानमेयसङ्ख्यापि सौगतमते नोपपद्यते । तद् एव कथम्? कथ्यते द्व एव प्रमाणे, न मानान्तरम् अस्ति । तद् द्वित्वं किं व्यक्तिभेदेनाकारभेदेन विषयभेदेन वा?

p58373

3.31 यदि व्यक्तिभेदेन, तदापरिसङ्ख्येयत्वं ज्ञानव्यक्तीनाम् आनन्त्याद्, द्वित्वानुपपत्तिः । न च ज्ञानानां भेदो ऽस्त्य् अज्ञानाद् धि ज्ञानं ज्ञानात्मतया भिद्यते, ज्ञानान्तरात् तु कथं निवर्तते? किं ज्ञानात्मतयाकारान्तरेण वा? यदि ज्ञानाकारतया भिद्यते, तदान्येषाम् अज्ञानात्मकत्वप्रसङ्गो रसादेर् इव । अथाकारान्तरेण व्यावर्तते, तदाज्ञानात्मता तस्योत्पद्यते रसादेर् इव ।

p58776

3.32 अथाकारभेदेन मानयोर् भेदः, सो ऽप्य् अनुपपन्नैव । ज्ञानाकारव्यतिरेकेण प्रत्यक्षानुमानयोर् नाकारान्तरम् अस्ति । तदुपगमे वा ज्ञानाकारविरहः स्यात् । न चाकारसमूहात्मकं ज्ञानं तस्याभिन्नात्मकत्वात् ।

p59016

3.33 अथ विषयभेदेन द्वैविध्यम् उपपाद्यते,

p59093

3.331 तदानुमानज्ञानस्य विषयार्थो वक्तव्यः किम् अग्न्यादिस्वलक्षणविषयं विद्यमानसामान्यविषयम् अपारमार्थिकसामान्यविषयं वा निर्विषयं वा स्वांशविषयं वा?

p59284

यद्यग्न्यादिस्वलक्षणविषयं, तदा प्रत्यक्षानुमानयोर् भेदानुपपत्तिर् अभिन्नविषयत्वात् । अथानुमानिके ज्ञाने ऽग्निमात्रं प्रतीयते, प्रत्यक्षे तु तार्णादिविशेषात्मतया प्रतीयते । यद्य् एवं स्वलक्षणविषयत्वं नातिवर्तते ऽनुमानस्य, यदि नाम वह्नेर् एव प्रपञ्चता । अथ सत्सामान्यविषयत्वं, तथापि प्रत्यक्षानुमानयोर् न भेदो ऽस्ति सामान्यस्य स्वलक्षणरूपत्वात् । न च सत्सामान्यस्य विज्ञानविषयतोपपद्यते नित्यत्वेन जनकत्वाकारार्पकत्वानुपपत्तेः । न च सत्सामान्यविषयत्वे भ्रान्ततोपपद्यते । भ्रान्तिर् अप्य् अर्थसम्बन्धतः प्रमेति न वक्तव्यम् ।

p59870

अथासत्सामान्यविषयं, न तर्हि तस्य भ्रान्ततासतः स्वेन रूपेण विद्यमानत्वात् । न चासद् विषयभावं प्रतिपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात् । अव्यतिरेके वा वस्तुत्वप्रसङ्गः । तत्प्रसक्तौ च प्रत्यक्षानुमानयोर् भेदानुपपत्तिः ।

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc