तत्त्वोपप्लवसिंह · श्लोक p23320-p29222
अथाध्यक्षात्मकेन, तद् अयुक्तं, पूर्वोदितप्रत्यस्तमितेन साकं सन्निकर्षाभावात् । तद्विषयविज्ञानं न प्रत्यक्षफलं निरालम्बनत्वात् केशोण्डुकादिसंवेदनवत् । न विज्ञानस्याभावो ऽवभाति, न भावस् तदभावात् । अविद्यमानस्य विषयार्थो वक्तव्यः किम् आकारार्पकत्वेन वा महत्त्वादिधर्मोपेतत्वेन वा सत्तामात्रेण वा सहोत्पादेन वा? सर्वस्य प्रत्यस्तमितत्वात् कथम् असौ विषयः? तद्विषयत्वे केशोण्डुकादिविज्ञानस्यैव मिथ्यात्वे बीजम् अन्वेषणीयम् । आत्मसत्तामात्रेण मिथ्यात्वे सर्वस्य मिथ्यात्वम् आपद्यते । ततस् तत्त्वोपप्लवः स्यात् ।
1.14 अथान्यथाव्यभिचारित्वं गृह्यतात्मान्तःकरणसम्बन्धेनोत्पन्नं विज्ञानम् अव्यभिचारिताविशिष्टं प्रद्योत्यते । तद् अयुक्तम् । तद् अव्यभिचारित्वं तद्धर्मो वा तत्स्वरूपं वा ।
1.141 तद् यदि तद्धर्मः, स नित्यो ऽनित्यो वा ।
यदि नित्यस्, तदा जातिदोषेणापोदितो वेदितव्यः । अथानित्यः, स पूर्वोत्पन्नः सह पश्चाद् वा जातः । तद् यदि पूर्वोत्पन्नस्, तदा कस्यासौ धर्मः? न हि धर्मिणम् अन्तरेण धर्मो भवितुम् अर्हति । सर्वतो व्यावृत्तरूपत्वात् कः कस्येति वक्तव्यम् । अथ सहोत्पन्नः, कस् तयोः सम्बन्धेति वक्तव्यम् । तादात्म्यतदुत्पत्तिसमवायसम्बन्धाभावे सति षष्ठ्यर्थो वक्तव्यस् तस्याव्यभिचारित्वम् इत्य् अथ पृष्ठोत्पन्नस् तर्हि पूर्वं व्यभिचारिता विज्ञानस्य प्राप्नोति । न चाध्यात्मिको ऽव्यभिचारिरूपो धर्मो ऽस्ति सुखादिव्यतिरिक्तस्, तत्प्रतीत्यसम्भवेन स्वयम् अनभ्युपगमात् । यदि चाव्यभिचारादयो धर्मार्थान्तरभूताभ्युपगम्यन्ते तैर् अवच्छिन्नं विज्ञानं सामग्र्यावस्थापकम् उद्घुष्यते । तच् चानुपपन्नं, प्रत्येकमनेकविशेषणावच्छिन्नविज्ञानप्रतिपत्तिकालावस्थानायोगात् । ज्ञाप्यज्ञापकयोर्
अभावे कर्तृमात्रप्रबन्धि ज्ञानं स्यात् ।
1.142 अथ तत्स्वरूपम् अव्यभिचारित्वं तत् किं स्वसत्तामात्रानुरोधेनार्थान्तरसत्तानुरोधेन वा?
तद् यदि ज्ञानसत्तामात्रतैवाव्यभिचारित्वम् उच्यते, तदा केशोण्डुकसंविदोऽप्य् अव्यभिचारिता स्यात् । न च ज्ञानसत्तामात्रानुरोधेन ज्ञानं व्यभिचार्य् अव्यभिचारि वोद्गीयते । अथार्थान्तरसत्तानुरोधेनाव्यभिचारित्वं किम् अनुपकारकार्थान्तरसत्तानुरोधेनाहोस्विद् उपकारकार्थान्तरसत्तानुरोधेन? तद् यदि तावद् अनुपकारकार्थान्तरसत्तानुरोधेन, तदा केशोण्डुकेन्दुद्वयसंविदो ऽप्य् अव्यभिचारिताप्रसङ्गः । अथोपकारकार्थान्तरसत्तानुरोधेनाव्यभिचारिता किं प्रतीयमानार्थान्तरोपकारकसत्तानुरोधेन तद्विपरीतार्थान्तरोपकारकसत्तानुरोधेन वा? तद् यदि पूर्वपक्षाभ्युपगमस्, तदातीतानागतानुमानविज्ञानस्य योगिप्रत्यक्षस्य च चोदनावचनजनितविज्ञानस्य वाव्यभिचारिता न भवेत्, तदवगतोपकारकार्थाभावात् । भावे वा वितानक्रियालोपप्रसङ्गः । अथोत्तरो मतस्, तदा
केशोण्डुकेन्दुद्वयसंविदो ऽव्यभिचारित्वं प्रसज्यतेत्य् असद्गृहीतम् ।
1.14अ किं च तद् विज्ञानम् अव्यभिचार्य् अवगतं सामग्र्या ज्ञापकम् अनवगतं वा । यद्य् अवगतं तस्यावगतिर् आत्मसंविद्रूपा वा ज्ञानान्तरवेद्या वा । तद् यद्य् आत्मसंवेदनरूपावगतिस्, तद् अयुक्तं, स्वयम् अनभ्युपगमात् । अभ्युपगमे वोपगमविरोधः । अथ ज्ञानान्तरवेद्यं वेत्सि, विज्ञानयोर् भेदे बीजम् अन्वेष्टव्यम् । ज्ञनम् अज्ञानाकाराज् ज्ञानात्मतया व्यावर्तते, ज्ञानान्तरात् तु कथं व्यावर्तते? किं ज्ञानात्मतया व्यावर्तताहोस्विद् आकारान्तरेण? तद् यदि ज्ञानात्मतया व्यावर्तते, तदान्यस्य ज्ञानात्मता निवर्तते तोयादेर् यथा । अथाकारान्तरेण, आकारान्तरस्वीकरणे ज्ञानाकारविरहः स्याद्, आकारयोस् तादात्म्यायोगात् । तादात्म्ये वैकं तद् वस्तु ज्ञानम् अज्ञानं वा । यदि ज्ञानं, न तर्ह्य् आकारान्तरेण व्यावर्तते, किं तु ज्ञानात्मतयैव । अन्यस्याज्ञानात्मकत्वप्रसट्गः
। अथाज्ञानं सिद्धं नः समीहितम् । अथ ज्ञानत्वं
व्यावर्तकं, तत् केन व्यावर्ततेति पूर्वोक्तम् अनुसर्तव्यम् । विज्ञानान्तरवेद्यम् अपि न सम्भवति । अथ न वेद्यते, तद् अस्तीति कथं पुनर् वेत्सि?
अनेनैव वर्त्मना सत्येतरविज्ञानयोर् विभागाभावो ऽभ्युपगन्तव्यः । अतो ऽव्यभिचारिपदम् अपार्थकम् ।
1.1एतो ऽप्य् अपार्थकम् इन्द्रियार्थसन्निकर्षपदेनापोदितत्वात् । न हि केशोण्डुकविज्ञानस्य नयनार्थसन्निकर्षोद्भूतिर् अस्ति ।
नन्व् अस्ति मरीच्युदकविज्ञानस्य, तदपनोदायाव्यभिचारिपदम् ।
तन् न, यतोदकं प्रतिभाति, न च तेन सह सम्बन्धो ऽस्ति । विद्यमानेन साकं सम्बध्यते, नाविद्यमानेन । तत्सम्बन्धे वा न तद्विषयज्ञानस्य मिथ्यात्वम् इहोपपद्यते सत्योदकसंवेदनवत् ।
ननु यद्य् अपि प्रतीयमानोदकेन सह सम्बन्धो नास्ति चक्षुषस्, तथाप्य् आलम्ब्य मरीचि
निचयेन साकं सम्बन्धो ऽस्ति, तस्यैवालम्बनत्वात्, तद्देशं प्रति प्रवृत्तेः । अतैव मिथ्यात्वमन्यद् आलम्बनम् अन्यच् च प्रतिभाति ।
1.1अ को ऽयम् आलम्बनार्थो नाम येनेदम् उद्घुष्यतेऽन्यद् आलम्बनं चान्यत् प्रतिभाति? किं विज्ञानजनकत्वम् आकारार्पकत्वं विज्ञानाधिकरणत्वं विज्ञानावभासितता वा?
तद् यदि विज्ञानजनकत्वम् आलम्बनार्थस्, तदा नयनालोकादेर् अप्य् आलम्बनत्वं प्रसज्यते । अथाकारार्पकत्वम् आलम्बनत्वं, तद् अयुक्तं, नैयायिकसमये ऽनभ्युपगमात् । यथा च विषयाकारो विज्ञाने न युज्यते तथोपरिष्टात् प्रतिपादयिष्यामः ।
अथ विज्ञानाधिकरणत्वम् आलम्बनत्वं, न मरीचिचक्रोत्कलितम् उदीयते ज्ञानम्, अपि त्व् आत्मसमवेतम् आत्मानम् आसादयते । अथ विज्ञानावभासिततालम्बनत्वं, तदोदकविज्ञानोदकं प्रतीयते, न मरीचयः । अथोदकाकारतया मरीचयैव प्रतीयन्ते, सोदकाकारो मरीचिभ्यो व्यतिरिक्तो ऽव्यतिरिक्तो वा ।
तद् यद्य् अव्यतिरिक्तः, स तात्त्विको ऽतात्त्विको वा ।
यदि तात्त्विकः कथं तदवगतेर् मिथ्यात्वम्? अथातात्त्विकस्, तद् ।आ मरीचीनाम् अप्य् अतात्त्विकत्वं प्रसज्यते । अतात्त्विकोदकतादात्म्ये सति तद् उदकज्ञानम् अतथ्यं किम् उक्तं भवति? मरीचिविज्ञानम् अतथ्यम् । एकस्मिंश् चोदकाकारे प्रतीयमाने केनैतद् आख्यातं मरीचयः प्रतिभान्ति देवानाम्प्रियस्य?
अथार्थान्तरभूतस्, तर्हि न वक्तव्यं मरीचयोदकाकारतया प्रतीयन्त, उदकाकारान्तरिता मरीचयः ।
अथ केशोण्डुकविज्ञाने किम् अवभाति? किम् आलम्बते? केशोण्डुकस्यैवालम्बनत्वं प्रतीयमानत्वं च, तथोदकस्यैवालम्बनत्वं प्रतीयमानत्वं च, नालम्बनान्तरं परिकल्प्यम् । न चोदकज्ञानस्य प्रतीयमानोदकान्यालम्बनत्वेन मिथ्यात्वम्, अपि त्व् अभावात् तात्त्विकत्वेन । अन्यथा केशोण्डुकसंविदो ऽपि मिथ्यात्वं न प्राप्नोत्य्, अन्यालम्बनव्यतिरेकात् ।
मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0