भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वोपप्लवसिंह · श्लोक p110878-p116438

p110878

तद् यदि तात्त्विकं, न तर्हि गुणत्रयोपादानपूर्वकं, ततो भिन्नत्वाद् आत्मस्वरूपवत् । न च गुणत्रयेण सहान्यतमो ऽपि सम्बन्धोपपद्यते तद्भिन्नकार्यस्य । न मात्रामात्रिकसम्बन्धो नापि सहचरसहचरितभावो नापि निमित्तनैमित्तिकभावोपकार्योपकारकभावो वा । अथातात्त्विकं, कथं तेन गुणत्रयं प्रतीयते गुणत्रयेण सह सम्बन्धानुपपत्तेः? न च सदसतोः सम्बन्धोपपद्यतात्मखरविषाणयोर् इव । तदभावान् नानुमानाद् गुणत्रयप्रतिपत्तिः । नापि प्रत्यक्षेण गुणावधारणं स्वयम् अनभ्युपगमात् । तद् उक्तं

p111435

गुणानां परमं रूपं न दृष्टिपथम् ऋच्छति। यत् तु दृष्टिपथप्राप्तं तन् मायेव सुतुच्छकम्॥

p111561

तदनवगमे च न भोग्येन भोक्तुर् अनुमानम् । ततश् च नात्मा न गुणत्रयम् ।

p111669

अथाव्यतिरिक्तं, तत् किं तात्त्विकम् अतात्त्विकं वा?

p111749

यदि तात्त्विकं, तदा कार्याणाम् अपरिसङ्ख्येयत्वे गुणानाम् अप्य् अपरिसङ्ख्येयता । ततश् च त्रयो गुणेति न वक्तव्यम् । अथ गुणानां त्रित्वं, तदा कार्यस्यापि त्रित्वं प्राप्नोत्य्, आनन्त्यं हीयते । तथा कार्यस्य प्रत्यक्षत्वे गुणानाम् अपि प्रत्यक्षत्वम् । किंविषयं प्रधानानुमानम्? गुण

p112336

तथात्मानुमानं सुखद्वेषज्ञानादिना न संभवति, तेन सह सम्बन्धानवगमात्, तदनवगतौ चानुमानानर्थक्यम् । किं चात्र साध्यते ?

p112505

किं ज्ञानसुखादीनाम् आश्रितत्वम्, आहोस्विद् आश्रयाश्रितं वाऌज्ञानस्वरूपम् ? अथाश्रितत्वं साध्यते । तदात्माऌनैवावबोधितः ततो ऽन्यत्वाद् आश्रितत्वस्य ।

p112689

अथात्माऌसाध्यते । तद् एवं भवति अस्त्य् आत्माऌविज्ञानात्, न च व्यधिकरणस्य गमकत्वं विद्यते ।

p112822

अथाश्रितं ज्ञानस्वरूपं साध्यते । तच् च प्रत्यक्षेणावगतम् । अन्यो ऽनुमानस्य विषयो वक्तव्यः । कथं ज्ञानसुखाद्य् आत्मसम्बन्धित्वेन व्यपदिश्यते किं सत्तामात्रेणाहो तज्जन्यतया तज्जनकत्वन वा तत्समवायित्वेन वा तत्स्वरूपतादात्म्याद् वा ?

p113103

तद् यदि सत्तामात्रेण सुखं विज्ञानं वात्मनो ऽपदिश्यते तदात्मवत् सर्वे भावाश् चेतनाः स्युर् विज्ञानसत्ताविशेषात् । तथा सर्वे सुखिनो भवेयुर् आनन्दसत्ताविशेषात् ।

p113301

अथ तज्जन्यतयाऌविज्ञानम् आत्मनो ऽपदिश्यते ; तदा नयनालोकपटाश् चेतनाः स्युस् तैर् जन्यमानाविशेषात् ।

p113436

अथ तज्जनकत्वेन तस्येति चेत्, तद् अयुक्तं न विज्ञानेनात्मोत्पाद्यते भवतां पक्षे, उत्पादेन वा स्मरणानुपपत्तिः ।

p113604

अथात्मसमवायित्वेन विज्ञानम् आत्मनो ऽपदिश्यते न तदभावात् । भवतु वा समवायो ह्य् अखण्डितात्मा सर्वात्मवस्त्रादिसाधारणः । ततः सर्वे चेतनाः स्युः । अथ विज्ञानोपलक्षितस्य नान्यत्र संभवो ऽस्ति तद् अयुक्तं तद् उपलक्षितस्यान्यत्र संभवात् तत्संभवश् च तस्यैकत्वात् । असंभवे वा समवायानेकत्वप्रसङ्गः असमवायित्वं वान्येषाम् ।

p113981

तथा विज्ञानसमवायात्मनः समवायः किं सत्तामात्रेणाहोस्विद् आत्मजनकत्वेन तज्जन्यत्वेन तत्समवायित्वेनात्मस्वरूपतादात्म्याद् वा ?

p114149

तद् यदि सत्तामात्रेणात्मनः समवायो ऽपदिश्यते ; तदा ज्ञानसमवायसत्ताविशेषात् सर्वेषां ज्ञानसमवायित्वप्रसङ्गः । अथ तज्जन्यत्वेन ; तद् अयुक्तं न ह्य् आत्मना समवायोत्पादनं क्रियते नित्यत्वाभ्युपगमात् । अथ तज्जनकत्वेनात्मनः समवायः ; तद् अनुपपन्नम् आत्मनो नित्यत्वात् । अथात्मनि समवेतस् तेनात्मसमवायो ऽभिधीयते । तद् अयुक्तम् । समवायान्तरानभ्युपगमात् । अथात्मतादात्म्येन वर्ततेत्य् आत्मसमवायः उच्यते ।
तदात्मा विद्यते नान्यः समवायो ऽस्ति तत्स्वभावानुप्रवेशात् । एवं विज्ञानानन्दादीनां समवायसम्बन्धेन न नियतात्मव्यपदेशोपपद्यते ।

p114752

अथात्मतादात्म्येनोपजायमानं विज्ञानानन्दादिकम् आत्मनो ऽपदिश्यते तदा विकारी प्राप्नोत्य् अनया भङ्ग्यात्मा । ततश् च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः ।

p114938

इतो ऽप्य् आत्मा सुखादिकार्याधिकरणो ऽवगन्तुं न पार्यते । किं तेनात्मनानुपजातातिशयेन तापादि कार्यां क्रियताहोस्विद् उपजातातिशयेनापि, किं व्यतिरिक्तोपजातातिशयेन, अव्यतिरिक्तोपजातातिशयेन वा? तद् यद्य् अनुपजातातिशयेनोत्पाद्यते तापादि कार्यं, तदा सर्वदा कुर्याद्, अनुपजातबलस्य कार्यकारषाभ्युपगमान्, न तापादिविकलः स्यात्, समं सुखादि कार्यं प्रसज्यते । अथाव्यतिरिक्तोपजातातिशयेनोत्पाद्यते तापादि कार्यं, तदाव्यतिरिक्तोपजातातिशयेति किं भणितं भवति? आत्मोपजायते । ततश् च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते तापादि कार्यं, स तेनात्मना सह सम्बद्धो वा, न वा । यदि न सम्बद्धः, स तस्यातिशयः कथम्? अथ सम्बद्धः, किं जनकत्वेनाथ जन्यत्वेन तत्समवायित्वेन वा? तद् यदि जनकत्वेन सम्बद्धस्, तदात्मा तेनातिशयेनोत्पद्यतेति स्मरणानुपपत्तिः । अथ जन्यत्वेन, सो ऽपि तेन कथम् उत्पाद्यते? किम् अनुपजातातिशयेन व्यतिरिक्तोपजातातिशयेन वेति प्राप्ता प्रश्नपरम्परा । अथ तत्समवायित्वेन, न, तस्य सर्वसाधारणत्वात्, तदभावाच् च । अथैककार्यजनकत्वेन सम्बद्धस्, तद् एवेदं चिन्तयितुम् आरब्धं किम् इदं जनकत्वं नामेति । किं च यद् एवानुपजाते ऽतिशयात्मनो रूपं तद् एव जाते ऽपि, तत् कथं कार्यं कुर्यात्? अथ पूर्वरूपस्यातदवस्थ्यं, सुस्थितं नित्यत्वम्! अथ तादवस्थ्यं, तथापि न करोति कार्यम् । एवं नैयायिकादिमतेनात्मनोपभोगस्मरणादिकं न जाघटीति ।

p116438

तथा मीमांसकमतेनाप्य् आत्मानुमानं न प्रवर्तते प्रमाणान्तरानवधारितार्थविषयत्वाभ्युपगमात् प्रमाणानाम् । नियतविषयाणि हि प्रमाणानि प्रतिपद्यन्ते प्रत्यक्षावसेये नानुमानं प्रवर्तत, अनुमानावसेये च न प्रत्यक्षं प्रवर्तते । ततश् चेतरेतरव्यावृत्तिविशेषविषयाणि । तद् अयुक्तं (रेअद्: उक्तं) ``विशेषे ऽनुगमाभावः । " विशेषो नियतप्रमाणग्राह्यो ऽर्थः । तथाभूते ऽर्थे ऽङ्गीक्रियमाणे ऽनुमानस्यानुगमाभावः । अनुगमः सम्बन्धस्, तद्ग्रहणानुपपत्तिः । अर्थे (रेअद्: अथ) प्रत्यक्षाद्यवधारिते ऽप्य् ऽर्थे ऽनुमानं प्रवर्तते; नन्व् एवं प्रत्यक्षानुमानसाधारणो ऽर्थः प्रसक्तः । साधारणता समानता । ``सामान्ये सिद्धसाध्यताऽऽ प्रत्यक्षावगतत्वात् । अनधिगतार्थगन्तृविशेषणं चापार्थकम् । अथवा सामान्ये
सिद्धे साधनम् इत्यन्यो ऽर्थः । सामान्ययोर् गम्यगमकभावो ऽभ्युपगम्यते मीमांसकेन । न च तत्
सामान्यं विद्यते । यथा च न विद्यते तथा प्राग् एवोदितम् । ततश् च सिद्धस्य साधनं विद्यमानस्य साधनम् । न चाग्नित्वम् अस्ति । तदभावे कस्येदं ज्ञापकम्? अथवा सिद्धं साधनं सिद्धसाधनम् इत्य् अन्यो ऽर्थः । विद्यमानं साधनम् । न च धूमत्वसामान्यम् अस्ति । तच् च विद्यमानं (सुख्लल्: तत्त्व; रेअद्: तच् चाविद्यमानं) सामान्यं कथं सामान्यं (रेअद्: सामान्ये) साधनं भवितुम् अर्हति? अथवा सिद्धसाधनं ज्ञातम् अनुमानं साधनं भवति । न च धूमत्वं ज्ञातं स्वयमसत्त्वात्, अथवा ग्रहणोपायाभावात्, तस्यानुस्यूतं रूपम् । न च तद् आत्मन्य् अनुस्यूतम् । नाप्य् एकस्यां व्यक्ताव्, अपि तु बह्वीषु व्यक्तिषु । न च बह्व्यो व्यक्तयोपलभ्यन्ते । अपि त्व् एकैव धूमव्यक्तिर् उपलभते । न चैकस्यां व्यक्ताव् अनुगतात्मतया सामान्यसंवित्तिर् अस्ति । न चाकारान्तरसामान्यम्
(पेर्हप्स्: आकारान्तरं सामान्यस्य) ।

मूल पाठ: Tattvopaplavasiṃha · Edition: Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc