तर्कताण्डव (टीका सहित) · अध्याय 6
यद्वा तत्तज्ज्ञानप्रामाण्यस्य ग्राहप्रामाण्यस्य ग्राहप्रामाण्याश्रयत्तत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वयोग्यत्वं स्वतस्त्वं ।
ननु ज्ञानग्राहकसाक्षिणो विरोधिसामग्रयभावमपेक्ष्य प्रामाण्यग्राहकत्वे नरपेक्षज्ञानग्राह्यत्वरूपस्वतस्त्वायोग इत्यत आह -- मणिकुतापीति ॥ परतस्त्वादिनापीत्यर्थः । विरोध्युपस्थापकसामग्र्यसमवधानस्य प्रामाण्यग्राहणकारणत्वे हि दोषः । गमनशक्तस्य गजस्य गोक्षुरकापसा 2 रणस्येव प्रयोजकत्वे तु न दोष इति भोवेनोक्तं -- प्रयोजकतेति
पूर्वं फलोपधानापेक्षया प्रयोजकविशषणोक्त्या निरुक्तिः कृता अधुना तु तादृशविशेषणत्यागेन प्रका 3 रान्तमाह-- यद्वेति ॥ सार्वत्रिकसार्वकालीनप्रामाण्यस्वतस्त्वलाभाय वाऽह -- यद्वेति । नन्वेवं स्वतस्त्वस्याप्रतिबद्धसाक्षिवेद्यत्वरू 4 त्वे"ज्ञानग्राहकः साक्षी प्रमाणतयैव गृह्णातीत्युत्सर्ग एव -- विसंवादलक्षणात्परतो ऽपवादादप्रामाण्यं च गृह्णाति"इति तत्वनिर्णयटीकाद्युक्तौत्सर्गिकत्वविरोध इत्युक्त्या यथोक्त 5 विशेषणेनापि साक्षिज्ञानेन प्रतिबन्धदशायां
प्रामाण्याग्रहाद्बाध इति शङ्का; साक्षीत्युक्त्या घटज्ञानमस्तीत्यादिशब्दजन्यं घटज्ञानविषयकज्ञानं प्रति तथा ज्ञानांशालौकिकं सामान्यप्रत्यासत्तिजन्यं ज्ञानं च प्रति प्रामाण्यस्य -
1.ग्रहे-मु.च. 2.सारक.- आ. 3. पक्षा.-आ.मु. 4.पक्षे.-मु. 5.प्रतिबन्धकस्थले यथोक्तविशेषणेनापि साक्षिणाप्रामाण्या ग्रहात् -मु.
स्व-ज्ञ-स्व-नि.) प्रमाण्यवादः पु- 11.
योग्यत्वं च साक्षिनिष्ठां सहजां ग्रहणशक्तिं प्रति स्वविषयज्ञानद्वारावच्छेदकत्वम् ।
कदाप्यविषयतया योग्यत्वं 2 नेति बाध इति शङ्का ; ग्राह्यप्रमाण्याश्रयतत्तज्ज्ञानविषयकेत्युक्त्या घटज्ञानं गृह्णता साक्षिणा पटज्ञानप्रमाण्यस्य कदाप्यग्रहेण योग्यत्वं 3 नेति बाध इति शङ्का च निरस्तेति पूर्ववद्युक्तमिति भावः । अत्रापि ज्ञानपदं पूर्ववत्स्वरूपेन्द्रियभ्रमनिरासाय । साक्षित्वमपि व्यवसायप्रकारप्रकारकतयातत्प्रकारवद्विशेष्यकतया तद्विषयकप्रत्यक्षत्वरूपं वा ज्ञानांशे लौकिकप्रत्यक्षत्वरूपं वानुव्यवसायत्वमेवेति भावः । अत्रापि पूर्वत्रेव ग्राह्यप्रामाण्याश्रययेत्यंशकृत्यं बोध्यम् । नन्वत्र स्वाश्रयज्ञानग्राहकग्राह्यत्वयोग्यत्वं स्वतस्त्वमित्युक्तं स्यात् ; तच्चाप्रामाण्यस्याप्यस्ति । न च तत्र ज्ञानं साक्षिवेद्यमप्रामाण्यं त्वनुमेयमिति न दोष इति युक्तम् । प्रथममप्रामाण्यानुमित्यसंभववादे विसंवादाहितशक्तिकेन साक्षिणैवाप्रामाण्यग्रहणस्य वक्ष्यमाणत्वादित्यतो वा ;
साक्षिविषयत्वयोग्यत्वं यदि साक्षिजन्यव्यवहारयोगि 4 त्वादिरूपं तदैतत्फलोपधानपर्यवसन्नमिति न प्रतिबन्धकालीनप्रमाण्यस्वतस्त्वलाभ इत्यतो वाऽह -- योग्यत्वं चेति सहजां --
स्वाभाविकीं विषयीकरणशक्तिं प्रति स्वस्य साक्षिणस्तच्छक्तेर्वा यो विषयो ग्राह्यप्रामाण्याश्रयरूपं ज्ञानं तद्वारावच्छेदकत्वं-- विषयतया व्यवर्तकत्वम् । ज्ञानग्रहणशक्तिरितिवत्प्रामाण्यग्रहणशक्तिरिति व्यवहारापादकत्वमेव प्रामाण्यस्य साक्षिविषयत्वयोग्यत्वमित्यर्थः । साक्षिशक्तिर्ज्ञानद्वारैव तन्निष्ठप्रामाण्यं गृह्णाति । न साक्षात् । यथा प्रत्यक्षं व्यक्तिद्वारैव जातिं न साक्षादिति स्वविषयज्ञानद्वारेत्युक्तम् ॥
1.प्रामाण्यस्य. -ख. 2.च. -कुं. 3. च- कुं. 4 .ग्या.-कुं.
स्वम-ज्ञ-स्व-नि.) प्रामाण्यवादः पु- 12.
------ ------ -----
एवं च प्रतिबन्ध 1 दशायामपि करतलादौ दाहयोग्यतावत् प्रामाण्ये ग्रहणयोग्यतास्त्येव । तथा च प्रामाण्यग्रहणशक्तेः सहजत्वात् प्रामाण्यग्रहणस्यौत्सर्गिकत्वरूपतस्त्वसिद्धिः । उक्तं च टीकाकारैः"साक्ष्येव ज्ञानं तत्प्रामाण्यं च विषयीकर्तुं क्षमः ।
ज्ञानग्राहकैकशक्तिविषयत्वं प्रामाण्यस्य साक्षिविषयत्वयोग्यत्वम् । नैतदप्रामाण्ये ऽस्ति । भिन्नविषयत्वादित्यग्रे व्यक्तम् । गुरुपादस्तु--- स्वपदेन प्रमाण्यम् । बहुव्रीहिसमासः । स्वविषयकं यज्ज्ञानं साक्ष्येव । साक्षिनिष्ठशक्तिं प्रति प्रामाण्यस्य न साक्षाद्विषयत्वमित्यतः स्वविषयकज्ञानद्वारेत्युक्तमित्याहुः । परमते शक्तेरप्रसिद्धावपीदं स्वमतासाधारणमिति वा परेणापि शक्तिमङ्गीकारयिष्यामीति वा ज्ञानग्रह 2 णसामग्रीमात्रं प्रति स्वविषयज्ञानद्वारावच्छेदकत्वमिति वा ज्ञानग्राहकतावच्छेदकधर्मावच्छन्नग्राहकताकत्वं वा तदर्थं इति भावः । नन्वेतावतापि कथं प्रतिबन्धदशापन्न 3 ज्ञानप्रामाण्यस्य स्वतस्त्वलाभः येन सर्वप्रमाणानां स्वतस्त्वं स्यादित्यत आह-- एवं चेति ॥ योग्यतारूपे स्वतस्त्वे सतीत्यर्थः । योग्यत्वस्योक्तरूपत्वे सतीति वार्थः --- दाहेति ॥ दाहविषयत्वयोग्यतावदित्यर्थः ।
द्वितीयनिरुक्त्यान्यदप्यनुकू 4 लितमित्याह --तथाचेति । उक्तरूपयोग्यत्वगर्भनिरुक्तौ सत्यामित्यर्थः -- औत्सर्गिकत्वेति ॥"ज्ञानग्रहकः साक्षी प्रमाणतयैव गृह्णातीत्युपसर्ग एव"इति तत्वनिर्णयटीकाद्युक्तौत्सर्गिकत्वेत्यर्थः-- उक्तं चेति ॥ प्रामाण्यस्य सहजशक्तिविषयत्वं प्रतिबन्धस्थले योग्यतास्तीत्येतच्चौक्तं तत्वनिर्णयटीकायामित्यर्थः ।
1. बन्धक.--मु.च.छ. 2. ग्राहक.--मु. 3.पुस्तकेनास्ति.--मु. 4. लं.--मु.
स्वम-ज्ञ-स्व-नि.) प्रामाण्यवादः पु-13.
------ ----- -----
किं तु प्रतिबद्धो ज्ञानमात्रं गृहीत्वा 1 तत्प्रामाण्यग्रहणस्य नेष्टे"इति
मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0