तर्कताण्डव (टीका सहित) · अध्याय 7
यद्वा - उभयसिद्धप्रामाण्याविषयकज्ञानभिन्नज्ञानविषयत्वनैयत्यं स्वतस्त्वम् ।
कारणान्तरोपनिपातेन मानसापराधेन प्रतिबद्ध--इत्येवंरूपेण तत्र पाठे ऽप्ययमेकदेशानुवाद इत्यदोषः
प्रौड्या स्वतस्त्ववादिमात्रसाधारणं पक्षान्तरमाह -- यद्वेति ॥ तत्तज्ज्ञानप्रामाण्यस्येत्यनुषङ्गः । साध्ये ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकेति ग्राह्यम् । स्वातस्त्ववादिनो 2 ह्यनेके ।
ग्रन्थकर्तैकः । भट्टो ज्ञानातीन्द्रियत्ववादी । गुरुर्ज्ञानमात्रस्वप्रकाशत्ववादी । मिश्रस्तु न्यायमत इवास्वप्रकाशानुव्यवसायवादी । तत्रोभयत्यस्य सिद्धान्तितार्किकोभयेति भट्टतार्किकोभयेति गुरुतार्किकरूपोभयेति मिश्रतार्किकोभयेति मायिता 4 र्किकोभयेत्येवंरूपेणेत्यर्थः । एकदानेकैः सह विवादायोगात् । उभयसिद्धम यत्प्रामाण्याविषयकं ज्ञानं प्रामाण्याविषयकत्वेनोभयसंमतं यज्ज्ञानं अयं घट इत्यादिरूपं ज्ञानं तद्भिन्नं ग्राह्येत्यादीरूपं च यज्ज्ञानं सिद्धान्ते प्रागुक्तरूपसाक्षिज्ञानं भट्टमते ज्ञानानुमितिरूपं गुरुमते स्वप्रकाशघटादिज्ञानं मिश्रमते तदनुव्यवसायः । तेन गृह्यत एवेत्येवंरूपं तद्विषयत्वनैयत्यं तत्तन्मते स्ततस्त्वमित्यर्थः । न च गुरुमते सर्वज्ञानयाथार्थ्यस्वप्रकाशत्वयोरुपगमेन प्रामाण्याविषयकं ज्ञानं नास्त्येवेति शङ्क्यम् । इदं
ज्ञानप्रमाणमित्याद्यप्रामाण्यारोपस्थले ज्ञानस्य प्रामाण्याविषयकत्वस्य गुरूतार्किकसंमतेः ।
1.प्रामाण्य.-मु. छ."तत्"इति नास्ति. -घ. 2. हि चत्वारः. - कुं.
3. नास्ति - कुं. 4. नास्ति. -कुं.
"प्रामाण्यवादः पु- 14.
-- ----- -- -------- ----------
तत्र प्रामाण्याविषयकज्ञानाभिन्नेत्युक्त्या घटऽयमित्यादिघटादिविषयकप्रत्यक्षज्ञानं प्रति ज्ञानं गुण इत्यादिशब्देन घटज्ञानमित्यादिशब्देन च जन्यं ज्ञानविषयक ज्ञानं प्रति प्रतिबद्धानुव्यवसायं प्रति च स्वतस्त्वपक्षेपि --
आरोपस्तु गुरुमते इच्छास्थस्य व्यधिकरणप्रकारकत्वरूपाप्रामाण्यस्यासंसर्गाग्रहो न्यायमते विशिष्टज्ञानमित्यन्यदेतत् । अत्र
ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकेत्युक्त्या तदंश एवोक्तरूपज्ञानभिन्नत्वस्याभिमतत्वाज्ज्ञानविषयकं ज्ञानं प्रमेति ज्ञानस्याद्यनुज्ञाने प्रामाण्याविषयकभिन्नसत्वान्न दोषः । प्रामाण्यवादं ग्राह्यतत्तत्प्रामाण्यपरं वा । तथाच यथान्यासेनैवोक्तस्थले न दोषः । अत्र नञ्द्वयाप्रवेशेनोभयसिद्धप्रामाण्यविषयकज्ञानविषयत्वनैयत्यमित्युक्ते तादृशानुमित्यादिना सिद्धसाधनम् । अतो ऽविषयकभिन्नेत्युक्तिः । अत्राद्यज्ञानपदं यथोक्तरूपघटादिभिन्नेन घटज्ञानादिना प्रामाण्याग्रहाद्बाध इति शङ्कानिरासाय । अन्त्यं तु तादृशज्ञानभिन्नघटादीविषयत्वाभावेन बाध इति शङ्कानिरासायेति व्यक्तमिति शिष्टपदकृत्यान्याह -- तत्रेति ॥ प्रामाण्यविषयकज्ञानभिन्नेत्यनुक्त्वोभयसिद्धज्ञानविषयत्वनैयत्यमित्येतावत्युक्ते सति प्रष्टव्यं उभयसिद्धज्ञानपदेन किं प्रत्यक्षज्ञानमभिमतं उत शाब्दं
अथानुव्यवसायरूपम् ? द्वितीये ऽपि किं ज्ञानविषयकं विषयालिङ्गितज्ञानविषयकं वेति विकल्पान्वा ; विषयग्राहिज्ञानमिति वा ज्ञानग्राहिज्ञानमिति वा उभयग्राहि ज्ञानमिति वा उभयग्राह्यनुव्यवसायरूपप्रत्यक्षं वेति विकल्पान्वा हृदि निधाय क्रमेण निराह -- घटोयमित्यादिना ॥ प्रत्यक्षज्ञानं प्रतीत्यादेः प्रामाण्यस्याविषयत्वादित्यन्वयः । गुरुमते घटोयमिति ज्ञानेनापि प्रामाण्यग्रहादिदं ज्ञानमप्रमाणमित्यादिज्ञानं प्रतीति ग्राह्यम् ।
1. जन्य. - मु. च.
स्वम- ज्ञ-नि.) प्रामाण्यवादः पु- 15.
----- ------ ----
उक्तस्य त्रिविधस्यापि ज्ञानस्य प्रामाण्याविषयकत्वेन तद्भिन्नत्वाभावात् । उभयसिद्धेत्युक्त्या न्यायमते ऽ 2 प्रतिबद्धस्याप्यनुव्यवसायस्य प्रामाण्याविषय 3 कत्वेन तद्भिन्नत्वाभावात्सिद्धान्त्यभिप्रेतस्याप्रतिबद्धानुव्यवसायं प्रति विषयत्वास्यासिद्ध्यार्ऽथान्तरमिति शङ्का परास्ता ।
शङ्कानिरासं व्यनक्ति - उक्तस्य त्रिविधस्यापीति ॥ यत्तु घटज्ञानमिति शब्दजन्यज्ञानेन घटत्ववति घटत्वप्रकारकत्वरूपं प्रामाण्यं गृह्यत इति ; तत्त्वपदर्थत्वादवाक्यार्थत्वादयुक्तम् । प्रतिबद्धानुव्यवसायं प्रतीत्यत्र गुरुमते इदं ज्ञानमप्रामाणमित्यादिप्रतिबद्धज्ञानं प्रतीति भट्टमते प्रतिबद्धज्ञानानुमितिं प्रतीत्यपि ध्येयम् ॥ उभयसिद्धेत्युक्तेति -- प्रामाण्यविषयकेत्यादावुक्ते सत्यन्यतरसिद्धं प्रामाण्यविषयकं यदप्रतिबद्धानुव्यवसायरूपं ज्ञानं तद्विषयत्वमादाय प्रामाण्यस्य स्वतस्त्वं सिद्धान्त न सिद्ध्येत् । तस्य प्रामाण्याविषयकभिन्नत्वाभावात् । उभयसिद्धत्युक्तौ अप्रतिबद्धानुव्यवसायस्य प्रामाण्याविषयकत्वेनोभयसिद्धत्वाभावादुभयसिद्धतादृशज्ञानभिन्नत्वमस्त्येवेति नार्थान्तरत्वदोष इत्यर्थः । अनुव्यवसायस्येत्युपलक्षणम् । अप्रतिबद्धज्ञानानुमितेरप्रतिबद्धस्वप्रकाशज्ञानस्येत्यपि ध्येयम् । एवमग्रेपि ।
अप्रतिबद्धत्वं च प्रामाण्यविरोध्युपस्थितितत्सामग्र्यसमवहितत्वम् । शङ्कानिरासप्रकारं व्यनक्ति -- अप्रतिबद्धेति ॥ उभयसिद्धादित्यादेः प्रामाण्याविषयकत्वेनोभयसिद्धाद्भिन्नत्वसंभवादित्यर्थः ॥
1. यत्वेन. -मु. च. छ. 2. मतेप्य.- क. 3. यत्वेन.- छ.
स्वम-ज्ञ-स्व-नि.) प्रामाण्यवादः पु- 16.
--------- --------- ----
-- 1 अप्रतिबद्धानुव्यवसायस्य न्यायमते प्रामाण्यविषयत्वेपि मन्मते तदभेनोभयसिद्धात्प्रामाण्यविषयकाद्भिन्नत्वसंभवात् । नैयत्यमित्युक्त्या न्यायमते प्रामाण्यस्यैवंविधां प्रामाण्यानुमितिं
प्रति क्वचिदनुव्यवसायं प्रित च विषयत्वात्सिद्धसाधनमिति शङ्का व्युदस्ता । अत्राद्यं पक्षद्वयं स्वमतासाधारणम् । तृतीयं तु मीमांसकादिमतसाधारणमिति ज्ञेयम् । एतदेव पक्षत्रमभिप्रेत्योक्तं सुधायां"ज्ञानगतयाथार्थ्यस्य ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्वं"इति । अत्राद्ये 2 पक्षे सुधा 3 स्थेन ज्ञानग्रहकशब्देन ग्राह्यप्रामाण्याश्रयत ----
एवंविधामिति ॥ उभयसिद्धप्रामाण्याविषयकज्ञानभिन्नज्ञानरूपां इदं ज्ञानं प्रमाणं समर्थप्रवृत्तिहेतुत्वादित्यनुमितिं प्रति
वक्ष्यमाणदिशा स्मृत्युपनीते व्यवसाये स्मृत्युपनीतप्रामाण्यावगाह्यनुव्यवसायं गृहीतप्रामाण्यकज्ञानसजातीयज्ञानगोचरानुव्यवसायं च प्रति ॥ अत्रेति -- उक्तस्वतस्त्वनिरुक्तित्रयमध्य इत्यर्थः ॥ स्वमतेति -- तार्किकमतसाधारण्येपि मीमांसकत्रितयसाधारणं नेत्यर्थः । मीमांसकादीत्यादिपदेन मिरारिमिश्रः सिद्धान्ती मायावादिप्रभृतिर्वा ग्राह्यः । उक्तपक्षत्रयं सुधावाक्यरूढं करोति -- एतदिति ॥ उक्तेमिति ॥
"प्रत्यक्षवच्च प्रामाण्यं स्वतः एवागमस्य हि"
इति जिज्ञासानयानुव्याख्यानव्याख्यावसर उक्तमित्यर्थः । तद्व्यनक्ति अत्रेत्यादिना ॥
1. आपास्ता. - च.छ. निरस्ता.-ग. 2. अत्राद्य.- मु.च. 3.सूधायाम्.-क
"प्रामाण्यवादः पु- 17.
--- ----- ----
-- त्तज्ञानविषयकसाक्षिज्ञानं ग्राह्यशब्देन तद्विषयत्वं मात्रपदेन 1 कार्स्न्यपरेण तन्नियमः अवधारणपरेण प्रतिबद्धव्यवच्छेदश्च विवक्षितः । द्वितीय 2 पक्षे ग्राह्यशब्देनोक्तसाक्षिज्ञानविषयत्वयोग्यता अवधारणपरेण मात्रपदेन 3 ज्ञानत्वग्रहणशक्तिवत्प्रमात्वग्रहणशक्तेरपि सहजत्वं विवक्षितम् । तृतीय 4 पक्षे ज्ञानग्राहकशब्देन साक्षितदितरसाधारणं ज्ञानम् मात्रशब्देनावधारण 5 परेणोभयसिद्धप्रामाण्याविषयकज्ञान 6 व्यवच्छेदः, कार्स्न्यार्थेनाप्रतिबद्धसर्वानुव्यवसायसंग्रहश्च विवक्षित इति ज्ञेयम्
मात्रपदस्य द्व्यर्थत्वमुपेत्याह -- कार्स्न्येत्यादि ॥ यावन्तिज्ञानग्राहकाणि तावद्भिर्ग्राह्यत्वोक्तौ ज्ञानग्राहकेण गृह्यत एवेति नियमलाभादिति भावः ॥ प्रतिबद्धेति ॥ ज्ञानग्राहकेणैव गृह्यत इत्युक्ते न तु विरोधिसामग्रीसमवहितेनेत्यर्थलाभादिति भावः । अर्हार्थण्यत्प्रत्ययान्तत्वमुपेत्याह -- ग्राह्यशब्देनेति ॥ प्रमात्वेत्यादि ॥ ज्ञानग्राहकमात्रेणेत्यस्य ज्ञानग्राहकेणैव न त्वधिकेनेत्युक्तौ प्रमात्वग्रहणशक्तेरपि सहजत्वलाभादिति भावः । यद्यापे शक्तेरेकत्वमेव लभ्यते । तथापि प्रतिबन्ध 7 स्थले साक्षिणः प्रामाण्यग्रहणशक्तेः प्रतिबन्धे ऽपि न ज्ञानत्वग्रहणशक्तेरिति शक्तिद्वित्वमुपेत्य सहजत्वं विवक्षितमित्युक्तम् -- तदितरेति ॥ साक्षीतरस्वप्रकाशा 8 नुमित्यनुव्यवसायरूपपमित्यर्थः । नैयत्यलाभ 9 प्रकारमाह -- कर्त्स्न्यर्थेनेति ॥
अप्रतिबद्धेति ॥ विरोधिसामग्र्यसमवहितज्ञानगोयरासर्वज्ञानग्रहश्च विवक्षित इत्यर्थः
मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0