तत्त्वोपप्लवसिंह · श्लोक p35203-p41752
तद् यदि विज्ञानलक्षणां न करोति, तद् अयुक्तं, विज्ञानलक्षणाम् अर्थक्रियां करोत्य् एव तोयम् ।
अथ प्रवृत्तिरूपां न करोति, तद् अयुक्तं, प्रवृत्तिर् हि पुरुषेच्छानुविधायिनी, नार्थस्वरूपभावाभावाव् अनुगमयति । पुरुषो हि कामतः प्रवर्तते वा न वा । न ह्य् एतावता तदभावसिद्धिः । अथ प्राप्तिरूपाम् अर्थक्रियां न करोति, तेनासत्त्वम् ।
तद् अप्य् अयुक्तं, चन्द्रार्कग्रहनक्षत्रतारकादेः प्राप्त्यभावे ऽपि सत्त्वसम्भवात् । अथ सुखदुःखरूपाम् अर्थक्रियां न करोति, किं दर्शनजं सुखं न करोत्य् आहो देहसम्बन्धजम्? तद् यदि दर्शनजं न करोति, तद् अयुक्तं, करोत्य् एव । अथ देहसम्बन्धजं न करोति, तदा चन्द्रार्कग्रहनक्षत्रादौ व्यभिचारस्, तेषां देहसम्बन्धजसुखजनकत्वं नास्त्य्, अथ च सत्त्वम् । न चार्थक्रियाकर्तृत्वेन वस्तूनाम् असत्त्वं, स्वहेतोर् एव विज्ञानजननमात्रस्योत्पत्तेः, सहकारिविरहाद् वा न करोति ।
1.1बब् किं चार्थक्रियां न करोति किम् एकस्य प्रतिपत्तुः सर्वप्रतिपत्तॄणां वा?
तद् यद्य् एकस्य प्रतिपत्तुर् अर्थक्रियां न करोति तेनासत्त्वं, तदा चन्द्रार्कग्रहनक्षत्रतारकादौ व्यभिचारो, मुमूर्ष्वर्थे च ।
अथ सर्वप्रतिपत्तॄणाम् अर्थक्रियां न करोति तेनासत्त्वम्, एवं तर्हि सर्वभावानाम् असत्त्वप्रसङ्गः । न हि सर्वे भावाः सर्वपुरुषार्थहेतवः । न च सर्वपुरुषार्थक्रियाविहीनम् एतद् इत्य् अवगन्तुं पार्यते ऽर्वाग्विदा । तस्मात् स्थितम् एतद् अव्यभिचारिपदम् अनर्थकम् ।
च्. अन्ये तु मरीच्युदकविज्ञानस्य स्मृतित्वं प्रतिपद्यन्ते, न भ्रान्तिरूपताम् । तस्य कथं स्मृतित्वम्? किम् उदकगृहीतित्वेन गृहीतोदकगृहीतित्वेन वोदकग्रहणानन्तरकालभावित्वेन वा निर्विषयत्वेन वा यम् अहम् अद्राक्षम् इत्य् अनेनाकारेणोपजायमानत्वेन वा?
तद् यद्य् उदकगृहीतित्वेन तदा सर्वोदकविज्ञानानां स्मृतित्वप्रसङ्गः । अथ गृहीतोदकगृहीतित्वेन स्मृतित्वं, तदाद्यस्यापि गृहीतोदकगृहीतित्वे स्मृतित्वं प्रसज्यते गृहीतोदकग्राहित्वाविशेषात् ।
अथाद्यस्य गृहीतोदकग्राहित्वं नास्ति । तदानीं भिन्नविषयत्वम् । भिन्नविषयत्वे च द्वितीयस्यापि गृहीतग्राहित्वं विहीयते । अथैकविषयत्वम्, आयातं तर्हि प्रथमस्यापि गृहीतग्राहित्वम् अविशिष्टार्थगृहीतिरूपत्वात् प्रथमोत्तरविज्ञानवत् । यथैकनीलस्वलक्षणग्राहकयुगपदुत्पन्नानेकविज्ञानानां नीलज्ञानरूपता न भिद्यते तथेहापि । तथा धारावाहिविज्ञानानां स्मृतिरूपता प्राप्नोति । तथा प्रत्यभिज्ञानस्य च गृहीतग्राहित्वेन स्मृतित्वं प्रसज्यते । अथ प्रत्यभिज्ञानस्य गृहीतार्थग्राहित्वं न विद्यते, तदा प्रत्यभिज्ञानत्वं निवर्तते । न ह्य् आद्यं दर्शनं सैवायम् इत्य् उपजायते । तथानुमानिकम् अपि विज्ञानं गृहीतार्थग्राहित्वेन स्मृतित्वम् आपद्यते । अथोदकग्रहणोत्तरकालभावित्वेन स्मृतित्वं, तदा संस्कारस्य स्मरणरूपता प्राप्नोत्य्,
उदकग्रहणोत्तरकालभावित्वेन रससंवेदनस्य च ।
अथ निर्विषयत्वेन स्मृतिरूपतोच्यते, तद् अयुक्तं, पूर्वोदितानुभवावेदितार्थाकारावेदकत्वेनोदीयमानायाः कथं निर्विषयत्वम्? अथ पूर्वानुभूतार्थप्रत्यस्तमये सति समानकालार्थाभावान् निर्विषयता, तदा चोदनाजनितवि
ज्ञानस्य निर्विषयत्वेन स्मृतित्वम् आपनीपद्यते, कर्तव्यतारूपार्थस्य तदाभावात् । भावे वा कर्तव्यरूपता नोपपद्यते । तदनुपपत्तौ सप्ततन्तुक्रियाया विलोपप्रसङ्गः । यदि च निर्विषयत्वेन स्मृतित्वं, तदा विद्यमानघटजात्यादेः स्मरणस्यास्मृतित्वप्रसङ्गः । अथाद्राक्षम् इत्य् अनेनाकारेणोपजायमानत्वेन स्मृतित्वं, तद् अयुक्तम् । इहोदकम् इत्य् अनेनाकारेणोपजायमानायाः कथम् अद्राक्षम् इत्य् एवंरूपतोपपद्यते?
अथ विप्रमुषिततयानया भङ्ग्योपजायते, को ऽयं विप्रमोषो नाम? किम् अनुभवाकारस्वीकरणं स्मरणाकारप्रध्वंसो वापूर्वार्थगृहीतित्वं वेन्द्रियार्थसन्निकर्षजत्वं वेन्द्रियार्थासन्निकर्षजत्वं वा?
तद् यद्य् अनुभवाकारस्वीकरणं, तदा स्मृतिरूपता नोपपद्यते । अथ स्मृतिरूपता, तदानुभवाकारस्वीकरणं नोपपद्यते, स्मृत्यनुभवाकारयोर् इतरेतरपरिहारस्थितिलक्षणत्वात् । अथ स्मरणाकारप्रध्वंसस्, तद् अयुक्तं, विज्ञानस्य स्वयं स्मृतित्वेनाभ्युपगमात् । प्रध्वंसो ह्य् अविज्ञानात्मकः, कथं स्मृतिरूपतां विधत्ते?
अथापूर्वार्थविषयगृहीतित्वं स्मृतिप्रमोषोच्यते, तदात्यन्ताननुभूतकनकपनसादिसंवित्तीनं स्मृतिविप्रमोषत्वम् आपद्यते । अथेन्द्रियार्थसन्निकर्षजत्वं स्मृतिविप्रल्नोषोच्यते, तदा संवित्तीनां स्मृतिविप्रमोषत्व प्रसङ्गः ।
अथेन्द्रियासन्निकर्षजत्वं स्मृतिविप्रमोषोच्यते, तदा चोदनाजनितविज्ञानस्यानुमानोपमानविज्ञानस्य च स्मृतिविप्रमोषत्वम् आपद्यते । तस्माद् यथा यथा विचार्यते स्मृतिविप्रमोषस् तथा तथा न्यायं न विषहतेति । तस्मान् मरीच्युदकविज्ञानस्य न स्मृतिविप्रमोषरूपता, अपि तु विपरीतख्यातित्वं सम्यग्ज्ञानत्वं वा ।
1.2 तथा व्यवसायात्मकपदम् अपि नोपादेयम् अपनेयाभावात् । ननु स्थाण्वादिके ऽर्थेन्द्रियार्थसन्निकर्षात् सामान्यमात्रदर्शनाद् विशेषानुपलब्धौ सन्देहज्ञानम् उपजायते । तद् अपनीयते । तस्मिन् सन्देहज्ञाने जाते किञ्चित् प्रतिभात्य् आहो न प्रतिभाति । तद् यदि प्रतिभाति, स किं धर्मी धर्मो वा?
तद् यदि धर्मी प्रतिभाति, स तात्त्विको ऽतात्त्विको वा ।
यदि तात्त्विको, नापनेयता तद्विषयविज्ञानस्य । अथातात्त्विकस्, तदाव्यभिचारिपदेनापनीतत्वान् न व्यवसायात्मकपदम् उपादेयम् । अथ धर्मः प्रतिभाति, स स्थाणुत्वलक्षणः पुरुषत्वलक्षणोभयं वा । तद् यदि स्थाणुत्वलक्षणो धर्मः प्रतिभाति, स तात्त्विको ऽतात्त्विको वा । यदि तात्त्विकः, कथं तद्बुद्धेः सन्देहरूपता, तात्त्विकार्थगृहीतिरूपत्वेन सत्योदकसंवेदनवत्?
अथातात्त्विकस्, तदाव्यभिचारिपदेनापोदितत्वान् न व्यवसायात्मकपदम् उपादेयम् । अथ पुरुषत्वलक्षणो धर्मः प्रतिभात्य्, असाव् अपि तात्त्विको ऽतात्त्विको वा । यदि तात्त्विकः, कथं तत्बुद्धेः सन्देहरूपता? अथातात्त्विकस्, तदाव्यभिचारिपदेनापोदितत्वाद् व्यवसायात्मकपदं न साधीयः । अथोभयं प्रतिभाति, तदोभयोस् तात्त्विकत्वम् अतात्त्विकत्वं वाथैकस्य तात्त्विकत्वम् अन्यस्यातात्त्विकत्वम् । तद् यद्य् उभयोस् तात्त्विकत्वं, तद तद्विज्ञानस्य तात्त्विकत्वम् एव, न सन्देहात्मता । अथोभाव् अप्य् अतात्त्विकौ, तदा तद्विज्ञानस्य विपर्ययरूपता, न सन्देहात्मता । अथैकस्य तात्त्विकत्वम् अन्यस्यातात्त्विकत्वं, तदा तद् एव ज्ञानं व्यभिचारि तद् एवाव्यभिचारि । अतात्त्विकार्थगृहीतिरूपत्वाद् व्यभिचारि, तात्त्विकार्थगृहीतिरूपत्वाद् अव्यभिचारि । एतेन द्विचन्द्रज्ञानम् उद्घाटितम् । तत्र हि द्रव्याकारः प्रतिभाति,
न गुणाकारः । अथ सन्दिग्धार्थाकारप्रतिभासि सन्देहज्ञानम् इति चेत्,
ससन्दिग्धो ऽर्थो विद्यते वा न वा । तद् यदि विद्यते, कथं तत्संवेदनस्य सन्देहरूपताबाधितार्थगृहीतिरूपत्वात् सत्योदकसंवेदनवत्?
अथ न विद्यते, तदाव्यभिचारिपदेनापोदितत्वाद् व्यवसायात्मकपदम् अपार्थकम् । अथ न किञ्चिद् अपि प्रतिभाति, न तर्हि तस्येन्द्रियार्थसन्निकर्षजत्वं भ्रान्तोदकविज्ञानवत् । तस्माद् व्यवसायात्मकपदम् अप्य् अनुपादेयम् ।
मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0