भाषा

ENहिગુ
ग्रंथ पाठ

तर्कसंग्रह · श्लोक 42-61

42

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् ।तद् द्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्र निर्विकल्पकं ज्ञानं निर्विकल्पकं यथेदं किंचित् । सपरकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयम् ब्रह्मणोऽयं श्यामोऽयम् इति ॥

43

प्रत्यक्षज्ञानहेतुर् इन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायो विशेषणविशेष्यभावश् चेति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दस्याकाशगुणत्वात् गुणगुणिनोश् च समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावपरत्यक्षे विशेषणविशेष्यभावः सन्निकर्षो घटाभाववद् भृतलम् इत्य् अत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं स्न्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम् । तत्करणम् इन्द्रियम् । तस्माद् इन्द्रियं प्रत्यक्षप्रमाणम् इति सिद्धम् ॥

44

अनुमितिकरणम् अनुमानम् । परामर्शजन्यं ज्ञानम् अनुमितिः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवान् अयं पर्वत इति ज्ञानं परामर्शः । तज् जन्यं पर्वतो वह्निमान् इति ज्ञानम् अनुमितिः । यत्र यत्र धूमस् तत्राग्निर् इति साहचर्यनियमो व्याप्तिः । व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥

45

अनुमानं द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं स्वानुमितिहेतुः । तथा हि स्वयम् एव भूयो दर्शनेन यत्र धूमस् तत्र अग्निर् इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस् तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस् तत्राग्निर् इति । तदन्तरं वह्निव्याप्यधूमवान् अयं पर्वत इति ज्ञानम् उत्पद्यते । अयम् एव लिङ्गपरामर्षं इत्य् उच्यते । तस्मात् पर्वतो वह्निमान् इति ज्ञानम् अनुमितिर् उत्पद्यते । तद् एतत् स्वार्थानुमानम् । यत् तु स्वयं धूमाद् अग्निम् अनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुक्ते तत् परार्थानुमानम् । यथा पर्वतो वह्निमान् धूमवत्त्वात् । यो यो धूमवान् स वह्निमान् यथा महानसः । तथा चायम् । तस्मात् तथेति । अनेन प्रतिपादिताल् लिन्गात् परोऽप्य् अग्निं प्रतिपद्यते ॥

46

प्रतिज्ञाहेतूदाहरणोपनयनिगमानि पञ्चावयवः । पर्वतो वह्निमान् इति प्रतिज्ञा । धूमवत्त्वाद् इति हेतुः । यो यो धूमवान् स सोऽग्निमान् यथा महानस इत्य् उदाहरणम् । तथा चायम् इति उपनयः । तस्मात् तथेति निगमनम् ॥

47

स्वार्थानुमितिपरार्थानुमित्योर् लिङ्गपरामर्श एव करणम् । तस्माल् लिङ्गपरामर्शाऽनुमानम् ॥

48

लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमद् अन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस् तत्राग्निर् यथा महानस इत्य् अन्वयव्याप्तिः । यत्र वह्निर् नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वाभिध्यत्वयोर् व्यतिरेकव्याप्तिर् नास्ति सर्वस्यापि प्रमेयत्वाद् अभिधेयत्वाच् च । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि यथा पृथिवी तरेभ्यो भिद्यते गन्धवत्त्वात् । यद् इतरेभ्यो न भिद्यते न तद् गन्धवत् । यथा जलम् । न चेयं तथा । तस्मान् न तथेति अत्र यद् गन्धवत् तद् इतरभिन्नम् इत्य् अन्वयदृष्टन्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥

49

संदिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ॥

50

निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महानसः ॥

51

निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः ॥

52

सव्यभिचारविरुद्धसत्पक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ॥

53

सव्यभिचारोऽनैकान्तिकः । स त्रिविधः । साधारणासाधारणानुपसंहारिभेदात् । तत्र साध्याभाववद्वृत्तिः साधारणो अनैकान्तिकः । यथा पर्वतो वह्निमान् प्रमेयत्वाद् इति प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वाद् इति । शब्दत्वं सर्वेभ्यो नित्येभ्योऽन्त्येभ्यश् च व्यावृत्तं शब्दमात्रवृत्ति । अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वम् अनित्यं प्रमेयत्वाद् इति । अत्र सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति ॥

54

साध्याभावव्याप्तो हेतुर् विरुद्धः । यत्र शब्दो नित्यः कृतकत्वाद् इति । कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ॥

55

यस्य साध्यभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच् छब्दत्ववद् इति । शब्दोऽनित्यः कार्यत्वाद् घटवद् इति ॥

56

असिद्धस् त्रिविधः । आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश् चेति । आश्रयासिद्धो यथा गगनारविन्दं सुरभ्य् अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दम् आश्रयः । स च नास्त्य् एव । स्वरूपासिद्धो यथा शब्दो गुणश् चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् । सोपाधिको व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्न् इष्टात्यन्ताभावप्रतियोगित्वं साधारणाव्यपकत्वम् । पर्वतो धूमवान् वह्निमत्त्वाद् इत्य् अत्रार्द्रेन्धसंयोग उपाधिः । तथा हि । यत्र धूमस् तत्रार्द्रेन्ध्नसंयोग इति साध्यव्यापकता । यत्र वह्निस् तत्रार्द्रेन्धनसंयोगाभावाद् इति साधनाव्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वाद् अर्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद् वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥

57

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निर् अनुष्णो द्रव्यत्वाद् इति । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत इति बाधितत्वम् ॥

58

उपमितिकरणम् उपमानम् । संज्ञासंज्ञिसंबन्धज्ञानम् उपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः । तथा हि कश् चिद् गवयशब्दार्थम् अजानन् कुतश् चिद् आरण्यकपुरुषाद् गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृषं पिण्डं पश्यति । तदनन्तरम् असौ गवयशब्दवाच्य इत्य् उपमितिर् उत्पद्य्ते ॥

59

आप्तवाक्यं शब्दः । आप्तस् तु यथार्थवक्ता । वाक्यं पदसमूहः । यथा गाम् आनयेति । शक्तं पदम् । अस्मात् पदाद् अयम् अर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥

60

आकाङ्क्षा योग्यता संनिधिश् च वाक्यार्थज्ञानहेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं संनिधिः ॥

61

आकाङ्क्षादिरहितं वाक्यम् अप्रमाणम् । यथा गौर् अश्वः पुरुषो हस्तीति न प्रमाणम् आकाङ्क्षाविरहात् । अग्निना सिञ्चेद् इति न प्रमाणं योग्यताविरहात् । प्रहरे प्रेहरेऽसहोच्चारितानि गाम् आनयेत्यादिपदानि न प्रमाणं संनिध्यभावात् ॥

मूल पाठ: Tarkasaṃgraha · Data entry Takuya Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc