भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p14511-p18213

p14511

अ.1 तद् यदि तादात्म्यव्यवस्थिता, तदेह तासां नानात्वेन तस्यापि नानात्वोपपत्तिः । तदेकत्वे च सर्वासाम् एकतापत्तिः । एकत्वे च निःसामान्यता तादात्म्यविपर्यासो वा ।

p14706

अ.2 अथार्थान्तरभूता सा व्यावृत्ताकारानुगताकारा वा ।

p14789

तद् यदि व्यावृत्ताकारा, न तस्याः सामान्यरूपत्वं व्यावृत्तैकस्वभावत्वात् तोयादिवत् । अथानुस्यूतरूपा, तत् किम् आत्मरूपानुस्यूता पररूपानुस्यूता वा?

p14964

तद् यद्य् आत्मरूपानुस्यूता, तद् अयुक्तम्, आत्मन्य् अनुगमाभावात् । अथ पररूपानुस्यूता, केयं पररूपानुस्यूतता किं तत्तादात्म्यं तत्समवायो वा?

p15134

तद् यदि तादात्म्यं, सामान्यतद्वतोर् अभेदप्रसङ्गः ।

p15217

अथ पररूपसमवायो ऽनुस्यूताकारता, तद् अयुक्तम् । सामान्याद् भिन्नः समवायः । सामान्यस्यानुगतं रूपम् आलोचयितुम् आरब्धं, न ततो ऽन्यस्य ।

p15390

अ.2अ यदि चोदकजातीयार्थप्राप्त्याव्यभिचारिता पूर्वोदितोदकविज्ञानस्य व्यवस्थाप्यते, तदोदकजातेर् गवादाव् अपि सम्भवो ऽस्ति, गवादिप्राप्त्याव्यभिचारितोदकविज्ञानस्य स्यात् । अथोदकत्वस्य गवादाव् अभावेति चेत्, किम् इतरेतराभावः प्रागभावः प्रध्वंसाभावो ऽत्यन्ताभावो वा?

p15696

तद् यदीतरेतराभावस् तदोदकादाव् अपि समानम् उदकत्वस्याभावप्रसङ्गः । उदकरूपता नोदकत्वस्योदकत्वरूपता च नोदकस्यल् ।

p15854

अथ प्रागभावस् तदोदके ऽप्य् उदकत्वस्याभावप्रसङ्गः ।

p15941

अथ प्रध्वंसाभावस् तदोदके ऽप्य् अभावप्रसङ्गः ।

p16023

अथान्यत्रास्ति, नैकत्र प्रत्यस्तमितस्यान्यत्र सम्भवोपपद्यते ।

p16120

अथात्यन्ताभावस् तदोदके ऽपि तस्याभावप्रसङ्गः ।

p16201

अथ सम्बन्धाभावाद् गवादाव् उदकत्वाभावेति चेत्, तत्रापि किम् इतरेतराभावः प्रागभावः प्रध्वंसाभावो ऽत्यन्ताभावो वेति पूर्ववद् वक्तव्यम् । निमित्तान्तराभावाद् गवादाव् उदकत्वाभावेति चेत्, सो ऽत्रापि समानः ।

p16445

अ.2ब् न चोदकव्यक्तीनां नानात्वम् उपपादयितुं पार्यते । उदकम् अनुदकाकाराद् उदकाकारतया व्यावर्तत, उदकाकारात् तु कथं व्यावर्तते? किम् उदकाकारतयाहोस्विद् आकारान्तरेण?

p16647

तद् यद्य् उदकाकारतया व्यावर्तते, तदान्यासाम् उदकव्यक्तीनाम् अनुदकाकारता प्राप्नोति रसादेर् इव ।

p16774

अथानुदकाकारतयोदकाकारान् निवर्तते, ततो दहनादेर् इवानुदकत्वप्रसङ्गः ।

p16881

अथोदकाकाररूपताविशेषे ऽप्य् अवान्तरगणिकाकारभेदपरिकॣप्तिर् इति चेत्, सत्यम् अवान्तरगणिकाकारस् तोयतादात्म्यव्यवस्थितो ऽतादात्म्यव्यवस्थितो वा । तद् यदि तादात्म्यव्यवस्थितस्, तदोदकाकारतयोदकान्तराद् भिद्यते । एवं चान्यासाम् उदकव्यक्तीनाम् अनुदकरूपता प्राप्नोति । पूर्वोदितम् एव दूषणम् । अथातादात्म्यव्यवस्थितस्, तर्ह्य् अनुदकत्वं रसादेर् इव । अथोदकत्वव्यावृत्त्यानुदकाकाराद् व्यावर्तते । शृण्वन्त्व् अमी बाललपितं विपश्चितः । यद्य् उदकत्वव्यावृत्त्यानुदकाद् व्यावर्तते तोयम्, उदकत्वं चोदकाद् अनुदकाच् च कथं व्यावर्तते? न जात्यन्तरं व्यावर्तकम् अस्ति । अभ्युपगमे वानिष्ठोपप्लवानुबन्धः स्यात् । तस्मात् स्वेनैव रूपेणेतरेतरात्मना व्यावर्तते, न जात्यादिना व्यावर्तते, जात्यादेर् अव्यावृत्तिप्रसङ्गात् । तस्मात् स्थितम् एतन् नोदकव्यक्तीनां नानात्वोपपत्तिः
। तदनुपपत्तौ नोदकत्वं नाम सामान्यम् अस्ति स्वत्ववत् ।

p17737

अ.2च् इतो ऽपि न विद्यते सामान्यं नित्यस्य सतो विज्ञानजनकत्वायोगात् । तद् एव कथम्? व्युत्पाद्यते विज्ञानजनकावस्थायां यद् एव स्वरूपं सामान्यात्मकं शक्तिमच् छक्तिरूपं च कारकान्तरानपेक्षयाजनकावस्थायां तद् एव रूपम्, अतः पूर्वम् अपि कार्योत्पादप्रसङ्गः । अनुत्पादे वा प्राग् इवेदानीम् अपि न जनयेत् ।

p18079

अथ कारकान्तरम् अपेक्ष्योत्पादयति कार्यम् । किं तेन कारकान्तरेण तस्य क्रियते कारकत्वं ज्ञाप्यते वा?

p18213

तद् यद्य् उत्पाद्यते सुस्थितं नित्यत्वम् । उत ज्ञाप्यते सिद्धं तर्हि कारकत्वं, तदभावे ऽपि विद्यमानस्यावद्योतनात् । भवतु नाम कारकत्वं, को दोषः? कार्योत्पत्तिप्रसङ्गः । अथ कारकत्वे ऽपि कार्यं न जनयेद्, अहो राजाज्ञा गरीयसी नैयायिकपशोः ।

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc