भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p18495-p23186

p18495

अ.2द् इतो ऽपि नास्ति सामान्यं तदुपपादकमानव्यतिरेकात् ।

p18584

नन्व् अस्ति प्रमाणमनयोः सादृश्यम्, एषां सारूप्यं, तेन सदृशो ऽयम्, असौ वा तेन सदृशेत्यादिज्ञानं सामान्यसत्तावबोधकम् अप्रतिपन्नसामान्यस्य नोपपद्यते । अस्ति त्व् इदं विज्ञानं बाधाविकलं जातितनुव्यवस्थापकम् । तद् एतद् अयुक्तम् । किं निमित्तभूतेन तेनैवंविधं ज्ञानम् उत्पाद्यते कर्मतापन्नेन वा?

p18921

तद् यदि निमित्तभूतेनोत्पाद्यते, तदा न सामान्यं कल्पनीयम् । असामान्यात्मकम् एव निमित्तम्, इत्थम्भूतसामान्यज्ञानोत्पादनायालं सामान्यकल्पनया ।

p19097

अथ कर्मतापन्नेनोत्पाद्यते, तद् असत् । नैवावभाति विज्ञाने सामान्यं धूर्तैर् अविपर्यासितसंविदाम् । ननु सादृश्यम् अवभाति । सत्यम्, अवभाति, नापह्नूयते, ऽपि तु द्रव्यगुणकर्मात्मकं सत् पाचकादिभेदेषु यथैषां पाचकत्वम्, एते पाचकास्, तत्पाचकसदृशो ऽयम्, असाव् अनेन सदृशेति विशेषादाव् अपि द्रष्टव्यम् । अत्रापि सामान्यपरिज्ञप्तिर् इति चेन्, न सूत्रव्याघातात् सामान्यविशेषेषु सामान्यविशेषाभावात् ततैव ज्ञानम् । अनिष्ठा च विशेषेषु सामान्ये परिकल्प्यमाने सति सन्देहः, सति सन्देहे तेषु विशेषान्तरं परिकल्पनीयं, पुनः सामान्यम् इत्य् अनिष्ठेत्य् अलम् असद्ग्रहाभिनिवेशेन ।

p19707

अ.3 अथ भिन्नाभिन्नं सामान्यं भवद्भिः प्रतिपाद्यत आकारभेदेन व्यक्तिभ्योपलभ्यतेत्य् अर्थान्तरं, देशभेदेन तु नैवोपलभ्यतेत्य् अव्यतिरिक्तम् । तद् एतन् महासुभाषितम् । न देशभेदेनैव वस्तूनां भेदो, ऽपि त्व् आकारभेदेनैव भावा भेदम् उपयान्ति । यथा चाकारभेदो नास्ति तथानन्तरम् एव निवेदितम् ।

p20056

ब्. सामान्यं समवायवृत्त्या व्यक्तिषु वर्ततेति न चासौ विद्यते ।

p20151

ब्.1 समवायो हि व्यावृत्तैकस्वभावो ऽनुगतैकस्वभावो वा । तद् यदि व्यावृत्तैकस्वभावः, कस्यासौ समवायः सर्वतो व्यावृत्तेर् नीलादिवत्? अथानुगतैकस्वभावः, सामान्यं तर्हि, न समवायो, नित्यस्य सतो ऽनेकत्र वृत्तेर् गोत्वादिवत् ।

p20415

ब्.2 उपपादकप्रमाणाभावाच् च ।

p20476

ब्.21 ननु प्रत्यक्षबुद्ध्यवसेयो ऽसौ । तद् अयुक्तम् । किं सम्बन्धबुद्ध्याध्यवसीयताहोस्विद् इहबुद्ध्या समवायबुद्ध्या वोच्यते?

p20635

ब्.211 तद् यदि सम्बन्धबुद्ध्या, को ऽयं सम्बन्धः?

p20717

किं सम्बन्धजातियुक्तः सम्बन्धाहोस्विद् अनेकोपादानजनितो ऽनेकाश्रितो वा सम्बन्धबुद्धिविशेषो वा सम्बन्धबुद्ध्युत्पादको वा सम्बन्धाकारो वा?

p20889

तद् यदि सम्बन्धजातियुक्तस् ते सम्बन्धः, सो ऽनुपपन्नः, समवायासम्बन्धत्वप्रसङ्गः । अथानेकोपादानजनितः सम्बन्धस्, तदा कुम्भादेर् अपि सम्बन्धत्वप्रसङ्गः । अथानेकाश्रितः सम्बन्धस्, तदा घटजात्यादेः सम्बन्धत्वं प्रसज्यते । अथ सम्बन्धबुद्ध्युत्पादकस् ते सम्बन्धोच्यते, तदा लोचनादेर् अपि सम्बन्धत्वप्रसङ्गः । अथ सम्बन्धबुद्ध्यवसेयः सम्बन्धो ऽभिधीयते, तदा कौलेयककरिकुमारादिष्व् अपि सम्बन्धशब्दव्युत्पादने सम्बन्धत्वप्रसङ्गः । सम्बन्धेतरयोर् एकविज्ञानविषयत्वेतरस्य सम्बन्धरूपता प्राप्ता ।

p21457

अथ सम्बन्धाकारः सम्बन्धः, संयोगाभेदप्रसङ्गः । अवान्तरगणिकाकारस् तु यथा न भेदकस् तथा पुरस्ताद् उक्तम् एव दूषणम् ।

p21618

ब्.212 अथेह तन्तुषु पटेतीहबुद्ध्याध्यवसीयते, नेहबुद्धेर् अधिकरणसंविद्रूपत्वात् । न चान्यस्मिन्न् आकारे प्रतीयमाने ऽन्यत् परिकल्पयितुं न्याय्यम् अतिप्रसङ्गात् ।

p21813

ब्.213 अथ समवायबुद्ध्यात्मसात्क्रियते । सो ऽप्य् अनुपपन्नैव, समवायबुद्धेर् अनुपपत्तेः । अयं तन्तुर् अयं पटो ऽयम् अनयोः समवायेति न जातु जानते जनाः ।

p22006

ब्.22 अथानुमानेनानुमीयते । द्वे ऽनुमाने दृष्टं सामान्यतो दृष्टं च । न दृष्टं, प्रत्यक्षव्यतिरेकात् । सामान्यतो द्र्ष्टम् अपि नास्ति, तत्प्रभवकार्यानुपलब्धेः । नन्व् इहबुद्धिर् एव समवायज्ञापिका इह तन्तुषु पटेति प्रत्ययः सम्बन्धनिमित्तो, ऽबाधितेहप्रत्ययत्वाद् इह कुण्डे दधीति प्रत्ययवत् । किम् अनेनानुमीयते? किं निमित्तमात्रम् उत सम्बन्धः?

p22393

यदि निमित्तमात्रं, ततः सिद्धसाध्यतया सम्बोधयितव्यः । अथ सम्बन्धः, संयोगः समवायो वा । संयोगानुमानोपगमहानिः । समवायानुमाने सम्बन्धव्यतिरेकः । न चान्यस्य सम्बन्धे ऽन्यस्य गमकत्वम् अतिप्रसङ्गात् । न जातु देवदत्तनयनकुटसम्बन्धे यज्ञदत्तेन्द्रियं रूपादिकम् अर्थं करणत्वसाम्यात् प्रकाशयद् दृष्टम् । एवं सति सामान्यसमवायविरहे कथं द्रव्यादिव्यवस्थेति चिन्त्यते ।

p22823

1.13अ अथ तद्वंशजजलप्राप्त्याव्यभिचारिता ज्ञायते । तद् अयुक्तम्, अन्त्यावयविद्रव्याणां जनकत्वव्यतिरेकात् । न चोदकव्यक्तीनां नानात्वम् अस्ति । यथा च न विद्यते तथा निवेदितं पुरस्तात् ।

p23046

1.13ब् किं च प्रवृत्तिसामर्थ्येनाव्यभिचारिता पूर्वोदितज्ञानस्य ज्ञाप्यते किं लिङ्गभूतेनाहो ऽध्यक्षात्मकेन?

p23186

तद् यदि लिङ्गभूतेन, तद् अयुक्तं, तेन साकं सम्बन्धानवगतेः । अवगतौ वालं प्रवृत्तिसामर्थ्येन ।

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc