भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p29594-p34991

p29594

1.1अ यद् अप्य् उक्तं मरीचिदेशं प्रति गमनान् मरीचीनाम् आलम्बनत्वम् । यद्य् एवं देशस्याप्य् आलम्बनत्वम् अनया रीत्योपपद्यते । न चावभातोदकभिन्नार्थसन्निकर्षजत्वम् उदकविज्ञानस्योपपद्यते, सत्योदकज्ञाने ऽदृष्टत्वात् । अन्यथानुमेयदहनज्ञानस्यापीन्द्रियार्थसन्निकर्षज त्वम् आपनीपद्येत, आत्ममनःसन्निकर्षजत्वात् ।

p29946

अथ प्रतीयमानदहनेन सह मनसो नास्ति सम्बन्धस्, तद् इहापि प्रतीयमानेनाम्भसा सह नास्ति सम्बन्धश् चक्षुषः । तस्माद् अव्यभिचारिपदं न युक्तम् इन्द्रियार्थसन्निकर्षपदेनापोदितत्वात् ।

p30167

1.1ब् इतो ऽप्य् अनुपपन्नम् अपोह्यज्ञानासम्भवात् । अथ मरीच्युदकविज्ञानापनिनीषयोपादीयते, तत् कथम् अपनीयते?

p30309

अविद्यमानोदकविषयत्वात् । यद्य् अविद्यमानं, को ऽयं विषयार्थः? पूर्वोदितम् अनुसरणीयम् । यदि तत्रोदकं प्रतिभाति, कथं नास्ति? सत्यं, प्रतिभाति, किं त्व् अतथ्यं प्रतिभाति । अतथ्यता का? किं प्रतीयमानस्याभावोत प्रतीयमानैवाभावः?

p30585

1.1ब्1 तद् यदि प्रतीयमानस्याभावः, स किं तदैवाहोस्वित् कालान्तरेण? यदि तदैव, स किम् अवगतो ऽनवगतो वा? यद्य् अवगतः, स केनावगम्यते? किम् उदकविज्ञानेन ज्ञानान्तरेण वा?

p30797

तद् यद्य् उदकज्ञानेन, तन् न, तस्योदकविषयत्वात् । तद्विषयत्वे वा न तर्ह्य् उदकज्ञानं भ्रान्तम् इत्य् उपपद्यते, ऽभावविषयस्य परमार्थसत्त्वात् ।

p30977

न चोदकाकारावगाहिनि विज्ञाने तोयविनिवृत्तयो ऽवभान्त्यतिप्रसङ्गात् ।

p31076

अथ ज्ञानान्तरेण, न, ज्ञानयौगपद्यासम्भवात् । यदि चाभावज्ञानेनाभावव्यवस्था क्रियते भावज्ञानेन च भावव्यवस्था, तदोदकस्य भावाभावाव् एककालौ स्याताम् ।

p31271

अथ भावज्ञानं भावव्यवस्थां न करोत्य् अभावज्ञानं चाभावव्यवस्थां करोत्य्, अहो राजाज्ञा नैयायिकपशोः । यदि च भावज्ञानं भावव्यवस्थां न करोति, तदा सर्वभावेष्व् अनाश्वासप्रसङ्गः । तत्प्रसक्ताव् अभावस्याप्य् अनवस्थितिः । तदनवस्थितौ च तत्त्वोपप्लवः स्यात् । अथानवगतः, सो ऽस्तीति कथं पुनर् वेत्सि?

p31622

अथ कालान्तरे, तदा न किञ्चिद् बाध्यते, सत्योदकस्यापि कालान्तरे ऽभावोपपत्तेः ।

p31734

1.1ब्2 अथ प्रतीयमानैवाभावः, कथं तद्विषयज्ञानस्य मिथ्यात्वम् उपपद्यते, प्रतीयमानस्यैवाभावस्योपपत्तेः? न च भावाकारे प्रतीयमने ऽभावकल्पना न्याय्यातिप्रसङ्गात् । अन्यथा रूपादौ प्रतीयमाने रसादिकल्पना कर्तव्या । न चक्रियते, तथेहाप्य् उदकं प्रतीयते । ननु प्रतीयते, किं त्व् अतथ्यम् । यद्य् एवम् उदकप्रपञ्चो ऽयं दीर्घोदकं मधुरोदकम् इति यथा । नन्व् अत्र सर्वास्व् अवस्थासूदकं प्रतीयते, तेन तास्व् अम्भः प्रकल्प्यते । यद्य् एवं तद् इहाप्य् अवस्थाद्वये ऽप्य् उदकं प्रतीयते सत्योदकम् असत्योदकं च । सत्योदकज्ञाने सत्योदकम् अवभाति, नासत्योदकम् अनुदकं वा । तथासत्योदकज्ञाने ऽसत्योदकं प्रतिभाति, न सत्योदकम् अनुदकं वा, स्वविषयपर्यवसायिन्यो हि बुद्धयः ।

p32468

1.1बाथ बाध्यमानत्वेन मिथ्यात्वम् इति चेत्,

p32543

किं बाध्यते ऽर्थो ज्ञानम् उभयं वा?

p32610

1.1ब यद्य् अर्थस्य बाधा, स केन बाध्यते? किं स्वयम् एवात्मानं बाधताहो ऽर्थान्तरेण ज्ञानेन वा?

p32742

यदि स्वयम् एवात्मानं बाधते, तदा बाधा तेन क्रियते ज्ञाप्यते वा । यदि क्रियते, ऽव्यतिरिक्ताव्यतिरिक्ता वा ।

p32881

यद्य् अव्यतिरिक्ता, तदा बाधा क्रियतेत्य् आत्मानेनोत्पाद्यते । तच् च न जाघटीति स्वात्मनि क्रियाविरोधात् । अथ व्यतिरिक्ता क्रियते, तथापि विद्यमानस्य कर्तृत्वं, न प्रतीयमानस्यापलापः । अथ बाधा ज्ञाप्यते, साप्य् अभिन्ना भिन्ना वा । यद्यभिन्ना, तदा बाधा तेन ज्ञाप्यते किम् उक्तं भवति? उदकं ज्ञाप्यते । अथ भिन्ना, तदा विद्यमानस्य ज्ञापकत्वं सिद्धं प्रतीयमानस्य चास्तित्वम् । अथार्थान्तरेण बाध्यते, तथापि विद्यमानयोर् बाध्यबाधकभावो भूपालयोर् इव, न चैकस्य बाध्यबाधकभावोपपद्यते । बाधापि तेन प्रतीयमानस्य किं क्रियते ज्ञाप्यते वा?

p33475

यदि क्रियते व्यतिरिक्ता व्यतिरिक्ता वा यद्य् अव्यतिरिक्ता, तदाव्यतिरिक्ता बाधोत्पाद्यते किम् उक्तं भवेत्? उदकम् उत्पाद्यते । तदुत्पादने च तत्संविदो ऽमिथ्यात्वम् । अथ व्यतिरिक्तोत्पाद्यते, तथापि तोयसम्बन्धितयोपलब्धेर् अम्भसोपपत्तिः । न जातु देवदत्तस्यासत्त्वे तन्नयनव्यवहारसिद्धिः । अथ ज्ञाप्यते, तदा साव्यतिरिक्ता व्यतिरिक्ता वा । यद्य् अव्यतिरिक्ता ज्ञाप्यते, तदा बाधा तेन ज्ञाप्यते किम् उक्तं भवति? उदकं ज्ञाप्यते । अथ व्यतिरिक्ता सती ज्ञाप्यते, तथाप्य् उदकस्येयं बाधेत्य् अन्यतन्त्रतया प्रतिभासनान् नात्यन्ताभावोपपत्तिः । तस्माद् अर्थान्तरेणापि न बाधोपपत्तिः । अथ ज्ञानेन बाध्यते किं तद्विषयेणान्यविषयेण निर्विषयेण वा? यदि तद्विषयेण, तदा तत् स्वरूपं विधत्ते न तु विपर्यासयति तदाकारपर्यवसितरूपत्वात्

p34249

अथान्यविषयं बाधकं, तद् अपि न युज्यते । यद् यद्विषयं तत् तस्यैव सत्तां विधत्ते, न त्व् अन्यस्य विधायकं प्रतिषेधकं वा । स्वविषयपर्यवसायिन्यो हि बुद्धयः । अथ निर्विषयेण बाध्यते, न किञ्चिद् विदधाति प्रतिषेधति वा निर्विषयत्वाद् एव ।

p34535

1.1ब अथ ज्ञानं बाध्यते, तस्यापि बाधा का? किं स्वरूपव्यावृत्तिरूपा स्वरूपापह्नवरूपा वा विषयाप्धारलक्षणा वा? तद् यदि स्वरूपव्यावृत्तिरूपा बाधा, तदा सर्वं बाधितं स्याद्, विज्ञानस्य विज्ञानान्तरेण निवर्त्यमानत्वात् । अथ स्वरूपापह्नवरूपा, तद् अयुक्तं, मिथ्योदकविज्ञानस्याप्यनुभूयमानत्वात् । अथ विषयापहारलक्षणा बाधोच्यते, सापि न युक्ता । यथा च विषयापहारो न शक्यते कर्तुं तथानान्तरम् एव निवेदितम् ।

p34991

1.1बा यदि न बाध्यते किम् इत्य् असाव् अर्थक्रियां न करोति भावः? केयम् अर्थक्रिया या तेन न सम्पाद्यते पुंसाम्? किं विज्ञानरूपा प्रवृत्तिरूपा प्राप्तिरूपा सुखदुःखोत्पादभोगरूपा वा?

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc