तत्त्वोपप्लवसिंह · श्लोक p9690-p14373
0.1 ... तां मुन तत्त्वोपप्लवसिंहैष विषमो नुनं मय ... ... नास्ति तत्फलं वा स्वर्गादि । सत्यं, तावद् आत्तस्य कर्मणः सम्भोक्तं च परमार्थविद्भिर् अपि लौकिको मार्गो ऽनुसर्तव्यः अ ... । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥
इत्यादि ।
0.2 ननु यद्य् उपप्लवस् तत्त्वानां किम् आयाथातस् तत्त्वं व्याख्यास्यामः । पृथिव्य् आपस् तेजो वायुर् इति तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसञ्ज्ञेत्यादि । नान्यार्थत्वात् । किमर्थम्? प्रतिबिम्बनार्थम् । किं पुनर् अत्र प्रतिबिम्ब्यते? पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि । तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते । किं पुनर् अन्यानि?
0.3 अथ कथं तानि न सन्ति? तद् उच्यते सल्लक्षणनिबन्धनं मानव्यवस्थानम् । माननिबन्धना च मेयस्थितिः । तदभावे तयोः सद्व्यवहारविषयत्वं कथं ... ताम् । अथ ... न ब ... व्यवहारः क्रियते, तदात्मनि रूपास्तितत्वव्यवहारो घटादौ च सुखास्तित्वव्यवहारः प्रवर्तयितव्यः
1. इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् इति तल्लक्षणम् ।
1.1 तच् चाव्यभिचारित्वम् ... किम् अदुष्टकारकसन्दोहोत्पाद्यत्वेनाहोस्विद् बाधारहितत्वेन प्रवृत्तिसामर्थ्येनान्यथा वा?
1.11 तद् यद्य् अदुष्टकारकसन्दोहोत्पाद्यत्वेनाव्यभिचारित्वं, सैव कारणानाम् अदुष्टता केनावगम्यते?
न प्रत्यक्षेण, नयनकुशलादेर् अतीन्द्रियत्वात् । नाप्य् अनुमानेन, लिङ्गान्तरानवगतेः । नन्व् इदम् एव ज्ञानं लिन्गं तदुत्थं तस्य विशिष्टतां गमयति ।
यद्य् एवम् इतरेतराश्रयत्वं दुरुत्तरम् आपनीपद्यते ।
किं चेन्द्रियाणां गुणदोषाश्रयत्वे तदुत्थे विज्ञाने दोषाशङ्का नातिवर्तते, पुंव्यापारोत्पादितशब्दविज्ञानेव ।
1.12 अथ बाधानुत्पत्त्याव्यभिचारित्वं ज्ञायते, बाधानुत्पत्तिर् विज्ञानस्य किं यथार्थगृहीतित्वेनाहोस्विद् बाधकज्ञानोत्पादककारकवैकल्याद् इति सन्दिह्मः । दृश्यते हि बाधकज्ञानोत्पादककारकवैकल्याद् बाधानुत्पादः । यथा दूरे मरीचिनिचये जलज्ञाने जाते बाधा न सम्पद्यते, ऽभ्यासदेशावस्थितस्य कारकोपनिपाते सत्य् उत्पद्यते । सा चोपजायमाना संवत्सरादिकालविकल्पेन सञ्जायते । कदाचिच् च कारकवैकल्यान् नैव सम्पद्यते । न चैतावता तस्य यथार्थतोपपद्यते ।
अपि च बाधाविरहैव न बाधासद्भावावेदकस्, तदुपलब्धत्वेन तत्सद्भावोपलब्धेः ।
1.12आन्यच् च बाधाविरहः किं सर्वपुरुषापेक्षयाहोस्वित् प्रतिपत्त्रपेक्षया? तद् यदि सर्वपुरुषापेक्षया तद्विरहोप्य ... सर्वज्ञाः स्युः । भवन्तु नाम सर्वे सर्वज्ञाः, को दोषः? असर्वज्ञव्यवहाराभावप्रसङ्गः ।
अथ प्रतिपत्त्रपेक्षया बाधानुत्पादः प्रतिपत्तुर् बाधकं विज्ञानं नोत्पद्यते, तेन तद् अव्यभिचारि । तद् अयुक्तं, प्रतिपत्तुर् बाधकज्ञानानुत्पादे ऽपि देशान्तरगमनमरणादिना मणिमरीच्यादिविपर्ययज्ञानदर्शनात् । अथवा तद् विपर्ययज्ञानं तथाविधम् एवोत्पन्नं स्वप्रभवस्वभावानुप्रवेशेन, यद् बाधकविज्ञानोत्पादप्रतिबन्धकृत् । तद्ध्वंसो ऽपि तथाभतैव परेष्टसम्यग्ज्ञानवत् । एवं सति यद् उक्तं यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः सैवासमीचीनः प्रत्ययेत्य् एतद् एवासमीचीनम् ।
1.13 अथ प्रवृत्तिसामर्थ्येनाव्यभिचारितां वेत्सि । प्रवृत्तिसामर्थ्यं फलेनाभिसम्बन्धः, फलं च स्रक्चन्दनवनितोदकादि, तेषु सत्यफलनिष्पत्तेस् तेषु फलोपचारस्, तद्देहसम्बन्धः प्रवृत्तिसामर्थ्यम् । प्रवृत्तिः कायस्था क्रिया, तत्सामर्थ्यम् अव्यभिचारितां गमयति । तत् किम् अवगतम् अनवगतं वा? यदि नावगतं, तद् अस्तीति कथं वेत्सि? अथावगतं, तदवगतेर् अव्यभिचारिता कथम् अवगम्यतेति पूर्वोक्तम् अनुसर्तव्यम् ।
1.13ओदकप्राप्त्या पूर्वोत्पन्नोदकविज्ञानस्याव्यभिचारिता व्यवस्थाप्यते । किं तत्प्रतिभातोदकप्राप्त्याहोस्वित् तज्जातीयोदकप्राप्त्या तद्वंशजजलप्राप्त्या वा?
1.13अ तद् यदि प्रतिभातोदकप्राप्त्या, तद् अयुक्तम् । प्रतिभातोदकस्यावस्थानं नोपपद्यते, झषमहिषपरिवर्तनाभिघातोपजातावयवक्रियान्यायेन प्रत्यस्तमयसम्भवात् ।
1.13अ अथ तज्जातीयोदकप्राप्त्या, एवं तर्ह्य् असत्योदकज्ञाने ऽपि जते क्वचित् तोयम् आसादयन्ति पुमांसः । तद् अप्य् अवितथं स्यात् । अथ तद्देशकालसंलग्नम् उदकं न प्रापयति मिथ्याज्ञानं, सम्यग्ज्ञानं तु तद्देशकालसंलग्नम् उदकं प्रापयति, तेन तद् अव्यभिचारीति चेद्,
यन् न प्रापयति, तद् व्यभिचारि; तर्हि मुमर्षुपदा ज्ञानं चन्द्रार्कग्रहनक्षत्रतारकादिसंवेदनं च व्यभिचारि प्राप्नोति । न च तद्देशकालसंलग्नोदकप्रापकत्वम् अस्ति, देशस्याप्य् उदकवद् विनाशसम्भवात् ।
अ. न च जातेःसम्भवो ऽस्ति । सैव कथम्? कथ्यते सोदकव्यक्तिभ्यो ऽभिन्ना भिन्ना भिन्नाभिन्ना वेति ।
मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0