भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p51376-p55111

p51376

2.3 एतेन पूर्वोपलब्धगोत्वादिप्रतिपादकत्वेन गोशब्दादेर् अप्रामाण्यम् उद्घाटितम् । तद् एव कथम्? कथ्यते किं सङ्केतग्रहणकालावगतगोत्वार्थवाचकत्वं तद्व्यतिरिक्तार्थवाचकत्वं वा प्रतिपाद्यते गोशब्दस्य?

p51617

तद् यदि सङ्केतग्रहणकालाधिगतगोत्वस्वरूपावेदकत्वं जेगीयते गोशब्दस्य, तदा विदितार्थाकारावेदकत्वेन न मानत्वम् आसादयति गोशब्दः । अथ वेदितार्थाकारावेदकत्वे ऽपि प्रामाण्यम् आवहति, तदानधिगतार्थगन्तृविशेषणस्य विषयोवक्तव्यः ।

p51892

अथ तद्व्यतिरिक्तार्थवाचकत्वं, तदानीम् असङ्केतितैवार्थः प्रतीयते गोशब्दात् ।ततश् च स्वसिद्धान्तप्रतीतिविरोधो दुमिवारः । अथ गोत्वम् एवावगम्यते गोशब्देनेति चेत्, तत्रापि प्रपञ्चितम् एवाप्रामाण्यकारणं गृहीतग्राहित्वम् । तदप्रामाण्ये न गोत्वव्यवस्थितिः । तदनवस्थितौ नार्थापत्त्याधिकरणव्यवस्थितिः ।

p52238

2.31 इतो ऽपि नार्थापत्त्याधिकरणव्यवस्थितिर् उपपद्यते किम् अर्थापत्त्या पूर्वावधारिताधिकरणप्रत्यायनं क्रियताहोस्विद् अपूर्वाधिकरणप्रत्यायनम्?

p52420

तद् यदि पूर्वावधारिताधिकरणपर्यवसितार्थापत्तिस्, तदा प्रतिपादितार्थप्रतिपादकत्वेन न प्रमाणम् ।

p52555

अथादृष्टपिण्डावेदकत्वं तदा गोत्वान्यथानुपपत्त्या गजवाजिकल्पनापि कार्या । अथ पूर्वावधारितस्येदानीन्तनम् अस्तित्वम् अर्थापत्त्यावसीयतेति चेत्

p52731

तद् इदानीन्तनम् अस्तित्वं पूर्वावधारिताद् व्यतिरिक्तम् अव्यतिरिक्तं वा ।
तद् यद्य् अव्यतिरिक्तं, तदा पूर्वावधारितार्थप्रतिपादकत्वेन कथम् अर्थापत्तेः प्रामाण्यं वेदविदो वदन्ति?

p52941

अथार्थान्तरं, कथं गोत्वान्यथानुपपत्त्या प्रतीयते? तत्प्रतीत्यभ्युपगमे वा गजवाजिविषयापि प्रतिपत्तिः स्याद् इत्य् असकृत् प्रतिपादितम् ।

p53111

एवं च सति यद् उक्तम् इदानीन्तनम् अस्तित्वं न हि पूर्वधिया गतम् इति तद् बालवल्गितम् ।

p53230

2.4 एतेन प्रत्यभिज्ञानस्यापि प्रामाण्यं प्रत्युक्तं वेदितव्यम् ।

p53400

3.1 तथा ताथागतानाम् अप्य् अनधिगतार्थगन्तृविशेषणम् अपार्थकम् अपोह्यज्ञानासम्भवात् । न हि पूर्वापरकालभाविनी विज्ञान एकविषये स्तो, न स्वलक्षणैकविषये, न सामान्यैकविषये,

p53614

3.11 स्वलक्षणस्याभिन्नैकस्वभावस्य क्रमवृत्त्यनेकविज्ञानजननशक्तिव्यतिरेकात् । अथ युगपदेकविषयोत्पन्नानेकविज्ञानापनोदार्थं,

p53779

तद् अप्य् अयुक्तम् । एकविषयोत्पन्नानेकपुरुषसंवेदनस्याप्रामाण्यम् आपनीपद्येत ।

p53888

3.12 अथ सामान्यैकविषयानेकविज्ञानापनोदार्थं विशेषणम् उपादीयते, तद् अप्य् अयुक्तम् । न सामान्यैकं विज्ञानम् अस्ति, नाप्य् अनेकं विज्ञानं, तस्य स्वयम् असम्भवात् । तदाकारविरहे सामान्यविषयं विज्ञानम् इति प्रतिकर्मव्यवस्थाहेतुर् वक्तव्यः । तदाकारे वा सामान्यस्य सदात्मता । अतात्त्विकाकारतादात्म्ये वा ज्ञानातात्त्विकत्वप्रसङ्गः ।

p54252

3.1अ किं चैकविषये प्रवर्तमानयोर् एकस्याप्रामाण्यं प्रमाणान्तरत्वाभावो वा ।

p54360

3.1अ तद् यद्य् अप्रामाण्यं, तद् अयुक्तम् । अविशिष्टैकार्थगृही तिरूपत्वोभयोः प्रामाण्यम् अप्रामाण्यं वा विकल्पानुपपत्तेः । विकल्पे वैकविषयोत्पन्नानेकपुरुषविज्ञानभेदप्रसङ्गः ।

p54570

3.1अ अथाप्रमाणान्तरत्वं, तद् अप्य् अनुपपन्नम् । किम् एकविषयोत्पादितानेकप्रत्यक्षादिज्ञानानां व्यक्तिनानात्वं नोपपद्यताहाकारनानात्वम्? तद् यदि व्यक्तिनानात्वं न जाघटीति, तद् असद्, एकनीलोत्पादितानेकनीलालोकविज्ञानानां व्यक्तिनानात्वदर्शनात् ।

p54846

अथानेकाकारता नोपपद्यते, तद् अयुक्तं, नीलालोकविज्ञानानाम् अनेकाकारत्वदर्शनात् । न च तदुत्पादको नीलप्रपञ्चो ऽस्त्य्, एकात्मतया स्वयम् अभ्युपगमात् ।

p55028

अथैकविटयत्वे प्रत्यक्षानुमानव्यपदेशानुपपत्तिः ।

p55111

तद् एतद् अयुक्तं, भिन्नकरणकार्यत्वेन व्यपदेशोपपत्तेः । यथैकनीलोत्पन्नानेकदेवदत्तादिज्ञानानां भिन्नकर्तृकार्यत्वेन देवदत्तादिज्ञानव्यपदेशस् तथेहापि ।

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc