भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वसमाससूत्रवृत्ति · श्लोक 1-20

1

तत्त्वसमाससूत्रवृत्तिः ।
पञ्चविंशतितत्त्वेषु जन्मना ज्ञानमाप्तवान् ।
आदिसृष्टौ नमस्तस्मै कपिलाय महर्षये ॥ 1 ॥
अथातस्तत्त्वसमासाख्यसाङ्ख्यसूत्राणि व्याख्यास्यामः ।
इह कश्चिद्ब्राह्मणस्त्रिविधेन दुःखेनाभिभूतः साङ्ख्याचार्यं कपिलमहर्षिं शरणमुपागतः । स्वकुलनामगोत्रस्वाध्यायं निवेद्याह ।
भगवन् किमिह परं किं याथातथ्यं किं कृत्वा कृतकृत्यः स्यामिति ।
कपिल उवाच कथयिष्यामि ।
अष्टौ प्रकृतयः

2

षोडश विकाराः

3

पुरुषः

4

त्रैगुण्यम्

5

सञ्चरः

6

प्रतिसञ्चरः

7

अध्यात्मम् अधिभूतम् अधिदैवतं च

8

पञ्चाभिबुद्धयः

9

पञ्चकर्मयोनयः

10

पञ्चवायवः

11

पञ्चकर्मात्मानः

12

पञ्चपर्वा ऽविद्या

13

अष्टाविंशतिधा ऽशक्तिः

14

नवधा तुष्टिः

15

अष्टधा सिद्धिः

16

दशधा मूलिकार्थाः

17

अनुग्रहसर्गः

18

चतुर्दशविधो भूतसर्गः

19

त्रिविधो धातुसर्गः

20

त्रिविधो बन्धः

मूल पाठ: Tattvasamāsasūtravṛtti or Kramadīpikā (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. · Edition: Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ (Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 117-140) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc