भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वसमाससूत्रवृत्ति · श्लोक 21-17

21

त्रिविधो मोक्षः

22

त्रिविधं प्रमाणम्

23

त्रिविधं दुःखम्

1

एतत् परम्परया याथातथ्यमेतत् सम्यग् ज्ञात्वा कृतकृत्यः स्यान्न पुनस्त्रिविधेन दुःखेनाभिभूयते ।
इति तत्त्वसमासाख्यसाङ्ख्यसूत्राणि ॥
[अष्टौ प्रकृतयः

2

]
अथ का अष्टौ प्रकृतय इत्यत्रोच्यते ।
अव्यक्तं बुद्धिरहङ्कारः पञ्च तन्मात्राणीत्येता अष्टौ प्रकृतयः ।
तत्राव्यक्तं तावदुच्यते यथा लोके व्यज्यन्ते घटपटकुड्यशयनकाद्या न तथा व्यजत इत्यव्यक्तम् । श्रोत्रादिभिरिन्द्रियैर्न गृह्यत इत्यर्थः ।
कस्मात् अनादिमध्यान्तत्वान्निरवयवत्वाच्च ॥
अशब्दमस्पर्शमरूपमव्ययं तथा च नित्यं रसगन्धवर्जितम् ।
अनादिमध्यं महतः परं ध्रुवं प्रधानमेतत् प्रवदन्ति सूरयः ॥
सूक्ष्ममलिङ्गमचेतनमनादिनिधनं तथाप्रसवधर्मि निरवयवमेकमेव हि साधारणमेतदव्यक्तम् ।
अव्यक्तस्यामी पर्यायशब्दा भवन्ति ।
अव्यक्तं प्रधानं ब्रह्म परं ध्रुवं बहुधानकमक्षरं क्षेत्रं तमःप्रसूतमिति ।
का बुद्धिरत्रोच्यते ।
अध्यवसायो बुद्धिः ।
सोयमध्यवसायो गवादिषु द्रव्येषु यस्मात् प्रतिपत्तिः ।
एवमेतन्नान्यथा ।
गौरेवायं नाश्वः ।
स्थाणुरेवायं न पुरुषः ।
इत्येषा बुद्धिः ।
अस्यास्तु बुद्धेरष्टौ रूपाणि भवन्ति धर्मो ज्ञानं वैराग्यमैश्वर्यमिति ।
तत्र धर्मो नामाधर्मविपर्ययः श्रुतिस्मृतिविहितः शिष्टाचाराविरुद्धः शुभलक्षणः ।
ज्ञानं नामाज्ञानविपर्ययस्तत्त्वभावभूतानां सम्बोधः ।
वैराग्यं नामावैराग्यविपर्ययः शब्दादिविषयेष्वप्रसक्तिः ।
ऐश्वर्यं नामानैश्वर्यविपर्ययो ऽणिमादयो ऽष्टगुणाः ।
एतानि सात्त्विकानि चत्वारि ।
अधर्मो ऽज्ञानमवैराग्यमनैश्वर्यमिति अधर्मो नाम धर्मविपर्ययः श्रुतिस्मृतिविरुद्धः शिष्टाचारविरुद्धो ऽशुभलक्षणः ।
अज्ञानं नाम ज्ञानविपर्ययस्तत्त्वभावभूतानामनवबोधः ।
अवैराग्यं नाम वैराग्यविपर्यः शब्दादिविषयेष्वभिषङ्गः ।
अनैश्वर्यं नामैश्वर्यविपर्ययो ऽणिमादिरहितत्वम् ।
एतानि तामसानि चत्वारि ।
तत्र धर्मेण निमित्तेनोर्ध्वगमनम् ।
ज्ञानेन निमित्तेन मोक्षः ।
वैराग्येण निमित्तेन प्रकृतिलयः ।
ऐश्वर्यनिमित्तेना ऽप्रतिहतगतिर्भवति ।
एवमेषाष्टरूपा बुद्धिर्व्याख्याता ।
बुद्धेरमी पर्यायशब्दा भवन्ति ।
मनो मतिर्महान् ब्रह्मा ख्यातिः प्रज्ञा श्रुतिर्धृतिः ।
प्रज्ञानं सन्ततिः स्मृतिर्धीर्बुद्धिः परिकथ्यते ॥
अत्राह को ऽहङ्कार इत्युच्यते ।
अभिमानो ऽहङ्कारः ।
अहं शब्दे अहं स्पर्शे अहं रूपे अहं रसे ।
अहं गन्धे अहं स्वामी धनवानहमीश्वरः ॥ 1 ॥
अहं भोगी अहं धर्मे ऽभिषिक्तो ऽसौ मया हतः ।
अहं हनिष्ये बलिभिः परैरित्येवमादिकः ॥ 2 ॥
यो ऽयमभिमानप्रत्ययो सो ऽहङ्कारः ।
अहङ्कारस्या ऽमी पर्यायशब्दाः ।
अहङ्कारो वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्चेति ॥
अत्राह कानि पञ्चतन्मात्राणीत्युच्यते ।
अहङ्कारान्वितानि पञ्चतन्मात्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति पञ्चतन्मात्राणि ।
तत्र तावच्छब्दतन्मात्राणि शब्देष्वेवोपलभ्यन्ते उदात्तानुदात्तस्वरितकम्पितषड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादादयः शब्दविशेषादुपलभ्यन्ते ।
तस्माच्छब्दतन्मात्रे ऽविशेषः ।
अथ स्पर्शतन्मात्राणि स्पर्शेष्वेवोपलभ्यन्ते तत्र मृदुकठिनकर्कशपिच्छिलशीतोष्णादयः स्पर्शविशेषा उपलभ्यन्ते ।
तस्मात् स्पर्शतन्मात्रे ऽविशेषः ।
रूपतन्मात्राणि रूपेष्वेवोपलभ्यन्ते ।
तत्र शुक्लरक्तकृष्णहरितपीतहारिद्रमाञ्जिष्ठादयो रूपविशेषा उपलभ्यन्ते ।
तस्माद्रूपतन्मात्रे ऽविशेषः ।
तथा रसतन्मात्राणि रसेष्वेवोपलभ्यन्ते ।
तत्र कटुतिक्तकषायक्षारमधुराम्ललवणादयो रसविशेषा उपलभ्यन्ते ।
तस्माद्रसतन्मात्रे ऽविशेषः ।
अथ गन्धतन्मात्राणि गन्ध एवोपलभ्यन्ते ।
तत्र सुरभिरसुरभिश्च गन्धविशेषा उपलभ्यन्ते ।
तस्माद् गन्धतन्मात्रे ऽविशेषः ।
एवमेतत्पञ्चतन्मात्राणि सूचितानि ।
अथैषां पर्यायशब्दाः ।
तन्मात्राण्यविशेषाणि महाभूतप्रकृतयो भोग्यान्यणवः शान्तघोरमूढानीति ।
एवमेता अव्यक्तबुद्ध्यहंकारतन्मात्रसञ्ज्ञिता अष्टौ प्रकृतयो व्याख्याताः ।
अथ कस्मात् प्रकृतयः ।
प्रकुर्वन्तीति प्रकृतयः ।
[षोडश विकाराः

3

]
अथ ते के षोडशविकारा इत्यत्रोच्यते ।
एकादशेन्द्रियाणि पञ्चमहाभूतान्येते षोडशविकाराः ।
तत्रेन्द्रियाणि तावदुच्यन्ते ।
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि ।
श्रोत्रं स्वविषयं शब्दं गृह्णाति त्वक्स्पर्शविषयं चक्षू रूपविषयं रसना रसविषयं घ्राणं गन्धविषयमिति ।
वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि स्वं स्वं कर्म कुर्वन्ति ।
तत्र वाग्वचनमुच्चरति ।
हस्तौ कर्म कुरुतः ।
पादौ विहरणम् ।
पायुर्विसर्गम् ।
उपस्थमानन्दम् ।
उभयात्मकं मनः ।
स्वसंकल्पविकल्पवृत्ती कुरुते ।
एवनेकादशेन्द्रियाणि व्याख्यातानि ।
अथैषां पर्यायाः ।
इन्द्रियाणि करणानि वैकारिकाणि खानि नियतानि पदानि अवधृतानि अणूनि अक्षाणीति ।
अथ कानि पञ्चमहाभूतानीत्यत्रोच्यते ।
पृथिव्यप्तेजोवाय्वाकाशानीति महाभूतानि ।
तत्र पृथिवी धारणभावेन प्रवर्तमाना चतुर्णामुपकारं करोति ।
आपो जलानि संग्रहभावेन प्रवर्त्तमानाश्चतुर्णामुपकारं कुर्वन्ति ।
तेजः पाचकभावेन प्रवर्तमानं चतुर्णामुपकारं करोति ।
वायुर्वाहनभावेन प्रवर्तमानश्चतुर्णामुपकारं करोति ।
आकाशमवकाशदानेन प्रवर्तमानं चतुर्णामुपकारं करोति ।
शब्दस्पर्शरूपरसगन्धवती पञ्चगुणा पृथिवी ।
शब्दस्पर्शरूपरसवत्यश्चतुर्गुणा आपः ।
शब्दस्पर्शरूपवत् त्रिगुणं तेजः ।
शब्दस्पर्शवान् द्विगुणो वायुः ।
शब्दवदेकगुणमाकाशम् ।
एवमाख्यातानि पञ्च महाभूतानि ।
अथैषां पर्यायाः ।
भूतानि भूतविशेषाः विकाराः आकृतयः तनवः विग्रहाः शान्ताः घोराः मूढाः इत्येते षोडशविकारा व्याख्याताः ।
[पुरुषः

4

]
अथाह कः पुरुष इत्युच्यते ।
पुरुषो ऽनादिः सूक्ष्मः सर्वगतश्चेतनो ऽगुणो नित्यो द्रष्टा भोक्ता ऽकर्त्ता क्षेत्रविदमलो ऽप्रसवधर्मी चेति ।
अथाह कस्मात् पुरुषः पुराणात् पुरिशयनात् पुरोहितवृत्तित्वाच्च पुरुषः ।
अथ कस्मादनादिः ।
नास्यादिरन्तो मध्यो वा विद्यत इत्यनादिः ।
कस्मात् सूक्ष्मः ।
निरवयवत्वादतीन्द्रियत्वात् सूक्ष्मः ।
कस्मात् सर्वगतः ।
सर्वं प्राप्तमनेन नास्य गगनमस्तीति सर्वगतः ।
कस्माच्चेतनः ।
सुखदुःकमोहोपलब्धिमत्त्वात् ।
कस्मादगुणः ।
सत्त्वरजस्तमांस्यस्मिन्न सन्त्यतो ऽगुणः ।
कस्मान्नित्यः अकृतकत्वादनुत्पादकत्वाच्च ।
कस्माद् द्रष्टा ।
प्रकृतिविकारानुपलम्भेन इति ।
कस्माद्भोक्ता ।
चेतनभावात् सुखदुःखपरिज्ञानाच्च ।
कस्मादकर्ता ।
उदासीनत्वादगुणत्वाच्च ।
कस्मात् क्षेत्रविद् ।
क्षेत्रेभ्यो गुणान् वेत्तीति क्षेत्रविद् ।
अथ कस्मादमलः ।
शुभाशुभकर्माण्यस्मिन् पुरुषे न सन्तीत्यमलः ।
कस्मादप्रसवधर्मी ।
निर्बीजत्वात् ।
न किञ्चिदुत्पादयतीत्यर्थः ।
एवमेष सांख्यपुरुषो व्याख्यातः ।
अथास्य पुरुषस्य पर्यायाः ।
पुरुषः आत्मा पुमान् पुंगुणः बहुलः जन्तुः जीवः क्षेत्रज्ञः नरः कविः ब्रह्म अक्षरः प्राणः अजः यः कः सः एषः ।
एवमेतानि पञ्चविंशतितत्त्वानि व्याख्यातानि ।
अष्टौ प्रकृतयः षोडशविकाराः पुरुषश्चेति ॥
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥
अत्राह पुरुषः किं कर्ता अकर्त्ता वेति ।
यदि कर्त्ता पुरुषः स्यात् तदा शुभानि कुर्यात् ।
ननु वृत्तित्रयं लोके दृष्टं पुरुषस्य ततः किं गुणानां कर्तृता ऽसिद्धा ?
धर्माख्यं सौहित्यं यमनियमनिषेवणं प्रख्यानम् ।
ज्ञानैश्वर्यविरागाः प्रकाशनमिति सात्त्विकी वृत्तिः ॥
रागः क्रोधो लोभः परपरिवादो ऽतिरौद्रता ऽतुष्टिः ।
विकृताकृतिपारुष्यं प्रख्यातैषा तु राजसी वृत्तिः ॥
प्रमादमदविषादा नास्तिक्यं स्त्रीप्रसङ्गिता निद्रा ।
आलस्यं नैर्घृण्यमशौचमिति तामसी वृत्तिः ॥
एतद्वृत्तित्रयं दृष्ट्वा लोके गुणानां कर्तृत्वं सिद्धमिति चाकर्त्ता पुरुषः सिद्धो भवति ॥
प्रवर्त्तमानान् प्रकृतेरिमान् गुणान् रजस्तमोभ्यां विपरीतदर्शनात् ।
अहं करोमीत्यबुधो ऽभिमन्यते तृणस्य कुब्जीकरणे ऽप्यनीश्वरः ॥
सर्वमिदं मया कृतं ममेदमिति वदन्नभिमानादबुध उन्मत्तः कर्तृवद्भवति अत्राह ।
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥
अनादित्वान्निर्गुणत्वात् परमात्मा ऽयमव्ययः ।
शरीरस्थो ऽपि कौन्तय न करोति न लिप्यते ॥
एवम् ।
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥
तत्राह किमयमेकः पुरुषो बहवो वेत्युच्यते ।
सुखदुःखमोहसङ्करविशुद्धकरणपाटवजन्ममरणकरणानां नानात्वात् पुरुषबहुत्वं सिद्धं लोकाश्रमवर्णभेदाच्च ।
यद्येकः पुरुषः स्यादेकस्मिन् सुखिनि सर्व एव सुखिनः स्युः ।
एकस्मिन् दुःखिनि सर्व एव दुःखिनः स्युः ।
एकस्मिन् करणपाटवे सर्वेषामेव करणपाटवं स्यात् ।
एकस्मिञ्जाते सर्व एव जायेरन् ।
एकस्मिन् मृते सर्व एव म्रियेरन्निति ।
न चैवम् इतश्च बहवः पुरुषाः सिद्धाः ।
आकृतिगर्भाशयभावसङ्गतिशरीरविभागे लिङ्गबहुत्वात् ।
एवं तावत् सांख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयो बहून् पुरुषान् वर्णयन्ति ।
वेदान्तवादिन आचार्या हरिहरहिरण्यगर्भव्यासादय एकमेवात्मानं वर्णयन्ति ।
कस्मादेवं तदाह ।
पुरुष एवेदं सर्वं भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्येनातिरोहति ॥
तदेवाग्निस्तदादित्यस्तद्वायुस्तद्धि चन्द्रमाः ।
तदेव शुक्रं तद्ब्रह्म तदापः सः प्रजापतिः ॥
तदेव सत्यममृतं स मोक्षः सा परा गतिः ॥
तदक्षरं तत् सवितुर्वरेण्यं
यस्मात्परं नापरमस्ति किञ्चित् ॥
यस्मान्नाणीयो न ज्यायो ऽस्ति कश्चिद् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ।
सर्वतः पाणिपादान्तं सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य तिष्ठति ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वेषां प्रभुमीशानं सर्वस्य शरणं महत् ॥
सर्वतः सर्वतत्त्वानि सर्वात्मा सर्वसम्भवः ।
सर्वं विलीयते यस्मिन् तद्ब्रह्म मुनयो विदुः ॥
एक एव हि भूतात्मा देहे देहे व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥
स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च ।
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥
एकोयमात्मा जगतामेकेन बहुधा कृतः ।
पृथग् वदन्ति चात्मानं ज्ञानादिकप्रवर्तने ॥
ब्राह्मणे कृमिकीटेषु श्वपाके शुनि हस्तिनि ।
पशुगोदंशमशके समं पश्यन्ति पण्डिताः ॥
एक एव यथा सूत्रं सुवर्णे वर्तते पुनः ।
मुक्तामणिप्रवालेषु मृण्मये रजते तथा ॥
तद्वद् गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु ।
एकोयमात्मा विज्ञेयः सर्वत्रैव व्यवस्थितः ॥
[त्रैगुण्यम्

5

]
अत्राह किं त्रैगुण्यं नामोच्यते ।
सत्त्वरजस्तमांसीति त्रिगुणा एव त्रैगुण्यम् ।
सत्त्वं नाम प्रसादलाघवप्रसन्नताभिषङ्गप्रीतितुष्टितितिक्षासन्तोषादिलक्षणमनन्तभेदं समासतः सुखात्मकम् ।
रजो नाम शोकतापस्वेदस्तम्भोद्वेगरोषमानादिलक्षणमनन्तभेदं समासतो दुःखात्मकम् ।
तमो नामा ऽ; ऽच्छादनावरणबीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहात्मकम् ।
एतत् त्रैगुण्यं व्याख्यातम् ।
सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्तकम् ।
तमो ऽप्रकाशकं विद्यात्त्रैगुण्यन्नाम संज्ञितम् ॥
[सञ्चरः

6

]
[प्रतिसञ्चरः

7

]
अत्राह कः सञ्चरः प्रतिसञ्चरश्च ।
अत्रोच्यते ।
उत्पत्तिः सञ्चरः प्रलयः प्रतिसञ्चरः ।
तत्रोत्पत्तिर्नामाव्यक्तात् प्रागुपदिष्टात् सर्वतः पुरुषेण परेणाधिष्ठिता बुद्धिरुत्पद्यते ।
अष्टगुणा बुद्धिः ।
बुद्धितत्त्वादहङ्कार उत्पद्यते ।
स चाहंकारस्त्रिविधो वैकारिकस्तैजसो भूतादिरिति ।
तत्र वैकारिकादहंकारादेव इन्द्रियाणि चोत्पद्यन्ते ।
भूतादेस्तन्मात्राणि ।
तैजसादुभयम् ।
तन्मात्रेभ्यो भूतानीति सञ्चरः ।
प्रतिसञ्चरो नाम भूतानि तन्मात्रेषु लीयन्ते ।
तन्मात्राणीन्द्रियाणि चाहंकारे ।
अहंकारो बुद्धौ ।
बुद्धिरव्यक्ते ।
तदव्यक्तं क्वचिन्न लीयते ।
कस्मादनुत्पद्यमानत्वात् प्रकृतिं पुरुषञ्चैव विद्ध्यनादि इत्येवं प्रतिसञ्चरो व्याख्यातः ।
[अध्यात्मम् अधिभूतम् अधिदैवतं च

8

]
तत्राह किं तदध्यात्ममधिभूतमधिदैवतं चेति ।
तत्रोच्यते ।
बुद्धिरध्यात्मम् बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतम् ।
अहंकारो ऽध्यात्मं मन्तव्यमधिभूतं रुद्रस्तत्राधिदैवतम् ।
मनो ऽध्यात्मं संकल्पितव्यमधिभूतं चन्द्रस्तत्राधिदैवतम् ।
श्रोत्रमध्यात्मं श्रोतव्यमधिभूतमाकाशस्तत्राधिदैवतम् ।
त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदैवतम् ।
चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् ।
जिह्वाध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतम् ।
घ्राणमध्यात्मं घ्रातव्यमधिभूतं पृथ्वी तत्राधिदैवतम् ।
वागध्यात्मं वक्तव्यमधिभूतं अग्निस्तत्राधिदैवतम् ।
पाणी अध्यात्मं ग्रहीतव्यमधिभूतमिन्द्रस्तत्राधिदैवतम् ।
पादावाध्यात्मं गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतम् ।
पायुरध्यात्ममुत्स्रष्टव्यमधिभूतं मित्रस्तत्राधिदैवतम् ।
उपस्थमध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतम् ।
एवमेतत् त्रयोदशविधस्य करणस्याध्यात्ममधिभूतमधिदैवतं व्याख्यातम् ।
तत्त्वानि यो वेदयते यथावद् गुणस्वरूपाण्यधिदैवतं च ।
विमुक्तपाप्मा गतदोषसङ्घो गुणांस्तु भुङ्क्ते न गुणैः स भज्यते ॥
[पञ्चाभिबुद्धयः

9

]
अथ कास्ताः पञ्चाभिबुद्धय उच्यते ।
व्यवसायो ऽभिमानेच्छा कर्तव्यता क्रियेति ।
अभिमुखी बुद्धिरिदं करणीयं मयेति व्यवसायो बुद्धिक्रिया ।
आत्मपरात्मस्वरूपप्रत्ययाभिमुखो ऽभिमानो ऽहंकारो बुद्धेः क्रिया ।
इच्छा वाञ्छा सङ्कल्पो मनसो बुद्धिक्रिया ।
शब्दादिविषयालोचनश्रवणादिलक्षणकर्तव्यता बुद्धीन्द्रियाणां बुद्धिक्रिया ।
वचनादिलक्षणबुद्धिक्रिया कर्मेन्द्रियाणां सा क्रियेति ।
एवमेताः पञ्चाभिबुद्धयो व्याख्याताः ।
[पञ्चकर्मयोनयः

10

]
अथ कास्ताः पञ्चकर्मयोनय उच्यन्ते ।
धृतिः श्रद्धा सुखा ऽविविदिषा विविदिषा च पञ्चकर्मयोनयः ।
बाह्यकर्माणि संकल्प्य प्रतीतं यो ऽभिरक्षति ।
तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ॥
स्वाध्यायो ब्रह्मचर्यं च यजनं याजनं तपः ।
दानं प्रतिग्रहो होमः श्रद्धाया लक्षणं स्मृतम् ॥
सुखार्थं यस्तु सेवेत ब्रह्मकर्मतपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता ॥
विषयमधुमिश्रितान्तःकारणत्वमविविदिषा ।
विविदिषा च ध्यानिनां प्रज्ञानयोनिः ।
एकत्वं च पृथक्त्वं च नित्यं चैवमचेतनम् ।
सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा च सा ॥
कार्यकारणक्षयकरी विविदिषा प्राकृतिकी वृत्तिः ।
धृतिः श्रद्धा सुखा ऽविविदिषा चतस्रो बन्धाय विदिषैका मोक्षाय ।
एवमेता पञ्च कर्मयोनयो व्याख्याताः ।
[पञ्चवायवः

11

]
अत्राह के पञ्चवायव उच्यन्ते ।
प्राणोपानः समानश्च उदानो व्यान एव च ।
इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् ।
तत्र प्राणो नाम वायुर्मुखनासिकाधिष्ठाता प्रणयनात्प्रक्रमणाच्च प्राण इत्यभिधीयते ।
अपानो नाम वायुर्नाभ्यधिष्ठितापनयनादधोगमनाच्चापान इत्यभिधीयते ।
समानो नाम वायुर्हृदधिष्ठाता समनयनात् सङ्गमनाच्च समान इत्यभिधीयते ।
उदानो नाम वायुः कण्ठाधिष्ठाता ऊर्ध्वगमनादुत्क्रमणाच्चोदान इत्यभिधीयते ।
व्यानो नाम वायुः सन्ध्यधिष्ठाता विक्षेपणाद्विजृम्भणाच्च व्यान इत्यभिधीयते ।
इति पञ्चवायवो व्याख्याताः ।
[पञ्चकर्मात्मानः

12

]
अत्राह के ते पञ्चकर्मात्मान इत्युच्यते ।
वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्च ।
तत्र वैकारिकः शुभकर्मकर्ता ।
तैजसो ऽशुभकर्मकर्ता ।
भूतादिर्मूढकर्मकर्ता ।
सानुमानः शुभमूढकर्मकर्ता ।
निरनुमानो ऽशुभमूढकर्मकर्ता चैवं पञ्चकर्मात्मानो व्याख्याताः ।
[पञ्चपर्वाविद्या

13

]
अत्राह का सा पञ्चपर्वाविद्येत्युच्यते ।
तमो मोहो महामोहस्तामिश्रो ऽन्धतमिस्रश्चेति ।
तत्र तमोमोहावुभावष्टात्मकौ ।
महामोहो दशात्मकः ।
तामिस्रोन्धतामिस्रश्चाष्टादशात्मकौ ।
तमो नामाष्टसु प्रकृतिष्वव्यक्तबुद्ध्यहंकारपञ्चतन्मात्रसंज्ञितास्वनात्मस्वात्माभिमानस्तम इत्यभिधीयते ।
मोहो नामाणिमाद्यष्टैश्वर्यप्राप्तये यो ऽभिमान उत्पद्यते स मोह इत्यभिधीयते ।
महामोहो नाम दृष्टानुश्रविकेषु शब्दादिविषयेषु दशसु वृत्तिषु मुक्तोहमिति मन्यते स महामोह इत्यभिधीयते ।
तामिस्रो नामाष्टगुणैश्वर्ये ऽणिमाद्ये दशविधे च विषये यो द्वेषो ऽप्रतिहतस्तत्र यद् दुःखमुत्पद्यते ऽसौ तामिस्र इत्यभिधीयते ।
अन्धतामिस्रो नामाष्टगुणैश्वर्ये ऽणिमाद्ये दशविधे च विषये सिद्धे मरणकाले यो विषाद उत्पद्यते सो ऽन्धतामिस्र इत्यभिधीयते ।
एवमेषा पञ्चपर्वा ऽविद्या द्विषष्टिभेदा व्याख्याताः ।
[अष्टाविंशतिधाशक्तिः

14

]
अत्राह का साष्टाविंशतिधाशक्तिरत्रोच्यते ।
एकादशेन्द्रियवधाः सप्तदश तुष्टिसिद्धि(बुद्धि)वधाः ।
एषाष्टाविंशतिधाशक्तिरिति ।
तत्रेन्द्रियवधास्तावदुच्यन्ते ।
श्रोत्रे बाधिर्यं जिह्वायां जडत्वं त्वचि कुष्ठित्वं चक्षुष्यरूपत्वं नासिकायामघ्राणत्वं वाचि मूकत्वं हस्तयोः कुणित्वं पादयोः पङ्गुत्वं वागिन्द्रिय उदावर्त उपस्थेन्द्रिये क्लैब्यं मनस्युन्माद इत्येकादशेन्द्रियवधाः ।
[नवधा तुष्टिः

15

]
[अष्टधा सिद्धिः

16

]
सप्तदशतुष्टिसिद्धिवधा नाम विपर्ययास्तुष्टिसिद्धीनाम् ।
तुष्टिविपर्ययास्तावदुच्यन्ते ।
तत्र नास्ति प्रधानमिति या प्रतिपत्तिरनन्ता ।
एवमहमित्यात्मज्ञाने तामसलीना तथाहंकारस्यादर्शनमविद्या ।
नैव सन्ति तन्मात्राणि भूतकारणानीत्यवृष्टिः ।
विषयाणामर्जने प्रवृत्तिरसुतारा ।
रक्षणे तु प्रवृत्तिरसुपारा च ।
क्षयदोषमदृष्ट्वा ऽर्थे प्रवृत्तिरसुनेत्रा ।
भोगा शक्तिरसुमरीचिका ।
हिंसादोषमपश्यतो भोगारम्भो ऽनुत्तमाम्भसिका ।
इति तुष्टिविपर्यया नवधा ऽतुष्टयो व्याख्याताः ।
अथ सिद्धिविपर्यया असिद्धयो ऽष्टौ चाभिधीयन्ते ।
नानात्वं भूतमात्रस्यैकात्वमाविर्भूतमतारमुच्यते ।
शब्दमात्रश्रवणाद्विपरीतग्रहणमासुतारं यथा नानात्वज्ञो मुक्त इति श्रुत्वा विपरीतं प्रतिपन्नो नानात्वज्ञो ह्यमुक्त इति ।
अध्ययनश्रवणाभिनिविष्टस्यापि जडत्वादसच्छास्त्रोपहतबुद्धित्वाद्वा पञ्चविंशतितत्त्वज्ञानसिद्धिर्न भवति तदा ऽतारतारं तदज्ञानम् ।
कस्यचिदाध्यात्मिकेन दुःखेनाभिभूतस्यापि संसारे ऽनुद्वेगादजिज्ञासोर्न ज्ञानं तत्प्रमादम् ।
एवमप्रमुदिताप्रमोदमानयोश्चान्योन्ययोर्द्वयमपरं द्रष्टव्यम् ।
सुहृदुपदिष्टे ऽप्यनिश्चयबुद्धेरज्ञानम् परस्परमसम्पा ।
असम्पावचनादथवा पराङ्मुखे गुरौ दुर्भाग्यस्य ज्ञानासिद्धिस्तदज्ञानमसत्प्रमुदितमिति ।
एवमेते सिद्धिविपर्यया असिद्धयो ऽष्टौ व्याख्याताः ।
एवमेषा ऽष्टविंशतिधा ऽशक्तिर्व्याख्याता ।
अत्राह का सा नवधा तुष्टिरत्रोच्यते ।
प्रकृतिं परमार्थत्वेन परिकल्प्य परितुष्टे माध्यस्थं लभते तस्य तुष्ट्या सा तान्त्रिकी संज्ञा ऽम्भ इति ।
अपरो बुद्धिं परमार्थवेन प्रतिपद्य परितुष्टस्तस्यास्तुष्टेः शलिला इति संज्ञा ।
अन्यो ऽहंकारं परमार्थत्वेनाभ्युपगम्य परितुष्टस्तस्यातुष्टेः रोध इति संज्ञा ।
इतरस्तन्मात्राणि भोग्यानि परमार्थत्वेन विनिश्चित्य परितुष्टस्तस्य तुष्टेर्वृष्टिरिति संज्ञा ।
एवमाध्यात्मिक्यश्चतस्रस्तुष्टयो भवन्ति ।
चतसृष्वपि तुष्टिषु नास्ति मोक्षस्तत्त्वज्ञानस्यासम्भवात् ।
वाह्यार्थार्जनरक्षणक्षयसङ्गहिंसादिदोषदर्शनाद्विषयोपरमे पञ्चतुष्टयो भवन्ति ।
अर्थानामर्जने दोषदर्शनात् तुष्टः प्रव्रजितस्यापि नास्ति मोक्षस्तत्त्वज्ञानाभावात् ।
सा पञ्चमी तुष्टिः सुतारेत्यभिधीयते ।
अन्योर्थानां रक्षणे दोषदर्शनात् तुष्टः प्रव्रजितस्यापि नास्ति मोक्षस्तत्त्वज्ञानाभावात् सा षष्ठी तुष्टिः सुपारेत्युष्यते ।
अन्योर्थानां क्षयदोषदर्शनात् तुष्टः प्रव्रजितस्यापि नास्ति मोक्षस्तत्त्वज्ञानाभावात् सा सप्तमी तुष्टिः सुनेत्रेत्यभिधीयते ।
अन्योर्थानां सङ्गदोषदर्शनात् तुष्टः प्रव्रजितस्यापि नास्ति मोक्षस्तत्त्वज्ञानाभावात् साष्टमी तुष्टिः सुमरीचिकेत्यभिधीयते ।
अन्यो भूतानामर्थनिमित्तं हिंसादिदोषदर्शनान्निवृत्तस्तुष्टः प्रव्रजितस्यापि नास्ति मोक्षस्तत्त्वज्ञानाभावात् सा नवमी तुष्टिरुत्तमाम्भसिकेत्यभिधीयते ।
इत्येता नवतुष्टयो व्याख्याताः ।
अत्राह काष्टौ सिद्धय इत्यत्रोच्यते ।
यदूहने ज्ञानमुत्पद्यते तत्त्वभावभूतेषु सा प्रथमा सिद्धिस्तारेयभिधीयते ।
यच्छब्दमात्रेण ज्ञानमुत्पद्यते तत्त्वभावभूतेषु सा सिद्धिः सुतारेत्यभिधीयते ।
यदध्ययनेन ज्ञानमुत्पद्यते तत्त्वभावभूतेषु सा तृतीया सिद्धिस्तारयन्तीत्यभिधीयते ।
यदाध्यात्मिकस्य दुःखस्यापनोदनं कृत्वा ज्ञानमुत्पद्यते तत्त्वभावभूतेषु सा चतुर्थी सिद्धिः प्रमुदितेत्यभिधीयते ।
यदाधिभौतिकस्य दुःखस्यापनोदनं कृत्वा ज्ञानम् उत्पद्यते तत्त्वभावभूतेषु सा पञ्चमी सिद्धिः प्रमुदितेत्यभिधीयते ।
यदाधिदैविकस्य दुःखस्यापनोदनं कृत्वा ज्ञानमुत्पद्यते तत्त्वभावभूतेषु सा षष्ठी सिद्धिः प्रमोदमानेत्यभिधीयते ।
यत्तु स्निग्धसंसर्गाव्यपयाज्ज्ञानमुत्पद्यते तत्त्वभावभूतेषु सा सप्रमी सिद्धिः रम्यकेत्यभिधीयते ।
यत् परिचर्यादानेन ज्ञानमुत्पद्यते तत्त्वभावभूतेषु परितोषिते गुरौ सिद्धिः सत्प्रमुदितेत्यभिधीयते ।
इत्येता अष्टसिद्धयो व्याख्याताः ।
[दशधा मूलिकार्थाः

17

]
अत्राह के दशमूलिकार्था इत्यत्रोच्यते ।
अस्तित्वमेकत्वमथार्थवत्त्वं परार्थमन्यत्वमकर्तृता च ।
योगो वियोगो वहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥
इत्येते दशमूलिकार्थाः ।
सङ्घातपरार्थत्वादिति पुरुषास्तित्वं सिद्धम् ।
भेदानां परिमाणात् कारणमस्त्यव्यक्तमिति पर्यायद्वयेन प्रधानस्यास्तित्वं सिद्धम् ।
हेतुमदनित्यमित्येकत्वं सिद्धम् ।
प्रीत्यप्रीतिविषादात्मका इत्यर्थवत्त्वं सिद्धम् ।
नानाविधैरुपायैरिति परार्थत्वं सिद्धम् ।
त्रिगुणमविवेकि विषय इत्यन्यत्वं सिद्धम् ।
तस्माच्च विपर्यासादित्यकर्तृत्वं सिद्धम् ।
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्यापीति योगसिद्धिः ।
प्राप्ते शरीरभेदे चरितार्थत्वादिति वियोगसिद्धिः ।
जन्ममरणकरणानामिति पुरुषबहुत्वं सिद्धम् ।
चक्रभ्रमिवदिति शेषवृत्तिः सिद्धा ।
एते दशमूलिकार्था व्याख्याताः ।
एतेषां दशानां प्रागुपदिष्टानां च पञ्चाशत्प्रत्ययाः ।
एते च षष्टिपदार्थाः षष्टितन्त्रमित्युच्यते ।
[अनुग्रहसर्गः

मूल पाठ: Tattvasamāsasūtravṛtti or Kramadīpikā (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. · Edition: Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ (Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 117-140) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc