तत्त्वसमाससूत्रवृत्ति · श्लोक 18-23
]
अत्राह को ऽनुग्रहसर्गः अत्रोच्यते ।
बाह्यान् पञ्चतन्मात्रेभ्यश्चोत्पाद्यानुग्रहसर्गध्यानोत्पन्नेनाधारवर्जितान् पुत्रान् दृष्ट्वा तेभ्यस्तन्मात्रेभ्यो ऽनुग्रहसर्गमसृजद्ब्रह्मा ।
[चतुर्दशविधो भूतसर्गः
]
अत्राह कश्चतुर्दशविधो भूतसर्ग इत्यत्रोच्यते ।
अष्टविकल्पो दैवः पैशाचो राक्षसो याक्षो गान्धर्व ऐन्द्रः प्राजापत्यो ब्राह्म इत्यष्टौ देवयोनयः ।
पञ्चधा तिर्यग्योनश्च पशुपक्षिमृगसरीसृपस्थावरा इति ।
गवादिमूषकान्ताः पशवः ।
गरुडादिमशकान्ताः पक्षिणः ।
सिंहादिशृगालान्ताः मृगाः ।
शेषादिकीटान्ताः सरीसृपाः ।
पर्वतादितृणान्ताः स्थावराः ।
मानुष्यं चैकविधं ब्राह्मणादिचाण्डालान्तम् ।
अष्टविकल्पो दैवस्तिर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥
[त्रिविधो धातुसर्गः
]
समासतो ये त्रिधाः सर्गाः तत्राह कस्त्रिविधो धातुसर्गः अत्रोच्यते सूक्ष्माः मातापितृजाः प्रभूता इति ।
ज्ञानेन्द्रियपञ्चप्राणबुद्धिमनसां गणः सूक्ष्मः ।
लिङ्गशरीराणीत्यर्थः ।
मातापितृजा षाट्कौशिकाः तत्र मातृतो लोमलोहितमांसानि पितृतः स्नाय्वस्थिमज्जान इति षट्को गणः ।
प्रभूताः पञ्चमहाभूतानि महाभूते घटादीनां निवेश इति त्रिविधो धातुसर्गो व्याख्यातः ।
एतत्संसारमण्डलमुक्तम् ॥
[त्रिविधो बन्धः
]
अत्राह कस्त्रिविधो बन्द्य इत्यत्रोच्यते ।
प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश्चेति ।
तत्र प्रकृतिबन्धो नामाष्टौ प्रकृतयस्ताः परतेनाभिमन्यमानस्य प्रकृतिलयः प्रकृतिबन्ध इत्युच्यते ।
तत्र वैकारिकबन्धो नाम प्रव्रजितानां लौकिकानां वैकारिकैरिन्द्रियैर्वशीकृतानां शब्दादिविषये प्रशक्तानामजितेन्द्रियाणामज्ञानिनां काममोहितानां वैकारिकबन्ध इत्युच्यते ।
दक्षिणाबन्धो नाम ब्रह्मचारिगृहस्थभिक्षुवैखानसानां काममोहोपहतचेतसामभिमानपूर्विकां दक्षिणां प्रयच्छतां दक्षिणाबन्ध इत्युच्यते ।
इति त्रिविधो बन्धो व्याख्यातः ।
उक्तं च ।
प्राकृतेन तु बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस्तृतीयेन बन्धोयं च निगद्यते ॥
[त्रिविधो मोक्षः
]
अत्राह कस्त्रिविधो मोक्ष इत्यत्रोच्यते ।
ज्ञानोद्रेकादिन्द्रियरागोपशमात् कृत्स्नक्षयाच्चेति ।
ज्ञानोद्रेकादिन्द्रियरागोपशमात् स्वधर्माधर्मक्षयो भवति धर्माधर्मक्षयाच्च कैवल्यमिति ।
उक्तं च ।
आद्यो हि मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् ।
कृत्स्नक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥
[त्रिविधं प्रमाणम्
]
किं त्रिविधं प्रमाणमित्यत्रोच्यते ।
दृष्टमनुमानमाप्तवचनं चेति एतत् त्रिविधं प्रमाणम् ।
दृष्टं तावद्व्याख्यायते यावदिन्द्रियाणां पञ्चेन्द्रियार्थाः प्रत्यक्षा एव दृष्टम् ।
अनुमानम् प्रमाणं लिङ्गदर्शने जायमानं ज्ञानम् ।
यथा मेघोदयेन वृष्टिः साध्यते बकपङ्क्तिभिः सलिलम् धूमेनाग्निः तदनुमानम् ।
प्रत्यक्षेणानुमानेन वा योर्थो न साध्यते स आप्तवचनात् साध्यते ।
यथेन्द्रो देवानां राजा उत्तराः कुरवः सौवर्णो मेरुः स्वर्गे ऽप्सरस इति ।
त इन्द्रादयः प्रत्यक्षानुमानासाध्याश्च वसिष्टादयो मुनयो वदन्ति सन्तीन्द्रादयः आगमोप्यस्ति ।
स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः ।
ज्ञानवान् शीलसम्पन्न आप्तो ज्ञेयस्तु तादृशः ॥
एवमेतत् त्रिविधं प्रमाणमभिहितम् ।
अत्राह तेन त्रिविधेन प्रमाणेन किं साध्यते अत्रोच्यते ।
यथा लोके मानेन प्रस्थादिना धान्यानि मीयन्ते ।
तुलया चन्दनादीनि द्रव्याणि ।
एवमनेन तत्त्वभावभूतानि प्रमीयन्ते ।
त्रिविधेन दुःखेनाभिभूतो ब्राह्मणः कपिलमहर्षिशरणमुपागतः अत्राह ।
[त्रिविधं दुःखम्
मूल पाठ: Tattvasamāsasūtravṛtti or Kramadīpikā (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. · Edition: Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ (Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 117-140) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0