तत्त्वोपप्लवसिंह · श्लोक p46953-p51172
2.11 नन्व् अधिगतविषयत्वे सत्य् अपि प्रामाण्याभ्युपगमे स्मृतेर् अपि प्रामाण्यम् अनुषज्यते प्रमाणफलता वा ।
को ऽत्र निवारयिता? स्मृतिर् इहोपजायमानाद्यानुभवावेदितार्थाकारविषया वान्यविषया वा निर्विषया वा ।
तद् यदि पूर्वोदितानुभवावेदितार्थाकारविषया, तदा तस्याः प्रमाणफलता नैव निवारयितुं पार्यते गृहीतार्थग्राहित्वाविशेषाद् इत्य् उक्तम् । एवं च स्मृतिसञ्ज्ञकं सप्तमं प्रमाणं प्रसक्तं मीमांसकानाम् । अथ पूर्वविज्ञानानवधारितार्थविषया । यद्य् एवं कथं तस्याः प्रमाणफलत्वम् अपनेतुं पार्यते? आद्यानुभवस्येव स्मृतिरूपता च न प्राप्नोति । दृष्टश्रुतार्थविषया हि स्मृतिर् नागृहीतार्थविषया ।
अथ निर्विषयेष्यते, तदा न गृहीतार्थग्राहित्वेन स्मृतेर् अप्रामाण्यम्, अपि तु केशोण्डुकसंवेदनवन् निर्विषयत्वेन ।
अपि च यदि निर्विषया, तदा गृहीतार्थग्राहिणी कथम्? गृहीतार्थग्राहिणीति चेन्, निर्विषयेति न वक्तव्यम् । न च निर्विषया । मातरं पितरं शुश्रूषितवान् अहं, सन्ति मे पञ्चभृत्येति पूर्वानुभवावेदितार्थाकारपर्यवसायिन्यो हि स्मृतयः, स्मृतिज्ञानेन पूर्वानुभवावेदितार्थाकारस्य प्रतिभासनात् ।
अथ स्मृतिविज्ञानकाले पूर्वप्रबोधविषयीकृतार्थस्य प्रत्यस्तमितत्वान् न तद्विषयत्वम् । एवं च निर्विषयत्वेन स्मृतेर् अप्रामाण्यं न गृहीतार्थग्राहित्वेनेत्य् उक्तम् ।
2.2 यदि चावधारितार्थविषयं प्रमाणम् अप्रमानम् उपपाद्यते, तदानुमानज्ञानस्याप्रामाण्यम् आपनीपद्येत ।
तद् एव कथम्? कथ्यते यद् एवाविनाभावसम्बन्धग्रहणकालावधारितम् अग्नित्वसामान्यं लिङ्गाजहद्वृत्तित्वेन प्रत्यक्षेण तद् एवानुमानाद् अवगच्छत्य् आहोस्वित् पावकस्वरूपं मत्वर्थं वा लिङ्गव्यापारसमानकालीनास्तित्वं वा लिङ्गोपसर्जनत्वं वाग्निव्यक्तिपारतन्त्र्यं वाग्नित्वसामान्यस्य?
2.21 तद् यदि पूर्वावधारितसामान्यविषयम् अभ्युपेयते, तदा प्रामाण्यं नैव समासादयति गृहीतार्थग्राहित्वेन स्मृतिवद् एव । तदप्रामाण्ये नाग्निमत्त्वव्यवस्थोपपत्तिः । तदनुपपत्तौ च नार्थापत्त्याग्निव्यक्तिसंस्थितिः । ततश् चामुत्राग्निर् अग्निर् आनीयताम् इति सकललोकव्यवहारविर ।हः स्यात् । अथ मा भूद् एतद्व्यवहारहानिर् इति चेत् पूर्वावधारिते ऽप्य् अर्थे ऽनुमानस्य प्रामाण्यम् अभ्युपेयते, तदानधिगतार्थगन्तृविशेषणम् अपार्थकं श्रोत्रियाणाम् इति ।
2.22 अथ पावकस्वरूपम् अनुमिमीषे, तल् लिङ्गाजहद्वृत्तित्वेन पूर्वम् अवधारितं वा न वा । यदि पूर्वोपलब्धम् अधिगतार्थविषयत्वम् आयातम् अनुमानस्य । अथ न पूर्वोपलब्धम्, अव्यापको ऽग्निर् अनुमानात् तर्हि प्रतीयते । तदभ्युपगमे तृणजलादिविषयम् अप्य् अनुमानं प्रसज्यते ।
2.23 अथ मत्वर्थो ऽनुमीयते, स पूर्वावधारितो वा न वा । यद्य् अवधारितः, कथम् अनधिगतार्थगन्तृविशेषणम् अनुमाने सम्भवति?
अथ नैवावगतस्, तदानीं जलतृणादिविषयम् अप्य् अनुमानं प्रसज्येतेत्य् उक्तम् ।
2.24 अथ लिङ्गव्यापारसमानकालीनास्तित्वम् अग्नित्वसामान्यस्यानुमीयते, तद् अनुमानव्यापारसमानकालीनास्तित्वम् अग्नित्वसामान्याद् व्यतिरिक्तम् अव्यतिरिक्तं वा । तद् यद्य् अव्यतिरिक्तं, तदानीं पूर्वोपलब्धास्तित्वविषयम् एवानुमानम् । कथम् अनधिगतार्थगन्तृविशेषणम् अपार्थकं न भवेत्?
अथ व्यतिरिक्तं, तत् किं पूर्वोपलब्धम् अनुपलब्धं वा?
यदि पूर्वोपलब्धं तद्विषयत्वे ऽनुमानस्य नानधिगतार्थगन्तृविशेषणम् उपपद्यते । अथ नोपलब्धं, तत् कथम् अनुमीयते जलादिकल्पं धूमेन?
2.25 अथ लिङ्गोपसर्जनत्वम् अग्नित्वसामान्यस्यानुमानात् प्रतीयते, तल् लिङ्गोपसर्जनत्वम् अग्नित्वसामान्याद् भिन्नम् अभिन्नं वा । यद्य् अभिन्नं पूर्वोपलब्धाग्नित्वसामान्यविषयम् एवानुमानं, कथं प्रामाण्यभाग् भवति? अथ भिन्नं, तदविनाभावसम्बन्धग्रहणकाले लिङ्गव्यापकत्वेनावधारितं वा न वा ।
यद्य् अवधारितं कथम् अनधिगतार्थविषयम् अनुमानम्?
अथ लिङ्गव्यापकत्वेनानवगतं, तदा तद्विषयत्वे ऽनुमानस्य परिकल्प्यमाने त्रिभुवनावेदकत्वं धूमस्य किं न परिकल्प्यते सम्बन्धाभावाविशेषात्?
2.26 अथाग्निव्यक्तिपार ।तन्त्र्यम् अनुमीयते धूमेनाग्नित्वसामान्यस्येति चेत्, तत् पारतन्त्र्यम् अग्नित्वसामान्यस्य धूमव्यापकत्वेनावधारितं वा न वा ।
यद्य् अवधारितं, पुनर् अपि गृहीतग्राहित्वं नातिवर्तते ऽनुमानम् । अथ नावधारितं धूमव्यापकत्वेन पारतन्त्र्यम् अग्निसामान्यस्येति चेत्, कथम् अनुमीयतेत्य् उक्तं पुरस्तात् ।
मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0