तर्कताण्डव (टीका सहित) · अध्याय 5
आनुमानिकत्वादीश्वरात्मनो नाष्टगुणाधकगुणवत्वमित्यत आद्यपद्योक्तरमेशविशेषणानि मानोक्त्या स्थिरीकुर्वतस्ताण्डवकरणस्य प्रसञ्जकं पूर्वरङ्गं निबध्नाति -- स्वत इति । आम्नायैः-- सजातीयानुपूर्वाविशिष्टवेदैः ॥ आख्यातेति -- नित्यसापेक्षत्वात्समासः ।
"वेदास्ते नित्यविन्नत्वाच्छृतयश्चाखिलैः श्रुतेः ।
आम्नायो ऽनन्यथापाठात्"।
इति तत्वनिर्णयोक्तेः । गुणमिति निर्देषतादेरुपलक्षणम् । गुणपदेन वा निर्देषत्वमुमुक्षुसेव्यत्वानन्तसौख्यप्रदत्वरूपधर्मग्रहः । आम्नायत्वे हेतुरादिवर्जितैरिति -- स्वतन्त्रपुरुषाप्रणीतैरित्यर्थः । नन्वपौरुषेये वेदे ऽदृष्टार्थके चाप्तोक्तत्वफलसंवादादिहेतो
पामाण्यनिश्चायकस्याभावात् निश्चितप्रमाण्यकस्यैव प्रमाणस्यार्थसत्वनिर्णयत्वस्याग्रे प्रामाण्यनिश्चयप्रवर्तकत्ववादे व्यक्तत्वात् कथं वेदे प्रामाण्यविश्चयः । आप्तोक्तत्वगुणाभावात्प्रामाण्यं वा कथमित्यतो"न विलक्षणत्वादस्य"इत्यधिकरणसिद्धमाह -- स्वतः प्रमाणैरिति ॥ करणे ल्युटे
2 ज्ञानजननशक्तिग्राहकमात्रग्राह्यप्रमाजननशक्तिमद्भिरित्यर्थः ।
1 गुणश्रीरमणम्--क. 2. स्वतः ज्ञनजननशक्तिग्राहकमात्रात्.-- मु.
स्वम- ज्ञ -स्व- नि) पु-4.
----- --
याथार्थ्थरूपस्य तत्तज्ज्ञानप्रमाण्यस्य
तथा ज्ञानजननशक्तित एव प्रमाजनकैरित्यर्थः । ज्ञप्तावुत्पत्तौ चान्यानपेक्षणाज्ज्ञानजननशक्तिग्राहकेणैव प्रमाजननशक्तिग्रहरूपप्रामाणयग्रहस्य च दैषस्य वेदापौरुषेत्ववादे वक्ष्यमाणदिशापौरुषेये ऽभावनिश्चयादिति भावः । ननु प्रमाणेनापि तात्पर्यविषयोर्ऽथौ न सिध्यतीत्यत उक्तं-- आदरेणाख्यातेति । आङो मुख्यत्वमर्थः । तात्पर्यपूर्वं मुख्यवृत्योक्तेत्यर्थः । लक्षणयोदितत्वे व्यक्तम् ।
अत्र स्वतःप्रामाण्यज्ञप्तिवादपर्यन्तं विस्तरस्तु गुरुपादकृतयुक्तिरत्नाकरे द्रष्टव्यः।
वेदरूपकरणप्रमाणस्य स्वतसत्व निश्चितप्रामाण्यज्ञानेन ज्ञातव्यम् । तथा 2 तज्जन्यज्ञानप्रामाण्योत्पत्तिस्वतस्त्वसिद्ध्यधीनोत्पत्तिस्वतस्त्वमिति क्रमाज्ज्ञप्त्तौ च तदेवादौ समर्थयितुं"ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्व"मिति टीकाकृदुक्तं वाक्यं विवृण्वानो 3 ज्ञप्त्तौ स्वतस्त्वं तावन्निर्वक्ति -- याथार्थ्यरूपस्येति । अर्थं -- ज्ञेयम्
अनतिक्रम्य वर्तमानं यथार्थं ।"यथासादृश्य"इत्यव्ययीभावः । य 4 थार्थभावो याथार्थ्यं; यथावस्तितज्ञेयविषयीकारित्वरूपं ज्ञेयाव्यभिचारित्वं तद्रूपस्येत्यर्थः । एतच्च परोक्षापरोक्षजन्याजन्यसर्वप्रमितिमात्रनिष्ठमित्युपेत्य ज्ञानप्रामाण्यचस्येत्युक्तम् । अनुभूतित्वानधिगतार्थगन्त्रुप्रमाणत्वसाधनाश्रययोरन्यतरत्वप्रमाव्याप्तत्वादेरव्याप्त्यसंभवादिदुष्टत्वादिति भावः । अस्यानुप्रमाणसाधारण्येपि सात्राज्ज्ञेयविषयीकारित्वसाभायापि ज्ञानप्रामाण्यस्येत्युक्तम् । एतच्च भिन्नं भिन्नमेवेति सर्वप्रमितिनिष्ठप्रामाण्यस्वतस्त्वद्योतनाय तत्तदिति ज्ञानविशेषणम् ॥
1.ऽकत्वऽइति न.- कुं. 2. तथाच.- कुं. 3.ज्ञप्तिरेव.-कुं. 4. यथार्थं.- मु.
स्वम-ज्ञ-स्व-नि.) पामाण्यवादः पू- 5
---- ---- --
तस्यतस्य ज्ञानस्य यत्तत्तदर्थाव्यभिचारित्वरूपं प्रमाण्यं तस्येत्यर्थः । प्रमापदप्रवृत्तिनिमित्तप्रमाण्यस्येति यावत् ।"याथार्थ्यमेव मानत्वं"इति द्वतीयाद्यपादीयानुभाष्योक्तेः । निर्धारितं चैतद्याथार्थ्यं तत्रैव सुधायाम् । प्रपञ्चितं गुरपपादैरत्रैव प्रमाण्यस्वतस्त्वानुमानवादे ।"घटत्ववति घटत्वप्रकारकत्वादिरूपं पराभिमतमेवास्माकं याथार्थ्यं"इति वक्ष्यमाणदिशा स्वपरसाधारणमेवेदमिति ज्ञेयम् । उपाधखण्डनटीकाव्यख्यानमन्दारमञ्जर्यां"अथ केयं प्रमा"इत्यादिना प्रमात्वमाक्षिप्य
"यथार्थज्ञानमित्येव प्रमाया लक्षणस्थितिः।
स्मृतेरपि च लक्ष्यत्वादतिव्याप्तिकथा मुधा"
इति प्रतिज्ञापूर्वकं"सादृश्यस्य यथाशब्दार्थत्वात् । सादृश्यं च ज्ञानार्थयोस्सत्ततया । न च भ्रमे ऽतिव्याप्तिः । तत्र ज्ञानस्य सत्त्वादर्थस्य चासत्वात् 1 ज्ञानार्थयोः सत्तया सादृश्याभावात् । एवं च यथा सादृश्यविशिष्ट एवार्थो यस्येति बहुव्रीह्याश्रवणे यथार्थशब्दस्य यथार्था प्रतीतिरित्याद्यभधेयवल्लिङ्गं लोकसिद्धं सिद्धम् ।"यथाशब्दो ऽनतिक्रमे वर्तते"इत्यादिग्रन्थेन बहुव्रीह्युपादाने 3 नोक्तर्थस्य ग्रहणे तु न स्वपरसाधारण्यं प्रमाण्यस्य लभ्यते । परमते भ्रमविषयस्य सत्वेन
लक्षणस्यातिव्याप्तेः । यद्वा तन्मते ऽपि प्राचां रीतौ वैशिष्ट्यस्य भ्रमे ऽसत्त्वान्नवीनमते च पुरतो ऽसत्त्वत्तदपि तन्मतसाधारमेवेत्याहुः। अत्र यद्यप्याम्नायजन्यज्ञानप्रामाण्यस्वतस्त्वामात्रं प्रकृतम्।
1. तत्र.-मु. 2.-मु. 3.न समाहितम् । उ.-भु.
स्वम- ज्ञ- स्व-नि प्रमाण्यवादः पु- 6.
----- --- ---
ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग्र्यसमवहितग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वनैयत्यं स्वतस्त्वम् ।
तथापि तत्स्वरूपग्राहिप्रत्यक्षज्ञानस्य तदनुग्राहकन्यायजानुमितिरूपज्ञानस्य तत्प्रामाण्यज्ञानस्य च प्रामाण्यनिश्ययोपायस्याप्यावश्यकत्वाज्ज्ञानप्रामाण्यमात्रस्यापि धर्मित्वेनोपादानम् । यद्वा प्राचीनतार्किकमत इव
क्वचित्प्रमाण्यं स्वतः क्वचित्परत इति न भ्रमितव्यम् । किं तु सर्वत्रापि । नवीनमते सर्वत्र परतस्त्वोपगमने तद्व्युदासायेति ध्येयम् ।
ग्राह्येति ---- ग्राह्यप्रमाण्यस्य तस्य या उपस्थापकसामग्री दोषशङ्कादिरूपा तदसमहितं ग्राह्यपामाण्याश्रयतत्तज्ज्ञानाविषयकं यत्साक्षिज्ञानं तेन गृह्यत एवेत्येवंरूपतद्विषयद्वनैयत्यमित्यर्थः । विप्रतिपत्तेरनाश्यकत्वस्य न्यायामृते व्युत्पादनान्नैयत्यमस्ति न वेत्यनुक्तैकैव कोटिरुक्ता । अत्र प्रमाण्यविरहरूपत्वतद्व्याप्यत्वादिरूपविरोधत्वस्य प्रमाण्याभावादिषु चतुर्ष्वेकस्याभावेपि यज्ज्ञाने सति प्रामाण्यनिश्चयः प्रतिबध्यते तज्ज्ञानविषत्वरूपं ग्राह्यप्रमाण्यविरोधित्वं प्रमाण्याभावादौ ध्येयम् । वक्ष्यति च प्रमाण्यनिश्चयस्य प्रवर्तकत्ववादे"अभावानां प्रामाण्यनिश्चयविरोध्यभावत्वेन"इत्यादि । प्रमाण्यनिश्चयप्रतिबन्धकत्वं 1 तदनुकूलकिञ्चिद्धर्मविघटकत्वं वा तदनुत्पादव्याप्यत्वं वा । प्रमाण्यनिश्चयस्य साक्षिरूपतया नित्यज्ञानत्वेपि प्रमाण्यविषयकत्वादिकमुत्पत्तिमदेवेति
तद्विशिष्टप्रमाण्यनिश्चयानुत्पादो न दुर्लभः । उपस्थापकेत्यत्र विरोध्युपस्थितितज्जनकसामग्रीभ्यामसमबहितेत्यर्थो ध्योयः ।
1. च. मु.
स्व-ज्ञ-स्व-नि.) प्रमाण्यवादः पू- 7.
---- ---- ---
तार्किकाभिमतानुव्यवसाय एवात्मकं साक्षी ।
तथाच प्रामाण्यविरोध्युपस्थितिवेलायां तत्सामग्र्यभावेन तदसमवहितेनापि साक्षिणा 1 गृह्य एवेति नेति शङ्कानवकाशः । असमवहितत्वं च तदसामानाधिकरण्ये सति तदसमानकालिकत्वम् ।"प्रत्यक्षं सप्तविधं साक्षिषडिन्द्रियभेदेन"इति प्रमाणलक्षणे,"स्वरूपेन्द्रियं साक्षित्युच्यते"इति पद्धत्यादौ च साक्षिणो ऽनुप्रमाणत्वोक्तेरिहपराभ्युपेतानुव्यवसायरूपत्वस्फोरणाय साक्षिज्ञानेत्युक्तम् ।
"साक्षिप्रत्यक्ष 2 तो ह्येव मानानां मानतेयते"
इत्यादो ज्ञानेपि प्रयोगात् । तथा युक्तिपादे"न विलक्षणत्वात्"इति नये --
"सुखदुःखादिविषयं शुद्धं संसारगेष्वपि"
इत्यस्य व्याख्यावसरे सुधायां"स्वरूपभूतं चैतन्येन्द्रियं साक्षीत्युच्यते तदभिव्यक्तं ज्ञानं च"इत्युक्तत्वाच्च ॥ नन्वात्मस्वरूपज्ञानत्वादिरूपसाक्षित्वस्य परमते ऽप्रसिद्धिरित्यत आह -- तार्किकेति ॥ स्वतस्त्वानुमानवादे वक्ष्यमाणदिशा व्यवसायप्रकारकतया व्यवसा 3 यप्रकारवद्विशेष्यकतया च तद्विषयक प्रत्यक्षत्वं वा ज्ञानांशे लौकिकप्रत्यक्षत्वं वानुव्यवसायत्वम् । साक्षित्वमप्येवं रूपमेवात्र स्वतस्त्वनिरुक्तौ प्रविष्टमित्यर्थः । यन्मते वैशिष्ट्यमनुव्यवसायविषय एव नेति तन्मतेनान्त्यः । तत्र तु न स्वातन्त्रेणेति विवक्षणीयम् ।
--------------------------------------------------------------------------- --1.न. - कुं. 2. - माण.-मु 3. तत्.-मु.
------------------------------------------------------------------------ स्वम- ज्ञ-स्व-नि.) प्रमाण्यवादः पू-8.
---- --- ----
अत्र च नियमोक्त्या न्यायमतेपि क्वचिदनुव्यवसायेनप्रामाण्यग्रहणस्य 1 वक्ष्यमाणत्वात्सिद्धसाधनमिति शङ्क्या साक्षीत्युक्त्या घटज्ञानमस्तीत्यादिशब्दजन्यमप्रतिबद्धं घटज्ञानविषयकं 2 ज्ञानं प्रति-
ज्ञानांशं इति विशेषणात्स्मृत्युपनीते ऽतीते घटज्ञाने तद्विषयकमहं घटज्ञानवानिति यज्ज्ञानमात्मांशे लौकिकप्रत्यक्षं तेन प्रमाण्याग्रहणा 3 द्बाधवारणमिति ध्येयम् । वस्तुतस्त्वत्रान्त्यपक्षप्रवेश एव साधुः । तथाच
प्रमाण्यविरोधीत्यादिविशेषणवैयर्थ्यशङ्कावकाशलेशोपि नेति ज्ञेयम् । विशेषणकृत्यानि स्वयमेव व्यनक्ति -- अत्रेति ॥ नरुक्तिवाक्य इत्यर्थः । नियमोक्त्य-- गृह्यत एवेति नैयत्योक्त्येत्यर्थः ॥ वक्ष्यमाणत्वादिति --- बाधोद्धारग्रन्थादौ धटादिज्ञानानुव्यवसायजन्यसंस्कारोत्पन्नस्मृत्युपनीते घटादिज्ञाने घटादिज्ञानजन्यसंस्कारोत्पन्नस्मृत्युपनीतं घटघटत्वतद्वैशिष्ट्यरूपप्रामाण्यं पञ्चमानुव्यवसायेन गृह्यत इति वक्ष्यमाणत्वादित्यर्थः । शङ्का निरस्तेत्यन्वयः । एतच्च तत्प्रकारप्रकारकतयेत्युक्तानुव्यवसायत्वरूपसाक्षित्वविवक्षया बोध्यम् । अन्त्यकल्पे तु गृहीतप्रमाण्यकज्ञानसजातीयज्ञानान्तरानुव्यवसायमीश्वरज्ञानं वादाय सिद्धसाधनता ध्येया । शब्दजन्यमित्युपलक्षणम् । सामान्यप्रत्यासत्तिजन्यं ज्ञानांशे ऽलौकिकं ज्ञानवानहमिति ज्ञानं च प्रतीत्यपि ध्येयम् । साक्षित्वस्य द्विरूपस्यात्राभिमतत्वा 4
त्तत्प्रकारकेत्यादिरूपेण शब्दजन्यज्ञानस्य ज्ञानांशे ऽलौकिकेत्यन्त्यपक्षरूपेण च सामान्यप्रत्यासत्तिजन्यस्यनिरासात् ॥ अप्रतिबद्धमिति -- विरोध्युपस्थितितत्सामग्र्यसमवहितमित्यर्थः । यस्तु घटज्ञानमिति ज्ञानेनापि प्रमाण्यं गृह्यत इति पक्षधरोद्धाटित पक्षः ; स त्वपदर्थत्वादवाक्यत्वादिति रुचिदत्तादिनैव दूषितत्वादुपेक्ष्यः ।
1. ग्रहणस्य -मु.च. 2. विषयज्ञानं.-मु.च. 3.प्रप्तबध.-अ. 4 त्तेन द्वरूपेणापि. शब्दजन्यज्ञानस्य सामान्यप्रत्यासत्तिजन्यादिज्ञानस्य च निरासात्.- आ. अ.
स्व-ज्ञ-स्व-नि.) प्रमाण्यवादः पु- 9
----- ----- --
-ज्ञानप्रमाण्यस्याविषयत्वाद्बाध इति शङ्का ग्राह्यप्रमाण्याश्रयतत्तज्ज्ञानविषयकेत्युक्त्या घटज्ञानं गृह्णता साक्षिणा पटज्ञानप्रमाण्यस्याग्रहणाद्बाध इति शङ्का अवशिष्टेन मन्मतेपि दोषशङ्कादीरूपे ग्राह्यपामाण्यविरोधिग्राहकसामग्रीसमवधानात्मके प्रतिबन्धे सति साक्षिणा प्रमाण्यय 1 स्याग्रहणाद्बाध इति शङ्का च निरस्ता । अत्र यद्यपि विषयत्वं साक्षिज्ञानं प्रत्येवेति नियमो न युक्तः । मन्मते ऽपि प्रामाण्यस्यानमित्यापरिग्राह्यत्वात् । तथापि साक्षिज्ञानं प्रति विषयत्वमेवेति नियमो युक्त एव ।
अत्रविवक्षित तत्प्रकार प्रकारकतादिरूपज्ञानज्ञानत्वाभावाच्च ॥ तत्तज्ज्ञानेति --
ग्राह्यप्रामाण्याश्रयविषयकेत्युक्तावपि घटज्ञानपटग्रहणेनोक्तदोषतादवस्थात्तत्तज्ज्ञानविषयकेत्यप्यनुवादः । अत एव धर्मिनिर्देशे ऽपि तत्तदित्युक्तिः 2 । ग्राह्यप्रमाण्याश्रयेत्यनुक्तावप्रामाण्याश्रयस्यापि ज्ञानस्य तत्तज्ज्ञानपदेन ग्रहणप्रसङ्गात्तद्विषयकेण साक्षिणा प्रामाण्याग्रहणाद्बाध एव । साक्षिण एकत्वेपि पटज्ञानप्रामाण्यग्रहणस्य पटज्ञानग्रहणप्रयुक्तत्वेन घटज्ञानग्रहणप्रयुक्तत्वाभावाद्बाधशङ्का युक्तैवेति भावः ॥ दोषशङ्केति ---
दुष्टकरणजन्यत्वशङ्का तन्निश्चयतज्जन 3 कादिरूपेत्यर्थः । नैयत्यस्य साक्षिणैव गृह्यते साक्षिणा गृह्यत एवेति च द्वेधा संभवाद्विवक्षितमाह -- अत्रेति ॥
निरुक्तावित्यर्थः-- अनुमित्येति ॥ चैत्रज्ञानं प्रमा अर्थसंवादादित्यादिरूपेणमैत्रादेरनुमित्युदयीदित्यर्थः ।
1. ण्याग्रहणात्- मु. 2. क्तम्.-मु. 3. सामग्र्या.-मु.
स्व-ज्ञ-स्व-नि.) प्रमाण्यवादः पु- 10.
----- ----- ---
मणिकृतापि हि तदप्रामाण्याग्राहकेति विंशिषता प्रामाण्यग्रहणे 1 ऽप्रामाण्योपस्थापकसामग्र्यसमवधानस्यप्रयोजकतोक्तैव
मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0