भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p42002-p46525

p42002

1.3 अव्यपदेश्यपदं च यथा न साधीयस् तथा लक्षणसारे द्रष्टव्यम् ।

p42104

1.4 तथेन्द्रियार्थसन्निकर्षजत्वम् अपि नोपपद्यते तद्गत्यभावात् ।

p42202

1.41 इन्द्रियार्थसन्निकर्षो हि व्यवहितार्थानुपलब्धिलिङ्गो वावरणलिङ्गो वा तदुत्पादितघटादिज्ञानावसेयो वा ।

p42342

तद् यदि व्यवहितार्थानुपलब्धिलिङ्गस्, तद् अयुक्तं, तेन सह सम्बन्धानुपपत्तेस् तदभावे ऽप्य् अनुपलम्भसद्भावदर्शनात् । यदभावे ऽपि यस्य सद्भावः, स कथं तत्सद्भावावेदकः?

p42577

अथावरणलिङ्गस्, तद् अयुक्तं, तेन सह सङ्गतेर् अभावात्, तदभावे ऽपि सद्भावदर्शनात् । तद्भावे वावरणानर्थक्यम् । तदभावे तद्गतिः कथम्?

p42755

अथ तद्भवकुम्भादिज्ञानेनावगम्यते, तद् अयुक्तं, तदनवगतौ तदुद्भवत्वस्यानवगतेः । पिशाचपरमाणुमहेश्वरकल्पो ऽसौ सन्निकर्षः । कथं तदायत्तता वेद्यते ज्ञाने?

p42960

कथं च तदिन्द्रियार्थसन्निकर्षम् आवेदयति ज्ञानम्? किं विज्ञानाकारतयाहो कार्याकारतयेन्द्रियार्थसन्निकर्षजन्याकारतया वा? तद् यदि ज्ञानस्वभावतया, तद् अयुक्तं, तदभावे ऽपि ज्ञानाकारस्य सम्भवोपमानादिज्ञाने ।

p43209

अथ कार्यात्मतया गमयति, तद् अप्य् अयुक्तम्, उपमानानुमानज्ञानमरीचिनीलजलादौ तस्य सद्भावोपपत्तेः । यो येन विना भवति, स कथं तस्य ज्ञापको नाम? अन्यथा सत्त्वादेर् अपि गमकत्वं स्यात् ।

p43436

अथेन्द्रियार्थसन्निकर्षजन्याकारतया संसूचयतीति चेद्, असाव् इन्द्रियार्थसन्निकर्षजन्याकारो ज्ञानाकाराद् अव्यतिरिक्तो व्यतिरिक्तो वा ।

p43597

यद्य् अव्यतिरिक्तस्, तदा ज्ञानात्मतामात्रं, नाकारातिरेको ऽन्यो ऽस्ति विभाव्यमानो ऽनुमानादिज्ञानेषु यथा । आकारान्तरातिरेके वा ज् आनरूपता हीयते । अथ व्यतिरिक्तस्, तस्यैव तर्हि गमकत्वं, न ज्ञानाकारस्य । तस्याप्य् अगमकत्वं तदवेदनात् । किं च तदुत्पन्नम् इन्द्रियार्थसन्निकर्षाद् विज्ञानं स्वरूपेणावगाहनीयं, ततो व्याप्तिस्मरणं, तदनु परामर्शज्ञानं, ततो ऽनुमेयावगतिर् इति न चैतावन्तं कालं विज्ञानं स्थितिपदं बध्नात्य्, आशुभावित्वेन प्रत्यस्तमितत्वात् । अथ बुद्ध्यारूढेन धर्मधर्मिन्यायेन परिकल्प्यते ऽनुमानं, तदावास्तवं प्राप्नोति सुगतानुमानवत् ।

p44198

1.42 तथेन्द्रियोत्पाद्यत्वम् अपि नोपपद्यतेन्द्रियोत्पाद्यत्वातिरेकानवगतेः । विज्ञानं स्वभावतयैव वेद्यते, नाकारान्तरेण । तज्ज्ञप्तौ वा ज्ञानाकारविरहप्रसङ्गः । न च ज्ञानम् इन्द्रियसम्बद्धं दृष्टं, येन तद् उपलभ्यमानम् इन्द्रियं गमयति ।

p44477

अथ क्रियान्यत्र करणसाध्या दृष्टा ।

p44544

सैव गमिकास्तु, यस्याः करणसम्बन्धो ऽवगतः । न चान्यस्य सम्बन्धे ऽन्यस्य गमकत्वं किञ्चित्साम्याद् उपपद्यते । न जातु देवदत्तनयननीलसम्बन्धे सति यज्ञदत्तेन्द्रियं घटादिकम् अर्थम् असति सम्बन्धे करणत्वसाम्याद् प्रकाशयद् दृष्टम् ।

p44821

तथार्थजन्याकारो ऽपि विज्ञाने ऽनेनैव प्रकारेण पर्युदस्तो वेदितव्यः ।

p44924

1.43 तथार्थो ऽपि विज्ञानम् उत्पादयत्य् अनुपजातातिशयोपजातातिशयो वाव्यतिरिक्तोपजातातिशयो वा व्यतिरिक्तोपजातातिशयो वा । तद् यद्य् अनुपजातातिशयः करोति, तदा सर्वदा कुर्यान् न वा । करणम् अकरणं च नोपपद्येत तत्स्वरूपानतिवृत्तेः ।

p45194

तथाव्यतिरिक्तोपजातातिशयो ऽपि न करोत्य् अकारकाकारस्यानुगतेः । अननुगतौ वा न तर्हि तदव्यतिरिक्तो ऽतिशयः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते, तथापि नोपपद्यते ऽकारकाकारानतिवृत्तेः । अतिवृत्तौ वायातं क्षणिकत्वम् । ततश् च नेन्द्रियार्थसन्निकर्षजं विज्ञानं प्रत्यक्षलक्षणम् ।

p45600

2. अन्ये त्व् अनधिगतार्थगन्तृत्वेन प्रमाणलक्षणम् अभिदधति । ते त्व् अयुक्तवादिनो द्रष्टव्याः । कथम् अयुक्तवादिता तेषम् इति चेद्, उच्यते विभिन्नकारकोत्पादितैकार्थविज्ञानानां यथाव्यवस्थितैकार्थगृहीतिरूपत्वाविशेषे ऽ पि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यं नोत्तरस्येत्य् अत्र नियामकं वक्तव्यम् ।

p45928

2.1 अथ यथाव्यवस्थितार्थगृहीतिरूपत्वाविशेषे ऽपि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यम् उपपद्यते, न प्रथमोत्तरविज्ञानस्य, तदानेनैव न्यायेन प्रथमस्याप्य् अप्रामाण्यं प्रसक्तं गृहीतार्थग्राहित्वाविशेषात् । यथैकनीलस्वलक्षणावभासितयुगपदुत्पन्नानेकनीलविज्ञानानां नीलैकार्थगृहीतिरूपता न भिद्यते, तथा पूर्वापरोत्पन्नविज्ञानानाम् अपि गृहीतार्थगृहीतिरूपता न निवर्त्स्यति ।

p46342

अथ नियतविषयत्वं पूर्वोत्तरविज्ञानयोः पूर्वोत्पन्नविज्ञानम् अनधिगतार्थाकारस्वीकरणमुखेनोपादीयत, उत्तरं त्व् अधिगतार्थाकारविषयम् उपजायते ।

p46525

यदि गृहीतार्थविषयत्वं कथं प्रतिनियतविषयत्वम्? अथ प्रतिनियतविषयत्वं कथं गृहीतार्थग्राहित्वं, नियतविषयत्वगृहीतग्राहित्वयोर् विरोधात्? यदि च नियतविषयत्वं, तदोभयोर् अपि प्रामाण्यम् अनधिगतार्थगन्तृत्वाविशेषात् । अथैकविषयत्वं, तदोभयोर् अपि प्रामाण्यम् अप्रामाण्यं वा गृहीतग्राहित्वाविशेषात् । सो ऽयं गडुप्रवेशाक्षितारकविनिर्गमन्यायोपनिपातः श्रुतिलालसानां दुरुत्तरः ।

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc